मूलम् (संयुक्तम्)
ए॒षाव्ँवा ए॒तल्लो॒काना॒ञ्ज्योति॒स्सम्भृ॑तय्ँ॒यदु॒खा यदु॒खामु॑प॒दधा॑त्ये॒भ्य ए॒व लो॒केभ्यो॒ ज्योति॒रव॑ रुन्द्धे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मै॒ ज्योति॑र्दधाति॒ तस्मा॑न्मध्य॒तो ज्योति॒रुपा॑स्महे॒
विश्वास-प्रस्तुतिः
ए॒षाव्ँवा ए॒तल्लो॒काना॒ञ्ज्योति॒स्सम्भृ॑तय्ँ॒ यदु॒खा ।
यदु॒खामु॑प॒दधा॑त्ये॒भ्य ए॒व लो॒केभ्यो॒ ज्योति॒रव॑ रुन्धे ।
म॒ध्य॒त उप॑ दधाति ।
म॒ध्य॒त ए॒वास्मै॒ ज्योति॑र्दधाति ।
तस्मा॑न् मध्य॒तो ज्योति॒रुपा॑स्महे ।
मूलम्
ए॒षाव्ँवा ए॒तल्लो॒काना॒ञ्ज्योति॒स्सम्भृ॑तय्ँ॒ यदु॒खा ।
यदु॒खामु॑प॒दधा॑त्ये॒भ्य ए॒व लो॒केभ्यो॒ ज्योति॒रव॑ रुन्धे ।
म॒ध्य॒त उप॑ दधाति ।
म॒ध्य॒त ए॒वास्मै॒ ज्योति॑र्दधाति ।
तस्मा॑न् मध्य॒तो ज्योति॒रुपा॑स्महे ।
भट्टभास्कर-टीका
1एषां वा इत्यादि ॥ मुख्योखोपधानविधिः । मध्यत इति । देहस्य मध्ये ज्योतिः ऐश्वरमुपास्महे सर्वेऽपि वयम् ॥
मूलम् (संयुक्तम्)
सिक॑ताभिᳶ पूरयत्ये॒तद्वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पँ रू॒पेणै॒व वै॑श्वान॒रमव॑ रुन्द्धे॒ यङ्का॒मये॑त॒ क्षोधु॑कस्स्या॒दित्यू॒नान्तस्योप॑ [48]
द॒ध्या॒त्क्षोधु॑क ए॒व भ॑वति॒ यङ्का॒मये॒तानु॑पदस्य॒दन्न॑मद्या॒दिति॑ पू॒र्णान्तस्योप॑ दध्या॒दनु॑पदस्यदे॒वान्न॑मत्ति
विश्वास-प्रस्तुतिः
सिक॑ताभिᳶ पूरयति ।
ए॒तद्वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पम् ।
रू॒पेणै॒व वै॑श्वान॒रमव॑ रुन्धे ।
यङ्का॒मये॑त॒ - “क्षोधु॑कस्स्या॒द् इति॑ + ऊ॒नान् तस्योप॑ द॒ध्यात् ।[48]
क्षोधु॑क ए॒व भ॑वति ।
यङ्का॒मये॒त - “अनु॑पदस्य॒दन्न॑मद्या॒द्” इति॑ पू॒र्णान्तस्योप॑ दध्याद् ।
अनु॑पदस्यदे॒वान्न॑मत्ति ।
मूलम्
सिक॑ताभिᳶ पूरयति ।
ए॒तद्वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पम् ।
रू॒पेणै॒व वै॑श्वान॒रमव॑ रुन्धे ।
यङ्का॒मये॑त॒ - “क्षोधु॑कस्स्या॒द् इति॑ + ऊ॒नान् तस्योप॑ द॒ध्यात् ।[48]
क्षोधु॑क ए॒व भ॑वति ।
यङ्का॒मये॒त - “अनु॑पदस्य॒दन्न॑मद्या॒द्” इति॑ पू॒र्णान्तस्योप॑ दध्याद् ।
अनु॑पदस्यदे॒वान्न॑मत्ति ।
भट्टभास्कर-टीका
2सिकताभिरित्यादि ॥ गतम् । क्षोधुकः क्षुच्छीलः । छान्दस उकञ् । अनुपदस्यत् अक्षीयमाणम् । दसु उपक्षये, दैवादिकः ॥
