०७

मूलम् (संयुक्तम्)

ब्रह्म॑ जज्ञा॒नमिति॑ रु॒क्ममुप॑ दधाति॒ ब्रह्म॑मुखा॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ ब्रह्म॑मुखा ए॒व तत्प्र॒जा यज॑मानस्सृजते॒ ब्रह्म॑ जज्ञा॒नमित्या॑ह॒ तस्मा॑द्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वव्ँ वेद॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ न पृ॑थि॒व्यान्नान्तरि॑क्षे॒ न दि॒व्य॑ग्निश्चे॑त॒व्य॑ इति॒ यत्पृ॑थि॒व्याञ्चि॑न्वी॒त पृ॑थि॒वीँ शु॒चार्प॑ये॒न्नौष॑धयो॒ न वन॒स्पत॑यः [36]
प्र जा॑येर॒न्यद॒न्तरि॑क्षे चिन्वी॒तान्तरि॑क्षँ शु॒चार्प॑ये॒न्न वयाँ॑सि॒ प्र जा॑येर॒न्यद्दि॒वि चि॑न्वी॒त दिवँ॑ शु॒चार्प॑ये॒न्न प॒र्जन्यो॑ वर्षेद्रु॒क्ममुप॑ दधात्य॒मृतव्ँ॒ वै हिर॑ण्यम॒मृत॑ ए॒वाग्निञ्चि॑नुते॒ प्रजा॑त्यै

विश्वास-प्रस्तुतिः

ब्रह्म॑ जज्ञा॒नमिति॑ रु॒क्ममुप॑ दधाति ।
ब्रह्म॑मुखा॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ब्रह्म॑मुखा ए॒व तत्प्र॒जा यज॑मानस् सृजते ।
ब्रह्म॑ जज्ञा॒नम् इत्या॑ह ।
तस्मा॑द्ब्राह्म॒णो मुख्यः॑ ।
मुख्यो॑ भवति॒ य ए॒वव्ँ वेद॑ ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
न पृ॑थि॒व्यान् नान्तरि॑क्षे॒ न दि॒व्य॑ग्निश् चे॑त॒व्य॑ इति॑ ।
यत् पृ॑थि॒व्याञ् चि॑न्वी॒त , पृ॑थि॒वीँ शु॒चार्प॑येत् ।
नौष॑धयो॒ न वन॒स्पत॑य॒ᳶ प्र जा॑येरन् । [36]
यद॒न्तरि॑क्षे चिन्वी॒तान्तरि॑क्षँ शु॒चार्प॑येत् ।
न वयाँ॑सि॒ प्र जा॑येरन् ।
यद् दि॒वि चि॑न्वी॒त दिवँ॑ शु॒चार्प॑येत् ।
न प॒र्जन्यो॑ वर्षेद् ।
रु॒क्ममुप॑ दधाति ।
अ॒मृतव्ँ॒ वै हिर॑ण्यम् ।
अ॒मृत॑ ए॒वाग्निञ् चि॑नुते । प्रजा॑त्यै ।

मूलम्

ब्रह्म॑ जज्ञा॒नमिति॑ रु॒क्ममुप॑ दधाति ।
ब्रह्म॑मुखा॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ब्रह्म॑मुखा ए॒व तत्प्र॒जा यज॑मानस् सृजते ।
ब्रह्म॑ जज्ञा॒नम् इत्या॑ह ।
तस्मा॑द्ब्राह्म॒णो मुख्यः॑ ।
मुख्यो॑ भवति॒ य ए॒वव्ँ वेद॑ ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
न पृ॑थि॒व्यान् नान्तरि॑क्षे॒ न दि॒व्य॑ग्निश् चे॑त॒व्य॑ इति॑ ।
यत् पृ॑थि॒व्याञ् चि॑न्वी॒त , पृ॑थि॒वीँ शु॒चार्प॑येत् ।
नौष॑धयो॒ न वन॒स्पत॑य॒ᳶ प्र जा॑येरन् । [36]
यद॒न्तरि॑क्षे चिन्वी॒तान्तरि॑क्षँ शु॒चार्प॑येत् ।
न वयाँ॑सि॒ प्र जा॑येरन् ।
यद् दि॒वि चि॑न्वी॒त दिवँ॑ शु॒चार्प॑येत् ।
न प॒र्जन्यो॑ वर्षेद् ।
रु॒क्ममुप॑ दधाति ।
अ॒मृतव्ँ॒ वै हिर॑ण्यम् ।
अ॒मृत॑ ए॒वाग्निञ् चि॑नुते । प्रजा॑त्यै ।

