मूलम् (संयुक्तम्)
अन्न॑प॒तेऽन्न॑स्य नो दे॒हीत्या॑हा॒ग्निर्वा अन्न॑पति॒स्स ए॒वास्मा॒ अन्न॒म्प्र य॑च्छत्यनमी॒वस्य॑ शु॒ष्मिण॒ इत्या॑हाय॒क्ष्मस्येति॒ वावैतदा॑ह॒ प्र प्र॑दा॒तार॑न्तारिष॒ ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑हा॒शिष॑मे॒वैतामा शा॑स्त॒
विश्वास-प्रस्तुतिः
अन्न॑प॒तेऽन्न॑स्य नो दे॒हीत्या॑ह ।
अ॒ग्निर्वा अन्न॑पतिः ।
स ए॒वास्मा॒ अन्न॒म् प्र य॑च्छति ।
अ॒न॒मी॒वस्य॑ शु॒ष्मिण॒ इत्या॑ह ।
अ॒य॒क्ष्मस्येति॒ वावैतदा॑ह ।
“प्र प्र॑दा॒तार॑न्तारिष॒ ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒” इत्या॑ह ।
आ॒शिष॑म् ए॒वैतामा शा॑स्ते ।
मूलम्
अन्न॑प॒तेऽन्न॑स्य नो दे॒हीत्या॑ह ।
अ॒ग्निर्वा अन्न॑पतिः ।
स ए॒वास्मा॒ अन्न॒म् प्र य॑च्छति ।
अ॒न॒मी॒वस्य॑ शु॒ष्मिण॒ इत्या॑ह ।
अ॒य॒क्ष्मस्येति॒ वावैतदा॑ह ।
“प्र प्र॑दा॒तार॑न्तारिष॒ ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒” इत्या॑ह ।
आ॒शिष॑म् ए॒वैतामा शा॑स्ते ।
भट्टभास्कर-टीका
1पूर्वेद्युरेवास्मै अन्नवतीं समिधमभ्यादधाति जपति वा - अन्नपतेऽन्नस्य नो देहीति ॥ अयक्ष्मस्येति । अनमीवशब्दस्य व्याख्या । आशिषमिति । प्रदातारं यजमानं प्रतारिषः वर्धय अस्माकं द्विपदे चतुष्पदे च ऊर्जं धेहि इतीयमाशीः ॥
मूलम् (संयुक्तम्)
उदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः [8]
प्रा॒णैरे॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैन॑ञ्चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैनँ॒ सम॑र्धयति चत॒सृभि॒रा सा॑दयति च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिरे॒वाति॑च्छन्दसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒यदति॑च्छन्दा॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति॒ सद्व॑ती भवति स॒त्त्वमे॒वैन॑ङ्गमयति॒ प्रेद॑ग्ने॒ ज्योति॑ष्मान् [9]
या॒हीत्या॑ह॒ ज्योति॑रे॒वास्मि॑न्दधाति त॒नुवा॒ वा ए॒ष हि॑नस्ति॒ यँ हि॒नस्ति॒ मा हिँ॑सीस्त॒नुवा॑ प्र॒जा इत्या॑ह प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति॒
विश्वास-प्रस्तुतिः
उदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह
प्रा॒णा वै विश्वे॑ दे॒वाः [8]
प्रा॒णैरे॒वैन॒मुद्य॑च्छ॒ते ।
अग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह ।
यस्मा॑ ए॒वैन॑ञ्चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैनँ॒ सम॑र्धयति ।
च॒त॒सृभि॒रा सा॑दयति ।
च॒त्वारि॒ छन्दाँ॑सि ।
छन्दो॑भिरे॒व ।
अति॑च्छन्दसोत्त॒मया॑ ।
वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒ यदति॑च्छन्दाः ।
वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति ।
सद्व॑ती भवति ।
स॒त्त्वमे॒वैन॑ङ् गमयति ।
प्रेद॑ग्ने॒ ज्योति॑ष्मान् [9] या॒हीत्या॑ह ।
ज्योति॑रे॒वास्मि॑न् दधाति त॒नुवा॒ वा ए॒ष हि॑नस्ति॒ यँ हि॒नस्ति॑ ।
मा हिँ॑सीस्त॒नुवा॑ प्र॒जा इत्या॑ह ।
प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति ।
मूलम्
उदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह
प्रा॒णा वै विश्वे॑ दे॒वाः [8]
प्रा॒णैरे॒वैन॒मुद्य॑च्छ॒ते ।
अग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह ।
यस्मा॑ ए॒वैन॑ञ्चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैनँ॒ सम॑र्धयति ।
च॒त॒सृभि॒रा सा॑दयति ।
च॒त्वारि॒ छन्दाँ॑सि ।
छन्दो॑भिरे॒व ।
अति॑च्छन्दसोत्त॒मया॑ ।
वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒ यदति॑च्छन्दाः ।
वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति ।
सद्व॑ती भवति ।
स॒त्त्वमे॒वैन॑ङ् गमयति ।
प्रेद॑ग्ने॒ ज्योति॑ष्मान् [9] या॒हीत्या॑ह ।
ज्योति॑रे॒वास्मि॑न् दधाति त॒नुवा॒ वा ए॒ष हि॑नस्ति॒ यँ हि॒नस्ति॑ ।
मा हिँ॑सीस्त॒नुवा॑ प्र॒जा इत्या॑ह ।
प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति ।
भट्टभास्कर-टीका
2उदु त्वेति ॥ उख्यमुद्यच्छते । (यानामहे) । चित्तायेति । अभिप्रेतार्थाय । चतसृभिः इति । प्रयातुकामोऽयं ‘सीद त्वं मातुः’ इत्यादिभिश्चतसृभिः प्रथमानुवाकाम्नाताभिः द्वीषे शकटे प्रउगे उख्यमासादयति । चत्वरीत्यादि । गतम् । प्रेदग्न इति । प्रयाणमन्त्रः । तनुवेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
रक्षाँ॑सि॒ वा ए॒तद्य॒ज्ञँ स॑चन्ते॒ यदन॑ उ॒त्सर्ज॒त्यक्र॑न्द॒दित्यन्वा॑ह॒ रक्ष॑सा॒मप॑हत्या॒ अन॑सा वह॒न्त्यप॑चितिमे॒वास्मि॑न्दधाति॒ तस्मा॑दन॒स्वी च॑ र॒थी चाति॑थीना॒मप॑चिततमौ [10]
अप॑चितिमान्भवति॒ य ए॒वव्ँ वेद॑ स॒मिधा॒ऽग्निन्दु॑वस्य॒तेति॑ घृतानुषि॒क्तामव॑सिते स॒मिध॒मा द॑धाति॒ यथाति॑थय॒ आग॑ताय स॒र्पिष्व॑दाति॒थ्यङ्क्रि॒यते॑ ता॒दृगे॒व तद्गा॑यत्रि॒या ब्रा॑ह्म॒णस्य॑ गाय॒त्रो हि ब्रा॑ह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो॑ऽप्सु भस्म॒ प्र वे॑शयत्य॒प्सुयो॑नि॒र्वा अ॒ग्निस्स्वामे॒वैनय्ँ॒योनि॑ङ्गमयति
विश्वास-प्रस्तुतिः
रक्षाँ॑सि॒ वा ए॒तद्य॒ज्ञँ स॑चन्ते॒ यदन॑ उ॒त्सर्ज॑ति ।
अक्र॑न्द॒दित्यन्वा॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
अन॑सा वहन्ति ।
अप॑चितिमे॒वास्मि॑न्दधाति ।
तस्मा॑दन॒स्वी च॑ र॒थी चाति॑थीना॒मप॑चिततमौ [10]