मूलम् (संयुक्तम्)
स॒हस्रव्ँ॒ वै प्रति॒ पुरु॑षᳶ पशू॒नाय्ँय॑च्छति स॒हस्र॑म॒न्ये प॒शवो॒ मध्ये॑ पुरुषशी॒र्षमुप॑ दधाति सवीर्य॒त्वाय
विश्वास-प्रस्तुतिः
स॒हस्रव्ँ॒ वै प्रति॒ पुरु॑षᳶ पशू॒नाय्ँ य॑च्छति , स॒हस्र॑म॒न्ये प॒शवः॑ ।
मध्ये॑ पुरुषशी॒र्षमुप॑ दधाति ।
स॒वी॒र्यत्वाय॑ ।
मूलम्
स॒हस्रव्ँ॒ वै प्रति॒ पुरु॑षᳶ पशू॒नाय्ँ य॑च्छति , स॒हस्र॑म॒न्ये प॒शवः॑ ।
मध्ये॑ पुरुषशी॒र्षमुप॑ दधाति ।
स॒वी॒र्यत्वाय॑ ।
भट्टभास्कर-टीका
3सहस्रं वा इति ॥ पुरुषशीर्षोपधानविधिः । येषामत्र शिरांसि उपधीयन्ते पुरुषाश्ववृषभवृष्णिबस्तानां तेषां मध्ये एक एव पुरुष उपधीयमानशिरस्कः प्रपशूनां सहस्रं प्रतियच्छति यजमानाय, तस्मात् सहस्रसम्मितं पुरुषशिर इति । मन्त्रलिङ्गं च – ‘सहस्रस्य प्रतिमां विश्वरूपम्’ इति । अन्ये तु - अश्वादयः पशवः सर्वेऽपि सम्भूय सहस्रं पशूनां प्रतियच्छन्ति, तस्मात् प्राधान्यात् मध्ये पुरुषशीर्षं पुरुषशिर उपदधाति सवीर्यत्वायाग्नेः । ‘शीर्षच्छन्दसि’ इति शीर्षन्भावः । ‘नपुंसकादन्यतरस्याम्’ इत्यच् समासान्तः ॥
मूलम् (संयुक्तम्)
ऊ॒खाया॒मपि॑ दधाति प्रति॒ष्ठामे॒वैन॑द्गमयति॒ व्यृ॑द्धव्ँ॒वा ए॒तत्प्रा॒णैर॑मे॒ध्यय्ँयत्पु॑रुषशी॒र्षम॒मृत॒ङ्खलु॒ वै प्रा॒णाः [49]
अ॒मृतँ॒ हिर॑ण्यम्प्रा॒णेषु॑ हिरण्यश॒ल्कान्प्रत्य॑स्यति प्रति॒ष्ठामे॒वैन॑द्गमयि॒त्वा प्रा॒णैस्सम॑र्धयति द॒ध्ना म॑धुमि॒श्रेण॑ पूरयति
विश्वास-प्रस्तुतिः
ऊ॒खाया॒मपि॑ दधाति ।
प्र॒ति॒ष्ठामे॒वैन॑द् गमयति ।
व्यृ॑द्धव्ँ॒वा ए॒तत्प्रा॒णैर॑मे॒ध्यय्ँ यत्पु॑रुषशी॒र्षम् ।
अ॒मृत॒ङ्खलु॒ वै प्रा॒णाः । [49]
अ॒मृतँ॒ हिर॑ण्यम् ।
प्रा॒णेषु॑ हिरण्यश॒ल्कान् प्रत्य॑स्यति ।
प्र॒ति॒ष्ठामे॒वैन॑द् गमयि॒त्वा प्रा॒णैस् सम॑र्धयति ।
द॒ध्ना म॑धुमि॒श्रेण॑ पूरयति ।
मूलम्
ऊ॒खाया॒मपि॑ दधाति ।
प्र॒ति॒ष्ठामे॒वैन॑द् गमयति ।
व्यृ॑द्धव्ँ॒वा ए॒तत्प्रा॒णैर॑मे॒ध्यय्ँ यत्पु॑रुषशी॒र्षम् ।
अ॒मृत॒ङ्खलु॒ वै प्रा॒णाः । [49]
अ॒मृतँ॒ हिर॑ण्यम् ।
प्रा॒णेषु॑ हिरण्यश॒ल्कान् प्रत्य॑स्यति ।
प्र॒ति॒ष्ठामे॒वैन॑द् गमयि॒त्वा प्रा॒णैस् सम॑र्धयति ।
द॒ध्ना म॑धुमि॒श्रेण॑ पूरयति ।
भट्टभास्कर-टीका
