०५

मूलम् (संयुक्तम्)

पु॒रु॒ष॒मा॒त्रेण॒ वि मि॑मीते य॒ज्ञेन॒ वै पुरु॑ष॒स्सम्मि॑तो यज्ञप॒रुषै॒वैनव्ँ॒वि मि॑मीते॒ यावा॒न्पुरु॑ष ऊ॒र्ध्वबा॑हु॒स्तावा॑न्भवत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यव्ँ॑ वी॒र्ये॑णै॒वैनव्ँ॒वि मि॑मीते

विश्वास-प्रस्तुतिः

पु॒रु॒ष॒मा॒त्रेण॒ वि मि॑मीते ।
य॒ज्ञेन॒ वै पुरु॑ष॒स् सम्मि॑तः ।
य॒ज्ञ॒प॒रुषै॒वैनव्ँ॒ वि मि॑मीते ।
यावा॒न् पुरु॑ष ऊ॒र्ध्वबा॑हु॒स् तावा॑न् भवति ।
ए॒ताव॒द् वै पुरु॑षे वी॒र्य॑म् ।
वी॒र्ये॑णै॒वैनव्ँ॒ वि मि॑मीते ।

मूलम्

पु॒रु॒ष॒मा॒त्रेण॒ वि मि॑मीते ।
य॒ज्ञेन॒ वै पुरु॑ष॒स् सम्मि॑तः ।
य॒ज्ञ॒प॒रुषै॒वैनव्ँ॒ वि मि॑मीते ।
यावा॒न् पुरु॑ष ऊ॒र्ध्वबा॑हु॒स् तावा॑न् भवति ।
ए॒ताव॒द् वै पुरु॑षे वी॒र्य॑म् ।
वी॒र्ये॑णै॒वैनव्ँ॒ वि मि॑मीते ।

भट्टभास्कर-टीका

1अथाग्निविमानमारभ्यते - पुरुषमात्रेणेति ॥ पुरुषप्रमाणेन वेणुना अग्निं विमिमीते । ‘प्रमाणे द्वयसच्’ इत्यादिना मात्नच् । यज्ञेन सम्मितः तुल्यः पुरुषः । तस्माद्यज्ञपरुषा यज्ञपर्वणा यज्ञमात्रयैव अग्निविमानं कृतं भवति । यावानिति । यावान् पुरुषो यजमानः अग्निं चेष्यमाण ऊर्ध्वबाहुर्भवति तावान् तत्परिमाणो वेणुर्भवति । तावता वेणुना अग्निं विमिमीते । एतावद्वा इति । यावानूर्ध्वबाहुः तावत्येव पुरुषस्य वीर्यं समाप्तं नातः परं क्रमते । एवमत्र पञ्चारत्निः पुरुषो बोधितो भवति ॥

मूलम् (संयुक्तम्)

प॒क्षी भ॑वति॒ न ह्य॑प॒क्षᳶ पति॑तु॒मर्ह॑त्यर॒त्निना॑ प॒क्षौ द्राघी॑याँसौ भवत॒स्तस्मा॑त्प॒क्षप्र॑वयाँसि॒ वयाँ॑सि

विश्वास-प्रस्तुतिः

प॒क्षी भ॑वति ।
न ह्य॑प॒क्षᳶ पति॑तु॒मर्ह॑ति ।
अ॒र॒त्निना॑ प॒क्षौ द्राघी॑याँसौ भवतः ।
तस्मा॑त् प॒क्षप्र॑वयाँसि॒ वयाँ॑सि ।

मूलम्

प॒क्षी भ॑वति ।
न ह्य॑प॒क्षᳶ पति॑तु॒मर्ह॑ति ।
अ॒र॒त्निना॑ प॒क्षौ द्राघी॑याँसौ भवतः ।
तस्मा॑त् प॒क्षप्र॑वयाँसि॒ वयाँ॑सि ।