अप॑चितिमान् भवति॒ य ए॒वव्ँ वेद॑ ।
स॒मिधा॒ऽग्निन्दु॑वस्य॒तेति॑ घृतानुषि॒क्तामव॑सिते स॒मिध॒मा द॑धाति ।
यथाति॑थय॒ आग॑ताय स॒र्पिष्व॑दाति॒थ्यङ्क्रि॒यते॑ ता॒दृगे॒व तत् ।
गा॒य॒त्रि॒या ब्रा॑ह्म॒णस्य॑ , गाय॒त्रो हि ब्रा॑ह्म॒णः ।
त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि राज॒न्यः॑ ।
अ॒प्सु भस्म॒ प्र वे॑शयति ।
अ॒प्सुयो॑नि॒र्वा अ॒ग्निः ।
स्वामे॒वैनय्ँ॒ योनि॑ङ् गमयति ।
मूलम्
रक्षाँ॑सि॒ वा ए॒तद्य॒ज्ञँ स॑चन्ते॒ यदन॑ उ॒त्सर्ज॑ति ।
अक्र॑न्द॒दित्यन्वा॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
अन॑सा वहन्ति ।
अप॑चितिमे॒वास्मि॑न्दधाति ।
तस्मा॑दन॒स्वी च॑ र॒थी चाति॑थीना॒मप॑चिततमौ [10]
अप॑चितिमान् भवति॒ य ए॒वव्ँ वेद॑ ।
स॒मिधा॒ऽग्निन्दु॑वस्य॒तेति॑ घृतानुषि॒क्तामव॑सिते स॒मिध॒मा द॑धाति ।
यथाति॑थय॒ आग॑ताय स॒र्पिष्व॑दाति॒थ्यङ्क्रि॒यते॑ ता॒दृगे॒व तत् ।
गा॒य॒त्रि॒या ब्रा॑ह्म॒णस्य॑ , गाय॒त्रो हि ब्रा॑ह्म॒णः ।
त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि राज॒न्यः॑ ।
अ॒प्सु भस्म॒ प्र वे॑शयति ।
अ॒प्सुयो॑नि॒र्वा अ॒ग्निः ।
स्वामे॒वैनय्ँ॒ योनि॑ङ् गमयति ।
भट्टभास्कर-टीका
3रक्षांसीत्यादि ॥ सचन्ते सेचन्ते । उत्सर्जति शब्दं करोति । तस्मात्प्रयाणकाले अक्षशब्दे सति ‘अक्रन्ददग्निः’ इति पुरस्तादाम्नातामृचमाह । अनसेत्यादि । अपचितिः पूजा । घृतानुषिक्तामिति । घृतेन अनुषिक्तां समिधमवसिते प्रयाणे आदधाति । यथेत्यादि । गतम् । ‘समिधाऽग्निम्’ इति गायत्री । ‘प्र प्रायम्’ इति त्रिष्टुप् । अप्स्वित्यादि । भस्म चेति वर्तते । अप्सु प्रवेशयति । अप्सु योनिरस्येति व्यधिकरणो बहुव्रीहिः । ‘अपो योनि यन्मतुषु’ इति सप्तम्या अलुक् ॥
मूलम् (संयुक्तम्)
ति॒सृभि॒ᳶ प्र वे॑शयति त्रि॒वृद्वै [11]
अ॒ग्निर्यावा॑ने॒वाग्निस्तम्प्र॑ति॒ष्ठाङ्ग॑मयति॒ परा॒ वा ए॒षो॑ऽग्निव्ँव॑पति॒ यो॑ऽप्सु भस्म॑ प्रवे॒शय॑ति॒ ज्योति॑ष्मतीभ्या॒मव॑ दधाति॒ ज्योति॑रे॒वास्मि॑न्दधाति॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ परा॒ वा ए॒ष प्र॒जाम्प॒शून्व॑पति॒ यो॑ऽप्सु भस्म॑ प्रवे॒शय॑ति॒ पुन॑रू॒र्जा स॒ह र॒य्येति॒ पुन॑रु॒दैति॑ प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒
विश्वास-प्रस्तुतिः
ति॒सृभि॒ᳶ प्र वे॑शयति ।
त्रि॒वृद् वा अ॒ग्निः ।
यावा॑ने॒वाग्निस् तम् प्र॑ति॒ष्ठाङ्ग॑मयति ।
परा॒ वा ए॒षो॑ऽग्निव्ँव॑पति॒ यो॑ऽप्सु भस्म॑ प्रवे॒शय॑ति ।
ज्योति॑ष्मतीभ्या॒मव॑ दधाति ।
ज्योति॑रे॒वास्मि॑न्दधाति । द्वाभ्या॒म् प्रति॑ष्ठित्यै ।
