मूलम् (संयुक्तम्)
याव॑ती॒ वै पृ॑थि॒वी तस्यै॑ य॒म आधि॑पत्य॒म्परी॑याय॒ यो वै य॒मन्दे॑व॒यज॑नम॒स्या अनि॑र्याच्या॒ग्निञ्चि॑नु॒ते य॒मायै॑नँ॒ स चि॑नु॒तेऽपे॒तेत्य॒ध्यव॑साययति य॒ममे॒व दे॑व॒यज॑नम॒स्यै नि॒र्याच्या॒त्मने॒ऽग्निञ्चि॑नुत
विश्वास-प्रस्तुतिः
याव॑ती॒ वै पृ॑थि॒वी - तस्यै॑ य॒म आधि॑पत्य॒म् परी॑याय ।
यो वै य॒मन् दे॑व॒-यज॑नम् अ॒स्या +++(पृथिव्याः)+++ अनि॑र्याच्या॒ग्निञ् चि॑नु॒ते ,
य॒मायै॑नँ॒ स चि॑नुते ।
अपे॒तेत्य् अ॒ध्यव॑साययति ।
य॒मम् ए॒व दे॑व॒यज॑नम् अ॒स्यै नि॒र्याच्या॒त्मने॒ ऽग्निञ् चि॑नुते ।
मानसतरङ्गिणीकृत्
Whatever is the circumference of the earth Yama has the lordship over that.
Indeed, he who piles the fire-altar without beseeching Yama for this (a piece of earth) for the sacrifice to the gods
indeed piles this [altar] for Yama.
Having beseeched Yama with the [incantation] “Go from here…”,
for a part of this [earth], he determines the [ritual site] and piles an altar for himself to sacrifice to the gods.
मानसतरङ्गिणीकृत् - टिप्पनी
One who meditates on it may attain a philosophical realization. In the RV we have a funerary incantation to yama & the manes which goes by this pratIka.
While the brAhmaNa mentions the piling of the fire altar, the same incantation is also used to establish the most basic altar: the gArhapatya or the household fire.
मूलम्
याव॑ती॒ वै पृ॑थि॒वी तस्यै॑ य॒म आधि॑पत्य॒म् परी॑याय ।
यो वै य॒मन्दे॑व॒यज॑नम् अ॒स्या अनि॑र्याच्या॒ग्निञ् चि॑नु॒ते , य॒मायै॑नँ॒ स चि॑नुते ।
अपे॒तेत्य॒ध्यव॑साययति ।
य॒ममे॒व दे॑व॒यज॑नम॒स्यै नि॒र्याच्या॒त्मने॒ ऽग्निञ् चि॑नुते ।
भट्टभास्कर-टीका
1यावती वा इत्यादि ॥ ‘अपेत वीत’ इति देवयजनाध्यवसानमन्त्रः । यममिति । ‘अकथितं च’ इति कर्मत्वम् ॥
मूलम् (संयुक्तम्)
इष्व॒ग्रेण॒ वा अ॒स्या अना॑मृतमि॒च्छन्तो॒ नावि॑न्द॒न्ते दे॒वा ए॒तद्यजु॑रपश्य॒न्नपे॒तेति॒ यदे॒तेना॑ध्यवसा॒यय॑ति [14]
अना॑मृत ए॒वाग्निञ्चि॑नुत॒
विश्वास-प्रस्तुतिः
इष्व्-अ॒ग्रेण॒ वा अ॒स्या +++(पृथिव्या)+++ अना॑मृतम् इ॒च्छन्तो॒ नावि॑न्दन् ।
ते दे॒वा ए॒तद् यजु॑र् अपश्यन् ।
अपे॒तेति॒ यद् ए॒तेना॑ध्यवसा॒यय॒त्य्
अना॑मृत ए॒वाग्निञ् चि॑नुते । [14]
मानसतरङ्गिणीकृत्
[ In spite of] desiring so, they could not find even as much as an arrow-tip of this [earth] without death. [Thus] the gods saw this Yajus, ‘Go from here’. If he determines [the ritual site] with this [Yajus], he indeed piles the fire-altar free from death.
