०८

मूलम् (संयुक्तम्)

स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यव्ँ वै स्व॑यमातृ॒ण्णेमामे॒वोप॑ ध॒त्ते

विश्वास-प्रस्तुतिः

स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाति ।
इ॒यव्ँ वै स्व॑यमातृ॒ण्णा ।
इ॒मामे॒वोप॑ धत्ते ।

मूलम्

स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाति ।
इ॒यव्ँ वै स्व॑यमातृ॒ण्णा ।
इ॒मामे॒वोप॑ धत्ते ।

भट्टभास्कर-टीका

1स्वयमातृण्णामिति ॥ स्वयमेव शर्करां छिद्रिताम् । ‘स्वयं क्तेन’ इति समासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । इयमिति । पृथिवीकल्पा, छिद्रवत्त्वाद्वा ॥

मूलम् (संयुक्तम्)

ऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्या॑न्दधा॒त्यथो॑ प्राजाप॒त्यो वा अश्वᳶ॑ प्र॒जाप॑तिनै॒वाग्निञ्चि॑नुते

विश्वास-प्रस्तुतिः

अश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्या॑न् दधाति ।
अथो॑ प्राजाप॒त्यो वा अश्वः॑ ।
प्र॒जाप॑तिनै॒वाग्निञ् चि॑नुते ।

मूलम्

अश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्या॑न् दधाति ।
अथो॑ प्राजाप॒त्यो वा अश्वः॑ ।
प्र॒जाप॑तिनै॒वाग्निञ् चि॑नुते ।

भट्टभास्कर-टीका

2अश्वमित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

प्रथ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नाञ्च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नाव॒ग्निश्चे॑त॒व्य॑ इत्या॑हुरे॒ष वै [41]
अ॒ग्निर्वै॑श्वान॒रो यद्ब्रा॑ह्म॒णस्तस्मै॑ प्रथ॒मामिष्ट॑काय्ँ॒

विश्वास-प्रस्तुतिः

प्र॒थ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नाञ् च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति ।
स्व॒य॒मा॒तृ॒ण्णा भ॑वति ।
प्रा॒णाना॒मुत्सृ॑ष्ट्यै । अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
अ॒ग्नाव॒ग्निश् चे॑त॒व्य॑ इत्या॑हुः ।
ए॒ष वै अ॒ग्निर् वै॑श्वान॒रो यद्ब्रा॑ह्म॒णः ।[41]
तस्मै॑ प्रथ॒माम् इष्ट॑काम् ।

मूलम्

प्र॒थ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नाञ् च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति ।
स्व॒य॒मा॒तृ॒ण्णा भ॑वति ।
प्रा॒णाना॒मुत्सृ॑ष्ट्यै । अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
अ॒ग्नाव॒ग्निश् चे॑त॒व्य॑ इत्या॑हुः ।
ए॒ष वै अ॒ग्निर् वै॑श्वान॒रो यद्ब्रा॑ह्म॒णः ।[41]
तस्मै॑ प्रथ॒माम् इष्ट॑काम् ।

भट्टभास्कर-टीका

3प्रथमेति ॥ प्रथमं उपधीयमाना अपिदधाति । तच्च स्वयमातृण्णायाः छिद्रवत्तया प्राणानामुत्सृष्ट्यै भवति । सुवर्गस्य लोकस्य अनुख्यात्यै अनुवीक्षणाय भवति ॥

मूलम् (संयुक्तम्)

यजु॑ष्कृता॒म्प्र य॑च्छे॒त्ताम्ब्रा॑ह्म॒णश्चोप॑ दध्याताम॒ग्नावे॒व तद॒ग्निञ्चि॑नुत ईश्व॒रो वा ए॒ष आर्ति॒म

विश्वास-प्रस्तुतिः

यजु॑ष्कृता॒म् प्र य॑च्छेत् ।
ताम् ब्रा॑ह्म॒णश्चोप॑ दध्याताम् ।
अ॒ग्नावे॒व तद॒ग्निञ् चि॑नुते ।
ई॒श्व॒रो वा ए॒ष आर्ति॑म् ।

