०८

मूलम् (संयुक्तम्)

एक॑विँशत्या॒ माषैः॑ पुरुषशी॒र्षमच्छै॑त्यमे॒ध्या वै माषा॑ अमे॒ध्यम्पु॑रुषशी॒र्षम॑मे॒ध्यैरे॒वास्या॑मे॒ध्यन्नि॑रव॒दाय॒ मेध्य॑ङ्कृ॒त्वा ह॑र॒त्येक॑विँशतिर्भवन्त्येकविँ॒शो वै पुरु॑ष॒ᳶ पुरु॑ष॒स्याप्त्यै॒

विश्वास-प्रस्तुतिः

एक॑विँशत्या॒ माषैः॑ पुरुषशी॒र्षमच्छै॑ति ।
अ॒मे॒ध्या वै माषा॑ , अमे॒ध्यम् पु॑रुषशी॒र्षम् ।
अ॒मे॒ध्यैर् ए॒वास्या॑मे॒ध्यन् नि॑रव॒दाय॒ मेध्य॑ङ्कृ॒त्वा ऽऽह॑रति ।
एक॑विँशतिर् भवन्ति ।
ए॒क॒विँ॒शो वै पुरु॑षः । पुरु॑ष॒स्याप्त्यै॑ ।

मूलम्

एक॑विँशत्या॒ माषैः॑ पुरुषशी॒र्षमच्छै॑ति ।
अ॒मे॒ध्या वै माषा॑ , अमे॒ध्यम् पु॑रुषशी॒र्षम् ।
अ॒मे॒ध्यैर् ए॒वास्या॑मे॒ध्यन् नि॑रव॒दाय॒ मेध्य॑ङ्कृ॒त्वा ऽऽह॑रति ।
एक॑विँशतिर् भवन्ति ।
ए॒क॒विँ॒शो वै पुरु॑षः । पुरु॑ष॒स्याप्त्यै॑ ।

भट्टभास्कर-टीका

1एकाविंशत्येत्यादि ॥ विंशन्माषानादाय पुरुषशिरोभिप्राप्तुं गच्छति । मेधं यज्ञं नार्हति इत्यमेध्यः । दण्डादित्वाद्यः । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । अमेध्यानां माषाणामुपरि वापेन पुरुषशिरसो यदमेध्यत्वं तन्निरवदाय तस्मिन्निष्कृष्य पृथक् स्थापितं कृत्वा शिरो मेधार्हमेव कृत्वा आहरति । छान्दसो यत् । वृषादिर्वा द्रष्टव्यः, भवार्थे यत् । एकविंशो वै पुरुष इति । दशहस्त्या अङ्गुलयो दशपद्या आत्मैकविंश इति ॥

मूलम् (संयुक्तम्)

व्यृ॑द्धव्ँ॒वा ए॒तत्प्रा॒णैर॑मे॒ध्यय्ँयत्पु॑रुषशी॒र्षँ स॑प्त॒धा वितृ॑ण्णाव्ँवल्मीकव॒पाम्प्रति॒ नि द॑धाति स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाᳶ प्रा॒णैरे॒वैन॒त्सम॑र्धयति मेध्य॒त्वाय॒

विश्वास-प्रस्तुतिः

व्यृ॑द्धव्ँ॒ वा ए॒तत् प्रा॒णैर॑मे॒ध्यय्ँ यत् पु॑रुषशी॒र्षम् ।
स॒प्त॒धा वितृ॑ण्णाव्ँ वल्मीकव॒पाम् प्रति॒ नि द॑धाति ।
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः ।
प्रा॒णैरे॒वैन॒त् सम॑र्धयति । मे॒ध्य॒त्वाय॑ ।

मूलम्

व्यृ॑द्धव्ँ॒ वा ए॒तत् प्रा॒णैर॑मे॒ध्यय्ँ यत् पु॑रुषशी॒र्षम् ।
स॒प्त॒धा वितृ॑ण्णाव्ँ वल्मीकव॒पाम् प्रति॒ नि द॑धाति ।
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः ।
प्रा॒णैरे॒वैन॒त् सम॑र्धयति । मे॒ध्य॒त्वाय॑ ।