मूलम्
इष्व॒ग्रेण॒ वा अ॒स्या अना॑मृतमि॒च्छन्तो॒ नावि॑न्दन् ।
ते दे॒वा ए॒तद् यजु॑रपश्यन् ।
अपे॒तेति॒
यदे॒तेना॑ध्यवसा॒यय॒त्य् अना॑मृत ए॒वाग्निञ् चि॑नुते । [14]
भट्टभास्कर-टीका
2इष्वग्रेणेति ॥ इष्वग्रमात्रया अस्याः सम्बन्धिनं एकदेशं अनामृतं अमृतैरपि रहितमिच्छन्तः अन्विच्छन्तोऽपि नाविन्दन् नालभन्त । अनामृत एवेति । प्रेतानामृतप [मृतादप] सारितत्वात् ॥
मूलम् (संयुक्तम्)
उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यन्तदप॑ हन्त्य॒पोऽवो॑क्षति॒ शान्त्यै॒ सिक॑ता॒ नि व॑पत्ये॒तद्वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पँ रू॒पेणै॒व वै॑श्वान॒रमव॑ रुन्द्ध॒ ऊषा॒न्नि व॑पति॒ पुष्टि॒र्वा ए॒षा प्र॒जन॑नय्ँ॒यदूषा॒ᳶ पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निञ्चि॑नु॒तेऽथो॑ सं॒ज्ञान॑ ए॒व सं॒ज्ञानँ॒ ह्ये॑तत् [15]
प॒शू॒नाय्ँयदूषा॒
विश्वास-प्रस्तुतिः
उद्ध॑न्ति॒
यदे॒वास्या॑ अमे॒ध्यन् तदप॑ हन्ति ।
अ॒पोऽवो॑क्षति । शान्त्यै॑ ।
सिक॑ता॒ नि व॑पति ।
ए॒तद् वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पम् ।
रू॒पेणै॒व वै॑श्वान॒रमव॑ रुन्धे ।
ऊषा॒न्नि व॑पति । पुष्टि॒र्वा ए॒षा प्र॒जन॑नय्ँ॒ यदूषाः॑ ।
पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निञ्चि॑नुते ।
अथो॑ सं॒ज्ञान॑ ए॒व ।
सं॒ज्ञानँ॒ ह्ये॑तत् प॒शू॒नाय्ँ यदूषाः॑ । [15]
मूलम्
उद्ध॑न्ति॒
यदे॒वास्या॑ अमे॒ध्यन् तदप॑ हन्ति ।
अ॒पोऽवो॑क्षति । शान्त्यै॑ ।
सिक॑ता॒ नि व॑पति ।
ए॒तद् वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पम् ।
रू॒पेणै॒व वै॑श्वान॒रमव॑ रुन्धे ।
ऊषा॒न्नि व॑पति । पुष्टि॒र्वा ए॒षा प्र॒जन॑नय्ँ॒ यदूषाः॑ ।
पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निञ्चि॑नुते ।
अथो॑ सं॒ज्ञान॑ ए॒व ।
सं॒ज्ञानँ॒ ह्ये॑तत् प॒शू॒नाय्ँ यदूषाः॑ । [15]
भट्टभास्कर-टीका
3उद्धन्तीत्यादि ॥ गतम् । सिकतादयः सम्भारा गार्हपत्यायतने निवप्तव्याः । पुष्टिर्वा इत्यादि । पुष्टिहेतवः प्रजननहेतवश्चोषाः, तादृशे प्रदेशे अग्निश्चितो भवति तेषां निवपनेन । अथो अपिच । संज्ञान एवेति । अग्निं चिनुत इत्येव । सम्यक् ज्ञायन्ते पशवो यैः तादृशा ऊषाः ॥
मूलम् (संयुक्तम्)
द्यावा॑पृथि॒वी स॒हास्ता॒न्ते वि॑य॒ती अ॑ब्रूता॒मस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॒ यद॒मुष्या॑ य॒ज्ञिय॒मासी॒त्तद॒स्याम॑दधा॒त्त ऊषा॑ अभव॒न्यद॒स्या य॒ज्ञिय॒मासी॒त्तद॒मुष्या॑मदधा॒त्तद॒दश्च॒न्द्रम॑सि कृ॒ष्णमूषा॑न्नि॒वप॑न्न॒दो ध्या॑ये॒द्द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निञ्चि॑नुते॒
