मूलम् (संयुक्तम्)
अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑पत्ये॒तद्वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ सू॒क्तँ सू॒क्तेनै॒व वै॑श्वान॒रमव॑ रुन्द्धे ष॒ड्भिर्नि व॑पति॒ षड्वा ऋ॒तव॑स्सव्ँ वत्स॒रस्सव्ँ॑वत्स॒रो॑ऽग्निर्वै॑श्वान॒रस्सा॒क्षादे॒व वै॑श्वान॒रमव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑पति ।
ए॒तद् वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ सू॒क्तम् ।
सू॒क्तेनै॒व वै॑श्वान॒रमव॑ रुन्धे ।
ष॒ड्भिर्नि व॑पति ।
षड्वा ऋ॒तव॑स् सव्ँ वत्स॒रः ।
सव्ँ॑वत्स॒रो॑ ऽग्निर् वै॑श्वान॒रः ।
सा॒क्षादे॒व वै॑श्वान॒रमव॑ रुन्धे ।
मूलम्
अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑पति ।
ए॒तद् वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ सू॒क्तम् ।
सू॒क्तेनै॒व वै॑श्वान॒रमव॑ रुन्धे ।
ष॒ड्भिर्नि व॑पति ।
षड्वा ऋ॒तव॑स् सव्ँ वत्स॒रः ।
सव्ँ॑वत्स॒रो॑ ऽग्निर् वै॑श्वान॒रः ।
सा॒क्षादे॒व वै॑श्वान॒रमव॑ रुन्धे ।
भट्टभास्कर-टीका
1अग्ने तव श्रवो वय इत्यादि ॥ व्याघारणान्तं कृत्वा तत्रानेन सूक्तेन षडृचेन सिकता निवपति । विश्वेषां नराणां स्वामित्वेन सम्बन्धी वैश्वानरः ॥
मूलम् (संयुक्तम्)
समु॒द्रव्ँ वै नामै॒तच्छन्द॑स्समु॒द्रमनु॑ प्र॒जाᳶ प्र जा॑यन्ते॒ यदे॒तेन॒ सिक॑ता नि॒वप॑ति प्र॒जाना॑म्प्र॒जन॑ना॒य
विश्वास-प्रस्तुतिः
स॒मु॒द्रव्ँ वै नामै॒तच्छन्दः॑ ।
स॒मु॒द्रमनु॑ प्र॒जाᳶ प्र जा॑यन्ते ।
यदे॒तेन॒ सिक॑ता नि॒वप॑ति ।
प्र॒जाना॑म् प्र॒जन॑नाय ।
मूलम्
स॒मु॒द्रव्ँ वै नामै॒तच्छन्दः॑ ।
स॒मु॒द्रमनु॑ प्र॒जाᳶ प्र जा॑यन्ते ।
यदे॒तेन॒ सिक॑ता नि॒वप॑ति ।
प्र॒जाना॑म् प्र॒जन॑नाय ।
भट्टभास्कर-टीका
2समुद्रं वा इति ॥ समुन्दनशीलं समुद्रं अवस्थितस्वरूपम् । तथा हि - प्रथमा विष्टारपङ्क्तिः, मध्यमयोः पादयोः द्वादशाक्षरत्वात् । द्विप्तीयाऽस्तारपक्तिः, अयुक्पादयोः द्वादशाक्षरत्वात् । यथा द्वितीया तथा तृतीया यथा प्रथमा तथा चतुर्थी उपरिष्टाज्ज्योतिर्जगती पञ्चमी, चतुर्थस्य पादस्याष्टाक्षरत्वात् । यथा द्वितीय तृतीये तथा षष्ठीति । समुद्रमनुगताः प्रजाः प्रजायन्ते यस्मात् तस्मात्प्रजानां प्रजननानि भवन्ति एतेन सिकता निवपतः ॥
मूलम् (संयुक्तम्)
इन्द्रः॑ [31]