भट्टभास्कर-टीका

2व्यृद्धमिति ॥ ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । ‘उदात्तस्वरितयोर्याः’ इति ऋकारः स्वर्यते । सप्तधा वितृण्णां छिद्रितां वल्मीकवपां वल्मकिमृदं शिरस्थाने प्रतिनिदधाति प्रतिनिधिं करोति । शीर्षण्या इति । शिरसि भवाः चक्षुरादयः सप्त प्राणाः । ‘शरीरावयवाच्च’ इयि यत्, ‘ये च तद्धिते’ इति शीर्षादेशः ॥

मूलम् (संयुक्तम्)

याव॑न्तः [39]
वै मृ॒त्युब॑न्धव॒स्तेषाय्ँ॑य॒म आधि॑पत्य॒म्परी॑याय यमगा॒थाभि॒ᳶ परि॑ गायति य॒मादे॒वैन॑द्वृङ्क्ते ति॒सृभि॒ᳶ परि॑ गायति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते॒ तस्मा॒द्गाय॑ते॒ न देय॒ङ्गाथा॒ हि तद्वृ॒ङ्क्ते॑

विश्वास-प्रस्तुतिः

याव॑न्तो॒ वै मृ॒त्युब॑न्धव॒स् तेषाय्ँ॑ , य॒म आधि॑पत्य॒म् परी॑याय ।[39]
य॒म॒गा॒थाभि॒ᳶ परि॑ गायति ।
य॒मादे॒वैन॑द् वृङ्क्ते ।
ति॒सृभि॒ᳶ परि॑ गायति ।
त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते ।
तस्मा॒द्गाय॑ते॒ न देय॑म् ।
गाथा॒ हि तद्वृ॒ङ्ते ।

मूलम्

याव॑न्तो॒ वै मृ॒त्युब॑न्धव॒स् तेषाय्ँ॑ , य॒म आधि॑पत्य॒म् परी॑याय ।[39]
य॒म॒गा॒थाभि॒ᳶ परि॑ गायति ।
य॒मादे॒वैन॑द् वृङ्क्ते ।
ति॒सृभि॒ᳶ परि॑ गायति ।
त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते ।
तस्मा॒द्गाय॑ते॒ न देय॑म् ।
गाथा॒ हि तद्वृ॒ङ्ते ।

भट्टभास्कर-टीका

3यावन्त इत्यादि ॥ मृत्युबन्धवः प्रोक्तः मृत्युरेषां बन्धुरिति । ‘योस्य कौष्ठ्य’ इत्यादिभिः तिसृभिः यमगाथाभिः परितो गायति । यमादेवैनद्वृङ्क्ते परिगृह्णाति । तिसृभिरित्यादि । गतम् । तस्मादिति । गानादृष्टं न जायते । गाथा गृह्णाति गाथाधीनात्वात् ॥

मूलम् (संयुक्तम्)

ऽग्निभ्यᳶ॑ प॒शूना ल॑भते॒ कामा॒ वा अ॒ग्नय॒ᳵ कामा॑ने॒वाव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

अ॒ग्निभ्यᳶ॑ प॒शूना ल॑भते ।
कामा॒ वा अ॒ग्नयः॑ ।
कामा॑ने॒वाव॑ रुन्धे ।

मूलम्

अ॒ग्निभ्यᳶ॑ प॒शूना ल॑भते ।
कामा॒ वा अ॒ग्नयः॑ ।
कामा॑ने॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

4अग्निभ्य इति ॥ अग्निदेवत्याः पशवोऽजाश्ववृषभवृष्णिबस्ताः आलभ्याः । कामबहुत्वाद्बहुवचनम् । कामा वा इत्यादि । तत्साधनत्वात्ताच्छब्द्यम् । काम्यन्त इति कामाः पशुपुत्रादयः ॥