विश्वास-प्रस्तुतिः
द्यावा॑पृथि॒वी स॒हास्ताम् ।
ते वि॑य॒ती अ॑ब्रूता॒म् ।
अस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒म् इति॑ ।
यद॒मुष्या॑ य॒ज्ञिय॒मासी॒त् तद॒स्याम् अ॑दधा॒त् , त ऊषा॑ अभवन् ।
यद॒स्या य॒ज्ञिय॒मासी॒त् तद॒मुष्या॑मदधा॒त् तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम् ।
ऊषा॑न्नि॒वप॑न्न॒दो ध्या॑ये॒द् द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ ऽग्निञ् चि॑नुते ।
मूलम्
द्यावा॑पृथि॒वी स॒हास्ताम् ।
ते वि॑य॒ती अ॑ब्रूता॒म् ।
अस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒म् इति॑ ।
यद॒मुष्या॑ य॒ज्ञिय॒मासी॒त् तद॒स्याम् अ॑दधा॒त् , त ऊषा॑ अभवन् ।
यद॒स्या य॒ज्ञिय॒मासी॒त् तद॒मुष्या॑मदधा॒त् तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम् ।
ऊषा॑न्नि॒वप॑न्न॒दो ध्या॑ये॒द् द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ ऽग्निञ् चि॑नुते ।
भट्टभास्कर-टीका
4द्यावापृथिवी इत्यादि ॥ वियती वियत्यौ विगच्छन्त्यौ । ‘वा छन्दसि’ इति पूर्वसवर्ण्दीर्घत्वम् । ‘शतुरनुमः’ इति नद्या उदात्तत्वम् । ‘देवताद्वन्द्वे च’ इति द्यावापृथिवीशब्द आद्युदात्तः । अस्त्वेवेति । नौ आवयोः यद्यज्ञियं यज्ञार्हं रूपं तत्सहैवास्त्विति विश्लेषारम्भे अब्रूताम् । यदित्यादि । गतम् । अदो ध्यायेदिति । यददः चन्द्रमसि कृष्णं तदिहास्त्विति ॥
मूलम् (संयुक्तम्)
ऽयँ सो अ॒ग्निरिति॑ वि॒श्वामि॑त्रस्य [16]
सू॒क्तम्भ॑वत्ये॒तेन॒ वै वि॒श्वामि॑त्रो॒ऽग्नेᳶ प्रि॒यन्धामावा॑रुन्द्धा॒ग्नेरे॒वैतेन॑ प्रि॒यन्धामाव॑ रुन्द्धे॒ छन्दो॑भि॒र्वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒ञ्चत॑स्र॒ᳶ प्राची॒रुप॑ दधाति च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिरे॒व तद्यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति॒
विश्वास-प्रस्तुतिः
अ॒यँ सो अ॒ग्निरिति॑ वि॒श्वामि॑त्रस्य सू॒क्तम् भ॑वति । [16]
ए॒तेन॒ वै वि॒श्वामि॑त्रो॒ ऽग्नेᳶ प्रि॒यन्धामावा॑रुन्ध ।
अ॒ग्नेर् ए॒वैतेन॑ प्रि॒यन्धामाव॑ रुन्धे ।
छन्दो॑भि॒र् वै दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
चत॑स्र॒ᳶ प्राची॒रुप॑ दधाति ।
च॒त्वारि॒ छन्दाँ॑सि ।
छन्दो॑भिरे॒व तद् यज॑मानस् सुव॒र्गल्ँ लो॒कम् ए॑ति ।
मूलम्