भट्टभास्कर-टीका

2पक्षीति ॥ ‘वयसां वा एष प्रतिमया चीयते’ इति । अत्र हेतुमाह - न हीति अरत्निनेत्यादि । चतुर्विंशतिरङ्गुलयोऽरत्निः । तदर्धं प्रादेशः । अरत्निना पक्षौ द्राघीयांसौ दीर्घतरौ पुरुसौ भवतः । प्रियस्थिरादिना दीर्घादेशः । यथोक्तां - ‘चतुर आत्मनि पुरुषानव मिमीते पुरुषं दक्षिणे पक्षे पुरुषं पूच्छे पुरुषमुत्तरेऽरत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयत्येवमुत्तरत उत्तरं प्रादेशेन वितस्त्या वा पश्चात्पुच्छं ‘इति । स एष सप्तविधः प्राकृतोऽग्निः अत्रैकविधप्रभृतयः एकशतविधान्ता अग्नयः । तत्र सप्तविधबोधितानि पुच्छादिन्यूनानां एकविधानि नाना भवन्ति । अष्टविधप्रभृतीनां यदन्यत्सप्तभ्यः तत्सप्तधा विभज्य प्रतिपुरुषमावेशयेत्, प्रकृतिविकारस्य आश्रितत्वात् । तस्मादिति । पक्षयोः प्रवयांसि भूतानि प्रभूतबन्धानि पक्षप्रवयांसि । सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । वयांसि पक्षिणः ॥

मूलम् (संयुक्तम्)

व्याममा॒त्रौ प॒क्षौ च॒ पुच्छ॑ञ्च भवत्ये॒ताव॒द्वै पुरु॑षे वी॒र्य॑म् [25]
वी॒र्य॑सम्मितो॒ वेणु॑ना॒ वि मि॑मीत आग्ने॒यो वै वेणु॑स्सयोनि॒त्वाय॒ यजु॑षा युनक्ति॒ यजु॑षा कृषति॒ व्यावृ॑त्त्यै

विश्वास-प्रस्तुतिः

व्या॒म॒मा॒त्रौ प॒क्षौ च॒ पुच्छ॑ञ्च भवति ।
ए॒ताव॒द्वै पुरु॑षे वी॒र्यव्ँ॑ वी॒र्य॑सम्मितः। [25]
वेणु॑ना॒ वि मि॑मीते ।
आ॒ग्ने॒यो वै वेणुः॑ ।
सयोनि॒त्वाय॑ ।
यजु॑षा युनक्ति ।
यजु॑षा कृषति । व्यावृ॑त्त्यै ।

मूलम्

व्या॒म॒मा॒त्रौ प॒क्षौ च॒ पुच्छ॑ञ्च भवति ।
ए॒ताव॒द्वै पुरु॑षे वी॒र्यव्ँ॑ वी॒र्य॑सम्मितः। [25]
वेणु॑ना॒ वि मि॑मीते ।
आ॒ग्ने॒यो वै वेणुः॑ ।
सयोनि॒त्वाय॑ ।
यजु॑षा युनक्ति ।
यजु॑षा कृषति । व्यावृ॑त्त्यै ।

भट्टभास्कर-टीका

3व्याममात्राविति ॥ पञ्चारत्निर्व्यामः । चतुररत्निरित्येके । व्याममात्रौ पक्षौ भवत इति । वक्ष्यमाणस्य नतिः पुच्छं च भवति । व्याममात्रस्य प्रकृतस्य नतिः । यद्वा - व्याममात्रौ पक्षौ व्याममात्रं पुच्छं तदिदं भवति । नपुंसकस्य शेषः एकवद्भावस्य । वीर्यसम्मित इति । वीर्येर्णैव संमितोऽग्निर्भवति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । आग्नेय इति । अग्नेस्स्वभूतः । ‘सर्वत्राग्निकलिभ्याम्’ इति ढक् । यथोक्तम् - ‘अग्निर्देवेभ्यो निलायत स वेणं प्राविशत्’ इति । यजुषेति । मन्त्रेण योजनं लक्षणं च कुर्यात् लौकिकव्यावृत्त्यर्थाम् । यजुश्शब्दो मन्त्रवचनः, यथा ‘व्यृद्धं वा एतद्यज्ञस्य यदयजुष्केण क्रियते’ इति । त्रत्र हि ‘इमामगृभ्णन्’ इति मन्त्रो यजुश्शब्देनोच्यते । एतदुक्तं भवति - ‘सीरा युंजन्ति’ इति द्वाभ्यां सीरं युनक्ति । ‘लाङ्गलं पवीरवम्’ इति द्वाभ्यां कृषति ॥

मूलम् (संयुक्तम्)