वृ॒त्राय॒ वज्र॒म्प्राह॑र॒त्स त्रे॒धा व्य॑भव॒त्स्फ्यस्तृती॑यँ॒ रथ॒स्तृती॑यय्ँ॒यूप॒स्तृती॑यय्ँ॒ये॑ऽन्तश्श॒रा अशी॑र्यन्त॒ ताश्शर्क॑रा अभव॒न्तच्छर्क॑राणाँ शर्कर॒त्वव्
विश्वास-प्रस्तुतिः
इन्द्रो॑ वृ॒त्राय॒ वज्र॒म् प्राह॑रत् ।[31]
स त्रे॒धा व्य॑भव॒त् स्फ्यस्तृती॑यँ॒ , रथ॒स्तृती॑यय्ँ॒ , यूप॒स्तृती॑यम् ।
ये॑ऽन्तश्श॒रा अशी॑र्यन्त॒ ताश् शर्क॑रा अभवन् ।
तच्छर्क॑राणाँ शर्कर॒त्वम् ।
मूलम्
इन्द्रो॑ वृ॒त्राय॒ वज्र॒म् प्राह॑रत् ।[31]
स त्रे॒धा व्य॑भव॒त् स्फ्यस्तृती॑यँ॒ , रथ॒स्तृती॑यय्ँ॒ , यूप॒स्तृती॑यम् ।
ये॑ऽन्तश्श॒रा अशी॑र्यन्त॒ ताश् शर्क॑रा अभवन् ।
तच्छर्क॑राणाँ शर्कर॒त्वम् ।
भट्टभास्कर-टीका
3इन्द्रो वृत्रायेत्यादि ॥ व्यभवत् । शराः शकलानि । शर्करत्वमिति । शरणात् शर्करः । ‘त्वे च’ इति ह्रस्वत्वम् ॥
मूलम् (संयुक्तम्)
वँज्रो॒ वै शर्क॑राᳶ प॒शुर॒ग्निर्यच्छर्क॑राभिर॒ग्निम्प॑रिमि॒नोति॒ वज्रे॑णै॒वास्मै॑ प॒शून्परि॑ गृह्णाति॒ तस्मा॒द्वज्रे॑ण प॒शव॒ᳶ परि॑गृहीता॒स्तस्मा॒त्स्थेया॒नस्थे॑यसो॒ नोप॑ हरते
विश्वास-प्रस्तुतिः
वँज्रो॒ वै शर्क॑राः ।
प॒शुर॒ग्निः ।
यच्छर्क॑राभिर् अ॒ग्निम् प॑रिमि॒नोति॒ , वज्रे॑णै॒वास्मै॑ प॒शून् परि॑ गृह्णाति ।
तस्मा॒द् वज्रे॑ण प॒शव॒ᳶ परि॑गृहीताः ।
तस्मा॒त् स्थेया॒नस्थे॑यसो॒ नोप॑ हरते ।
मूलम्
वँज्रो॒ वै शर्क॑राः ।
प॒शुर॒ग्निः ।
यच्छर्क॑राभिर् अ॒ग्निम् प॑रिमि॒नोति॒ , वज्रे॑णै॒वास्मै॑ प॒शून् परि॑ गृह्णाति ।
तस्मा॒द् वज्रे॑ण प॒शव॒ᳶ परि॑गृहीताः ।
तस्मा॒त् स्थेया॒नस्थे॑यसो॒ नोप॑ हरते ।
भट्टभास्कर-टीका
4वज्रो वा इत्यादि ॥ तदेकदेशत्वात् । पशुरिति । तत्साधनत्वात् । अग्निं आहवनीयचितेरायतनं परिमिनोति परिश्रयति । डु मिङ् प्रक्षेपणे । स्थेयान् स्थिरतरः । अस्थेयान् अर्थी, न तु स्थेयानितरार्थी ॥
मूलम् (संयुक्तम्)
त्रिस॒प्ताभिः॑ [32]
प॒शुका॑मस्य॒ परि॑ मिनुयात्स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाᳶ प्रा॒णाᳶ प॒शवᳶ॑ प्रा॒णैरे॒वास्मै॑ प॒शूनव॑ रुन्द्धे त्रिण॒वाभि॒र्भ्रातृ॑व्यवतस्त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अप॑रिमिताभि॒ᳶ परि॑ मिनुया॒दप॑रिमित॒स्याव॑रुद्ध्यै॒
विश्वास-प्रस्तुतिः
त्रि॒स॒प्ताभिᳶ॑ प॒शुका॑मस्य॒ परि॑ मिनुयात् । [32]