भट्टभास्कर-टीका

1ब्रह्म जज्ञानमित्यादि ॥ उत्तरवेद्यां पूष्करपर्णेषूत्तरं रुक्ममुपदधाति । ब्रह्ममुखा वा इत्यादि ब्राह्मणम् । प्रथमजाभिधानेन रुक्माभिधानात् ब्रह्मप्राथम्यं प्रजानां प्राधान्यं च ब्राह्मणस्य ॥

मूलम् (संयुक्तम्)

हिर॒ण्मय॒म्पुरु॑ष॒मुप॑ दधाति यजमानलो॒कस्य॒ विधृ॑त्यै॒ यदिष्ट॑काया॒ आतृ॑ण्णमनूपद॒ध्यात्प॑शू॒नाञ्च॒ यज॑मानस्य च प्रा॒णमपि॑ दध्याद्दक्षिण॒तः [37]
प्राञ्च॒मुप॑ दधाति दा॒धार॑ यजमानलो॒कन्न प॑शू॒नाञ्च॒ यज॑मानस्य च प्रा॒णमपि॑ दधा॒त्यथो॒ खल्विष्ट॑काया॒ आतृ॑ण्ण॒मनूप॑ दधाति प्रा॒णाना॒मुत्सृ॑ष्ट्यै

विश्वास-प्रस्तुतिः

हि॒र॒ण्मय॒म्पुरु॑षम् उप॑ दधाति ।
य॒ज॒मा॒न॒लो॒कस्य॒ विधृ॑त्यै ।
यदिष्ट॑काया॒ आतृ॑ण्णमनूपद॒ध्यात् , प॑शू॒नाञ्च॒ यज॑मानस्य च प्रा॒णमपि॑ दध्यात् ।
द॒क्षि॒ण॒तᳶ प्राञ्च॒म् उप॑ दधाति । [37]
दा॒धार॑ यजमानलो॒कम् ।
न प॑शू॒नाञ् च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति ।
अथो॒ खल्विष्ट॑काया॒ आतृ॑ण्ण॒मनूप॑ दधाति ।
प्रा॒णाना॒म् उत्सृ॑ष्ट्यै ।

मूलम्

हि॒र॒ण्मय॒म्पुरु॑षम् उप॑ दधाति ।
य॒ज॒मा॒न॒लो॒कस्य॒ विधृ॑त्यै ।
यदिष्ट॑काया॒ आतृ॑ण्णमनूपद॒ध्यात् , प॑शू॒नाञ्च॒ यज॑मानस्य च प्रा॒णमपि॑ दध्यात् ।
द॒क्षि॒ण॒तᳶ प्राञ्च॒म् उप॑ दधाति । [37]
दा॒धार॑ यजमानलो॒कम् ।
न प॑शू॒नाञ् च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति ।
अथो॒ खल्विष्ट॑काया॒ आतृ॑ण्ण॒मनूप॑ दधाति ।
प्रा॒णाना॒म् उत्सृ॑ष्ट्यै ।

भट्टभास्कर-टीका

2हिरण्मयमिति ॥ दक्षिणतः प्राञ्चं ‘हिरण्यगर्भः’ इत्यनेन आतृण्णं छिद्रं अपिदध्यात् नाशयेत् । दाधारेति । छान्दसो लिट्, धारयति । तुजादित्वादभ्यासस्य दीर्घत्वम् । अथो अपि च खल्विति पक्षान्तरम् । लक्षणे अनोः कर्मप्रवचनीयत्वम् ॥

मूलम् (संयुक्तम्)

द्र॒प्सश्च॑स्क॒न्देत्य॒भि मृ॑शति॒ होत्रा॑स्वे॒वैन॒म्प्रति॑ ष्ठापयति॒

विश्वास-प्रस्तुतिः

द्र॒प्सश्च॑स्क॒न्देत्य॒भि मृ॑शति ।
होत्रा॑स्वे॒वैन॒म् प्रति॑ ष्ठापयति॒

मूलम्

द्र॒प्सश्च॑स्क॒न्देत्य॒भि मृ॑शति ।
होत्रा॑स्वे॒वैन॒म् प्रति॑ ष्ठापयति॒

भट्टभास्कर-टीका

3अभि मृशतीति ॥ पुरुषं हिरण्मयम् । होत्रास्विति ‘अनु सप्त होत्राः’ इति लिङ्गात् ॥

मूलम् (संयुक्तम्)

