११

मूलम् (संयुक्तम्)

समि॑द्धो अ॒ञ्जन्कृद॑रम्मती॒नाङ्घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः । वा॒जी वह॑न्वा॒जिन॑ञ्जातवेदो दे॒वानाव्ँ॑वक्षि प्रि॒यमा स॒धस्थ॑म् ।

विश्वास-प्रस्तुतिः

समि॑द्धो अ॒ञ्जन् कृद॑रम्मती॒नाङ् घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः ।
वा॒जी वह॑न्वा॒जिन॑ञ् जातवेदो दे॒वानाव्ँ॑ वक्षि प्रि॒यमा स॒धस्थ॑म् ।

मूलम्

समि॑द्धो अ॒ञ्जन् कृद॑रम्मती॒नाङ् घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः ।
वा॒जी वह॑न्वा॒जिन॑ञ् जातवेदो दे॒वानाव्ँ॑ वक्षि प्रि॒यमा स॒धस्थ॑म् ।

भट्टभास्कर-टीका

1अथ अश्वमेथे अश्वस्याप्रियः प्रयाजानां याज्याः एकादशसमिद्धो अञ्जन्निति ॥ त्रैष्टुभः सर्वोनुवाकः । अग्निकाण्डमध्ये वैश्वदेवं काण्डम् । तत्र प्रथमा - समिद्धः सन्दीप्तः । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । अञ्जन् प्रकाशयन् । अञ्जू व्यक्तिश्लक्ष्णगतिषु । कृदरं आवपनं कुसूलादिकं तत्स्थानीयं मतीनां ज्ञानानां चित्तं प्रकाशताम् । तादात्म्यात्ताच्छब्द्यम् । यद्वा - प्रतीनां मननीयानां हविषां कृदरं कृदरस्थानीयं आत्मीयं रूपं प्रकाशयन् । घृतं आज्यं मधुमत् मधुररसवत् पिन्वमानः पिन्वन् पिबन् । पिब सेचने इदानीं पानकर्मा । यद्वा - घृतमुदकं पिन्वमानः सिञ्चन् यागद्वारेण वर्षन् । हे अग्ने जातवेदः जातानां वेदितः । ‘गतिकारकयोरपि’ इत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च । बहुव्रीहिर्वा - हे जातधन! वाजी बलवान् वेगवान्वा अश्वतुल्यो वा । वाजिनं इमं अश्वं प्रियं प्रीतिहेतुं अवहन् । देवानां सधस्थं सहस्थानं यत्र देवाः सहासते तत् स्थानं आवक्षि आवह प्रापय तेषां भोजनार्थम् । ‘सुपि स्थः’ इति कः । ‘सधमाधस्थयोः’ इति सधादेशः । वहेर्लेटि शपो लुक् ॥

मूलम् (संयुक्तम्)

घृ॒तेना॒ञ्जन्त्सम्प॒थो दे॑व॒याना॑न्प्रजा॒नन्वा॒ज्यप्ये॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिश॑स्सचन्ताँ स्व॒धाम॒स्मै यज॑मानाय धेहि ।

विश्वास-प्रस्तुतिः

घृ॒तेना॒ञ्जन्त्सम्प॒थो दे॑व॒याना॑न् प्रजा॒नन् वा॒ज्यप्ये॑तु दे॒वान् ।
अनु॑ त्वा सप्ते प्र॒दिश॑स् सचन्ताँ स्व॒धाम् अ॒स्मै यज॑मानाय धेहि ।

मूलम्

घृ॒तेना॒ञ्जन्त्सम्प॒थो दे॑व॒याना॑न् प्रजा॒नन् वा॒ज्यप्ये॑तु दे॒वान् ।
अनु॑ त्वा सप्ते प्र॒दिश॑स् सचन्ताँ स्व॒धाम् अ॒स्मै यज॑मानाय धेहि ।

भट्टभास्कर-टीका

2अथ द्वितीया - घृतेनेति ॥ घृतेन हुतेन हेतुना अयं वाजी अश्वः देवयानान् देवा यैर्गच्छन्ति तान् पथः मार्गान् अपितृयाणान् अञ्जन् प्रकाशयन् समेतु सङ्गच्छतु । एत्विति वक्ष्यमाणमत्रापि सम्बध्यते । यद्वा - देवयानान् पथः समञ्जन् सम्यक् प्रकाशयन् जानन् प्रजानन् देवानामप्येतु देवैरेकीभवतु । हे सप्ते अश्व! त्वं प्रदिशः प्रधाना दिशः अन्याश्च अनुसचन्तां अनुसेवन्तां आनुकूल्यं त्वयि भजन्ताम् । त्वमप्यस्मै यजमानाय स्वधा अन्नं धेहि देहि ॥

