मूलम् (संयुक्तम्)
विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒माल्ँ लो॒कान॑नपज॒य्यम॒भ्य॑जय॒न्यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒माल्ँ लो॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्ठु॑भम॒न्तरि॑क्ष॒ञ्जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒श्छन्दो॑भिरे॒वेमाल्ँ लो॒कान्य॑थापू॒र्वम॒भि ज॑यति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो॑ऽस्मात्सृ॒ष्टः [1]
परा॑ङै॒त्तमे॒तयान्वै॒दक्र॑न्द॒दिति॒ तया॒ वै सो॒॑ऽग्नेᳶ प्रि॒यन्धामावा॑रुन्द्ध॒ यदे॒ताम॒न्वाहा॒ग्नेरे॒वैतया॑ प्रि॒यन्धामाव॑ रुन्द्ध
विश्वास-प्रस्तुतिः
विष्णु॑मुखा॒ वै दे॒वाश् छन्दो॑भिर् इ॒माल्ँ लो॒कान॑नपज॒य्यम् अ॒भ्य॑जयन् ।
यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ , विष्णु॑रे॒व भू॒त्वा यज॑मान॒श् छन्दो॑भिर् इ॒माल्ँ लो॒कान॑नपज॒य्यम् अ॒भि ज॑यति ।
विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हेत्या॑ह ।
गा॒य॒त्री वै पृ॑थि॒वी । त्रैष्ठु॑भम् अ॒न्तरि॑क्षम् ।
जाग॑ती॒ द्यौः । आनु॑ष्टुभी॒र् दिशः॑ ।
छन्दो॑भिर् ए॒वेमाल्ँ लो॒कान् य॑थापू॒र्वम् अ॒भि ज॑यति ।
प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत ।
सो॑ऽस्मात् सृ॒ष्टᳶ परा॑ङैत् । [1]
तमे॒तयाऽन्वै॒दक्र॑न्द॒द् इति॑ ।
तया॒ वै सो॒॑ऽग्नेᳶ प्रि॒यन्धामावा॑रुन्धे ।
यदे॒ताम् अ॒न्वाहा॒ग्नेर् ए॒वैतया॑ प्रि॒यन्धामाव॑ रुन्धे ।
मूलम्
विष्णु॑मुखा॒ वै दे॒वाश् छन्दो॑भिर् इ॒माल्ँ लो॒कान॑नपज॒य्यम् अ॒भ्य॑जयन् ।
यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ , विष्णु॑रे॒व भू॒त्वा यज॑मान॒श् छन्दो॑भिर् इ॒माल्ँ लो॒कान॑नपज॒य्यम् अ॒भि ज॑यति ।
विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हेत्या॑ह ।
गा॒य॒त्री वै पृ॑थि॒वी । त्रैष्ठु॑भम् अ॒न्तरि॑क्षम् ।
जाग॑ती॒ द्यौः । आनु॑ष्टुभी॒र् दिशः॑ ।
छन्दो॑भिर् ए॒वेमाल्ँ लो॒कान् य॑थापू॒र्वम् अ॒भि ज॑यति ।
प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत ।
सो॑ऽस्मात् सृ॒ष्टᳶ परा॑ङैत् । [1]
तमे॒तयाऽन्वै॒दक्र॑न्द॒द् इति॑ ।
तया॒ वै सो॒॑ऽग्नेᳶ प्रि॒यन्धामावा॑रुन्धे ।
यदे॒ताम् अ॒न्वाहा॒ग्नेर् ए॒वैतया॑ प्रि॒यन्धामाव॑ रुन्धे ।
भट्टभास्कर-टीका
1पुनरप्यग्निकाण्डमेव - विष्णुमुखा इत्यादि ॥ विष्णुप्रधानभूताः देवाः अनपजय्यं अपजेतुं न शक्यत इति । ‘अचो यत्’, ‘क्षय्यजय्यौ शक्यार्थे’ इति अयादेशो निपात्यते । ‘ययतोश्चातदर्थे’ इति उत्तरपदान्तोदात्तत्वम् । विष्णुक्रमाः ‘विष्णोः क्रमोसि’ इत्यादयः । गायत्रीत्यादि । तदधीनजयत्वात् तदीयत्वम् । त्रिष्टुब्जगत्यनुष्टुप्शब्देभ्यः उत्सादित्वादञ् । विष्णुक्रमानन्तरं जपतीत्यर्थः ॥
