०४

मूलम् (संयुक्तम्)

वि वा ए॒तौ द्वि॑षाते॒ यश्च॑ पु॒राग्निर्यश्चो॒खायाँ॒ समि॑त॒मिति॑ चत॒सृभि॒स्सन्नि व॑पति

विश्वास-प्रस्तुतिः

वि वा ए॒तौ द्वि॑षाते॒ यश्च॑ पु॒राग्निर् यश्चो॒खाया॑म् ।
समि॑त॒म् इति॑ चत॒सृभि॒स् सन्नि व॑पति ।

मूलम्

वि वा ए॒तौ द्वि॑षाते॒ यश्च॑ पु॒राग्निर् यश्चो॒खाया॑म् ।
समि॑त॒म् इति॑ चत॒सृभि॒स् सन्नि व॑पति ।

भट्टभास्कर-टीका

1वि वा इत्यादि ॥ पुरातनो गार्हपत्याग्निः प्रतिसमेधीयः उख्योऽन्यः । एतौ सह न्युप्यमानौ द्विषाते । तस्मात् ‘समितं’ इति चतसृभिः संनिवपति । एतदुक्तं भवति - उख्यमध्वर्युरादत्ते । प्रतिसमेधनीयं प्रतिप्रस्थाता । तौ पुरस्तात् प्रत्यञ्चौ गार्हपत्यचितौ अग्नी संनिवपत इति ॥

मूलम् (संयुक्तम्)

च॒त्वारि॒ छन्दाँ॑सि॒ छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूᳶ प्रि॒ययै॒वैनौ॑ त॒नुवा॒ सँ शा॑स्ति॒ समि॑त॒मित्या॑ह॒ तस्मा॒द्ब्रह्म॑णा क्ष॒त्रँ समे॑ति॒ यत्स॒न्न्युप्य॑ वि॒हर॑ति॒ तस्मा॒द्ब्रह्म॑णा क्ष॒त्रव्व्ँये॑त्य्

विश्वास-प्रस्तुतिः

च॒त्वारि॒ छन्दाँ॑सि॒ ।
छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूः ।
प्रि॒ययै॒वैनौ॑ त॒नुवा॒ सँ शा॑स्ति ।
समि॑त॒म् इत्या॑ह ।
तस्मा॒द् ब्रह्म॑णा क्ष॒त्रँ समे॑ति ।
यत्स॒न्न्युप्य॑ वि॒हर॑ति ।
तस्मा॒द् ब्रह्म॑णा क्ष॒त्रव्ँ व्ये॑ति ।

मूलम्

च॒त्वारि॒ छन्दाँ॑सि॒ ।
छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूः ।
प्रि॒ययै॒वैनौ॑ त॒नुवा॒ सँ शा॑स्ति ।
समि॑त॒म् इत्या॑ह ।
तस्मा॒द् ब्रह्म॑णा क्ष॒त्रँ समे॑ति ।
यत्स॒न्न्युप्य॑ वि॒हर॑ति ।
तस्मा॒द् ब्रह्म॑णा क्ष॒त्रव्ँ व्ये॑ति ।

भट्टभास्कर-टीका

2चत्वारीत्यीदि ॥ गतम् । तस्मादिति । अग्न्योः सुसङ्गतत्वेन ब्रह्मक्षत्रयोः सुसङ्गतत्वम् । व्येतीति । संन्युप्य सह न्युप्य विहरणात् ब्रह्माधीनप्रकाशं पृथक्त्वेन स्थितं क्षत्रमिति ॥

मूलम् (संयुक्तम्)

ऋ॒तुभिः॑ [21]
वा ए॒तन्दी॑क्षयन्ति॒ स ऋ॒तुभि॑रे॒व वि॒मुच्यो॑ मा॒तेव॑ पु॒त्रम्पृ॑थि॒वी पु॑री॒ष्य॑मित्या॑ह॒र्तुभि॑रे॒वैन॑न्दीक्षयि॒त्वर्तुभि॒र्वि मु॑ञ्चति वैश्वान॒र्या शि॒क्य॑मा द॑त्ते स्व॒दय॑त्ये॒वैन॑न्