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः ।
प्रा॒णाᳶ प॒शवः॑ ।
प्रा॒णैरे॒वास्मै॑ प॒शूनव॑ रुन्धे ।
त्रि॒ण॒वाभि॒र्भ्रातृ॑व्यवतः ।
त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति ।
स्तृत्यै॑ ।
अप॑रिमिताभि॒ᳶ परि॑ मिनुयात् । अप॑रिमित॒स्याव॑रुद्ध्यै ।
मूलम्
त्रि॒स॒प्ताभिᳶ॑ प॒शुका॑मस्य॒ परि॑ मिनुयात् । [32]
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः ।
प्रा॒णाᳶ प॒शवः॑ ।
प्रा॒णैरे॒वास्मै॑ प॒शूनव॑ रुन्धे ।
त्रि॒ण॒वाभि॒र्भ्रातृ॑व्यवतः ।
त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति ।
स्तृत्यै॑ ।
अप॑रिमिताभि॒ᳶ परि॑ मिनुयात् । अप॑रिमित॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
5त्रिसप्ताभिरिति ॥ त्रीणि सप्तकानि यासां ताः त्रिसप्ताः । ‘बहुव्रीहौ सङ्ख्ये’ इति डच् । पशुकामस्येति । ‘शीलिकामि’ इति णः । पूर्वपदप्रकृतिस्वरत्वं च । त्रिणवाभिरिति । सप्तविंशत्या । उक्तः समासान्तः । त्रिवृतमिति । वज्रस्य त्रिवृत्त्वमुक्तम् । स्तृत्या इति । स्तृ हिंसायाम् । अपरिमिताभिरिति । माङ् माने, ‘द्यतिस्यति’ इत्यादिना इत्वम् ॥
मूलम् (संयुक्तम्)
यङ्का॒मये॑ताप॒शुस्स्या॒दित्यप॑रिमित्य॒ तस्य॒ शर्क॑रा॒स्सिक॑ता॒ व्यू॑हे॒दप॑रिगृहीत ए॒वास्य॑ विषू॒चीनँ॒ रेत॒ᳶ परा॒ सिञ्चत्यप॒शुरे॒व भ॑वति [33]
यङ्का॒मये॑त पशु॒मान्त्स्या॒दिति॑ परि॒मित्य॒ तस्य॒ शर्क॑रा॒स्सिक॑ता॒ व्यू॑हे॒त्परि॑गृहीत ए॒वास्मै॑
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त + “अ॒प॒शुस् स्या॒द् इति॑ + अप॑रिमित्य॒ तस्य॒ शर्क॑रा॒स् सिक॑ता॒ व्यू॑हेत् ।
अप॑रिगृहीत ए॒वास्य॑ विषू॒चीनँ॒ रेत॒ᳶ परा॒ सिञ्चति ।
अप॒शुरे॒व भ॑वति । [33]
यङ्का॒मये॑त - “पशु॒मान्त्स्या॒द्” इति॑ , परि॒मित्य॒ तस्य॒ शर्क॑रा॒स् सिक॑ता॒ व्यू॑हेत् ।
मूलम्
यङ्का॒मये॑त + “अ॒प॒शुस् स्या॒द् इति॑ + अप॑रिमित्य॒ तस्य॒ शर्क॑रा॒स् सिक॑ता॒ व्यू॑हेत् ।
अप॑रिगृहीत ए॒वास्य॑ विषू॒चीनँ॒ रेत॒ᳶ परा॒ सिञ्चति ।
अप॒शुरे॒व भ॑वति । [33]
यङ्का॒मये॑त - “पशु॒मान्त्स्या॒द्” इति॑ , परि॒मित्य॒ तस्य॒ शर्क॑रा॒स् सिक॑ता॒ व्यू॑हेत् ।
भट्टभास्कर-टीका