मूलम् (संयुक्तम्)

यत्प॒शून्नालभे॒तान॑वरुद्धा अस्य [40]
प॒शव॑स्स्यु॒र्यत्पर्य॑ग्निकृतानुत्सृ॒जेद्य॑ज्ञवेश॒सङ्कु॑र्या॒द्यत्सँ॑स्था॒पये॑द्या॒तया॑मानि शी॒र्षाणि॑ स्यु॒र्यत्प॒शूना॒लभ॑ते॒ तेनै॒व प॒शूनव॑ रुन्द्धे॒ यत्पर्य॑ग्निकृतानुत्सृ॒जति॑ शी॒र्ष्णामया॑तयामत्वाय प्राजाप॒त्येन॒ सँ स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ ष्ठापयति

विश्वास-प्रस्तुतिः

यत् प॒शून् नालभे॒तान॑वरुद्धा अस्य प॒शव॑स् स्युः । [40]
यत् पर्य॑ग्निकृतानुत्सृ॒जेद् य॑ज्ञवेश॒सङ् कु॑र्यात् ।
यत्सँ॑स्था॒पये॑द् या॒तया॑मानि शी॒र्षाणि॑ स्युः ।
यत् प॒शूना॒लभ॑ते॒ तेनै॒व प॒शूनव॑ रुन्धे ।
यत्पर्य॑ग्निकृतानुत्सृ॒जति॑ शी॒र्ष्णामया॑तयामत्वाय ।
प्रा॒जा॒प॒त्येन॒ सँ स्था॑पयति ।
य॒ज्ञो वै प्र॒जाप॑तिर् , य॒ज्ञ ए॒व य॒ज्ञम् प्रति॑ ष्ठापयति ।

मूलम्

यत् प॒शून् नालभे॒तान॑वरुद्धा अस्य प॒शव॑स् स्युः । [40]
यत् पर्य॑ग्निकृतानुत्सृ॒जेद् य॑ज्ञवेश॒सङ् कु॑र्यात् ।
यत्सँ॑स्था॒पये॑द् या॒तया॑मानि शी॒र्षाणि॑ स्युः ।
यत् प॒शूना॒लभ॑ते॒ तेनै॒व प॒शूनव॑ रुन्धे ।
यत्पर्य॑ग्निकृतानुत्सृ॒जति॑ शी॒र्ष्णामया॑तयामत्वाय ।
प्रा॒जा॒प॒त्येन॒ सँ स्था॑पयति ।
य॒ज्ञो वै प्र॒जाप॑तिर् , य॒ज्ञ ए॒व य॒ज्ञम् प्रति॑ ष्ठापयति ।

भट्टभास्कर-टीका

5यदित्यादि ॥ अत्र त्रयः पक्षाः - अनालम्भो वा पशूनां, आलम्भोसियोगः । आलब्धानां पर्यग्निकरणानन्तरं उत्सर्गो वा, संस्थां वा गमयेत् । एतानि संस्थापनपक्षे यातयामानि गतरसानि शीर्षाणि स्युः । तस्मादालभेत पशून् । पर्यग्निकृतानामुत्सर्गे शिरसां अयातयामत्वम् । तत्र पर्यग्निकृतानां संज्ञप्तानां शिरांसि मृदा प्रलिप्य निधीयन्ते । प्राजापत्येनैव संस्थापयेत् पशून् । यज्ञो वा इत्यादि । गतम् । ‘वायव्येन पशुना स्थापयेत् प्राजापत्यः पशुपुरोडाशो द्वादशकपालः’ इत्यपरम् ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒ता आ॒प्रीर॑पश्य॒त्ताभि॒र्वै स मु॑ख॒तः [41]
आ॒त्मान॒माप्री॑णीत॒ यदे॒ता आ॒प्रियो॒ भव॑न्ति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒वैताभि॑र्मुख॒त आ प्री॑णा॒त्यप॑रिमितछन्दसो भव॒न्त्यप॑रिमितᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्या॑

