मूलम् (संयुक्तम्)
न ह॑ स्म॒ वै पु॒राग्निरप॑रशुवृक्णन्दहति॒ तद॑स्मै प्रयो॒ग ए॒वर्षि॑रस्वदय॒द्
विश्वास-प्रस्तुतिः
न ह॑ स्म॒ वै पु॒राग्निरप॑रशुवृक्णन् दहति ।
तद॑स्मै प्रयो॒ग ए॒वर्षि॑रस्वदयत् ।
मूलम्
न ह॑ स्म॒ वै पु॒राग्निरप॑रशुवृक्णन् दहति ।
तद॑स्मै प्रयो॒ग ए॒वर्षि॑रस्वदयत् ।
भट्टभास्कर-टीका
1न ह स्मेति ॥ अपरशुना परशुव्यतिरिक्तेन वृक्णं छिन्नम् । निष्ठायां ‘ओदितश्च’ इति नत्वम् । तस्यासिद्धत्वात् ‘खरि च’ इति चर्त्वम् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । तच्च अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपरशुवृक्णं न ददाह अस्वादुत्वात् । ‘लट् स्मे’ इति लट् । तदपरशुवृक्णमपि अस्मै अग्नये । यं प्रयुज्य य एव ऋषिः मन्त्रोऽस्वदयत् स्वादूकृतवान् । ष्वद स्वद आस्वादने, चुरादिरदन्तः ॥
मूलम् (संयुक्तम्)
यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा द॑धा॒त्यप॑रशुवृक्णमे॒वास्मै॑ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वव्ँ वेदौदु॑म्बरी॒मा द॑धा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति
विश्वास-प्रस्तुतिः
यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा द॑धाति ।
अप॑रशुवृक्णम् ए॒वास्मै॑ स्वदयति ।
सर्व॑मस्मै स्वदते॒ य ए॒वव्ँ वेद॑ ।
औदु॑म्बरी॒मा द॑धाति ।
ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति ।
मूलम्
यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा द॑धाति ।
अप॑रशुवृक्णम् ए॒वास्मै॑ स्वदयति ।
सर्व॑मस्मै स्वदते॒ य ए॒वव्ँ वेद॑ ।
औदु॑म्बरी॒मा द॑धाति ।
ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति ।
भट्टभास्कर-टीका
2कः पुनरसौ प्रयोक्तव्यः ऋषिरित्याह - यदग्न इति ॥ पञ्चभिर्मन्त्रैः पञ्चकृत्वः औदुम्बरीं समिधमादधाति अपरशुवृक्णं सर्वमप्यस्मै स्वदयति । किच य एवं वेद तस्मै च सर्वं स्वदते । औदुम्बरमिति । ‘अनुदात्तादेश्च’ इत्यञ् ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑तिर॒ग्निम॑सृजत॒ तँ सृ॒ष्टँ रक्षाँ॑सि [51]
अ॒जि॒घाँ॒स॒न्त्स ए॒तद्रा॑क्षो॒घ्नम॑पश्य॒त्तेन॒ वै स रक्षाँ॒स्यपा॑हत॒ यद्रा॑क्षो॒घ्नम्भव॑त्य॒ग्नेरे॒व तेन॑ जा॒ताद्रक्षाँ॒स्यप॑ ह॒न्त्याश्व॑त्थी॒मा द॑धात्य्
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर॒ग्निम॑सृजत ।
तँ सृ॒ष्टँ रक्षाँ॑स्यजिघाँसन् । [51]
स ए॒तद्रा॑क्षो॒घ्नम॑पश्यत् ।
तेन॒ वै स रक्षाँ॒स्यपा॑हत ।