षड्ग॒वेन॑ कृषति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑ङ्कृषति॒ यद्द्वा॑दशग॒वेन॑ सव्ँवत्स॒रेणै॒व

विश्वास-प्रस्तुतिः

ष॒ड्ग॒वेन॑ कृषति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैन॑ङ्कृषति ।
यद् द्वा॑दशग॒वेन॑ सव्ँवत्स॒रेणै॒व ।

मूलम्

ष॒ड्ग॒वेन॑ कृषति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैन॑ङ्कृषति ।
यद् द्वा॑दशग॒वेन॑ सव्ँवत्स॒रेणै॒व ।

भट्टभास्कर-टीका

4षड्गवेनेति ॥ षण्णां गवां समाहार इति षड्गवम् । ‘गोरतद्धित लुकि’ इत्यच् समासान्तः । यद्द्वादशगवेनेति । कृषतीत्येव । संवत्सरेणैवेति । कर्षणं कृतं भवति ॥

मूलम् (संयुक्तम्)

इयव्ँ वा अ॒ग्नेर॑तिदा॒हाद॑बिभे॒त्सैतद्द्वि॑गु॒णम॑पश्यत्कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ ततो॒ वा इ॒मान्नात्य॑दह॒द्यत्कृ॒ष्टञ्चाकृ॑ष्टञ्च [26]
भव॑त्य॒स्या अन॑तिदाहाय द्विगु॒णन्त्वा अ॒ग्निमुद्य॑न्तुमर्ह॒तीत्या॑हु॒र्यत्कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ भव॑त्य॒ग्नेरुद्य॑त्या

विश्वास-प्रस्तुतिः

इयव्ँ वा अ॒ग्नेर॑तिदा॒हाद॑बिभेत् ।
सैतद् द्वि॑गु॒णम् अ॑पश्यत् , कृ॒ष्टञ् चाकृ॑ष्टञ् च ।
ततो॒ वा इ॒मान्नात्य॑दहत् ।
यत्कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ भव॑ति । [26]
अ॒स्या अन॑तिदाहाय ।
द्वि॒गु॒णन्त्वा अ॒ग्निमुद्य॑न्तुमर्हति + इत्या॑हुः ।
यत्कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ भव॑ति ।
अ॒ग्नेरुद्य॑त्यै ।

मूलम्

इयव्ँ वा अ॒ग्नेर॑तिदा॒हाद॑बिभेत् ।
सैतद् द्वि॑गु॒णम् अ॑पश्यत् , कृ॒ष्टञ् चाकृ॑ष्टञ् च ।
ततो॒ वा इ॒मान्नात्य॑दहत् ।
यत्कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ भव॑ति । [26]
अ॒स्या अन॑तिदाहाय ।
द्वि॒गु॒णन्त्वा अ॒ग्निमुद्य॑न्तुमर्हति + इत्या॑हुः ।
यत्कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ भव॑ति ।
अ॒ग्नेरुद्य॑त्यै ।

भट्टभास्कर-टीका

5इयं वा इत्यादि ॥ द्वौ गुणौ द्विगुणम् । कृष्टं कृष्टलक्षणं अतिदाहनिवृत्त्यै भवति पृथिव्याः । द्विगुणमिति । द्वौ गुणौ अग्निमुद्यन्तुं उत्थापयितुं अर्हतः योग्यौ भवतः नैकः ; अनौचित्यभयात्, अशक्तेर्वा । तस्मान्न द्वैगुण्यं अग्नेरुद्यमनाय ॥

मूलम् (संयुक्तम्)

ए॒ताव॑न्तो॒ वै प॒शवो॑ द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान्यत्प्राच॑ उत्सृ॒जेद्रु॒द्रायापि॑ दध्या॒द्यद्द॑क्षि॒णा पि॒तृभ्यो॒ नि धु॑वे॒द्यत्प्र॒तीचो॒ रक्षाँ॑सि हन्यु॒रुदी॑च॒ उत्सृ॑जत्ये॒षा वै दे॑वमनु॒ष्याणाँ॑ शा॒न्ता दिक् [27]
तामे॒वैना॒ननूत्सृ॑ज॒त्यथो॒ खल्वि॒मान्दिश॒मुत्सृ॑जति ।