मूलम् (संयुक्तम्)

ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते । अ॒ग्निष्ट्वा॑ [56]
दे॒वैर्वसु॑भिस्स॒जोषाः॑ प्री॒तव्ँवह्निव्ँ॑वहतु जा॒तवे॑दाः ।

विश्वास-प्रस्तुतिः

ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते ।

अ॒ग्निष्ट्वा॒ दे॒वैर् वसु॑भिस् स॒जोषाः॑ प्री॒तव्ँ वह्निव्ँ॑ वहतु जा॒तवे॑दाः । [56]

मूलम्

ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते ।

अ॒ग्निष्ट्वा॒ दे॒वैर् वसु॑भिस् स॒जोषाः॑ प्री॒तव्ँ वह्निव्ँ॑ वहतु जा॒तवे॑दाः । [56]

भट्टभास्कर-टीका

3अथ तृतीया - ईड्य इति ॥ हे वाजिन्! अन्नहेतो सप्ते सर्पक अश्व ईड्यः स्तुत्यः असि । त्वं वन्द्यः नमस्कार्यश्चासि । ‘ईडवन्दनृशंस’ इत्याद्युदात्तत्वम् । ‘चवायोगे प्रथमा ’ इत्याख्यातं न निहन्यते । आशुश्च शीघ्रश्चासि । पुर्ववन्निघाताभावः । मेध्यो मेधार्हश्चासि । अयमग्निः वसुभिः देवैः सजोषाः समानप्रीतिः । ‘समानस्य छन्दसि’ इति सभावः । जातवेदाः जातानां वेदिता त्वं प्रीतं तृप्तं वह्निं वोढारं वहतु प्रापयतु देवसकाशम् । ‘युष्मत्तत्त’ इत्यादिना संहितायां षत्वम् ॥

मूलम् (संयुक्तम्)

स्ती॒र्णम्ब॒र्हिस्सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानम्पृथि॒व्याम् । दे॒वेभि॑र्यु॒क्तमदि॑तिस्स॒जोषाः॑ स्यो॒नङ्कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ।

विश्वास-प्रस्तुतिः

स्ती॒र्णम् ब॒र्हिस् सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानम् पृथि॒व्याम् ।

दे॒वेभि॑र् यु॒क्तमदि॑तिस् स॒जोषाः॑ स्यो॒नङ् कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ।

मूलम्

स्ती॒र्णम् ब॒र्हिस् सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानम् पृथि॒व्याम् ।

दे॒वेभि॑र् यु॒क्तमदि॑तिस् स॒जोषाः॑ स्यो॒नङ् कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ।

भट्टभास्कर-टीका

4चतुर्थी - स्तीर्णमिति ॥ स्तीर्णं बर्हिः । गतम् । सुष्टरीम शोभनस्तरणम् । स्तृणातेरौणादिक इमनिच्, वर्णव्यत्ययेन दीर्घत्वम् । बहुव्रीहौ सुषामादित्वात् षत्वम् । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् । ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् । उरु महत् पृथु विस्तीर्णं भूयोपि पृथिव्यां प्रथमानं यावदियं पृथिवी विस्तीर्णा मही तावत्प्रथमानं देवेभिः देवैः युक्तं जुषाणा जुषमाणा सेवमाना । छान्दसः शपो लुक्, व्यत्ययेन सार्वधातुकानुदात्तत्वाभावः । सजोषाः समानप्रीतिः । देवैः । अदितिः देवमाता स्योनं सुखस्थानं कुर्वाणा सुविते सुगते शोभना गतिर्यत्र तत्र स्थाने इमं अश्वं दधातु स्थापयतु । ‘तन्वादीनां छन्दसि बहुलम्’ इति सोरुवङादेशः । विकृतत्वादनवग्रहः । ‘नञ्सुभ्यां’ इत्युत्तरपदान्तोदात्तत्वम् ॥

मूलम् (संयुक्तम्)