4उखायामित्यादि ॥ गतम् । प्राणिरहितत्वादमेध्यं अमेधार्हम् । मेधं नार्हतीति दण्डादित्वात् यः । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । अमृतमिति । मृतमेषां नास्तीति अमृतम् । प्राणाः हिरण्यं चामृतहेतुः ॥
मूलम् (संयुक्तम्)
मध॒व्यो॑ऽसा॒नीति॑ शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॑ ग्रा॒म्यव्ँवा ए॒तदन्नय्ँ॒यद्दध्या॑र॒ण्यम्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑त्यु॒भय॒स्याव॑रुद्ध्यै
विश्वास-प्रस्तुतिः
म॒ध॒व्यो॑ऽसानि + इति॑ ।
शृ॒ता॒त॒ङ्क्ये॑न मेध्य॒त्वाय॑ ।
ग्रा॒म्यव्ँ वा ए॒तदन्नय्ँ॒ यद् दध्या॑र॒ण्यम् मधु ।
यद् द॒ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑ति ।
उ॒भय॒स्याव॑रुद्ध्यै ।
मूलम्
म॒ध॒व्यो॑ऽसानि + इति॑ ।
शृ॒ता॒त॒ङ्क्ये॑न मेध्य॒त्वाय॑ ।
ग्रा॒म्यव्ँ वा ए॒तदन्नय्ँ॒ यद् दध्या॑र॒ण्यम् मधु ।
यद् द॒ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑ति ।
उ॒भय॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
5मधव्य इति । मधुमान् भूयासमिति । ‘मधोर्ञ च’ इति यत् । शृतातंक्येनेति ॥ पूरयतीत्येव । श्रितेन पयसा कृतातञ्चनम् । तञ्चु संकोचने, ‘ऋहलोर्ण्यत्’ ‘चजोः कुघिण्यतोः’ इति कुत्वम् । ग्राम्यं वा इत्यादि गतम् ॥
मूलम् (संयुक्तम्)
पशुशी॒र्षाण्युप॑ दधाति प॒शवो॒ वै प॑शुशी॒र्षाणि॑ प॒शूने॒वाव॑ रुन्द्धे॒
विश्वास-प्रस्तुतिः
प॒शु॒शी॒र्षाण्युप॑ दधाति ।
प॒शवो॒ वै प॑शुशी॒र्षाणि॑ ।
प॒शून् ए॒वाव॑ रुन्धे ।
मूलम्
प॒शु॒शी॒र्षाण्युप॑ दधाति ।
प॒शवो॒ वै प॑शुशी॒र्षाणि॑ ।
प॒शून् ए॒वाव॑ रुन्धे ।
भट्टभास्कर-टीका
6पशुशीर्षाणीति ॥ अश्वादीनां शिरांसि । पशवो वा इति । तत्साधनत्वात्ताच्छब्द्यम् ॥
मूलम् (संयुक्तम्)
यङ्का॒मये॑ताप॒शुस्स्या॒दिति॑ [50]
वि॒षू॒चीना॑नि॒ तस्योप॑ दध्या॒द्विषू॑च ए॒वास्मा॑त्प॒शून्द॑धात्यप॒शुरे॒व भ॑वति॒ यङ्का॒मये॑त पशु॒मान्त्स्या॒दिति॑ समी॒चीना॑नि॒ तस्योप॑ दध्यात्स॒मीच॑ ए॒वास्मै॑ प॒शून्द॑धाति पशु॒माने॒व भ॑वति
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त + अ॒प॒शुस् स्या॒द् इति॑ , विषू॒चीना॑नि॒ तस्योप॑ दध्यात् [50]
विषू॑च ए॒वास्मा॑त् प॒शून् द॑धाति ।
अ॒प॒शुरे॒व भ॑वति ।
यङ्का॒मये॑त - पशु॒मान्त्स्या॒द् इति॑ , समी॒चीना॑नि॒ तस्योप॑ दध्यात् ।