विश्वास-प्रस्तुतिः

ए॒ताव॑न्तो॒ वै प॒शवो॑ द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च ।
तान्यत्प्राच॑ उत्सृ॒जेद् रु॒द्रायापि॑ दध्यात् ।
यद् द॑क्षि॒णा पि॒तृभ्यो॒ नि धु॑वेत् ।
यत् प्र॒तीचो॒ रक्षाँ॑सि हन्युः ।
उदी॑च॒ उत्सृ॑जति ।
ए॒षा वै दे॑वमनु॒ष्याणाँ॑ शा॒न्ता दिक् । [27]
तामे॒वैना॒ननूत्सृ॑ज॒ति ।
अथो॒ खल्वि॒मान् दिश॒म् उत्सृ॑जति ।

मूलम्

ए॒ताव॑न्तो॒ वै प॒शवो॑ द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च ।
तान्यत्प्राच॑ उत्सृ॒जेद् रु॒द्रायापि॑ दध्यात् ।
यद् द॑क्षि॒णा पि॒तृभ्यो॒ नि धु॑वेत् ।
यत् प्र॒तीचो॒ रक्षाँ॑सि हन्युः ।
उदी॑च॒ उत्सृ॑जति ।
ए॒षा वै दे॑वमनु॒ष्याणाँ॑ शा॒न्ता दिक् । [27]
तामे॒वैना॒ननूत्सृ॑ज॒ति ।
अथो॒ खल्वि॒मान् दिश॒म् उत्सृ॑जति ।

भट्टभास्कर-टीका

6एतावन्त इत्यादि ॥ तान् सर्वानपि पशून् द्विपादश्च चतुष्पादश्च रुद्रायापिदध्यात् । रुद्रार्थमपिहितान् कुर्यात् यथैतान् रुद्रोभिध्यायति तथा कुर्यात् । यदि प्राच उत्सृजेत् बलीवर्दान् कृष्ट्यनन्तरम् । ‘द्वित्रिभ्यां पद्दन्’ इति द्विपद उत्तरपदाद्युदात्तत्वम् । ‘सङ्ख्यासुपूर्वस्य’ इति लोपः समासान्तः । यद्दक्षिणेति । उत्सृजेदित्येव । ‘दक्षिणादाच्’ । निधुवेदिति । प्रेरयेत् । धू विधूनने, तौदादिकः । यत्प्रतीच इत्यादि ॥ गतम् । तस्मादुदीच उत्सृजति उदगभिमुखान् उत्कालयति । एषा खलूदीची देवमनुष्याणां शान्ता सुखहेतुः दिक् । तस्मात्तामेवानूत्सृष्टा भवन्ति । अथो अपिच खलु इमामधरां दिशं उत्सृजति यदा उत्तरां दिशं गच्छति ॥

मूलम् (संयुक्तम्)

अ॒सौ वा आ॑दि॒त्यᳶ प्रा॒णᳶ प्रा॒णमे॒वैना॒ननूत्सृ॑जति

विश्वास-प्रस्तुतिः

अ॒सौ वा आ॑दि॒त्यᳶ प्रा॒णः ।
प्रा॒णम् ए॒वैना॒ननूत्सृ॑जति ।

मूलम्

अ॒सौ वा आ॑दि॒त्यᳶ प्रा॒णः ।
प्रा॒णम् ए॒वैना॒ननूत्सृ॑जति ।

भट्टभास्कर-टीका

7ततः किमित्याह - असौ वा इति ॥ योऽयमुत्तरस्यां दिशि वर्तते असावादित्यः स्वयमेव प्राणः । तस्मात् प्राणमेवानु एते उत्सृष्टा भवन्ति । गोळस्योपरि प्रदक्षिणं वर्तमान आदित्यो दक्षिणगोळवर्तिनां मनुष्याणां विपर्यस्तोपरिभागानामुत्तरो भवति । गोळाभिप्रायेणेदमुक्तम् ॥

मूलम् (संयुक्तम्)

दक्षि॒णा प॒र्याव॑र्तन्ते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒त्परा॑ञ्चᳶ प॒शवो॒ वि ति॑ष्ठन्ते प्र॒त्यञ्च॒ आ व॑र्तन्ते

विश्वास-प्रस्तुतिः

द॒क्षि॒णा प॒र्याव॑र्तन्ते ।
स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तन्ते ।
तस्मा॒द् दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रः ।
अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तन्ते ।
तस्मा॒त् परा॑ञ्चᳶ प॒शवो॒ वि ति॑ष्ठन्ते प्र॒त्यञ्च॒ आ व॑र्तन्ते ।