ए॒ता उ॑ वस्सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भि॒श्श्रय॑माणा॒ उदातैः॑ । ऋ॒ष्वास्स॒तीᳵ क॒वष॒श्शुम्भ॑माना॒ द्वारो॑ दे॒वीस्सु॑प्राय॒णा भ॑वन्तु ।

विश्वास-प्रस्तुतिः

ए॒ता उ॑ वस्सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भि॒श् श्रय॑माणा॒ उदातैः॑ ।

ऋ॒ष्वास् स॒तीᳵ क॒वष॒श् शुम्भ॑माना॒ द्वारो॑ दे॒वीस् सु॑प्राय॒णा भ॑वन्तु ।

मूलम्

ए॒ता उ॑ वस्सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भि॒श् श्रय॑माणा॒ उदातैः॑ ।

ऋ॒ष्वास् स॒तीᳵ क॒वष॒श् शुम्भ॑माना॒ द्वारो॑ दे॒वीस् सु॑प्राय॒णा भ॑वन्तु ।

भट्टभास्कर-टीका

5पञ्चमी - एता इति ॥ उ इत्यवधारणे । एता एव सत्यः एतादृश्य एव सर्वाः कीदृश्यः सुभगाः शोभनश्रीकाः । आद्युदात्तात् ‘द्व्यचश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । विश्वरूपाः नानारूपाः । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति पूर्वपदान्तोदात्तत्वम् । पक्षोभिः पक्षस्थानीयैः आतैः दिग्भिः स [ता] ह्युछ्रियमाणा ऋष्वा महत्यः गतागतपर्याप्ताः । ऋष गतौ, औणादिको वप्रत्ययः । सतीः सत्यः एवंगुणा एव सर्वदा भवन्त्यः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । कवषः कवाटवत्यः तेन शुम्भमानाः । ‘सुपां सुलुक्’ इति स्वादेशः । यद्वा - ‘तदाचष्टे’ इति णिजन्तात् क्विप् । कवषः कवाटवत्यः ईदृश्यो द्वारो देव्यः सुप्रायणाः सुखेन प्राप्याः युष्माकं हे ऋत्विग्यजमानाः । भवन्तु । ‘छन्दसि गत्यर्थेभ्यः’ इति विच् ॥

मूलम् (संयुक्तम्)

अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखय्ँ॑ य॒ज्ञाना॑म॒भि सव्ँ॑विदा॒ने । उ॒षासा॑ वाम् [57]
सु॒हि॒र॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि ।

विश्वास-प्रस्तुतिः

अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखय्ँ॑ य॒ज्ञाना॑म॒भि सव्ँ॑विदा॒ने ।
उ॒षासा॑ वाम् सु॒हि॒रण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑व् इ॒ह सा॑दयामि । [57]

मूलम्

अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखय्ँ॑ य॒ज्ञाना॑म॒भि सव्ँ॑विदा॒ने ।
उ॒षासा॑ वाम् सु॒हि॒रण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑व् इ॒ह सा॑दयामि । [57]

भट्टभास्कर-टीका

6अथ षष्ठी - अन्तरेति ॥ मित्रावरुणत्वादेवाहोरात्रयोस्ताच्छब्द्यम् । ‘अन्तरान्तरेण’ इति द्वितीया । मित्रावरुणयोः अहोरात्रयोर्मध्ये । ‘सुपां सुलुक्’ इत्याकारः । ‘देवताद्वन्द्वे च’ इत्यानङ् । चरन्ती चरन्त्यौ । पूर्ववत् सवर्णदीर्घत्वम् । यज्ञानां मुखं प्रारम्भमभिलक्ष्य संविदाने ऐकमत्यं गते । ‘समोगमृच्छि’ इत्यात्मने पदम् । सुहिरण्ये शोभनं हितत्वं रमणीयत्वं च ययोः सुशिल्पे शोभननैपुण्ये । उभयत्र ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ईदृश्यौ उषासा उषसौ । पूर्ववदाकारः, छान्दसो वर्णविकारः । पूर्वस्य उषसोवस्थाया द्वयोरहोरत्रयोरपि विद्यमानत्वात् द्वित्वम् । ऋतस्य यज्ञस्य योनौ इह अश्वे सादयामि स्थापयामि । निमित्तात्सप्तमी, अश्वनिमित्तमद्यप्रवर्तयामि । वां युवयोर्यज्ञस्य योनौ हे दम्पती! । यद्वा - होतारावेवोच्येते उषासेति, मित्रावरुणौ देवते अन्तराप्रवर्तमानौ अहोरात्रौ यज्ञयोगार्थं स्थापयामीति । समानमन्यत् ॥