मूलम्

यजु॑ष्कृता॒म् प्र य॑च्छेत् ।
ताम् ब्रा॑ह्म॒णश्चोप॑ दध्याताम् ।
अ॒ग्नावे॒व तद॒ग्निञ् चि॑नुते ।
ई॒श्व॒रो वा ए॒ष आर्ति॑म् ।

भट्टभास्कर-टीका

4यजुष्कृतामिति ॥ ‘ध्रुवाऽसि धरुणा’ इत्यनेन मन्त्रेणाभिमृष्टाम् । ब्राह्मणश्चेति । अध्वर्युश्च सहोपदध्याताम् । अब्राह्मणस्याप्रसङ्गात् ब्राह्मणग्रहणं जातिमात्रप्रतिपत्त्यर्थम् । तेनाविद्वान् गृह्यते । वक्ष्यति च - ‘योऽविद्वानिष्टकामुपदधाति’ इति ॥

मूलम् (संयुक्तम्)

ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्योऽवि॑द्वा॒निष्ट॑कामुप॒दधा॑ति॒ त्रीन्वरा॑न्दद्या॒त्त्रयो॒ वै प्रा॒णाᳶ प्रा॒णानाँ॒ स्पृत्यै॒

विश्वास-प्रस्तुतिः

ई॒श्व॒रो वा ए॒ष आर्ति॒मार्तो॒र् योऽवि॑द्वा॒न् इष्ट॑काम् उप॒दधा॑ति ।
त्रीन्वरा॑न् दद्यात् ।
त्रयो॒ वै प्रा॒णाः ।
प्रा॒णानाँ॒ स्पृत्यै॑ ।

मूलम्

ई॒श्व॒रो वा ए॒ष आर्ति॒मार्तो॒र् योऽवि॑द्वा॒न् इष्ट॑काम् उप॒दधा॑ति ।
त्रीन्वरा॑न् दद्यात् ।
त्रयो॒ वै प्रा॒णाः ।
प्रा॒णानाँ॒ स्पृत्यै॑ ।

भट्टभास्कर-टीका

5आर्तोरिति ॥ ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन् । उभयत्रापि ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । गोपोषं पुष्णातीतिवदेको धात्वर्थसामान्यवचनः । वरानिति । चतुर्वर्षा गौर्वरः । त्रय इति । प्रापानव्यानाः ‘प्राण्यापान्यव्यान्य’ इत्यादौ त्रयाणामेव ग्रहणात् । स्पृत्यै । स्पृ प्रीतौ ॥

मूलम् (संयुक्तम्)

द्वावे॒व देयौ॒ द्वौ हि प्रा॒णावेक॑ ए॒व देय॒ एको॒ हि प्रा॒णᳶ प॒शुः [42]
वा ए॒ष यद॒ग्निर्न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते दूर्वेष्ट॒कामुप॑ दधाति पशू॒नान्धृत्यै॒

विश्वास-प्रस्तुतिः

द्वावे॒व देयौ॑ ।
द्वौ हि प्रा॒णौ ।
एक॑ ए॒व देयः॑ ।
एको॒ हि प्रा॒णः ।
प॒शुर् वा ए॒ष यद॒ग्निः । [42]
न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते ।
दू॒र्वे॒ष्ट॒कामुप॑ दधाति पशू॒नान् धृत्यै॑ ।

मूलम्

द्वावे॒व देयौ॑ ।
द्वौ हि प्रा॒णौ ।
एक॑ ए॒व देयः॑ ।
एको॒ हि प्रा॒णः ।
प॒शुर् वा ए॒ष यद॒ग्निः । [42]
न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते ।
दू॒र्वे॒ष्ट॒कामुप॑ दधाति पशू॒नान् धृत्यै॑ ।