मूलम्

द॒क्षि॒णा प॒र्याव॑र्तन्ते ।
स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तन्ते ।
तस्मा॒द् दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रः ।
अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तन्ते ।
तस्मा॒त् परा॑ञ्चᳶ प॒शवो॒ वि ति॑ष्ठन्ते प्र॒त्यञ्च॒ आ व॑र्तन्ते ।

भट्टभास्कर-टीका

8दक्षिणा पर्यावर्तन्त इति ॥ उत्कृष्टाः ते प्रदक्षिणं परितः पुनरावर्तन्ते । व्याख्यातमिदम् । आदित्यस्येति । आदित्यो हि उदीचीं गत्वा पुनःपुनः पर्यावर्तते । तस्मादिति । परचीनगतयः पशवो वितिष्ठन्ते विश्लिष्यन्ति । प्राचीनगतास्तु आवर्तन्ते । ‘समवप्रविभ्यस्थः’ इत्यात्मनेपदम् । पराञ्च इत्यत्र ‘अनिगन्तोञ्चतावप्रत्यये’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

ति॒स्रस्ति॑स्र॒स्सीताः॑ [28]
कृ॒ष॒ति॒ त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तय॒त्य्

विश्वास-प्रस्तुतिः

ति॒स्रस् ति॑स्र॒स् सीताः॑ कृषति । [28]
त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तयति ।

मूलम्

ति॒स्रस् ति॑स्र॒स् सीताः॑ कृषति । [28]
त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तयति ।

भट्टभास्कर-टीका

9तिस्रस्तिस्र इति ॥ पुच्च्छादारभ्य प्रचीस्तिस्रस्तित्रः सीताः कृषतीति यावच्छिरोन्तं उत्तरायै श्रोणेर्दक्षिणमंसं अभितिस्रः दक्षिणा यै श्रोणेरुत्तरमंसं अभिदक्षिणात् पक्षात् उत्तरं पक्षमभि द्वादश सीताः कृषति । त्रिवृतमिति । द्वादशसु नवानां विद्यमानत्वात्, त्रित्वान्वयाच्च ॥

मूलम् (संयुक्तम्)

ओष॑धीर्वपति॒ ब्रह्म॒णान्न॒मव॑ रुन्द्धे॒ऽर्के॑ऽर्कश्ची॑यते चतुर्द॒शभि॑र्वपति स॒प्त ग्रा॒म्या ओष॑धयस्स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य वप॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै

विश्वास-प्रस्तुतिः

ओष॑धीर्वपति ।
ब्रह्म॒णान्न॒मव॑ रुन्धे ।
अर्के॑ऽर्कश् ची॑यते ।
च॒तु॒र्द॒शभि॑र्वपति ।
स॒प्त ग्रा॒म्या ओष॑धयस् स॒प्तार॒ण्याः ।
उ॒भयी॑षा॒मव॑रुद्ध्यै ।
अन्न॑स्यान्नस्य वपति ।
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।

मूलम्

ओष॑धीर्वपति ।
ब्रह्म॒णान्न॒मव॑ रुन्धे ।
अर्के॑ऽर्कश् ची॑यते ।
च॒तु॒र्द॒शभि॑र्वपति ।
स॒प्त ग्रा॒म्या ओष॑धयस् स॒प्तार॒ण्याः ।
उ॒भयी॑षा॒मव॑रुद्ध्यै ।
अन्न॑स्यान्नस्य वपति ।
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।