मूलम् (संयुक्तम्)

प्र॒थ॒मा वाँ॑ सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑ । अपि॑प्रय॒ञ्चोद॑ना वा॒म्मिमा॑ना॒ होता॑रा॒ ज्योतिᳶ॑ प्र॒दिशा॑ दि॒शन्ता॑ ।

विश्वास-प्रस्तुतिः

प्र॒थ॒मा वाँ॑ सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑ ।
अपि॑प्रय॒ञ् चोद॑ना वा॒म्मिमा॑ना॒ होता॑रा॒ ज्योतिᳶ॑ प्र॒दिशा॑ दि॒शन्ता॑ ।

मूलम्

प्र॒थ॒मा वाँ॑ सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑ ।
अपि॑प्रय॒ञ् चोद॑ना वा॒म्मिमा॑ना॒ होता॑रा॒ ज्योतिᳶ॑ प्र॒दिशा॑ दि॒शन्ता॑ ।

भट्टभास्कर-टीका

7सप्तमी - प्रथमा वामिति ॥ हे दम्पति! युवां युवयोरर्थाय ईदृशौ देवा होतारौ अपिप्रयं प्रीणयामि । प्रीञ् तर्पणे, छान्दसो लङ्, ‘बहुलं छन्दसि’ इति शपः श्लुः, ’ नाभ्यस्तस्य’ इति गुणाभावो व्यत्ययेन प्रवर्तते । कीदृशौ - प्रथमा प्रथमौ प्रधानौ । पूर्ववदाकारः । सरथिना सरथिनौ समानरथः सरथः तद्वन्तौ । सुवर्णा शोभनवर्णौ देवौ दीप्तिमन्तौ विश्वा भुवनानि भूतजातानि वां युवयोः चोदना चोदितानि विहितानि कर्माणि । पूर्ववदाकारः । मिमाना । यद्वा - चोदना चोदनौ कर्मणा मिमाना मानकुशलौ ज्योतिः प्रकाशं प्रदिशा प्रधानदिग्भिः दिशन्ता विसृजन्तौ । सर्वत्रैवाकारः ॥

मूलम् (संयुक्तम्)

आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञँ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् । इडोप॑हूता॒ वसु॑भिस्स॒जोषा॑ य॒ज्ञन्नो॑ देवीर॒मृते॑षु धत्त ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञँ , सर॑स्वती स॒ह रु॒द्रैर् न॑ आवीत् ।
इडोप॑हूता॒ वसु॑भिस् स॒जोषा॑ , य॒ज्ञन् नो॑ देवीर॒मृते॑षु धत्त ।

मूलम्

आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञँ , सर॑स्वती स॒ह रु॒द्रैर् न॑ आवीत् ।
इडोप॑हूता॒ वसु॑भिस् स॒जोषा॑ , य॒ज्ञन् नो॑ देवीर॒मृते॑षु धत्त ।

भट्टभास्कर-टीका

8अष्टमी - आदित्यैरिति ॥ आदित्यैस्सह नः अस्माकं यज्ञं भारती देवी वष्टु कामयताम् । वश कान्तौ । रुद्रैस्सह सरस्वती देवी नः अस्मान् आवीत् अवतु । अस्माकं वा यज्ञमवतु । छान्दसो लुङ् । इडा देवी अस्माभिः आहूता वसुभिः सजोषाः समानप्रीतिः अस्माकमवत्वित्येव । किं बहुना, देवी देव्यः यूयं तिस्रोपि इडा सरस्वती भरती च नः अस्माकं यज्ञं अमृतेषु अविद्यमानमरणेषु देवेषु धत्त स्थापयत । ‘नङो जरमर’ इत्युत्तरपदाद्युदात्तत्वम् ॥

मूलम् (संयुक्तम्)

त्वष्टा॑ वी॒रन्दे॒वका॑मञ्जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । [58]
त्वष्टे॒दव्ँविश्व॒म्भुव॑नञ्जजान ब॒होᳵ क॒र्तार॑मि॒ह य॑क्षि होतः ।

विश्वास-प्रस्तुतिः

त्वष्टा॑ वी॒रन् दे॒वका॑मञ् जजान॒ , त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । [58]
त्वष्टे॒दव्ँ विश्व॒म् भुव॑नञ् जजान , ब॒होᳵ क॒र्तार॑मि॒ह य॑क्षि होतः ।