भट्टभास्कर-टीका

6प्राणापानौ ‘प्राणापानौ मृत्योर्मा पातम्’ इत्यादौ द्वयोरेव तयोर्ग्रहणात् । एको हीति । अन्येषां तद्विकल्पत्वान्मुख्यो गृह्यते । पशुर्वा इति । पशुसदृशोऽयमग्निः यत्र चरितव्यः तत्रैव रमन्ते खल्विति । यवसो घासः स एवायवसः स्वार्थिकोऽञ् । यवसाभावे न रमन्ते । यद्वा - यवसरहितो देशः आयवसः; छान्दसो वर्णविकारः । ‘नञ्सुभ्याम्’ इत्येतद्बाधित्वा बहुव्रीहिस्वरः पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - आङीषदर्थे, अल्पभक्ष्ये देशे पशवो न रमन्ते । तस्मात् दूर्वेष्टकामुपदधाति प्रभूततृणत्वाय ॥

मूलम् (संयुक्तम्)

द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ काण्डा॑त्काण्डात्प्र॒रोह॒न्तीत्या॑ह॒ काण्डे॑नकाण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑त्ये॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॒ चेत्या॑ह साह॒स्रᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑

विश्वास-प्रस्तुतिः

द्वाभ्या॒म् प्रति॑ष्ठित्यै ।
“काण्डा॑त् काण्डात् प्र॒रोह॒न्ति॑” +इत्या॑ह ।
काण्डे॑नकाण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑ति ।
ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॒ चेत्या॑ह ।
सा॒ह॒स्रᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।

मूलम्

द्वाभ्या॒म् प्रति॑ष्ठित्यै ।
“काण्डा॑त् काण्डात् प्र॒रोह॒न्ति॑” +इत्या॑ह ।
काण्डे॑नकाण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑ति ।
ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॒ चेत्या॑ह ।
सा॒ह॒स्रᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।

भट्टभास्कर-टीका

7द्वाभ्यामिति ॥ ‘काण्डात्काण्डात्’ ‘या शतेन’ इत्येताभ्यां प्रतिष्ठित्यै भवति पशूनाम् । काण्डेनकाण्डेन हीति । सर्वेण काण्डेन ह्येषा पृथिव्यां प्रतिष्ठिता भवति । साहस्र इति । सहस्रलाभहेतुः । ‘शतमानविंशतिक’ इत्यण् ॥

मूलम् (संयुक्तम्)

देवल॒क्ष्मव्ँ वै त्र्या॑लिखि॒ता तामुत्त॑रलक्ष्माणन्दे॒वा उपा॑दध॒ताध॑रलक्ष्माण॒मसु॑रा॒ यम् [43]
का॒मये॑त॒ वसी॑यान्त्स्या॒दित्युत्त॑रलक्ष्माण॒न्तस्योप॑ दध्या॒द्वसी॑याने॒व भ॑वति॒ यङ्का॒मये॑त॒ पापी॑यान्त्स्या॒दित्यध॑रलक्ष्माण॒न्तस्योप॑ दध्याद्

विश्वास-प्रस्तुतिः

दे॒व॒ल॒क्ष्मव्ँ वै त्र्या॑लिखि॒ता ।
तामुत्त॑रलक्ष्माणन् दे॒वा उपा॑दध॒ताध॑रलक्ष्माण॒मसु॑राः ।

यङ् का॒मये॑त॒ - “वसी॑यान्त्स्या॒द्” इति॑ । [43]
उत्त॑रलक्ष्माण॒न् तस्योप॑ दध्या॒द् , वसी॑याने॒व भ॑वति ।

यङ्का॒मये॑त॒ - पापी॑यान्त्स्या॒दित्य् अध॑रलक्ष्माण॒न् तस्योप॑ दध्यात् ।

मूलम्

दे॒व॒ल॒क्ष्मव्ँ वै त्र्या॑लिखि॒ता ।
तामुत्त॑रलक्ष्माणन् दे॒वा उपा॑दध॒ताध॑रलक्ष्माण॒मसु॑राः ।

यङ् का॒मये॑त॒ - “वसी॑यान्त्स्या॒द्” इति॑ । [43]
उत्त॑रलक्ष्माण॒न् तस्योप॑ दध्या॒द् , वसी॑याने॒व भ॑वति ।