यद्रा॑क्षो॒घ्नम् भव॑त्य् अ॒ग्नेरे॒व तेन॑ जा॒ताद्रक्षाँ॒स्यप॑ हन्ति ।
आश्व॑त्थी॒मा द॑धाति ।
मूलम्
प्र॒जाप॑तिर॒ग्निम॑सृजत ।
तँ सृ॒ष्टँ रक्षाँ॑स्यजिघाँसन् । [51]
स ए॒तद्रा॑क्षो॒घ्नम॑पश्यत् ।
तेन॒ वै स रक्षाँ॒स्यपा॑हत ।
यद्रा॑क्षो॒घ्नम् भव॑त्य् अ॒ग्नेरे॒व तेन॑ जा॒ताद्रक्षाँ॒स्यप॑ हन्ति ।
आश्व॑त्थी॒मा द॑धाति ।
भट्टभास्कर-टीका
3प्रजापतिरित्यादि ॥ राक्षोघ्नं रक्षसां हन्तुः अग्नेः स्वं ‘यदग्ने यानि’ इत्यादिकं सूक्तम् । ‘षपूर्वहन्’ इत्यल्लोपः । आश्वत्थिमिति । तिस्रो नानावृक्षीया आश्वत्थीं वैकङ्कतीं शमीमयीं इति ॥
मूलम् (संयुक्तम्)
अश्व॒त्थो वै वन॒स्पती॑नाँ सपत्नसा॒हो विजि॑त्यै॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒
विश्वास-प्रस्तुतिः
अ॒श्व॒त्थो वै वन॒स्पती॑नाँ सपत्नसा॒हो विजि॑त्यै ।
वैक॑ङ्कती॒मा द॑धाति ।
भा ए॒वाव॑ रुन्धे ।
श॒मी॒मयी॒मा द॑धाति । शान्त्यै॑ ।
मूलम्
अ॒श्व॒त्थो वै वन॒स्पती॑नाँ सपत्नसा॒हो विजि॑त्यै ।
वैक॑ङ्कती॒मा द॑धाति ।
भा ए॒वाव॑ रुन्धे ।
श॒मी॒मयी॒मा द॑धाति । शान्त्यै॑ ।
भट्टभास्कर-टीका
4समिधमादधाति - ‘दंष्ट्राभ्याम्’ इति । तिसृभिः सपत्नसाहः सपत्नानां अभिभविता । अश्वत्थशब्दात् ‘अनुदात्तादेश्च’ इत्यञ् । इतरौ व्याख्यातौ । एवं प्रथमया शत्रूणामभिभवः । द्वितीयया तेजस्वी भवति । तृतीयया शान्तिः सुखं भवति । तस्मादग्निचितः अग्निविदश्च पापं न कीर्तयेत् न चानिष्टं चिन्तयेत् इति ॥
मूलम् (संयुक्तम्)
सँ॑शितम्मे॒ ब्रह्मोदे॑षाम्बा॒हू अ॑तिर॒मित्यु॑त्त॒मे औदु॑म्बरी [52]
वा॒च॒य॒ति॒
विश्वास-प्रस्तुतिः
सँ॑शितम्मे॒ ब्रह्मोदे॑षाम्बा॒हू अ॑तिर॒मित्य् उ॑त्त॒मे औदु॑म्बरी वाचयति । [52]
मूलम्
सँ॑शितम्मे॒ ब्रह्मोदे॑षाम्बा॒हू अ॑तिर॒मित्य् उ॑त्त॒मे औदु॑म्बरी वाचयति । [52]
भट्टभास्कर-टीका
5संशितमित्यादि ॥ एते उत्तमे सूक्तस्य ऋचौ यजमानं वाचयति, किं कुर्वन् - औदुम्बरीसमिधौ तूष्णीमादधानः । पूर्ववदङि ‘सुपां सुलुक्’ इति द्वितीयाद्विवचनस्य लुक् । ‘वा छन्दसि’ इति वा पूर्वसवर्णः । उत्तमशब्दः उञ्छादिः अन्तोदात्तः ॥
मूलम् (संयुक्तम्)
ब्रह्म॑णै॒व क्ष॒त्रँ सँ श्य॑ति क्ष॒त्रेण॒ ब्रह्म॒ तस्मा॑द्ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्यम्ब्रा॑ह्म॒णन्तस्मा॑द्राज॒न्यो॑ ब्राह्म॒णवा॒नत्य॒न्यँ रा॑ज॒न्य॑म्
विश्वास-प्रस्तुतिः
ब्रह्म॑णै॒व क्ष॒त्रँ सँ श्य॑ति , क्ष॒त्रेण॒ ब्रह्म॑ ।