अ॒यँ सो अ॒ग्निरिति॑ वि॒श्वामि॑त्रस्य सू॒क्तम् भ॑वति । [16]
ए॒तेन॒ वै वि॒श्वामि॑त्रो॒ ऽग्नेᳶ प्रि॒यन्धामावा॑रुन्ध ।
अ॒ग्नेर् ए॒वैतेन॑ प्रि॒यन्धामाव॑ रुन्धे ।
छन्दो॑भि॒र् वै दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
चत॑स्र॒ᳶ प्राची॒रुप॑ दधाति ।
च॒त्वारि॒ छन्दाँ॑सि ।
छन्दो॑भिरे॒व तद् यज॑मानस् सुव॒र्गल्ँ लो॒कम् ए॑ति ।
भट्टभास्कर-टीका
5अयं स इत्यादि ॥ एतद्विश्वामित्रस्य सूक्तं षडृचम् । आद्याभिः चतसृभिः गार्हपत्यचितौ चतस्रः प्राचीर्याः पुनरिष्टकाः प्रतिमन्त्रमुपदधाति । ‘मित्रे चर्षौ’ इति पूर्वपदस्य दीर्घत्वम् । अन्तोदात्तत्वं च । चतुस्सङ्ख्यान्वयाच्छन्दोलाभः ॥
मूलम् (संयुक्तम्)
तेषाँ॑ सुव॒र्गल्ँ लो॒कय्ँय॒तान्दिश॒स्सम॑व्लीयन्त॒ ते द्वे पु॒रस्ता॑त्स॒मीची॒ उपा॑दधत॒ द्वे [17]
प॒श्चात्स॒मीची॒ ताभि॒र्वै ते दिशो॑ऽदृँह॒न्यद्द्वे पु॒रस्ता॑त्स॒मीची॑ उप॒दधा॑ति॒ द्वे प॒श्चात्स॒मीची॑ दि॒शाव्ँविधृ॑त्या॒ अथो॑ प॒शवो॒ वै छन्दाँ॑सि पशूने॒वास्मै॑ स॒मीचो॑ दधात्य
विश्वास-प्रस्तुतिः
तेषाँ॑ सुव॒र्गल्ँ लो॒कय्ँ य॒तान्दिश॒स् सम॑व्लीयन्त ।
ते द्वे पु॒रस्ता॑त् स॒मीची॒ उपा॑दधत॒ , द्वे प॒श्चात् स॒मीची॑ । [17]
ताभि॒र् वै ते दिशो॑ऽदृँहन् ।
यद् द्वे पु॒रस्ता॑त् स॒मीची॑ उप॒दधा॑ति॒ द्वे प॒श्चात् स॒मीची॑ ।
दि॒शाव्ँ विधृ॑त्यै ।
अथो॑ प॒शवो॒ वै छन्दाँ॑सि ।
पशूने॒वास्मै॑ स॒मीचो॑ दधाति ।
मूलम्
तेषाँ॑ सुव॒र्गल्ँ लो॒कय्ँ य॒तान्दिश॒स् सम॑व्लीयन्त ।
ते द्वे पु॒रस्ता॑त् स॒मीची॒ उपा॑दधत॒ , द्वे प॒श्चात् स॒मीची॑ । [17]
ताभि॒र् वै ते दिशो॑ऽदृँहन् ।
यद् द्वे पु॒रस्ता॑त् स॒मीची॑ उप॒दधा॑ति॒ द्वे प॒श्चात् स॒मीची॑ ।
दि॒शाव्ँ विधृ॑त्यै ।
अथो॑ प॒शवो॒ वै छन्दाँ॑सि ।
पशूने॒वास्मै॑ स॒मीचो॑ दधाति ।
भट्टभास्कर-टीका
6तेषामिति ॥ देवानां यतां गच्छताम् । ‘शतुरनुमः’ इति विभक्तेरुदात्तत्त्वम् । समव्लीयन्त, व्ली विशरणे । त इति । देवाः पुरस्तात् पूर्वस्यां दिशि द्वे इष्टके सङ्गते दक्षिणामुत्तरां चोपादधत ‘चिदसि, परिचिदसि’ इत्याभ्याम् । ताभिः इष्टकाभिः । अथो अपि च । चतुस्सङ्ख्यान्वयात् पश्चात्तु [पशुसाधन] छन्दोलाभः ॥
मूलम् (संयुक्तम्)
अ॒ष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्यावा॑ने॒वाग्निस्तञ्चि॑नुते॒ऽष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री सु॑व॒र्गल्ँ लो॒कमञ्ज॑सा वेद सुव॒र्गस्य॑ लो॒कस्य॑ [18]
प्रज्ञा॑त्यै॒
विश्वास-प्रस्तुतिः