मूलम्

त्वष्टा॑ वी॒रन् दे॒वका॑मञ् जजान॒ , त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । [58]
त्वष्टे॒दव्ँ विश्व॒म् भुव॑नञ् जजान , ब॒होᳵ क॒र्तार॑मि॒ह य॑क्षि होतः ।

भट्टभास्कर-टीका

9नवमी - त्वष्टेति ॥ त्वष्टा देवः वीरं विक्रान्तं देवकामं देवान् कामयमानम् । ‘शीलिकामि’ इति णः, पूर्वपदप्रकृतिस्वरत्वं च । जजान जनयति । तस्मादेवं बहोः सर्वस्य कर्तारं त्वष्टारं हे होतः! इह अस्मिन् कर्मणि यक्षि यज । लेटि ‘बहुलं छन्दसि’ इति शपो लुक् ॥

मूलम् (संयुक्तम्)

अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाँ ऋ॑तु॒शᳶ पाथ॑ एतु । वन॒स्पति॑र्देवलो॒कम्प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ।

विश्वास-प्रस्तुतिः

अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाँ ऋ॑तु॒शᳶ पाथ॑ एतु ।
वन॒स्पति॑र् देवलो॒कम् प्र॑जा॒नन्न् अ॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ।

मूलम्

अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाँ ऋ॑तु॒शᳶ पाथ॑ एतु ।
वन॒स्पति॑र् देवलो॒कम् प्र॑जा॒नन्न् अ॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ।

भट्टभास्कर-टीका

10दशमी - अश्व इति ॥ अश्वोऽयं घृतेन समक्तः सर्वात्मना अभ्यक्तः त्मना आत्मनैव सुभावत एव स्वादुभूत इति यावत् । ‘सुपां सुलुक्’ इति ‘मन्त्रेष्वाङ्यादेः’ इत्याकारलोपः । पाथोऽन्नं स्वादु भूत्वा देवानुपैतु उपगच्छतु ऋतुशः ऋतावृतौ काले ‘सङ्कैयकवचनाच्च’ इति शस् । देवानित्यस्मिन् नकारस्य ‘दीर्घादटि समानपादे’ इति संहितायां रुत्वम् । वनस्पतिः वानस्पत्योऽग्निः । विकारे प्रकृतिशब्दः सुट्स्वरावुक्तौ । देवलोकं प्रजानन् अग्निना आहवनीयेन सह स्वदितानि स्वादूकृतानि हव्या हव्यानि वक्षत् वहतु । ‘शेश्छन्दसि’ इति लोपः । वहेर्लेटि ‘सिब्बहुलं लेटि’ इति सिप् ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नस्स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने । स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ॥ [59]

विश्वास-प्रस्तुतिः

प्र॒जाप॑ते॒स् तप॑सा वावृधा॒नस् स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने ।
स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि , सा॒ध्या ह॒विर॑दन्तु दे॒वाः ॥ [59]

मूलम्

प्र॒जाप॑ते॒स् तप॑सा वावृधा॒नस् स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने ।
स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि , सा॒ध्या ह॒विर॑दन्तु दे॒वाः ॥ [59]

भट्टभास्कर-टीका

11एकादशी - प्रजापतेरिति ॥ प्रजापतेः यजमानस्य तपसाअनेन कर्मणा वावृधानः वर्धमामः । छान्दसस्य लिटः कानजादेशः । सद्योजातः जातमात्र एव यज्ञं अध्वरं दधिषे धारयसि अग्ने । छान्दसो लिट् । स्वाहाकृतेन स्वाहाकारेण संस्कृतेन अनेन हविषा सह याहि गच्छ देवान् । स्वाहाशब्दस्य ऊर्यादित्वेन गतित्वात् ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । हे पुरोगाः प्रथमगामिन् । ‘जनसन’ इति विट्, ‘विड्वनोः’ इत्यात्वम् । साध्या साधितेन हविषा । यद्वा - साधु याहि साधु हविरदन्तु देवाः । ‘सुपां सुलुक्’ इति विभक्तेः ध्यादेशः टिलोपः, उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥

इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये पञ्चमे काण्डे प्रथमे प्रपाठके एकादशोनुवाकः ॥

समाप्तः प्रपाठकः ॥