यङ्का॒मये॑त॒ - पापी॑यान्त्स्या॒दित्य् अध॑रलक्ष्माण॒न् तस्योप॑ दध्यात् ।

भट्टभास्कर-टीका

8देवलक्ष्ममित्यादि ॥ देवसम्बन्धि लक्षणं देवलक्ष्मम् । ‘नपुंसकादन्यतरस्याम्’ इत्यच् समासान्तः । यदियमषाढा त्र्यालिखिता भवति । त्रिरालिखिता त्र्यालिखिता । वृत्तौ सुजर्थोऽन्तर्भवति सप्तपर्णादिषु विस्पेव भवति? तिसृभिः लेखाभिरङ्कितेति यावत् । तामित्यादि । असुरा इति । उपादधतेत्येव । वसीयान् वसुमत्तरः । ‘विन्मतोर्लुक्’ ‘टेः’ इति टिलोपः ॥

मूलम् (संयुक्तम्)

सुरयो॒निमे॒वैन॒मनु॒ परा॑ भावयति॒ पापी॑यान्भवति त्र्यालिखि॒ता भ॑वती॒मे वै लो॒कास्त्र्या॑लिखि॒तैभ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम॒न्तरे॒त्य्

विश्वास-प्रस्तुतिः

अ॒सु॒र॒यो॒निम् ए॒वैन॒मनु॒ परा॑ भावयति ।
पापी॑यान् भवति ।
त्र्या॒लि॒खि॒ता भ॑वति ।
इ॒मे वै लो॒कास् त्र्या॑लिखि॒ता ।
ए॒भ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम् अ॒न्तरे॑ति ।

मूलम्

अ॒सु॒र॒यो॒निम् ए॒वैन॒मनु॒ परा॑ भावयति ।
पापी॑यान् भवति ।
त्र्या॒लि॒खि॒ता भ॑वति ।
इ॒मे वै लो॒कास् त्र्या॑लिखि॒ता ।
ए॒भ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम् अ॒न्तरे॑ति ।

भट्टभास्कर-टीका

9असुरयोनिमिति ॥ असुरयोनिमनुप्रविष्टं एतं पराभूतं करोति ॥

मूलम् (संयुक्तम्)

अङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँय॒तᳶ पु॑रो॒डाश॑ᳵ कू॒र्मो भू॒त्वानु॒ प्रास॑र्पत् [44]
यत्कू॒र्ममु॑प॒दधा॑ति॒ यथा॑ क्षेत्र॒विदञ्ज॑सा॒ नय॑त्ये॒वमे॒वैन॑ङ्कू॒र्मस्सु॑व॒र्गल्ँ लो॒कमञ्ज॑सा नयति॒

विश्वास-प्रस्तुतिः

अङ्गि॑रसस् सुव॒र्गल्ँ लो॒कय्ँय॒तᳶ पु॑रो॒डाश॑ᳵ कू॒र्मो भू॒त्वाऽनु॒ प्रास॑र्पद् यत् कू॒र्मम् उ॑प॒दधा॑ति । [44]
यथा॑ क्षेत्र॒विदञ्ज॑सा॒ नय॑त्य् ए॒वमे॒वैन॑ङ् कू॒र्मस् सु॑व॒र्गल्ँ लो॒कमञ्ज॑सा नयति ।

मूलम्

अङ्गि॑रसस् सुव॒र्गल्ँ लो॒कय्ँय॒तᳶ पु॑रो॒डाश॑ᳵ कू॒र्मो भू॒त्वाऽनु॒ प्रास॑र्पद् यत् कू॒र्मम् उ॑प॒दधा॑ति । [44]
यथा॑ क्षेत्र॒विदञ्ज॑सा॒ नय॑त्य् ए॒वमे॒वैन॑ङ् कू॒र्मस् सु॑व॒र्गल्ँ लो॒कमञ्ज॑सा नयति ।

भट्टभास्कर-टीका

10अङ्गिरस इत्यादि ॥ कूर्मोपधानविधिः । यथेति । क्षेत्रज्ञो ह्यञ्जसा नयति आर्जवेन नयति । एवं कूर्मोऽपि स्वर्गमार्गज्ञः अञ्जसा नयति ॥

मूलम् (संयुक्तम्)