अ॒ष्टावुप॑ दधाति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रो॑ऽग्निः यावा॑ने॒वाग्निस् तञ्चि॑नुते ।
अ॒ष्टावुप॑ दधाति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्री सु॑व॒र्गल्ँ लो॒कमञ्ज॑सा वेद ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै । [18]
मूलम्
अ॒ष्टावुप॑ दधाति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रो॑ऽग्निः यावा॑ने॒वाग्निस् तञ्चि॑नुते ।
अ॒ष्टावुप॑ दधाति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्री सु॑व॒र्गल्ँ लो॒कमञ्ज॑सा वेद ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै । [18]
भट्टभास्कर-टीका
7अष्टावित्यादि ॥ गतम् । अञ्जसेति । ऋजुना मार्गेण ॥
मूलम् (संयुक्तम्)
त्रयो॑दश लोकम्पृ॒णा उप॑ दधा॒त्येक॑विँशति॒स्सम्प॑द्यन्ते प्रति॒ष्ठा वा ए॑कविँ॒शᳶ प्र॑ति॒ष्ठा गार्ह॑पत्य एकविँ॒शस्यै॒व प्र॑ति॒ष्ठाङ्गार्ह॑पत्य॒मनु॒ प्रति॑ तिष्ठति॒ प्रत्य॒ग्निञ्चि॑क्या॒नस्ति॑ष्ठति॒ य ए॒वव्ँ वेद॒
विश्वास-प्रस्तुतिः
त्रयो॑दश लोकम्पृ॒णा उप॑ दधाति ।
एक॑विँशति॒स् सम्प॑द्यन्ते ।
प्र॒ति॒ष्ठा वा ए॑कविँ॒शᳶ , प्र॑ति॒ष्ठा गार्ह॑पत्य ।
ए॒क॒विँ॒शस्यै॒व प्र॑ति॒ष्ठाङ् गार्ह॑पत्य॒म् अनु॒ प्रति॑ तिष्ठति ।
प्रत्य॒ग्निञ् चि॑क्या॒नस् ति॑ष्ठति॒ य ए॒वव्ँ वेद॑ ।
मूलम्
त्रयो॑दश लोकम्पृ॒णा उप॑ दधाति ।
एक॑विँशति॒स् सम्प॑द्यन्ते ।
प्र॒ति॒ष्ठा वा ए॑कविँ॒शᳶ , प्र॑ति॒ष्ठा गार्ह॑पत्य ।
ए॒क॒विँ॒शस्यै॒व प्र॑ति॒ष्ठाङ् गार्ह॑पत्य॒म् अनु॒ प्रति॑ तिष्ठति ।
प्रत्य॒ग्निञ् चि॑क्या॒नस् ति॑ष्ठति॒ य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
8त्रयोदशेति ॥ इमावष्टौ एका चितिः । त्रयोदशभिः लोकंपृणाभिः प्रदक्षिणं चिनोति ‘लोकं पृण’ इत्यनया । लोकं स्थानं अन्याभिः अनाक्रान्तमवकाशं पृणति पूरयतीति लोकंपृणा । इगुपधलक्षणः कः । छान्दसो द्वितीयाया अलुक् । ‘लोकस्य पृणे मुम्वक्तव्यः’ इति मुम् । त्रयश्च दश च त्रयोदश । ‘सङ्ख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । एकविंशतिरिति । प्रतिष्ठेति । तद्धेतुत्वात्ताच्छब्द्यम् । एकविंशस्य प्रतिष्ठां गार्हपत्यं च अनुप्रतिष्ठितो भवति । एवं वेदिता अग्निं चितवान् प्रतिष्ठितो भवति । ‘विभाषा चेः’ इति लिटि कुत्वम् ॥
मूलम् (संयुक्तम्)
पञ्च॑चितीकञ्चिन्वीत प्रथ॒मञ्चि॑न्वा॒नᳶ पाङ्क्तो॑ य॒ज्ञᳶ पाङ्क्ताः॑ प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुन्द्धे॒ त्रिचि॑तीकञ्चिन्वीत द्वि॒तीय॑ञ्चिन्वा॒नस्त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॑ [19]