तस्मा॑द् ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्यम् ब्रा॑ह्म॒णम् ।
तस्मा॑द् राज॒न्यो॑ ब्राह्म॒णवा॒नत्य् अ॒न्यँ रा॑ज॒न्य॑म् ।
मूलम्
ब्रह्म॑णै॒व क्ष॒त्रँ सँ श्य॑ति , क्ष॒त्रेण॒ ब्रह्म॑ ।
तस्मा॑द् ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्यम् ब्रा॑ह्म॒णम् ।
तस्मा॑द् राज॒न्यो॑ ब्राह्म॒णवा॒नत्य् अ॒न्यँ रा॑ज॒न्य॑म् ।
भट्टभास्कर-टीका
6ब्रह्मणैवेति ॥ ब्रह्मक्षत्रशब्दौ जातिवचनौ । संश्यति तीक्ष्णं करोति । क्षत्रेण ब्रह्म संश्यतीत्येव । तस्मादित्यादि । राजन्येन सहायेन तद्वान् ब्राह्मणोऽन्यं राजन्यं ब्राह्मणमतिक्रामति क्रियाबलेन । ससाधनक्रिया उपसर्गेणोच्यते । एतेन राजन्यो व्याख्यातः ॥
मूलम् (संयुक्तम्)
मृ॒त्युर्वा ए॒ष यद॒ग्निर॒मृतँ॒ हिर॑ण्यँ रु॒क्ममन्त॑र॒म्प्रति॑ मुञ्चते॒ऽमृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्त॒
विश्वास-प्रस्तुतिः
मृ॒त्युर्वा ए॒ष यद॒ग्निः ।
अ॒मृतँ॒ हिर॑ण्यम् ।
रु॒क्ममन्त॑र॒म् प्रति॑ मुञ्चते ।
अ॒मृत॑मे॒व मृ॒त्योर् अ॒न्तर्ध॑त्ते ।
मूलम्
मृ॒त्युर्वा ए॒ष यद॒ग्निः ।
अ॒मृतँ॒ हिर॑ण्यम् ।
रु॒क्ममन्त॑र॒म् प्रति॑ मुञ्चते ।
अ॒मृत॑मे॒व मृ॒त्योर् अ॒न्तर्ध॑त्ते ।
भट्टभास्कर-टीका
7मृत्युर्वा इत्यादि ॥ दाहकत्वान्मृत्युरिवाग्निः । अमृतत्वहेतु र्हिरण्यम् । तस्मात् सूत्रोतं रुक्ममन्तरं निर्बाधं प्रतिमुञ्चते यजमानः । अमृतमेव कृत्वा मृत्योरन्तर्हितं करोति वृत्राहको हिरण्यजितोरो रुक्मम् ॥
मूलम् (संयुक्तम्)
एक॑विँशतिनिर्बाधो भव॒त्येक॑विँशति॒र्वै दे॑वलो॒का द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्यः [53]
ए॒क॒विँ॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेभ्य॑ ए॒व भ्रातृ॑व्यम॒न्तरे॑ति निर्बा॒धैर्वै दे॒वा असु॑रान्निर्बा॒धे॑ऽकुर्वत॒ तन्नि॑र्बा॒धाना॑न्निर्बाध॒त्वन्नि॑र्बा॒धी भ॑वति॒ भ्रातृ॑व्याने॒व नि॑र्बा॒धे कु॑रुते
विश्वास-प्रस्तुतिः
एक॑विँशतिनिर्बाधो भव॒ति ।
एक॑विँशति॒र्वै दे॑वलो॒का , द्वाद॑श॒ मासा॒ᳶ , पञ्च॒र्तव॒स् , त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविँ॒शः । [53]
ए॒ताव॑न्तो॒ वै दे॑वलो॒काः ।
तेभ्य॑ ए॒व भ्रातृ॑व्यम॒न्तरे॑ति ।
नि॒र्बा॒धैर्वै दे॒वा असु॑रान् निर्बा॒धे॑ऽकुर्वत ।
तन्नि॑र्बा॒धाना॑न् निर्बाध॒त्वम् ।
नि॒र्बा॒धी भ॑वति ।
भ्रातृ॑व्याने॒व नि॑र्बा॒धे कु॑रुते ।
मूलम्
एक॑विँशतिनिर्बाधो भव॒ति ।
एक॑विँशति॒र्वै दे॑वलो॒का , द्वाद॑श॒ मासा॒ᳶ , पञ्च॒र्तव॒स् , त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविँ॒शः । [53]