भट्टभास्कर-टीका

10ओषधीरिति ॥ औदुम्बरे द्रोणे सर्वौषधं दध्ना अन्येन समुदायुक्तं भवतीति । तत्सीतासु वपति - ब्रह्मणेति । परिबृढेन अनेन कर्मणा अन्नं लभते । अर्केऽर्क इति । अर्चनीये स्थाने अर्चनीयः अग्निश्चीयते । तत्मादोषधिवापेन स्थानस्यार्चनीयत्वं कृतं भवति । अर्च्यत इति अर्चतेः कर्मणि घञ् । ‘चजोः कुघिण्यतोः’ इति कुत्वम् । उञ्छादिर्द्रष्टव्यः । चतुर्दशभिरिति । ‘या जाता ओषधयः’ इत्यादिभिः ऋग्भिः । ‘झल्युपोत्तमम्’ इत्युपोत्तमस्योदात्तत्वम् । सप्तेति । तिलमाषव्रीहियवाः प्रियङ्ग्वणवो गोधूमाः सप्त ग्राम्या ओषधयः । श्यामाकाश्च नीवाराश्च जर्तिलाश्च गवीधुकाश्च हाळुकाश्च वेणुयवाश्च वास्त्यानि च सप्तारण्या ओषधयः । अन्नस्यान्नस्येति । सर्वान्नपानेन सर्वान्नलाभः । ‘अनुदात्तं च’ इति द्वितीयोऽन्नशब्दः उदात्तः । ‘क्रियाग्रहणं कर्तव्यम्’ इति संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ॥

मूलम् (संयुक्तम्)

कृ॒ष्टे व॑पति कृ॒ष्टे ह्योष॑धयᳶ प्रति॒तिष्ठ॑न्त्यनुसी॒तव्ँव॑पति॒ प्रजा॑त्यै द्वाद॒शसु॒ सीता॑सु वपति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रेणै॒वास्मा॒ अन्न॑म्पचति॒

विश्वास-प्रस्तुतिः

कृ॒ष्टे व॑पति
कृ॒ष्टे ह्योष॑धयᳶ प्रति॒तिष्ठ॑न्ति ।
अ॒नु॒सी॒तव्ँ व॑पति ।
प्रजा॑त्यै ।
द्वा॒द॒शसु॒ सीता॑सु वपति ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॑म् पचति ।

मूलम्

कृ॒ष्टे व॑पति
कृ॒ष्टे ह्योष॑धयᳶ प्रति॒तिष्ठ॑न्ति ।
अ॒नु॒सी॒तव्ँ व॑पति ।
प्रजा॑त्यै ।
द्वा॒द॒शसु॒ सीता॑सु वपति ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॑म् पचति ।

भट्टभास्कर-टीका

11कृष्ट इत्यादि ॥ गतम् । अनुसीतं वपति सीतानुकूल्येन तत्प्रजात्यै भवति । द्वादशस्विति । पुच्छादारभ्य अग्रे तिस्रः प्राचीः सीतासु वपति ‘या जाता ओषधयः’ इति तिसृभिः’, अथ उत्तरायै श्रोणेर्दक्षिणमंसं अभितिस्रः सीता वपति - ‘ओषधीरिति मातर इति’ तिसृभिः । अथ दक्षिणायै श्रोणेरुत्तरमंसं अभितिस्रः सीता वपति ‘यदोषधयः’ इति तिसृभिः । अथ दक्षिणात्पक्षादुत्तरमंसं अभितिस्रः सीता वपति ‘उच्छुष्माः’ इति पञ्चभिः । पूर्वववदुपोत्तमस्योदात्तत्वम् ॥

मूलम् (संयुक्तम्)

यद॑ग्नि॒चित् [29]
अन॑वरुद्धस्याश्ञी॒यादव॑रुद्धेन॒ व्यृ॑द्ध्येत॒ ये वन॒स्पती॑नाम्फल॒ग्रह॑य॒स्तानि॒ध्मेऽपि॒ प्रोक्षे॒दन॑वरुद्ध॒स्याव॑रुद्ध्यै

विश्वास-प्रस्तुतिः

यद॑ग्नि॒चिद् अन॑वरुद्धस्याश्ञी॒यादव॑रुद्धेन॒ व्यृ॑द्ध्येत । [29]
ये वन॒स्पती॑नाम् फल॒ग्रह॑य॒स् तानि॒ध्मेऽपि॒ प्रोक्षे॑त् ।
अन॑वरुद्ध॒स्याव॑रुद्ध्यै ।

मूलम्

यद॑ग्नि॒चिद् अन॑वरुद्धस्याश्ञी॒यादव॑रुद्धेन॒ व्यृ॑द्ध्येत । [29]
ये वन॒स्पती॑नाम् फल॒ग्रह॑य॒स् तानि॒ध्मेऽपि॒ प्रोक्षे॑त् ।
अन॑वरुद्ध॒स्याव॑रुद्ध्यै ।