परा॒ वा ए॒ष प्र॒जाम् प॒शून्व॑पति॒ , यो॑ऽप्सु भस्म॑ प्रवे॒शय॑ति ।
पुन॑रू॒र्जा स॒ह र॒य्येति॒ पुन॑र् उ॒दैति॑ ।
प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते ।
मूलम्
ति॒सृभि॒ᳶ प्र वे॑शयति ।
त्रि॒वृद् वा अ॒ग्निः ।
यावा॑ने॒वाग्निस् तम् प्र॑ति॒ष्ठाङ्ग॑मयति ।
परा॒ वा ए॒षो॑ऽग्निव्ँव॑पति॒ यो॑ऽप्सु भस्म॑ प्रवे॒शय॑ति ।
ज्योति॑ष्मतीभ्या॒मव॑ दधाति ।
ज्योति॑रे॒वास्मि॑न्दधाति । द्वाभ्या॒म् प्रति॑ष्ठित्यै ।
परा॒ वा ए॒ष प्र॒जाम् प॒शून्व॑पति॒ , यो॑ऽप्सु भस्म॑ प्रवे॒शय॑ति ।
पुन॑रू॒र्जा स॒ह र॒य्येति॒ पुन॑र् उ॒दैति॑ ।
प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते ।
भट्टभास्कर-टीका
4तिसृभिरिति ॥ ‘आपो देवीः प्रति गृह्णीत’ इत्यादिभिः । परा वा इत्यादि । परावपति विनाशयति । ज्योतिष्मतीभ्यां ‘प्रसद्य’ इत्याभ्यां द्वाभ्यामवदधातीत्येव । परा वा इत्यादि । गतम् । ‘पुनरूर्जा नि वर्तस्व’ ‘सह रय्या नि वर्तस्व’ इति द्वाभ्यां अद्भ्यः पुनरागच्छति पुनरोप्तात् पुनराहृत्य आत्मनि स्थापयति ॥
मूलम् (संयुक्तम्)
पुन॑स्त्वादि॒त्याः [12]
रु॒द्रा वस॑व॒स्समि॑न्धता॒मित्या॑है॒ता वा ए॒तन्दे॒वता॒ अग्रे॒ समै॑न्धत॒ ताभि॑रे॒वैनँ॒ समि॑न्द्धे॒ बोधा॒ स बो॒धीत्युप॑ तिष्ठते बो॒धय॑त्ये॒वैन॒न्तस्मा॑त्सु॒प्त्वा प्र॒जाᳶ प्र बु॑ध्यन्ते यथास्था॒नमुप॑ तिष्ठते॒ तस्मा॑द्यथास्था॒नम्प॒शव॒ᳶ पुन॒रेत्योप॑ तिष्ठन्ते ॥ [13]
विश्वास-प्रस्तुतिः
पुन॑स्त्वादि॒त्याः [12] रु॒द्रा वस॑व॒स् समि॑न्धता॒म् इत्या॑ह ।
ए॒ता वा ए॒तन्दे॒वता॒ अग्रे॒ समै॑न्धत ।
ताभि॑रे॒वैनँ॒ समि॑न्धे ।
बोधा॒ स बो॒धीत्युप॑ तिष्ठते ।
बो॒धय॑त्ये॒वैनम् ।
तस्मा॑त्सु॒प्त्वा प्र॒जाᳶ प्र बु॑ध्यन्ते ।
य॒था॒स्था॒नम् उप॑ तिष्ठते ।
तस्मा॑द् यथास्था॒नम् प॒शव॒ᳶ पुन॒रेत्योप॑ तिष्ठन्ते ॥ [13]
मूलम्
पुन॑स्त्वादि॒त्याः [12] रु॒द्रा वस॑व॒स् समि॑न्धता॒म् इत्या॑ह ।
ए॒ता वा ए॒तन्दे॒वता॒ अग्रे॒ समै॑न्धत ।
ताभि॑रे॒वैनँ॒ समि॑न्धे ।
बोधा॒ स बो॒धीत्युप॑ तिष्ठते ।
बो॒धय॑त्ये॒वैनम् ।
तस्मा॑त्सु॒प्त्वा प्र॒जाᳶ प्र बु॑ध्यन्ते ।
य॒था॒स्था॒नम् उप॑ तिष्ठते ।
तस्मा॑द् यथास्था॒नम् प॒शव॒ᳶ पुन॒रेत्योप॑ तिष्ठन्ते ॥ [13]
भट्टभास्कर-टीका
5अथ उख्यस्य उपसमिन्धनम् - पुनस्त्वेति ॥ अथ ‘बोधा नो अस्य’ ‘स वोधि सूरिः’ इति द्वाभ्यामुपतिष्ठते । यथास्थानमिति । यथाहृतं परिहृत्य पुनर्यजमानायतने तिष्ठन्नुपतिष्ठते । तस्मात् पुनरागत्य पशवो यथास्थानमुपतिष्ठन्ते । तिष्ठतेः ‘अकर्मकाच्च’ इत्यात्मनेपदम् ॥
इति पञ्चमे द्वितीये द्वितीयोनुवाकः ॥