विश्वास-प्रस्तुतिः

ऋ॒तुभि॒र् वा ए॒तन् दी॑क्षयन्ति । [21]
स ऋ॒तुभि॑रे॒व वि॒मुच्यः॑ ।
मा॒तेव॑ पु॒त्रम् पृ॑थि॒वी पु॑री॒ष्य॑म् इत्या॑ह ।
ऋ॒तुभि॑रे॒वैन॑न् दीक्षयि॒त्वर्तुभि॒र् वि मु॑ञ्चति ।
वै॒श्वा॒न॒र्याशि॒क्य॑मा द॑त्ते ।
स्व॒दय॑त्य् ए॒वैन॑त् ।

मूलम्

ऋ॒तुभि॒र् वा ए॒तन् दी॑क्षयन्ति । [21]
स ऋ॒तुभि॑रे॒व वि॒मुच्यः॑ ।
मा॒तेव॑ पु॒त्रम् पृ॑थि॒वी पु॑री॒ष्य॑म् इत्या॑ह ।
ऋ॒तुभि॑रे॒वैन॑न् दीक्षयि॒त्वर्तुभि॒र् वि मु॑ञ्चति ।
वै॒श्वा॒न॒र्याशि॒क्य॑मा द॑त्ते ।
स्व॒दय॑त्य् ए॒वैन॑त् ।

भट्टभास्कर-टीका

3ऋतुभिर्वा इत्यादि ॥ यथोक्तं ‘षड्भिर्दीक्षयति’ इत्यादि । स इदानीं ऋतुभिरेव विमुच्यः विमोक्तव्यः । छान्दसः क्विप् । तस्मात् ‘मातेव पुत्रं’ इति शिक्यात् उखां निरूहति । अग्नियजमानयोरभेद उपचर्यते । ऋतुभिरेव कृतदीक्षस्य ऋतुभिरेव विमोकः कृतो भवति ‘ऋतुभिः सविदानः’ इति दर्शनात् । संवेदनमैकमत्यम् । स्वदयत्येवेति । वैश्वानरसम्बन्धात् स्वाद्वेव करोत्येनच्छिक्यं यजमानस्य ॥

मूलम् (संयुक्तम्)

नैर्ऋ॒तीᳵ कृ॒ष्णास्ति॒स्रस्तुष॑पक्वा भवन्ति॒ निर्ऋ॑त्यै॒ वा ए॒तद्भा॑ग॒धेयय्ँ॒यत्तुषा॒ निर्ऋ॑त्यै रू॒पङ्कृ॒ष्णँ रू॒पेणै॒व निर्ऋ॑तिन्नि॒रव॑दयत

विश्वास-प्रस्तुतिः

नै॒र्ऋ॒तीᳵ कृ॒ष्णास् ति॒स्रस् तुष॑पक्वा भवन्ति ।
निर्ऋ॑त्यै॒ वा ए॒तद् भा॑ग॒धेयय्ँ॒ यत् तुषा॒ निर्ऋ॑त्यै रू॒पङ्कृ॒ष्णम् ।
रू॒पेणै॒व निर्ऋ॑तिन् नि॒रव॑दयते ।

मूलम्

नै॒र्ऋ॒तीᳵ कृ॒ष्णास् ति॒स्रस् तुष॑पक्वा भवन्ति ।
निर्ऋ॑त्यै॒ वा ए॒तद् भा॑ग॒धेयय्ँ॒ यत् तुषा॒ निर्ऋ॑त्यै रू॒पङ्कृ॒ष्णम् ।
रू॒पेणै॒व निर्ऋ॑तिन् नि॒रव॑दयते ।

भट्टभास्कर-टीका

4नैरृतीरित्यादि ॥ नैरृत्यः । पूर्ववत्पूर्वसवर्णदीर्घत्वम् । तिस्र इति । ‘तिसृभ्यो जसः’ इति उदात्तत्वम् । तुषैः पक्वाः तुषपक्वाः । तृतीयायाः पूर्वपदप्रकृतिस्वरत्वम् । निरृत्या इति षष्ठ्यर्थे चतुर्थी । निरवदयत इति । निपूर्वात्सा(?) निस्सारयति । रूपेणेति । रूपानुसारेण गच्छति ॥

मूलम् (संयुक्तम्)

इ॒मान्दिशय्ँ॑यन्त्ये॒षा [22]
वै निर्ऋ॑त्यै॒ दिक्स्वाया॑मे॒व दि॒शि निर्ऋ॑तिन्नि॒रव॑दयते॒