प्रति॑ तिष्ठ॒त्येक॑चितीकञ्चिन्वीत तृ॒तीय॑ञ्चिन्वा॒न ए॑क॒धा वै सु॑व॒र्गो लो॒क ए॑क॒वृतै॒व सु॑व॒र्गल्ँ लो॒कमे॑ति॒ पुरी॑षेणा॒भ्यू॑हति॒ तस्मा॑न्माँ॒सेनास्थि॑ छ॒न्नन्न दु॒श्चर्मा॑ भवति॒ य ए॒वव्ँ वेद॒
विश्वास-प्रस्तुतिः
पञ्च॑चितीकञ् चिन्वीत प्रथ॒मञ् चि॑न्वा॒नः ।
पाङ्क्तो॑ य॒ज्ञᳶ । पाङ्क्ताः॑ प॒शवः॑ ।
य॒ज्ञमे॒व प॒शूनव॑ रुन्धे ।
त्रिचि॑तीकञ् चिन्वीत द्वि॒तीय॑ञ् चिन्वा॒नः ।
त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॑ प्रति॑ तिष्ठति ।[19]
एक॑चितीकञ् चिन्वीत तृ॒तीय॑ञ् चिन्वा॒नः ।
ए॒क॒धा वै सु॑व॒र्गो लो॒क ।
ए॒क॒वृतै॒व सु॑व॒र्गल्ँ लो॒कम् ए॑ति ।
पुरी॑षेणा॒भ्यू॑हति ।
तस्मा॑न् माँ॒सेनास्थि॑ छ॒न्नम् ।
न दु॒श्चर्मा॑ भवति॒ य ए॒वव्ँ वेद॑ ।
मूलम्
पञ्च॑चितीकञ् चिन्वीत प्रथ॒मञ् चि॑न्वा॒नः ।
पाङ्क्तो॑ य॒ज्ञᳶ । पाङ्क्ताः॑ प॒शवः॑ ।
य॒ज्ञमे॒व प॒शूनव॑ रुन्धे ।
त्रिचि॑तीकञ् चिन्वीत द्वि॒तीय॑ञ् चिन्वा॒नः ।
त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॑ प्रति॑ तिष्ठति ।[19]
एक॑चितीकञ् चिन्वीत तृ॒तीय॑ञ् चिन्वा॒नः ।
ए॒क॒धा वै सु॑व॒र्गो लो॒क ।
ए॒क॒वृतै॒व सु॑व॒र्गल्ँ लो॒कम् ए॑ति ।
पुरी॑षेणा॒भ्यू॑हति ।
तस्मा॑न् माँ॒सेनास्थि॑ छ॒न्नम् ।
न दु॒श्चर्मा॑ भवति॒ य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
9पञ्चचितीकमिति ॥ ‘चितेः कपि’ इति दीर्घत्वम् । पाङ्क्तो यज्ञ इति । धानादिपञ्चकसाध्यत्वात् । पङ्क्तिशब्द उत्सादिः । एकधेति । एकेन प्रकारेण वर्तन्ते । एकवृतैवेति । एकधैव वृताम् । पुरीषेणेति । पुरीषया मृत्तिकया । दुश्चर्मेति । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥
मूलम् (संयुक्तम्)
पञ्च॒ चित॑यो भवन्ति प॒ञ्चभि॒ᳶ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ॥ [20]
विश्वास-प्रस्तुतिः
पञ्च॒ चित॑यो भवन्ति ।
प॒ञ्चभि॒ᳶ पुरी॑षैर् अ॒भ्यू॑हति ।
दश॒ सम्प॑द्यन्ते ।
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राज्य् ए॒वान्नाद् ये॒ प्रति॑ तिष्ठति ॥ [20]
मूलम्
पञ्च॒ चित॑यो भवन्ति ।
प॒ञ्चभि॒ᳶ पुरी॑षैर् अ॒भ्यू॑हति ।
दश॒ सम्प॑द्यन्ते ।
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राज्य् ए॒वान्नाद् ये॒ प्रति॑ तिष्ठति ॥ [20]
भट्टभास्कर-टीका
10पञ्च चितय इत्यादि ॥ गतम् । ‘झल्युपोत्तमम्’ इति उपोत्तमस्योदात्तत्वम् ॥
इति पञ्चमे द्वितीये तृतीयोनुवाकः ॥