स॒मीच॑ ए॒वास्मै॑ प॒शून्द॑धाति ।
प॒शु॒माने॒व भ॑वति ।
मूलम्
यङ्का॒मये॑त + अ॒प॒शुस् स्या॒द् इति॑ , विषू॒चीना॑नि॒ तस्योप॑ दध्यात् [50]
विषू॑च ए॒वास्मा॑त् प॒शून् द॑धाति ।
अ॒प॒शुरे॒व भ॑वति ।
यङ्का॒मये॑त - पशु॒मान्त्स्या॒द् इति॑ , समी॒चीना॑नि॒ तस्योप॑ दध्यात् ।
स॒मीच॑ ए॒वास्मै॑ प॒शून्द॑धाति ।
प॒शु॒माने॒व भ॑वति ।
भट्टभास्कर-टीका
7यमित्यादि ॥ अपशुः पशुहीनः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । विषूचीनानि विष्वङ्मुखानि अभिमुखानि विषु नाना अञ्चतीति ‘ऋत्विक्’ इत्यादिना क्विन् । विभाषाञ्चेरदिक्स्त्रियाम्’ इति खः । ‘चौ’ इति पूर्वपदस्य दीर्घत्वम् । विषूच इति अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।“अञ्चेश्छन्दसि’ इति व्यत्ययेन न प्रवर्तते । अस्मादिति । ‘अन्यारादितरर्ते’ इति पञ्चमी । पशुमानिति ‘ह्रस्वनुङ्भ्याम्’ इति मतुप उदात्तत्वम् । समीचीनानि सङ्गतमुखानि । ‘समस्समि’ इति सम्यादेशः । पूर्ववद्दीर्घत्वम् । समीच इति पूर्वपदस्य अन्तोदात्तत्वं, पूर्ववत् ‘अञ्चेश्छन्दसि’ इति न प्रवर्तते ॥
मूलम् (संयुक्तम्)
पु॒रस्ता॑त्प्रती॒चीन॒मश्व॒स्योप॑ दधाति प॒श्चात्प्रा॒चीन॑मृष॒भस्य
विश्वास-प्रस्तुतिः
पु॒रस्ता॑त् प्रती॒चीन॒मश्व॒स्योप॑ दधाति ,
प॒श्चात् प्रा॒चीन॑म् ऋष॒भस्य॑ ।
मूलम्
पु॒रस्ता॑त् प्रती॒चीन॒मश्व॒स्योप॑ दधाति ,
प॒श्चात् प्रा॒चीन॑म् ऋष॒भस्य॑ ।
भट्टभास्कर-टीका
8पुरस्तादिति ॥ पुरस्तात् प्रत्यङ्मुख उपविश्यात्मनि प्रतीचीनमश्वस्य शिर उपदधाति । पश्चात्प्राङ्मुख उपविश्य प्राचीनमृषभस्य शिर उपदधाति । पुरस्तात् पूर्वस्यां दिशि । ‘दिक्छब्देभ्यः’ इति ‘अस्ताति च’ इति पुरादेशः । ‘पश्चात्’ इति पुरस्तादित्यर्थे निपात्यते ॥
मूलम् (संयुक्तम्)
अप॑शवो॒ वा अ॒न्ये गो॑अ॒श्वेभ्यᳶ॑ प॒शवो॑ गोअ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधात्य्
विश्वास-प्रस्तुतिः
अप॑शवो॒ वा अ॒न्ये गो॑अ॒श्वेभ्यᳶ॑ प॒शवः॑ ।
गो॒अ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधाति ।
मूलम्
अप॑शवो॒ वा अ॒न्ये गो॑अ॒श्वेभ्यᳶ॑ प॒शवः॑ ।
गो॒अ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधाति ।
भट्टभास्कर-टीका