स्रुचा॒वुप॑ दधा॒त्याज्य॑स्य पू॒र्णाङ्का॑र्ष्मर्य॒मयी॑न्द॒ध्नᳶ पू॒र्णामौदु॑म्बरीम्

विश्वास-प्रस्तुतिः

स्रुचा॒वुप॑ दधाति ।
आज्य॑स्य पू॒र्णाङ्का॑र्ष्मर्य॒मयी॑न् द॒ध्नᳶ पू॒र्णामौदु॑म्बरीम् ।

मूलम्

स्रुचा॒वुप॑ दधाति ।
आज्य॑स्य पू॒र्णाङ्का॑र्ष्मर्य॒मयी॑न् द॒ध्नᳶ पू॒र्णामौदु॑म्बरीम् ।

भट्टभास्कर-टीका

4स्रुचाविति ॥ पुरुषं दक्षिणेनोत्तरेण च । आज्यस्येति । ‘पूरणगुण’ इति षष्ठीसमासप्रतिषेधात् पूरणार्थैर्योगे षष्ठी ज्ञापिता । कार्ष्मर्यमयीमिति । ‘नित्यं वृद्धशरादिभ्यः’ इति मयट् । औदुम्बरीमिति । ‘अनुदात्तादेश्च’ इत्यञ् ॥

मूलम् (संयुक्तम्)

इयव्ँ वै का॑र्ष्मर्य॒मय्य॒सावौदु॑म्बरी॒मे ए॒वोप॑ धत्ते [38]
तू॒ष्णीमुप॑ दधाति॒ न हीमे यजु॒षाप्तु॒मर्ह॑ति॒ दक्षि॑णाङ्कार्ष्मर्य॒मयी॒मुत्त॑रा॒मौदु॑म्बरी॒न्तस्मा॑द॒स्या अ॒सावुत्त॒राज्य॑स्य पू॒र्णाङ्का॑र्ष्मर्य॒मयीव्ँ॒वज्रो॒ वा आज्यव्ँ॒वज्र॑ᳵ कार्ष्म॒र्यो॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्यप॑ हन्ति द॒ध्नᳶ पू॒र्णामौदु॑म्बरीम्प॒शवो॒ वै दध्यूर्गु॑दु॒म्बरᳶ॑ प॒शुष्वे॒वोर्ज॑न्दधाति पू॒र्णे उप॑ दधाति पू॒र्णे ए॒वैन॑म् [39]
अ॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठेते वि॒राज्य॒ग्निश्चे॑त॒व्य॑ इत्या॑हु॒स्

विश्वास-प्रस्तुतिः

इ॒यव्ँ वै का॑र्ष्मर्य॒मय्य॒सावौदु॑म्बरी ।
इ॒मे ए॒वोप॑ धत्ते । [38]
तू॒ष्णीमुप॑ दधाति ।
न हीमे यजु॒षाऽप्तु॒मर्ह॑ति ।
दक्षि॑णाङ्कार्ष्मर्य॒मयी॒म् उत्त॑रा॒मौदु॑म्बरीम् ।
तस्मा॑द॒स्या अ॒सावुत्त॑रा ।
आज्य॑स्य पू॒र्णाङ्का॑र्ष्मर्य॒मयी॑म् ।
वज्रो॒ वा आज्यव्ँ॒ , वज्र॑ᳵ काष्म॒र्यः॑ ।
वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्यप॑ हन्ति ।
द॒ध्नᳶ पू॒र्णामौदु॑म्बरीम् ।
प॒शवो॒ वै दध्यूर्ग् उ॑दु॒म्बरः॑ ।
प॒शुष्वे॒वोर्ज॑न् दधाति पू॒र्णे उप॑ दधाति ।
पू॒र्णे ए॒वैन॑म् अ॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठेते । [39]
वि॒राज्य॒ग्निश्चे॑त॒व्य॑ इत्या॑हुः ।

मूलम्

इ॒यव्ँ वै का॑र्ष्मर्य॒मय्य॒सावौदु॑म्बरी ।
इ॒मे ए॒वोप॑ धत्ते । [38]
तू॒ष्णीमुप॑ दधाति ।
न हीमे यजु॒षाऽप्तु॒मर्ह॑ति ।
दक्षि॑णाङ्कार्ष्मर्य॒मयी॒म् उत्त॑रा॒मौदु॑म्बरीम् ।
तस्मा॑द॒स्या अ॒सावुत्त॑रा ।
आज्य॑स्य पू॒र्णाङ्का॑र्ष्मर्य॒मयी॑म् ।
वज्रो॒ वा आज्यव्ँ॒ , वज्र॑ᳵ काष्म॒र्यः॑ ।
वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्यप॑ हन्ति ।
द॒ध्नᳶ पू॒र्णामौदु॑म्बरीम् ।
प॒शवो॒ वै दध्यूर्ग् उ॑दु॒म्बरः॑ ।
प॒शुष्वे॒वोर्ज॑न् दधाति पू॒र्णे उप॑ दधाति ।
पू॒र्णे ए॒वैन॑म् अ॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठेते । [39]
वि॒राज्य॒ग्निश्चे॑त॒व्य॑ इत्या॑हुः ।