6अथ सिकताव्यूहनं विधातुमाह - यं कामयेतेत्यादि ॥ शर्करा अपरिमित्य अपरिश्रित्य सिकता व्यूहेत् पूर्वं न्युप्ता विप्रियेत् [न्युप्येत्] । अपरिमित स्थाने विषूचीनं विष्वग्गतं परा सिञ्चति पराभूतं सिञ्चति रेतः । तेनापशुस्स्यात् रेतोनाशात् । विष्वङ् नाना अञ्चतीति ऋत्विगादिना क्विप् । ‘विभाषाञ्चेरदि क्स्त्रियाम्’ इति खः । नकाराकारयोर्लुप्तयोः ‘चौ’ इति दीर्घत्वम् ॥
मूलम् (संयुक्तम्)
परि॑गृहीत ए॒वास्मै॑ समी॒चीनँ॒ रेत॑स्सिञ्चति पशु॒माने॒व भ॑वति
विश्वास-प्रस्तुतिः
परि॑गृहीत ए॒वास्मै॑ समी॒चीनँ॒ रेत॑स् सिञ्चति ।
प॒शु॒मान् ए॒व भ॑वति ।
मूलम्
परि॑गृहीत ए॒वास्मै॑ समी॒चीनँ॒ रेत॑स् सिञ्चति ।
प॒शु॒मान् ए॒व भ॑वति ।
भट्टभास्कर-टीका
7समीचीनमिति ॥ सङ्गतमञ्चतीति सम्यक् । ‘समस्समि’ इति सम्यादेशः पूर्ववत्सः, दीर्घत्वं च ॥
मूलम् (संयुक्तम्)
सौ॒म्या व्यू॑हति॒ सोमो॒ वै रे॑तो॒धा रेत॑ ए॒व तद्द॑धाति गायत्रि॒या ब्रा॑ह्म॒णस्य॑ गाय॒त्रो हि ब्रा॑ह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्य॑श्
विश्वास-प्रस्तुतिः
सौ॒म्या व्यू॑हति ।
सोमो॒ वै रे॑तो॒धा ।
रेत॑ ए॒व तद् द॑धाति ।
गा॒य॒त्रि॒या ब्रा॑ह्म॒णस्य॑ गाय॒त्रो हि ब्रा॑ह्म॒णः ।
त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यः॑ ।
मूलम्
सौ॒म्या व्यू॑हति ।
सोमो॒ वै रे॑तो॒धा ।
रेत॑ ए॒व तद् द॑धाति ।
गा॒य॒त्रि॒या ब्रा॑ह्म॒णस्य॑ गाय॒त्रो हि ब्रा॑ह्म॒णः ।
त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यः॑ ।
भट्टभास्कर-टीका
8सौम्येति ॥ ‘आ प्यायस्व’ इत्यनया गायत्र्या । त्रिष्टुभेति । ‘सं ते पयांसि’ इति । गायत्रीत्रिष्टुब्भ्यां सह जातत्वाद्गायत्रत्रैष्टुभौ ब्राह्मणराजन्यौ । त्रिष्टुब्छब्द उत्सादिः ॥
मूलम् (संयुक्तम्)
शय्ँ॒युम्बा॑र्हस्प॒त्यम्मेधो॒ नोपा॑नम॒त्सो॒॑ऽग्निम्प्रावि॑शत् [34]
सो॒॑ऽग्नेᳵ कृष्णो॑ रू॒पङ्कृ॒त्वोदा॑यत॒ सोऽश्व॒म्प्रावि॑श॒त्सोऽश्व॑स्यावान्तरश॒फो॑ऽभव॒द्यदश्व॑माक्र॒मय॑ति॒ य ए॒व मेधोऽश्व॒म्प्रावि॑श॒त्तमे॒वाव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
शय्ँ॒युम्बा॑र्हस्प॒त्यम्मेधो॒ नोपा॑नमत् ।
सो॒॑ऽग्निम्प्रावि॑शत् । [34]
सो॒॑ऽग्नेᳵ कृष्णो॑ रू॒पङ्कृ॒त्वोदा॑यत ।
सोऽश्व॒म् प्रावि॑शत् ।
सोऽश्व॑स्यावान्तरश॒फो॑ऽभवत् ।
यदश्व॑माक्र॒मय॑ति॒ , य ए॒व मेधोऽश्व॒म् प्रावि॑श॒त् तमे॒वाव॑ रुन्धे ।
मूलम्
शय्ँ॒युम्बा॑र्हस्प॒त्यम्मेधो॒ नोपा॑नमत् ।