मेधो॒ वा ए॒ष प॑शू॒नाय्ँयत्कू॒र्मो यत्कू॒र्ममु॑प॒दधा॑ति॒ स्वमे॒व मेध॒म्पश्य॑न्तᳶ प॒शव॒ उप॑ तिष्ठन्ते

विश्वास-प्रस्तुतिः

मेधो॒ वा ए॒ष प॑शू॒नाय्ँ यत्कू॒र्मः ।
यत् कू॒र्ममु॑प॒दधा॑ति॒ , स्वमे॒व मेध॒म् पश्य॑न्तᳶ प॒शव॒ उप॑ तिष्ठन्ते ।

मूलम्

मेधो॒ वा ए॒ष प॑शू॒नाय्ँ यत्कू॒र्मः ।
यत् कू॒र्ममु॑प॒दधा॑ति॒ , स्वमे॒व मेध॒म् पश्य॑न्तᳶ प॒शव॒ उप॑ तिष्ठन्ते ।

भट्टभास्कर-टीका

11मेधो वा इत्यादि ॥ यज्ञतुल्यः इष्टसाधनत्वात् । उपतिष्ठन्ते समीपे तिष्ठन्ति । ‘अकर्मकाच्च’ इत्यात्मनेपदम् ॥

मूलम् (संयुक्तम्)

श्मशा॒नव्ँवा ए॒तत्क्रि॑यते॒ यन्मृ॒ताना॑म्पशू॒नाँ शी॒र्षाण्यु॑पधी॒यन्ते॒ यज्जीव॑न्तङ्कू॒र्ममु॑प॒दधा॑ति॒ तेनाश्म॑शानचिद्वास्त॒व्यो॑ वा ए॒ष यत् [45]
कू॒र्मो मधु॒ वाता॑ ऋताय॒त इति॑ द॒ध्ना म॑धुमि॒श्रेणा॒भ्य॑नक्ति स्व॒दय॑त्ये॒वैन॑ङ्

विश्वास-प्रस्तुतिः

श्म॒शा॒नव्ँ वा ए॒तत् क्रि॑यते॒ यन् मृ॒ताना॑म् पशू॒नाँ शी॒र्षाण्य् उ॑पधी॒यन्ते ।
यज्जीव॑न्तङ् कू॒र्मम् उ॑प॒दधा॑ति॒ तेनाश्म॑शानचित् ।
वा॒स्त॒व्यो॑ वा ए॒ष यत् कू॒र्मः ।[45]
मधु॒ वाता॑ ऋताय॒त इति॑ द॒ध्ना म॑धुमि॒श्रेणा॒भ्य॑नक्ति ।
स्व॒दय॑त्ये॒वैन॑म् ।

मूलम्

श्म॒शा॒नव्ँ वा ए॒तत् क्रि॑यते॒ यन् मृ॒ताना॑म् पशू॒नाँ शी॒र्षाण्य् उ॑पधी॒यन्ते ।
यज्जीव॑न्तङ् कू॒र्मम् उ॑प॒दधा॑ति॒ तेनाश्म॑शानचित् ।
वा॒स्त॒व्यो॑ वा ए॒ष यत् कू॒र्मः ।[45]
मधु॒ वाता॑ ऋताय॒त इति॑ द॒ध्ना म॑धुमि॒श्रेणा॒भ्य॑नक्ति ।
स्व॒दय॑त्ये॒वैन॑म् ।

भट्टभास्कर-टीका

12अश्मशानचिदिति ॥ श्मशानमिव चीयत इति । ‘कर्मण्याख्यायाम्’ इति क्विप् । वास्तव्य इति । सुखेन वस्ता वास्तव्यः । ‘वसेस्तव्यत्कर्तरि णिच्च’ इति तव्यत् । यस्मादनेन जीवता चिरं स्थातव्यमत्र तस्माद्दध्ना मधुमिश्रेणाभ्यनक्ति ‘मधु वाता ऋतायते’ इति तिसृभिः । एतत्स्वदयिता चिरं जीविष्यतीति । स्वदयतिः चुरादिरदन्तः ॥

मूलम् (संयुक्तम्)