ए॒ताव॑न्तो॒ वै दे॑वलो॒काः ।
तेभ्य॑ ए॒व भ्रातृ॑व्यम॒न्तरे॑ति ।
नि॒र्बा॒धैर्वै दे॒वा असु॑रान् निर्बा॒धे॑ऽकुर्वत ।
तन्नि॑र्बा॒धाना॑न् निर्बाध॒त्वम् ।
नि॒र्बा॒धी भ॑वति ।
भ्रातृ॑व्याने॒व नि॑र्बा॒धे कु॑रुते ।
भट्टभास्कर-टीका
8एकविंशतिनिर्बाध इति ॥ निर्बाधः निष्फलानि । पञ्चर्तवः । हेमन्तशिशिरयोरेकत्वात् । निश्चयेन बाध्यते भ्रातृव्यः एभिरिति निर्बाधः ॥
मूलम् (संयुक्तम्)
सावित्रि॒या प्रति॑ मुञ्चते॒ प्रसू॑त्यै॒ नक्तो॒षासेत्युत्त॑रयाहोरा॒त्राभ्या॑मे॒वैन॒मुद्य॑च्छते
विश्वास-प्रस्तुतिः
सा॒वि॒त्रि॒या प्रति॑ मुञ्चते । प्रसू॑त्यै ।
न॒क्तो॒षासेत्य् उत्त॑रया ।
अ॒हो॒रा॒त्राभ्या॑म् ए॒वैन॒म् उद्य॑च्छते ।
मूलम्
सा॒वि॒त्रि॒या प्रति॑ मुञ्चते । प्रसू॑त्यै ।
न॒क्तो॒षासेत्य् उत्त॑रया ।
अ॒हो॒रा॒त्राभ्या॑म् ए॒वैन॒म् उद्य॑च्छते ।
भट्टभास्कर-टीका
9सावित्रियेति ॥ ‘विश्वा रूपाणि’ इत्यनया शिक्यपाशं प्रतिमुञ्चते तस्यानुज्ञयेति । नक्तोषासेति । इयमपि शिक्यपाशप्रतिमोचनी । रुक्मपाशप्रतिमोचनी इत्येके । उत्तरयेति । प्रतिमुञ्चतीत्येव । अहोरात्राभ्यामेवैनमुद्यच्छते उग्राजानिदेवैर्धारितम् । ‘समुदाञ्भ्यः’ इत्यात्मनेपदम् ॥
मूलम् (संयुक्तम्)
दे॒वा अ॒ग्निन्धा॑रयन्द्रविणो॒दा इत्या॑ह प्रा॒णा वै दे॒वा द्र॑विणो॒दा अ॑होरा॒त्राभ्या॑मे॒वैन॑मु॒द्यत्य॑ [54]
प्रा॒णैर्दा॑धा॒र
विश्वास-प्रस्तुतिः
दे॒वा अ॒ग्निन्धा॑रयन् द्रविणो॒दा इत्या॑ह ।
प्रा॒णा वै दे॒वा द्र॑विणो॒दाः ।
अ॒हो॒रा॒त्राभ्या॑म् ए॒वैन॑मु॒द्यत्य॑ प्रा॒णैर्दा॑धार । [54]
मूलम्
दे॒वा अ॒ग्निन्धा॑रयन् द्रविणो॒दा इत्या॑ह ।
प्रा॒णा वै दे॒वा द्र॑विणो॒दाः ।
अ॒हो॒रा॒त्राभ्या॑म् ए॒वैन॑मु॒द्यत्य॑ प्रा॒णैर्दा॑धार । [54]
भट्टभास्कर-टीका
10यदुक्तं प्राणैर्दाधारेति तदाह - देवा अग्निमित्यादि ॥ द्रविणोदा द्रविणस्य दाता । छान्दसः सकारोपजनः । शब्दान्तरं वा सकारान्तं द्रष्टव्यम् । दाधारेति छान्दसो लिट् । ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् ॥
मूलम् (संयुक्तम्)
आसी॑न॒ᳶ प्रति॑ मुञ्चते॒ तस्मा॒दासी॑नाᳶ प्र॒जाᳶ प्र जा॑यन्ते कृष्णाजि॒नमुत्त॑र॒न्तेजो॒ वै हिर॑ण्य॒म्ब्रह्म॑ कृष्णाजि॒नन्तेज॑सा चै॒वैन॒म्ब्रह्म॑णा चोभ॒यत॒ᳶ परि॑ गृह्णाति॒
विश्वास-प्रस्तुतिः
आसी॑न॒ᳶ प्रति॑ मुञ्चते ।
तस्मा॒दासी॑नाᳶ प्र॒जाᳶ प्र जा॑यन्ते ।
कृ॒ष्णा॒जि॒नमुत्त॑रम् ।