9अपशवो वा इत्यादि ॥ गोऽश्वव्यतिरिक्ताः सर्वे अपशवः अपशुकल्पाः । ‘सर्वत्र विभाषाञ्चेः’ इति प्रकृत्या भावः । अश्वर्षभयोः समीचीनतया गोऽश्वान् सर्वानस्मै समीचीनान् स्थापयति । प्राधान्याद्गोऽश्वग्रहाम् । वृष्णिबस्तयोरिति तुल्यो न्यायः ॥
मूलम् (संयुक्तम्)
ए॒ताव॑न्तो॒ वै प॒शवः॑ [51]
द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान्वा ए॒तद॒ग्नौ प्र द॑धाति॒ यत्प॑शुशी॒र्षाण्यु॑प॒दधा॑त्य॒मुमा॑र॒ण्यमनु॑ ते दिशा॒मीत्या॑ह ग्रा॒म्येभ्य॑ ए॒व प॒शुभ्य॑ आर॒ण्यान्प॒शूञ्छुच॒मनूत्सृ॑जति॒ तस्मा॑त्स॒माव॑त्पशू॒नाम्प्र॒जाय॑मानानामार॒ण्याᳶ प॒शव॒ᳵ कनी॑याँसश्शु॒चा ह्यृ॑तास्
विश्वास-प्रस्तुतिः
ए॒ताव॑न्तो॒ वै प॒शवः॑ । [51]
द्वि॒पाद॑श् च॒ चतु॑ष्पादश् च ।
तान्वा ए॒तद॒ग्नौ प्र द॑धाति॒ यत् प॑शुशी॒र्षाण्य् उ॑प॒दधा॑ति ।
अ॒मुमा॑र॒ण्यमनु॑ ते दिशा॒मीत्या॑ह ।
ग्रा॒म्येभ्य॑ ए॒व प॒शुभ्य॑ आर॒ण्यान्प॒शूञ् छुच॒मनूत्सृ॑जति ।
तस्मा॑त् स॒माव॑त् पशू॒नाम् प्र॒जाय॑मानानामार॒ण्याᳶ प॒शव॒ᳵ कनी॑याँसः ।
शु॒चा ह्यृ॑ताः ।
मूलम्
ए॒ताव॑न्तो॒ वै प॒शवः॑ । [51]
द्वि॒पाद॑श् च॒ चतु॑ष्पादश् च ।
तान्वा ए॒तद॒ग्नौ प्र द॑धाति॒ यत् प॑शुशी॒र्षाण्य् उ॑प॒दधा॑ति ।
अ॒मुमा॑र॒ण्यमनु॑ ते दिशा॒मीत्या॑ह ।
ग्रा॒म्येभ्य॑ ए॒व प॒शुभ्य॑ आर॒ण्यान्प॒शूञ् छुच॒मनूत्सृ॑जति ।
तस्मा॑त् स॒माव॑त् पशू॒नाम् प्र॒जाय॑मानानामार॒ण्याᳶ प॒शव॒ᳵ कनी॑याँसः ।
शु॒चा ह्यृ॑ताः ।
भट्टभास्कर-टीका
10एतावन्त इत्यादिना उत्सर्गैरुपस्थानं विदधाति ॥ द्विपाद इति । ‘सङ्ख्यासुपूर्वस्य’ इति लोप समासान्तः । ‘द्वित्रिभ्यां पद्दन्’ इत्युत्तरपदान्तोदात्तत्वम् । प्रदधाति प्रक्षिपति । तस्मात्प्रतिविधानं कार्यमित्याह - अमुमित्यादि । अमुमिति सामान्यनिर्देशो मयुगौरादीनाम् । एतदुक्तं भवति - ‘मयुमारण्यमनु ते दिशामि’ ‘गौरमारण्यमनुते दिशामि’ इत्येवमुपधानान्तरं उत्सर्गमुपतिष्ठते । तेन ग्राम्येभ्यः पशुभ्य आदाय आरण्यान् पशून् अनु लक्षीकृत्य च शुचं शोकमुत्सृजति । तस्मादित्यादि । समावत्समं ‘समादावतुप्’ इति स्वार्थे वतुप् कनीयांसः अल्पतराः । शुचा ह्यृताः शुचं प्राप्तत्वात् ॥
मूलम् (संयुक्तम्)
स॑र्पशी॒र्षमुप॑ दधाति॒ यैव स॒र्पे त्विषि॒स्तामे॒वाव॑ रुन्द्धे [52]