मूलम् (संयुक्तम्)
ईश्व॒रो वा ए॒ष परा॑ङ्प्र॒दघो॒ यो वि॑ष्णुक्र॒मान्क्रम॑ते चत॒सृभि॒रा व॑र्तते च॒त्वारि॒ छन्दाँ॑सि॒
विश्वास-प्रस्तुतिः
ई॒श्व॒रो वा ए॒ष परा॑ङ्प्र॒दघो॒ यो वि॑ष्णुक्र॒मान् क्रम॑ते ।
च॒त॒सृभि॒रा व॑र्तते ।
च॒त्वारि॒ छन्दाँ॑सि ।
मूलम्
ई॒श्व॒रो वा ए॒ष परा॑ङ्प्र॒दघो॒ यो वि॑ष्णुक्र॒मान् क्रम॑ते ।
च॒त॒सृभि॒रा व॑र्तते ।
च॒त्वारि॒ छन्दाँ॑सि ।
भट्टभास्कर-टीका
2ईश्वरो वा इत्यादि ॥ विष्णुक्रमाणां क्रमिता पराङेव प्रदघः प्रस्थातुमीश्वरः । दघेः ‘ईश्वरे तोसुन्कसुनौ’ इति कसुन् । चतसृभिरिति । ‘अग्नेऽभ्यावर्तिन्’ इत्यादिभिः चतसृभिः ऋग्भिः दक्षिणमंसमभिपर्यावर्तते । ‘झल्युपोत्तमम्’ इत्युपोत्तमस्योदात्तत्वम् ॥
मूलम् (संयुक्तम्)
छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूᳶ प्रि॒यामे॒वास्य॑ त॒नुव॑म॒भि [2]
प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते॒
विश्वास-प्रस्तुतिः
छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूः ।
प्रि॒याम् ए॒वास्य॑ त॒नुव॑म॒भि प॒र्याव॑र्तते । [2]
द॒क्षि॒णा प॒र्याव॑र्तते ।
स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते ।
तस्मा॒द् दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः ।
अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते ।
मूलम्
छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूः ।
प्रि॒याम् ए॒वास्य॑ त॒नुव॑म॒भि प॒र्याव॑र्तते । [2]
द॒क्षि॒णा प॒र्याव॑र्तते ।
स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते ।
तस्मा॒द् दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः ।
अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते ।
भट्टभास्कर-टीका
3छन्दांसि खल्वित्यादि ॥ प्रधानसाधनत्वात् शरीरमेवाग्नेः छन्दांसि । तस्मात् चतुस्सङ्ख्यान्वयात् प्रियामग्नेः तनुवमभिपर्यावर्तते । दक्षिणेत्यादि । गतम् । आत्मनः शरीरस्य वीर्यावत्तरः अतिशयेन वीर्यवान् । छान्दसं दीर्घत्वम् । अथो अपि च आदित्यस्यैवावृतं पर्यावृत्तिं अनु लक्षीकृत्य पर्यावर्तते । ननु अप्रदक्षिणमेव आदित्यो गच्छति - तथा हि, अश्विभ्यां दृष्टो भगवान् कतिपयदिवसव्यतिक्रमे भरण्यामुपलभ्यते, ततः कृत्तिकासु, सत्यं, इदं तु ध्रुवा धारात् हात् (?) क्षिप्रं ज्योतिश्चक्रं प्रदक्षिणं भ्रमति । तत्रस्थोऽयमपि भगवान् आराधनवशेन प्रदक्षिणं पर्यावर्तमानो लौकिकैः अभिमन्यते । तदभिप्रायमिदं ब्राह्मणमिति ॥