ग्रा॒म्यव्ँ वा ए॒तदन्नय्ँ॒यद्दध्या॑र॒ण्यम्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॑भ्य॒नक्त्यु॒भय॒स्याव॑रुद्ध्यै म॒ही द्यौᳶ पृ॑थि॒वी च॑ न॒ इत्या॑हा॒भ्यामे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णाति॒ प्राञ्च॒मुप॑ दधाति॒ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै पु॒रस्ता॑त्प्र॒त्यञ्च॒मुप॑ दधाति॒ तस्मा॑त् [46]
पु॒रस्ता॑त्प्र॒त्यञ्चᳶ॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते॒

विश्वास-प्रस्तुतिः

ग्रा॒म्यव्ँ वा ए॒तदन्नय्ँ॒ यद् दध्या॑र॒ण्यम् मधु॑ ।
यद् द॒ध्ना म॑धुमि॒श्रेणा॑भ्य॒नक्त्य् उ॒भय॒स्याव॑रुद्ध्यै ।
म॒ही द्यौᳶ पृ॑थि॒वी च॑ न॒ इत्या॑ह ।
आ॒भ्यामे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णाति ।
प्राञ्च॒मुप॑ दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
पु॒रस्ता॑त् प्र॒त्यञ्च॒मुप॑ दधाति ।
तस्मा॑त् पु॒रस्ता॑त् प्र॒त्यञ्चᳶ॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते । [46]

मूलम्

ग्रा॒म्यव्ँ वा ए॒तदन्नय्ँ॒ यद् दध्या॑र॒ण्यम् मधु॑ ।
यद् द॒ध्ना म॑धुमि॒श्रेणा॑भ्य॒नक्त्य् उ॒भय॒स्याव॑रुद्ध्यै ।
म॒ही द्यौᳶ पृ॑थि॒वी च॑ न॒ इत्या॑ह ।
आ॒भ्यामे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णाति ।
प्राञ्च॒मुप॑ दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
पु॒रस्ता॑त् प्र॒त्यञ्च॒मुप॑ दधाति ।
तस्मा॑त् पु॒रस्ता॑त् प्र॒त्यञ्चᳶ॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते । [46]

भट्टभास्कर-टीका

13ग्राम्यमिति ॥ ‘ग्रामाद्यखञौ’ इति यः । मही द्यौरिति गायत्र्या एनमवहारेण परिवेष्ट्य पुरस्तात्प्रत्यञ्चमुपदधाति । आभ्यामिति । द्यावापृथिवीभ्यामुपतिष्ठते इति । सङ्गतिकरणे आत्मनेपदम् ॥

मूलम् (संयुक्तम्)

यो वा अप॑नाभिम॒ग्निञ्चि॑नु॒ते यज॑मानस्य॒ नाभि॒मनु॒ प्र वि॑शति॒ स ए॑नमीश्व॒रो हिँसि॑तोरु॒लूख॑ल॒मुप॑ दधात्ये॒षा वा अ॒ग्नेर्नाभि॒स्सना॑भिमे॒वाग्निञ्चि॑नु॒तेऽहिँ॑साया॒ औ॑दुम्बरम्भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒ ऊर्ज॑न्दधाति॒ तस्मा॑न्मध्य॒त ऊ॒र्जा भु॑ञ्जत॒

विश्वास-प्रस्तुतिः

यो वा अप॑नाभिम॒ग्निञ् चि॑नु॒ते ।
यज॑मानस्य॒ नाभि॒मनु॒ प्र वि॑शति ।
स ए॑नमीश्व॒रो हिँसि॑तोरु॒लूख॑ल॒मुप॑ दधाति ।
ए॒षा वा अ॒ग्नेर् नाभिः॑ ।
सना॑भिमे॒वाग्निञ् चि॑नु॒ते । अहिँ॑सायै ।
औदु॑म्बरम् भवति ।
ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊर्ज॑म् ए॒वाव॑ रुन्धे ।
म॒ध्य॒त उप॑ दधाति ।
म॒ध्य॒त ए॒वास्मा॒ ऊर्ज॑न् दधाति ।
तस्मा॑न् मध्य॒त ऊ॒र्जा भु॑ञ्जते ।