सो॒॑ऽग्निम्प्रावि॑शत् । [34]
सो॒॑ऽग्नेᳵ कृष्णो॑ रू॒पङ्कृ॒त्वोदा॑यत ।
सोऽश्व॒म् प्रावि॑शत् ।
सोऽश्व॑स्यावान्तरश॒फो॑ऽभवत् ।
यदश्व॑माक्र॒मय॑ति॒ , य ए॒व मेधोऽश्व॒म् प्रावि॑श॒त् तमे॒वाव॑ रुन्धे ।
भट्टभास्कर-टीका
9शंयुमित्यादि ॥ बृहस्पतिशब्दं [बृहस्पतिपुत्रं] शंयुनामानं मेधः यज्ञो नोपानमत् । सोऽग्निं प्राविशत् । ततोऽग्नेः कष्णमृगो भूत्वा रूपं च तदीयं कृत्वा उदगच्छत् स मेधः । अनन्तरं स मेधोऽश्वं प्राविशत् । अथ सोऽश्वस्यावान्तरशफोऽभवत् । तस्मात् यदश्वं आक्रमयति चित्यायतनं अभ्यस्तात्तत् अश्वं प्रविष्टस्य मेधस्य लाभाय भवति ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑तिना॒ग्निश्चे॑त॒व्य॑ इत्या॑हुᳶ प्राजाप॒त्योऽश्वो॒ यदश्व॑माक्र॒मय॑ति प्र॒जाप॑तिनै॒वाग्निञ्चि॑नुते पुष्करप॒र्णमुप॑ दधाति॒ योनि॒र्वा अ॒ग्नेᳶ पु॑ष्करप॒र्णँ सयो॑निमे॒वाग्निञ्चि॑नुते॒ऽपाम्पृ॒ष्ठम॒सीत्युप॑ दधात्य॒पाव्ँवा ए॒तत्पृ॒ष्ठय्ँयत्पु॑ष्करप॒र्णँ रू॒पेणै॒वैन॒दुप॑ दधाति ॥ [35]
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिना॒ऽग्निश्चे॑त॒व्य॑ इत्या॑हुः ।
प्रा॒जा॒प॒त्यो ऽश्वः॑ ।
यदश्व॑माक्र॒मय॑ति प्र॒जाप॑तिनै॒वाग्निञ् चि॑नुते ।
पु॒ष्क॒र॒प॒र्णमुप॑ दधाति ।
योनि॒र्वा अ॒ग्नेᳶ पु॑ष्करप॒र्णम् ।
सयो॑निम् ए॒वाग्निञ् चि॑नुते ।
अ॒पाम्पृ॒ष्ठम् अ॒सीत्युप॑ दधाति ।
अ॒पाव्ँ वा ए॒तत्पृ॒ष्ठय्ँ यत् पु॑ष्करप॒र्णम् ।
रू॒पेणै॒वैन॒दुप॑ दधाति ॥ [35]
मूलम्
प्र॒जाप॑तिना॒ऽग्निश्चे॑त॒व्य॑ इत्या॑हुः ।
प्रा॒जा॒प॒त्यो ऽश्वः॑ ।
यदश्व॑माक्र॒मय॑ति प्र॒जाप॑तिनै॒वाग्निञ् चि॑नुते ।
पु॒ष्क॒र॒प॒र्णमुप॑ दधाति ।
योनि॒र्वा अ॒ग्नेᳶ पु॑ष्करप॒र्णम् ।
सयो॑निम् ए॒वाग्निञ् चि॑नुते ।
अ॒पाम्पृ॒ष्ठम् अ॒सीत्युप॑ दधाति ।
अ॒पाव्ँ वा ए॒तत्पृ॒ष्ठय्ँ यत् पु॑ष्करप॒र्णम् ।
रू॒पेणै॒वैन॒दुप॑ दधाति ॥ [35]
भट्टभास्कर-टीका
10प्रजापतिना इत्यादि ॥ प्रजापतिरेवाग्निं चेतुमर्हतीति ब्रुवते पुराविदः । अर्हे कृत्यः । योनिर्वा इति । ‘त्वामग्ने पुष्करादधि’ इति लिङ्गात् । अपां वा एतत् पृष्ठमिति । उपरिभावसामान्यात् । रूपेणैवेति । पुष्करपर्णं यद्रूपमपां पृष्ठत्वं तेनैव रूपेण अनुकीर्तितेन उपदधाति उपधानं कृतं भवति ॥
इति पञ्चमे द्वितीये षष्ठोऽनुवाकः ॥