मूलम् (संयुक्तम्)
शुन॒श्शेप॒माजी॑गर्तिव्ँ॒वरु॑णोऽगृह्णा॒त्स ए॒ताव्ँ वा॑रु॒णीम॑पश्य॒त्तया॒ वै स आ॒त्मानव्ँ॑वरुणपा॒शाद॑मुञ्च॒द्वरु॑णो॒ वा ए॒तङ्गृ॑ह्णाति॒ य उ॒खाम्प्र॑तिमु॒ञ्चत॒ उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदित्या॑हा॒त्मान॑मे॒वैतया॑ [3]
व॒रु॒ण॒पा॒शान्मु॑ञ्च॒त्या त्वा॑हार्ष॒मित्या॒हा ह्ये॑नँ॒ हर॑ति ध्रु॒वस्ति॒ष्ठावि॑चाचलि॒रित्या॑ह॒ प्रति॑ष्ठित्यै॒ विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वित्या॑ह वि॒शैवैनँ॒ सम॑र्धयत्य॒स्मिन्रा॒ष्ट्रमधि॑ श्र॒येत्या॑ह रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑क॒र्यङ्का॒मये॑त रा॒ष्ट्रँ स्या॒दिति॒ तम्मन॑सा ध्यायेद्रा॒ष्ट्रमे॒व भ॑वति [4]
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्था॒दित्या॒हाग्र॑मे॒वैनँ॑ समा॒नाना॑ङ्करोति निर्जग्मि॒वान्तम॑स॒ इत्या॑ह॒ तम॑ ए॒वास्मा॒दप॑ हन्ति॒ ज्योति॒षागा॒दित्या॑ह॒ ज्योति॑रे॒वास्मि॑न्दधाति
विश्वास-प्रस्तुतिः
शुन॒श्शेप॒माजी॑गर्तिव्ँ॒वरु॑णोऽगृह्णात् ।
स ए॒ताव्ँ वा॑रु॒णीम् अ॑पश्यत् ।
तया॒ वै स आ॒त्मानव्ँ॑ वरुणपा॒शाद॑मुञ्चत् ।
वरु॑णो॒ वा ए॒तङ् गृ॑ह्णाति॒ य उ॒खाम् प्र॑तिमु॒ञ्चत॑ ।
उदु॑त्त॒मव्ँ व॑रुण॒ पाश॑म॒स्मद् इत्या॑ह ।
आ॒त्मान॑मे॒वैतया॑ वरुणपा॒शान् मु॑ञ्चति । [3]
आ त्वा॑हार्ष॒म् इत्या॑ह ।
आ ह्ये॑नँ॒ हर॑ति ।
ध्रु॒वस् ति॒ष्ठावि॑चाचलि॒र् इत्या॑ह । प्रति॑ष्ठित्यै ।
“विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु” + इत्या॑ह ।
वि॒शैवैनँ॒ सम॑र्धयति ।
“अ॒स्मिन् रा॒ष्ट्रमधि॑ श्रय” + इत्या॑ह ।
रा॒ष्ट्रमे॒वास्मि॑न् ध्रु॒वम॑कः ।
यङ्का॒मये॑त - रा॒ष्ट्रँ स्या॒द् इति॒ , तम् मन॑सा ध्यायेत् ।
रा॒ष्ट्रमे॒व भ॑वति । [4]
अग्रे॑ बृ॒हन्न् उ॒षसा॑मू॒र्ध्वो अ॑स्था॒द् इत्या॑ह ।
अग्र॑मे॒वैनँ॑ समा॒नाना॑ङ्करोति ।
नि॒र्ज॒ग्मि॒वान्तम॑स॒ इत्या॑ह ।
तम॑ ए॒वास्मा॒दप॑ हन्ति ।
ज्योति॒षागा॒दित्या॑ह॒ । ज्योति॑र् ए॒वास्मि॑न् दधाति ।
मूलम्
शुन॒श्शेप॒माजी॑गर्तिव्ँ॒वरु॑णोऽगृह्णात् ।
स ए॒ताव्ँ वा॑रु॒णीम् अ॑पश्यत् ।
तया॒ वै स आ॒त्मानव्ँ॑ वरुणपा॒शाद॑मुञ्चत् ।
वरु॑णो॒ वा ए॒तङ् गृ॑ह्णाति॒ य उ॒खाम् प्र॑तिमु॒ञ्चत॑ ।
उदु॑त्त॒मव्ँ व॑रुण॒ पाश॑म॒स्मद् इत्या॑ह ।
आ॒त्मान॑मे॒वैतया॑ वरुणपा॒शान् मु॑ञ्चति । [3]
आ त्वा॑हार्ष॒म् इत्या॑ह ।
आ ह्ये॑नँ॒ हर॑ति ।
ध्रु॒वस् ति॒ष्ठावि॑चाचलि॒र् इत्या॑ह । प्रति॑ष्ठित्यै ।
“विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु” + इत्या॑ह ।
वि॒शैवैनँ॒ सम॑र्धयति ।
“अ॒स्मिन् रा॒ष्ट्रमधि॑ श्रय” + इत्या॑ह ।
रा॒ष्ट्रमे॒वास्मि॑न् ध्रु॒वम॑कः ।
यङ्का॒मये॑त - रा॒ष्ट्रँ स्या॒द् इति॒ , तम् मन॑सा ध्यायेत् ।
रा॒ष्ट्रमे॒व भ॑वति । [4]
अग्रे॑ बृ॒हन्न् उ॒षसा॑मू॒र्ध्वो अ॑स्था॒द् इत्या॑ह ।
अग्र॑मे॒वैनँ॑ समा॒नाना॑ङ्करोति ।
नि॒र्ज॒ग्मि॒वान्तम॑स॒ इत्या॑ह ।
तम॑ ए॒वास्मा॒दप॑ हन्ति ।
ज्योति॒षागा॒दित्या॑ह॒ । ज्योति॑र् ए॒वास्मि॑न् दधाति ।
भट्टभास्कर-टीका
4शुनश्शेपो नामाजीगर्तपुत्रः । वारुणीं ‘उदुत्तमम्’ इत्येतां अपश्यत् । तेन स एवास्य ऋषिः । अनया अस्य शिक्यपाशं मुञ्चते । शुनश्शेपस्य वनस्पत्यादित्वात् पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरत्वम् । आत्वाऽहार्षमिति । द्वाभ्यामेनं हरति । ध्रुवमकरिति । ध्रुवं अचलितं करोति । छान्दसो लुङ् । ‘मन्त्रे घस’ इति च्लेर्लुक् । ध्रुवत्वं राष्ट्रस्य नित्यसंबन्धः । नित्यं राष्ट्रं स्यादिति यावत् । अग्रमधिप्रधानम् । गतमन्यत् ॥
मूलम् (संयुक्तम्)
चत॒सृभि॑स्सादयति च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिरे॒वाति॑छन्दसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒यदति॑च्छन्दा॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति॒ सद्व॑ती [5]
भ॒व॒ति॒ स॒त्त्वमे॒वैन॑ङ्गमयति
विश्वास-प्रस्तुतिः
च॒त॒सृभि॑स्सादयति । च॒त्वारि॒ छन्दाँ॑सि । छन्दो॑भिरे॒व ।
अति॑छन्दसोत्त॒मया॑ ।
वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒ यदति॑च्छन्दाः ।
वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ् करोति ।
सद्व॑ती भवति । [5]
स॒त्त्वमे॒वैन॑ङ्गमयति
मूलम्
च॒त॒सृभि॑स्सादयति । च॒त्वारि॒ छन्दाँ॑सि । छन्दो॑भिरे॒व ।
अति॑छन्दसोत्त॒मया॑ ।
वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒ यदति॑च्छन्दाः ।
वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ् करोति ।
सद्व॑ती भवति । [5]
स॒त्त्वमे॒वैन॑ङ्गमयति
भट्टभास्कर-टीका
5चतसृभिरिति ॥ अन्तर्वेद्येनमासादयति । छन्दोभिरेवेति । सादयतीत्येव । अतिच्छन्दसोत्तमयेति । सादयतीत्येव । ‘हंसश्शुचिषत्’ इति जगती अतिच्छन्दाः । उत्तमशब्द उञ्छादिः । वर्ष्म उच्छ्रायः । सद्वती सच्छब्दवती उत्तमा भवति । भूम्नि वतुप् ॥
मूलम् (संयुक्तम्)