विश्वास-प्रस्तुतिः

इ॒मान् दिशय्ँ॑ यन्ति ।
ए॒षा वै निर्ऋ॑त्यै॒ दिक् । [22]
स्वाया॑मे॒व दि॒शि निर्ऋ॑तिन् नि॒रव॑दयते ।

मूलम्

इ॒मान् दिशय्ँ॑ यन्ति ।
ए॒षा वै निर्ऋ॑त्यै॒ दिक् । [22]
स्वाया॑मे॒व दि॒शि निर्ऋ॑तिन् नि॒रव॑दयते ।

भट्टभास्कर-टीका

5इमामिति ॥ दक्षिणापरामङ्गुल्या निर्दिशति । एषा वा इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

स्वकृ॑त॒ इरि॑ण॒ उप॑ दधाति प्रद॒रे वै॒तद्वै निर्ऋ॑त्या आ॒यत॑नँ॒ स्व ए॒वायत॑ने॒ निर्ऋ॑तिन्नि॒रव॑दयते

विश्वास-प्रस्तुतिः

स्वकृ॑त॒ इरि॑ण॒ उप॑ दधाति प्रद॒रे वा॑ ।
ए॒तद्वै निर्ऋ॑त्या आ॒यत॑नम् ।
स्व ए॒वायत॑ने॒ निर्ऋ॑तिन् नि॒रव॑दयते ।

मूलम्

स्वकृ॑त॒ इरि॑ण॒ उप॑ दधाति प्रद॒रे वा॑ ।
ए॒तद्वै निर्ऋ॑त्या आ॒यत॑नम् ।
स्व ए॒वायत॑ने॒ निर्ऋ॑तिन् नि॒रव॑दयते ।

भट्टभास्कर-टीका

6स्वकृत इरिण इति ॥ नैसर्गिकमूषरम् । प्रदरो भूमिबिलम् । तत्र तास्तिस्र इष्टका उपदधाति ॥

मूलम् (संयुक्तम्)

शि॒क्य॑म॒भ्युप॑ दधाति नैर्ऋ॒तो वै पाश॑स्सा॒क्षादे॒वैन॑न्निर्ऋतिपा॒शान्मु॑ञ्चति ति॒स्र उप॑ दधाति त्रेधाविहि॒तो वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मा॒न्निर्ऋ॑ति॒मव॑ यजते॒

विश्वास-प्रस्तुतिः

शि॒क्य॑म॒भ्युप॑ दधाति ।
नै॒र्ऋ॒तो वै पाशः॑ ।
सा॒क्षाद् ए॒वैन॑न् निर्ऋतिपा॒शान् मु॑ञ्चति ।
ति॒स्र उप॑ दधाति ।
त्रे॒धा॒वि॒हि॒तो वै पुरु॑षः ।
यावा॑ने॒व पुरु॑ष॒स् तस्मा॒न् निर्ऋ॑ति॒मव॑ यजते ।

मूलम्

शि॒क्य॑म॒भ्युप॑ दधाति ।
नै॒र्ऋ॒तो वै पाशः॑ ।
सा॒क्षाद् ए॒वैन॑न् निर्ऋतिपा॒शान् मु॑ञ्चति ।
ति॒स्र उप॑ दधाति ।
त्रे॒धा॒वि॒हि॒तो वै पुरु॑षः ।
यावा॑ने॒व पुरु॑ष॒स् तस्मा॒न् निर्ऋ॑ति॒मव॑ यजते ।

भट्टभास्कर-टीका

7शिक्यमिति ॥ शिक्यसमीपे पराचीरुपदधाति ‘नमस्सुते निरृते’ इति तिसृभिः । तिस्र इति स्रादेशोन्तोदात्त इष्यते । ‘उदात्तयणः’ इति शस उदात्तत्वम् । त्रेधेति । त्रिभिः देहभागैः ऊर्ध्वाधोमध्यभागैः ॥

मूलम् (संयुक्तम्)

परा॑ची॒रुप॑ [23]
द॒धा॒ति॒ परा॑चीमे॒वास्मा॒न्निर्ऋ॑ति॒म्प्र णु॑द॒तेऽप्र॑तीक्ष॒मा य॑न्ति॒ निर्ऋ॑त्या अ॒न्तर्हि॑त्यै