भट्टभास्कर-टीका

5इयं वा इत्यादि ॥ गतम् ॥
+++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् ।)+++

मूलम् (संयुक्तम्)

स्रुग्वै वि॒राड्यत्स्रुचा॑वुप॒दधा॑ति वि॒राज्ये॒वाग्निञ्चि॑नुते यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति यज्ञमु॒खँ रु॒क्मो

विश्वास-प्रस्तुतिः

स्रुग्वै वि॒राट् ।
यत्स्रुचा॑वुप॒दधा॑ति वि॒राज्ये॒वाग्निञ् चि॑नुते ।
य॒ज्ञ॒मु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति ।
य॒ज्ञ॒मु॒खँ रु॒क्मः ।

मूलम्

स्रुग्वै वि॒राट् ।
यत्स्रुचा॑वुप॒दधा॑ति वि॒राज्ये॒वाग्निञ् चि॑नुते ।
य॒ज्ञ॒मु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति ।
य॒ज्ञ॒मु॒खँ रु॒क्मः ।

भट्टभास्कर-टीका

6स्रुग्वै विराडिति ॥ विराजनशीलत्वाद्विराट्, साधनत्वाद्वा ॥

मूलम् (संयुक्तम्)

यद्रु॒क्मव्व्ँया॑घा॒रय॑ति यज्ञमु॒खादे॒व रक्षाँ॒स्यप॑ हन्ति

विश्वास-प्रस्तुतिः

यद् रु॒क्मव्ँ व्या॑घा॒रय॑ति यज्ञमु॒खादे॒व रक्षाँ॒स्यप॑ हन्ति ।

मूलम्

यद् रु॒क्मव्ँ व्या॑घा॒रय॑ति यज्ञमु॒खादे॒व रक्षाँ॒स्यप॑ हन्ति ।

भट्टभास्कर-टीका

7व्याघारयतीति ॥ उत्तरवेदिवत् ॥ +++( सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम्। )+++

मूलम् (संयुक्तम्)

प॒ञ्चभि॒र्व्याघा॑रयति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मा॒द्रक्षाँ॒स्यप॑ हन्त्य्

विश्वास-प्रस्तुतिः

प॒ञ्चभि॒र् व्याघा॑रयति ।
पाङ्क्तो॑ य॒ज्ञः ।
यावा॑ने॒व य॒ज्ञस् तस्मा॒द् रक्षाँ॒स्यप॑ हन्ति ।

मूलम्

प॒ञ्चभि॒र् व्याघा॑रयति ।
पाङ्क्तो॑ य॒ज्ञः ।
यावा॑ने॒व य॒ज्ञस् तस्मा॒द् रक्षाँ॒स्यप॑ हन्ति ।

भट्टभास्कर-टीका

8पञ्चभिरिति ॥ ‘सिंहीरसि’ इत्यादिभिः । ‘झल्युपोत्तमम्’ इत्युपोत्तमस्य उदात्तत्वम् । पाङ्क्त इति । धानादिपञ्चकसाध्यत्वात् ॥

मूलम् (संयुक्तम्)

अक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ॥ [40]

विश्वास-प्रस्तुतिः

अ॒क्ष्ण॒या व्याघा॑रयति ।
तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति ।
प्रति॑ष्ठित्यै ॥ [40]

मूलम्

अ॒क्ष्ण॒या व्याघा॑रयति ।
तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति ।
प्रति॑ष्ठित्यै ॥ [40]

भट्टभास्कर-टीका

9अक्ष्णयेति ॥ कोणगत्या दक्षिणमंसं उत्तरां श्रोणीं दक्षिणमुत्तरमंसं मध्यमिति । अङ्गानि चरणादीन्यक्ष्णया न्यस्यति शयनादिषु च उपसंहरति । तस्मादक्ष्णया व्याघारणं प्रतिष्ठित्यै भवति पशूनाम् ॥

इति पञ्चमे द्वितीये सप्तमोनुवाकः ॥