वात्स॒प्रेणोप॑ तिष्ठत ए॒तेन॒ वै व॑त्स॒प्रीर्भा॑लन्द॒नो॑ऽग्नेᳶ प्रि॒यन्धामावा॑रुन्द्धा॒ग्नेरे॒वैतेन॑ प्रि॒यन्धामाव॑ रुन्द्ध एकाद॒शम्भ॑वत्येक॒धैव यज॑माने वी॒र्य॑न्दधाति॒ स्तोमे॑न॒ वै दे॒वा अ॒स्मिल्ँ लो॒क आ॑र्ध्नुव॒ञ्छन्दो॑भिर॒मुष्मि॒न्स्तोम॑स्येव॒ खलु॒ वा ए॒तद्रू॒पय्ँयद्वा॑त्स॒प्रय्ँयद्वा॑त्स॒प्रेणो॑प॒तिष्ठ॑ते [6]
इ॒ममे॒व तेन॑ लो॒कम॒भि ज॑य॒ति यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति
विश्वास-प्रस्तुतिः
वा॒त्स॒प्रेणोप॑ तिष्ठते ।
ए॒तेन॒ वै व॑त्स॒प्रीर्भा॑लन्द॒नो॑ऽग्नेᳶ प्रि॒यन् धामावा॑रुन्धे ।
अ॒ग्नेरे॒वैतेन॑ प्रि॒यन्धामाव॑ रुन्धे ।
ए॒का॒द॒शम्भ॑वति ।
ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति ।
स्तोमे॑न॒ वै दे॒वा अ॒स्मिल्ँ लो॒क आ॑र्ध्नुव॒ञ् छन्दो॑भिर॒मुष्मि॑न् ।
स्तोम॑स्येव॒ खलु॒ वा ए॒तद् रू॒पय्ँ , यद् वा॑त्स॒प्रम् ।
यद् वा॑त्स॒प्रेणो॑प॒तिष्ठ॑ते ।
इ॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति । [6]
यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति ।
मूलम्
वा॒त्स॒प्रेणोप॑ तिष्ठते ।
ए॒तेन॒ वै व॑त्स॒प्रीर्भा॑लन्द॒नो॑ऽग्नेᳶ प्रि॒यन् धामावा॑रुन्धे ।
अ॒ग्नेरे॒वैतेन॑ प्रि॒यन्धामाव॑ रुन्धे ।
ए॒का॒द॒शम्भ॑वति ।
ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति ।
स्तोमे॑न॒ वै दे॒वा अ॒स्मिल्ँ लो॒क आ॑र्ध्नुव॒ञ् छन्दो॑भिर॒मुष्मि॑न् ।
स्तोम॑स्येव॒ खलु॒ वा ए॒तद् रू॒पय्ँ , यद् वा॑त्स॒प्रम् ।
यद् वा॑त्स॒प्रेणो॑प॒तिष्ठ॑ते ।
इ॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति । [6]
यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति ।
भट्टभास्कर-टीका
6वात्सप्रेणेति ॥ ‘दिवस्परि’ इत्येकादशर्चं सूक्तं वात्सप्रम् । तेन उख्यं प्रातरग्निमुपतिष्ठते । अथास्य वात्सप्रत्वं निर्वक्ति - एतेन वा इत्यादि । वत्सप्रीर्नाम भलन्दनस्य पुत्रः । शिवाद्यणन्तः । एकादशर्चः परिमाणमस्येति स्तोमे डविधिः । किमस्य स्तोमस्य स्तोमत्वं यदाह - स्तोमेन वा इति । एकधैवेति । एकस्तोमत्वादेकादशानाम् ॥
मूलम् (संयुक्तम्)
पूर्वे॒द्युᳶ प्र क्रा॑मत्युत्तरे॒द्युरुप॑ तिष्ठते॒ तस्मा॒द्योगे॒ऽन्यासा॑म्प्र॒जाना॒म्मनः॒ क्षेमे॒ऽन्यासा॒न्तस्मा॑द्यायाव॒रः क्षे॒म्यस्ये॑शे॒ तस्मा॑द्यायाव॒रः क्षे॒म्यम॒ध्यव॑स्यति
विश्वास-प्रस्तुतिः
पू॒र्वे॒द्युःᳶ प्र क्रा॑मत्य्
उत्तरे॒द्युर् उप॑ तिष्ठते ।
तस्मा॒द् योगे॒ ऽन्यासा॑म् प्र॒जाना॒म् मनः॒
क्षेमे॒ ऽन्यासा॑म् ।
तस्मा॑द् यायाव॒रः क्षे॒म्यस्ये॑शे ।
तस्मा॑द् यायाव॒रः क्षे॒म्यम् अ॒ध्यव॑स्यति ।
मानसतरङ्गिणीकृत्
Hence, the minds of some folks are on yoking, those of others on rest.