यत्स॑मी॒चीन॑म्पशुशी॒र्षैरु॑पद॒ध्याद्ग्रा॒म्यान्प॒शून्दँशु॑कास्स्यु॒र्यद्वि॑षू॒चीन॑मार॒ण्यान्यजु॑रे॒व व॑दे॒दव॒ तान्त्विषिँ॑ रुन्द्धे॒ या स॒र्पे न ग्रा॒म्यान्प॒शून्हि॒नस्ति॒ नार॒ण्यान्
विश्वास-प्रस्तुतिः
स॒र्प॒शी॒र्षमुप॑ दधाति ।
यैव स॒र्पे त्विषि॒स्तामे॒वाव॑ रुन्धे । [52]
यत्स॑मी॒चीन॑म् पशुशी॒र्षैरु॑पद॒ध्याद् ग्रा॒म्यान् प॒शून् दँशु॑कास् स्युः ।
यद् वि॑षू॒चीन॑मार॒ण्यान् ।
यजु॑रे॒व व॑देत् ।
अव॒ तान् त्विषिँ॑ रुन्द्धे॒ या स॒र्पे ।
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॒ नार॒ण्यान् ।
मूलम्
स॒र्प॒शी॒र्षमुप॑ दधाति ।
यैव स॒र्पे त्विषि॒स्तामे॒वाव॑ रुन्धे । [52]
यत्स॑मी॒चीन॑म् पशुशी॒र्षैरु॑पद॒ध्याद् ग्रा॒म्यान् प॒शून् दँशु॑कास् स्युः ।
यद् वि॑षू॒चीन॑मार॒ण्यान् ।
यजु॑रे॒व व॑देत् ।
अव॒ तान् त्विषिँ॑ रुन्द्धे॒ या स॒र्पे ।
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॒ नार॒ण्यान् ।
भट्टभास्कर-टीका
11सर्पशीर्षमित्यादि ॥ पूर्ववत्समासान्तः । त्विषिः दीप्तिः । यदित्यादि । ग्राम्यान् पशून् दन्दशुका दंशनशीलाः सर्वाः स्युः यद्विषूचीनं आरण्यानिति दन्दशूकास्स्युरिति । एवं छान्दस उकञि ‘नलोकाव्ययनिष्ठा’ इति षष्ठीप्रतिषेधः । उक्ता ग्राम्यारण्याः पशवः । तस्मात् ‘नमो अस्तु सर्पेभ्यः’ इति मन्त्रानेव वदेत् न सर्पशिर उपदध्यात् । यजुश्शब्दो मन्त्रमचनः । यजुर्वदनेन त्विषेः लाभः । अनुपधानेन उक्तदोषाप्रसङ्ग इति ॥
मूलम् (संयुक्तम्)
अथो॒ खलू॑प॒धेय॑मे॒व यदु॑प॒दधा॑ति॒ तेन॒ तान्त्विषि॒मव॑ रुन्द्धे॒ या स॒र्पे यद्यजु॒र्वद॑ति॒ तेन॑ शा॒न्तम् ॥ [53]
विश्वास-प्रस्तुतिः
अथो॒ खलू॑प॒धेय॑मे॒व ।
यदु॑प॒दधा॑ति॒ तेन॒ तान्त्विषि॒मव॑ रुन्द्धे॒ या स॒र्पे ।
यद् यजु॒र्वद॑ति॒ तेन॑ शा॒न्तम् ॥ [53]
मूलम्
अथो॒ खलू॑प॒धेय॑मे॒व ।
यदु॑प॒दधा॑ति॒ तेन॒ तान्त्विषि॒मव॑ रुन्द्धे॒ या स॒र्पे ।
यद् यजु॒र्वद॑ति॒ तेन॑ शा॒न्तम् ॥ [53]
भट्टभास्कर-टीका
12अथो खल्वित्यादि पक्षान्तरविधिः ॥ उपधानेन त्विषिलाभः, यजुर्वदनेन दोषशान्तिरिति । शान्तं शिवमित्यर्थः । अत्र ब्राह्मणानुसारिण आहुः - पशुशीर्षोपधानानन्तरं सर्पशीषोर्पधानमिति । मन्त्राम्नानानुसारिणस्तु हिरण्मयपुरुषोपधानानन्तरं सर्पशीर्षोपधानमिति ॥
इति पञ्चमे द्वितीये नवमोनुवाकः ॥