तेजो॒ वै हिर॑ण्य॒म् ब्रह्म॑ कृष्णाजि॒नम् ।
तेज॑सा चै॒वैन॒म् ब्रह्म॑णा चोभ॒यत॒ᳶ परि॑ गृह्णाति ।
मूलम्
आसी॑न॒ᳶ प्रति॑ मुञ्चते ।
तस्मा॒दासी॑नाᳶ प्र॒जाᳶ प्र जा॑यन्ते ।
कृ॒ष्णा॒जि॒नमुत्त॑रम् ।
तेजो॒ वै हिर॑ण्य॒म् ब्रह्म॑ कृष्णाजि॒नम् ।
तेज॑सा चै॒वैन॒म् ब्रह्म॑णा चोभ॒यत॒ᳶ परि॑ गृह्णाति ।
भट्टभास्कर-टीका
11आसीन इति ॥ रुक्मं शिक्यं च पाशं च । उत्तरमिति । रुक्मशिक्यपाशयोरुपरि उत्तरलोमेत्येके । तेजः तेजोहेतुः । ब्रह्मेति । ब्रह्मवर्चसहेतुः । उभयत इति । अन्तः बहिश्च । आद्यादिभ्यस्तसिः सश्चेति तसि लिति प्रत्ययात् पूर्वस्योदात्तत्वम् ॥
मूलम् (संयुक्तम्)
षडु॑द्यामँ शि॒क्य॑म्भवति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॒मुद्य॑च्छते॒ यद्द्वाद॑शोद्यामँ सव्ँवत्स॒रेणै॒व मौ॒ञ्जम्भ॑व॒त्यूर्ग्वै मुञ्जा॑ ऊ॒र्जैवैनँ॒ सम॑र्धयति सुप॒र्णो॑ऽसि
विश्वास-प्रस्तुतिः
षडु॑द्यामँ शि॒क्य॑म् भवति ।
षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑र् ए॒वैन॒म् उद्य॑च्छते ।
यद् द्वाद॑शोद्यामँ सव्ँवत्स॒रेणै॒व ।
मौ॒ञ्जम् भ॑वति ।
ऊर्ग्वै मुञ्जाः॑ । ऊ॒र्जैवैनँ॒ सम॑र्धयति ।
मूलम्
षडु॑द्यामँ शि॒क्य॑म् भवति ।
षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑र् ए॒वैन॒म् उद्य॑च्छते ।
यद् द्वाद॑शोद्यामँ सव्ँवत्स॒रेणै॒व ।
मौ॒ञ्जम् भ॑वति ।
ऊर्ग्वै मुञ्जाः॑ । ऊ॒र्जैवैनँ॒ सम॑र्धयति ।
भट्टभास्कर-टीका
12षडुद्याममिति ॥ उद्यामाः शिक्यपादाः । संवत्सरेणेति । उद्यछत इत्येव । मौञ्जमित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
सुप॒र्णो॑ऽसि ग॒रुत्मा॒नित्यवे॑क्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे॒
विश्वास-प्रस्तुतिः
सुप॒र्णो॑ऽसि ग॒रुत्मा॒नित्यवे॑क्षते ।
रू॒पमे॒वास्यै॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
मूलम्
सुप॒र्णो॑ऽसि ग॒रुत्मा॒नित्यवे॑क्षते ।
रू॒पमे॒वास्यै॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
भट्टभास्कर-टीका
13 ‘सुपर्णोसि गरूत्मान्’ इत्यवेक्षते ॥
मूलम् (संयुक्तम्)
दिव॑ङ्गच्छ॒ सुवᳶ॑ प॒तेत्या॑ह सुव॒र्गमे॒वैनल्ँ॑ लो॒कङ्ग॑मयति ॥ [55]
विश्वास-प्रस्तुतिः
दिव॑ङ्गच्छ॒ सुवᳶ॑ प॒तेत्या॑ह ।
सु॒व॒र्गम् ए॒वैनल्ँ॑ लो॒कङ् ग॑मयति ॥ [55]
मूलम्
दिव॑ङ्गच्छ॒ सुवᳶ॑ प॒तेत्या॑ह ।
सु॒व॒र्गम् ए॒वैनल्ँ॑ लो॒कङ् ग॑मयति ॥ [55]
भट्टभास्कर-टीका
14 ‘दिवं गच्छ सुवः पत’ इत्येनं उद्गृह्णाति ॥
इति पञ्चमे प्रथमे दशमोनुवाकः ॥