Therefore, the wanderer lords it over him who remain put;
thus, the wanderer fixes upon one who stays put.
मानसतरङ्गिणीकृत् - टिप्पनी
A truth about the the old world of steppe nomad dominance
मूलम्
पू॒र्वे॒द्युःᳶ प्र क्रा॑मत्य् उत्तरे॒द्युरुप॑ तिष्ठते ।
तस्मा॒द् योगे॒ऽन्यासा॑म् प्र॒जाना॒म् मनः॒ क्षेमे॒ ऽन्यासा॑म् ।
तस्मा॑द् यायाव॒रः क्षे॒म्यस्ये॑शे ।
तस्मा॑द् यायाव॒रः क्षे॒म्यम् अ॒ध्यव॑स्यति ।
भट्टभास्कर-टीका
7पूर्वेद्युरिति ॥ पूर्वस्मिन् अहनि प्रक्रामति विष्णुक्रमान् क्रामति । उत्तरेऽद्युः उत्तरेऽहनि उपतिष्ठते वात्सप्रेण । ‘सद्यः परुत्’ इत्यादौ द्वे एते निपात्येते । तस्मादित्यादि । गतम् । अलब्धस्य लाभो योगः, लब्धस्य पालनं क्षेमः । काश्चित्प्रजाः योगः श्रेयानिति मन्यन्ते या आर्जनशीला बहुव्ययाः । काश्चित् क्षेम एव श्रेयानिति मन्यन्ते या आर्जनशीला व्ययभीरवः । क्षेमेऽन्यासामिति । प्रजानां मन इत्येव । क्रमेणोपस्थानवैलक्षण्यहेतुकं प्रजानां मनः मनोवैलक्षण्यमिति । तस्मात् यायावरः यानशीलः यजमानः क्षेम्यस्य ईशे ईष्टे न योगमर्हति । ‘यश्च यङः’ इति वरच् । ‘स्व औत्यक्षेभ्य स्येश’ (?) इत्यादिना स्वार्थे क्षेमशब्दाद्यः । ‘लोपस्त आत्मनेपदेषु’ इति ईष्ट इत्यत्र तलोपः । यस्मात् एवं यायावरः क्षेममेवार्हति तस्मादेव यायावरः क्षेममेव कर्तुमध्यवस्यति न योगमितीत्याह । एवमत्र प्रयाणं कर्तव्यमिति सूचितं भवति ॥
मूलम् (संयुक्तम्)
मु॒ष्टी क॑रोति॒ वाचय्ँ॑यच्छति य॒ज्ञस्य॒ धृत्यै॑ ॥ [7]
मानसतरङ्गिणीकृत्
He clenches his fist, he restrains his speech, for support.
विश्वास-प्रस्तुतिः
मु॒ष्टी क॑रोति ।
वाचय्ँ॑ यच्छति -
य॒ज्ञस्य॒ धृत्यै॑ ॥ [7]
मूलम्
मु॒ष्टी क॑रोति ।
वाचय्ँ॑ यच्छति ।
य॒ज्ञस्य॒ धृत्यै॑ ॥ [7]
भट्टभास्कर-टीका
8मुष्टीत्यादि ॥ प्रकृतिवत् ॥
इति पञ्चमे द्वितीये प्रथमोनुवाकः ॥