मूलम्

यो वा अप॑नाभिम॒ग्निञ् चि॑नु॒ते ।
यज॑मानस्य॒ नाभि॒मनु॒ प्र वि॑शति ।
स ए॑नमीश्व॒रो हिँसि॑तोरु॒लूख॑ल॒मुप॑ दधाति ।
ए॒षा वा अ॒ग्नेर् नाभिः॑ ।
सना॑भिमे॒वाग्निञ् चि॑नु॒ते । अहिँ॑सायै ।
औदु॑म्बरम् भवति ।
ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊर्ज॑म् ए॒वाव॑ रुन्धे ।
म॒ध्य॒त उप॑ दधाति ।
म॒ध्य॒त ए॒वास्मा॒ ऊर्ज॑न् दधाति ।
तस्मा॑न् मध्य॒त ऊ॒र्जा भु॑ञ्जते ।

भट्टभास्कर-टीका

14यो वा इत्यादि ॥ उलूखलोपधानविधिः । गतः । तस्मान्मध्यत इति । मध्यमे वयसि देहमध्ये वा । आद्यादिभ्यस्तसिः ॥

मूलम् (संयुक्तम्)

इय॑द्भवति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑त॒मव॑ ह॒न्त्यन्न॑मे॒वाक॑र्

विश्वास-प्रस्तुतिः

इय॑द् भवति ।
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम् ।
अव॑ हन्ति ।
अन्न॑म् ए॒वाकः॑ ।

मूलम्

इय॑द् भवति ।
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम् ।
अव॑ हन्ति ।
अन्न॑म् ए॒वाकः॑ ।

भट्टभास्कर-टीका

15इयदिति ॥ प्रादेशमात्रम् । इदं परिमाणमस्येति ‘किमिदंभ्यां वोघः’ इति ‘इदं किमोरीश्की ’ यस्येति इलोपः, उदात्तनिवृत्तिस्वरेण इकार उदात्तः । प्रजापतिनेति । ‘यज्ञमुखं वै प्रजापतिः’ इति प्रजापत्यात्मना परिमितेन यज्ञमुखेन सम्मितमिदमुलूखलम् । केचिदाहुः - यत्किंचित्परिमाणपरिमितमियत् प्रजापतिश्च परिमितिः परिमितात्मा, तस्मात्तत्तुल्यमिति । अन्नमेवाकरिति । अवघातेन अन्नमेवास्यै करोति उत्पादयति । छान्दसो लुङ्, ‘मन्त्रे घस’ इति च्लेर्लोपः ॥

मूलम् (संयुक्तम्)

वैष्ण॒व्यर्चोप॑ दधाति॒ विष्णु॒र्वै य॒ज्ञो वै॑ष्ण॒वा वन॒स्पत॑यो य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ ष्ठापयति ॥ [47]

विश्वास-प्रस्तुतिः

वै॒ष्ण॒व्यर्चोप॑ दधाति ।
विष्णु॒र्वै य॒ज्ञो ।
वै॒ष्ण॒वा वन॒स्पत॑यो ।
य॒ज्ञ ए॒व य॒ज्ञम् प्रति॑ ष्ठापयति ॥ [47]

मूलम्

वै॒ष्ण॒व्यर्चोप॑ दधाति ।
विष्णु॒र्वै य॒ज्ञो ।
वै॒ष्ण॒वा वन॒स्पत॑यो ।
य॒ज्ञ ए॒व य॒ज्ञम् प्रति॑ ष्ठापयति ॥ [47]

भट्टभास्कर-टीका

16वैष्णव्येति ॥ तद्विष्णोरिति गायत्री । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वात् ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् । विष्णुर्वा इति । वैष्णवे उलूखले वैष्णवीमृचं प्रयुञ्जानो यज्ञं प्रतिष्ठापयति । उभयोर्वैष्णवत्वाद्विष्णोश्च यज्ञत्वात् । वनस्पतिशब्दस्य सुट्स्वरावुक्तौ ॥

इति पञ्चमे द्वितीये अष्टमोनुवाकः ॥