विश्वास-प्रस्तुतिः

परा॑ची॒रुप॑ दधाति ।[23]
परा॑चीम् ए॒वास्मा॒न् निर्ऋ॑ति॒म् प्र णु॑दते । अप्र॑तीक्ष॒मा य॑न्ति ।
निर्ऋ॑त्या अ॒न्तर्हि॑त्यै ।

मूलम्

परा॑ची॒रुप॑ दधाति ।[23]
परा॑चीम् ए॒वास्मा॒न् निर्ऋ॑ति॒म् प्र णु॑दते । अप्र॑तीक्ष॒मा य॑न्ति ।
निर्ऋ॑त्या अ॒न्तर्हि॑त्यै ।

भट्टभास्कर-टीका

8पराचीरिति ॥ प्रत्यग्र इति । पराचीमिति । अपुनरावृत्ताम् । अप्रतीक्षमिति । पृष्ठतः प्रतिनिवृत्तां रक्षणमकुर्वन्तः आगच्छन्ति । आभीक्ष्ण्ये णमुल् । अन्तर्हीत्या इति । “अन्तरपरिग्रह’ इति गतित्वात् ‘तादौ च’ इति गतेः प्रकृतिस्वत्वम् ॥

मूलम् (संयुक्तम्)

मार्जयि॒त्वोप॑ तिष्ठन्ते मेध्य॒त्वाय॒ गार्ह॑पत्य॒मुप॑ तिष्ठन्ते निर्ऋतिलो॒क ए॒व च॑रि॒त्वा पू॒ता दे॑वलो॒कमु॒पाव॑र्तन्त॒ एक॒योप॑ तिष्ठन्त एक॒धैव यज॑माने वी॒र्य॑न्दधति नि॒वेश॑नस्स॒ङ्गम॑नो॒ वसू॑ना॒मित्या॑ह प्र॒जा वै प॒शवो॒ वसु॑ प्र॒जयै॒वैन॑म्प॒शुभि॒स्सम॑र्धयन्ति ॥ [24]

विश्वास-प्रस्तुतिः

मा॒र्ज॒यि॒त्वोप॑ तिष्ठन्ते
मे॒ध्य॒त्वाय॑ ।
गार्ह॑पत्य॒मुप॑ तिष्ठन्ते
नि॒र्ऋ॒ति॒लो॒क ए॒व च॑रि॒त्वा पू॒ता दे॑वलो॒कम् उ॒पाव॑र्तन्त ।
एक॒योप॑ तिष्ठन्ते ।
ए॒क॒धैव यज॑माने वी॒र्य॑न् दधति ।
नि॒वेश॑नस् स॒ङ्गम॑नो॒ वसू॑ना॒म् इत्या॑ह ।
प्र॒जा वै प॒शवो॒ वसु॑ ।
प्र॒जयै॒वैन॑म् प॒शुभि॒स् सम॑र्धयन्ति ॥ [24]

मूलम्

मा॒र्ज॒यि॒त्वोप॑ तिष्ठन्ते
मे॒ध्य॒त्वाय॑ ।
गार्ह॑पत्य॒मुप॑ तिष्ठन्ते
नि॒र्ऋ॒ति॒लो॒क ए॒व च॑रि॒त्वा पू॒ता दे॑वलो॒कम् उ॒पाव॑र्तन्त ।
एक॒योप॑ तिष्ठन्ते ।
ए॒क॒धैव यज॑माने वी॒र्य॑न् दधति ।
नि॒वेश॑नस् स॒ङ्गम॑नो॒ वसू॑ना॒म् इत्या॑ह ।
प्र॒जा वै प॒शवो॒ वसु॑ ।
प्र॒जयै॒वैन॑म् प॒शुभि॒स् सम॑र्धयन्ति ॥ [24]

भट्टभास्कर-टीका

9मार्जयित्वोप तिष्ठन्ते इति ॥ ‘असुन्वन्तं’ इति द्वाभ्यां निर्ऋतिमुपतिष्ठते । गार्हपत्यमिति । ‘निवेशनः’ इत्येतया । निर्ऋतिलोक एवेत्यादि । गतम् ॥

इति पञ्चमे द्वितीये चतुर्थोनुवाकः ॥