भट्टभास्कर-टीका

12यदग्निचिदिति ॥ अवरुद्धं यागात्प्रागेव सात्कृतं नातोन्यदपरुद्धमस्य स्यात् । अपरोधव्यजीवी स्यात् । तस्मात्फलेग्रहीन्वनस्पतीनिध्मे उपनह्य प्रोक्षणेनानवरुद्धमपि सर्वमवरुद्धं भवति । अपिशब्द इवार्थे । ससाधनां क्रियां उपसर्ग आहेति उपनह्येति लभ्यते । ‘फलेग्रहिरात्मम्भरिश्च’ इतीन्प्रत्ययः । एकारस्तु पाठे नाद्रियते । वनस्पतिशब्दे सुट्स्वरावुक्तौ ‘गतिरनन्तरः’ ‘तादौ च’ इति उपशब्दस्य प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

दि॒ग्भ्यो लो॒ष्टान्त्सम॑स्यति दि॒शामे॒व वी॒र्य॑मव॒रुध्य॑ दि॒शाव्ँवी॒र्ये॑ऽग्निञ्चि॑नुते॒ यन्द्वि॒ष्याद्यत्र॒ स स्यात्तस्यै॑ दि॒शो लो॒ष्टमा ह॑रे॒दिष॒मूर्ज॑म॒हमि॒त आ द॑द॒ इतीष॑मे॒वोर्ज॒न्तस्यै॑ दि॒शोऽव॑ रुन्द्धे॒ क्षोधु॑को भवति॒ यस्तस्या॑न्दि॒शि भव॑त्युत्तरवे॒दिमुप॑ वपत्युत्तरवे॒द्याँ ह्य॑ग्निश्ची॒यतेऽथो॑ प॒शवो॒ वा उ॑त्तरवे॒दिᳶ प॒शूने॒वाव॑ रु॒न्द्धेऽथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै ॥ [30]

विश्वास-प्रस्तुतिः

दि॒ग्भ्यो लो॒ष्टान्त् सम॑स्यति
दि॒शामे॒व वी॒र्य॑मव॒रुध्य॑ दि॒शाव्ँ वी॒र्ये॑ऽग्निञ् चि॑नुते ।
यन् द्वि॒ष्याद् यत्र॒ स स्यात् तस्यै॑ दि॒शो लो॒ष्टमा ह॑रेत् ।
इष॒मूर्ज॑म॒हमि॒त आ द॑द॒ इतीष॑म् ए॒वोर्ज॒न् तस्यै॑ दि॒शोऽव॑ रुन्धे ।
क्षोधु॑को भवति॒ यस् तस्या॑न् दि॒शि भव॑ति ।
उ॒त्त॒र॒वेदिमुप॑ वपति ।
उ॒त्त॒र॒वे॒द्याँ ह्य॑ग्निश् ची॒यते॑ ।
अथो॑ प॒शवो॒ वा उ॑त्तरवे॒दिः ।
प॒शूने॒वाव॑ रु॒न्धे ।
अथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै ॥ [30]

मूलम्

दि॒ग्भ्यो लो॒ष्टान्त् सम॑स्यति
दि॒शामे॒व वी॒र्य॑मव॒रुध्य॑ दि॒शाव्ँ वी॒र्ये॑ऽग्निञ् चि॑नुते ।
यन् द्वि॒ष्याद् यत्र॒ स स्यात् तस्यै॑ दि॒शो लो॒ष्टमा ह॑रेत् ।
इष॒मूर्ज॑म॒हमि॒त आ द॑द॒ इतीष॑म् ए॒वोर्ज॒न् तस्यै॑ दि॒शोऽव॑ रुन्धे ।
क्षोधु॑को भवति॒ यस् तस्या॑न् दि॒शि भव॑ति ।
उ॒त्त॒र॒वेदिमुप॑ वपति ।
उ॒त्त॒र॒वे॒द्याँ ह्य॑ग्निश् ची॒यते॑ ।
अथो॑ प॒शवो॒ वा उ॑त्तरवे॒दिः ।
प॒शूने॒वाव॑ रु॒न्धे ।
अथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै ॥ [30]

भट्टभास्कर-टीका

13दिग्भ्य इति ॥ प्राङ्द्रुत्वा बहिर्लोष्टमादाय तमन्तश्शकटं न्यस्यति ॥

इति पञ्चमे द्वितीये पञ्चमोऽनुवाकः ॥