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
स रि॑रिचा॒नो॑ऽमन्यत ।
स ए॒ता आ॒प्रीर॑पश्यत् ।
ताभि॒र् वै स मु॑ख॒तः आ॒त्मान॒माप्री॑णीत । [41]
यदे॒ता आ॒प्रियो॒ भव॑न्ति ।
य॒ज्ञो वै प्र॒जाप॑तिः ।
य॒ज्ञम् ए॒वैताभि॑र् मुख॒त आ प्री॑णा॒ति ।
अप॑रिमितछन्दसो भवन्ति ।
अप॑रिमितᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यैः॑ ।

मूलम्

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
स रि॑रिचा॒नो॑ऽमन्यत ।
स ए॒ता आ॒प्रीर॑पश्यत् ।
ताभि॒र् वै स मु॑ख॒तः आ॒त्मान॒माप्री॑णीत । [41]
यदे॒ता आ॒प्रियो॒ भव॑न्ति ।
य॒ज्ञो वै प्र॒जाप॑तिः ।
य॒ज्ञम् ए॒वैताभि॑र् मुख॒त आ प्री॑णा॒ति ।
अप॑रिमितछन्दसो भवन्ति ।
अप॑रिमितᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यैः॑ ।

भट्टभास्कर-टीका

6प्रजापतीरीत्यादि ॥ प्रजासृष्ट्यनन्तरं किञ्चित् रिरिचानो रिक्तोहमस्मीत्यमन्यत प्रजापतिः । लिटः कानजादेशः । अथ सः आप्रीरपश्यत् । ताभिः आत्मानं सुखत आरम्भे एवाप्रीणयत् । तस्मादेताः प्रजापत्यात्मनो यज्ञस्य मुखत एव प्रीतिहेतवः । आप्रीणात्याभिरिति आप्रियः । करणे क्विप् । आप्रीरिति छान्दसं ह्रस्वत्वम् । ताश्च ‘ऊर्ध्वा अस्य’ इत्याद्या द्वादश प्रधानाः याज्याः । अपरिमितछन्दस इति । अनेकप्रकारछन्दस इत्यर्यः । तथा हि - सर्वाश्चैताः त्रिपदाः । आसामाद्याः अन्ताश्च पादाः एकादशाक्षरा मध्ये पञ्चाक्षरः षडक्षरः सप्ताक्षरोष्टाक्षरश्च पादः । एका[अल्पा]क्षरः पिपीलिकामध्या इत्याचक्षते ‘त्रिपादनिष्ठमध्या पिपीलिकामध्या’ इति । ता एता उष्णिहः । ‘दैव्या होतारौ’ ‘तिस्रो देवीः’ इति च गायत्र्यौ । विश्वजनादित्वादपरिमितशब्दस्य तुगभावः ॥

मूलम् (संयुक्तम्)

ऊनातिरि॒क्ता मि॑थु॒नाᳶ प्रजा॑त्यै लोम॒शव्ँ वै नामै॒तच्छन्दᳶ॑ प्र॒जाप॑तेᳶ प॒शवो॑ लोम॒शाᳶ प॒शूने॒वाव॑ रुन्द्धे॒ सर्वा॑णि॒ वा ए॒ता रू॒पाणि॒ सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये॑ क्रियन्ते॒ तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य [42]
भ॒व॒न्त्य्

विश्वास-प्रस्तुतिः

ऊ॒ना॒ति॒रि॒क्ता मि॑थु॒नाः ।
प्रजा॑त्यै ।
लो॒म॒शव्ँ वै नामै॒तच् छन्दᳶ॑ प्र॒जाप॑तेः ।
प॒शवो॑ लोम॒शाः । प॒शूने॒वाव॑ रुन्धे ।
सर्वा॑णि॒ वा ए॒ता रू॒पाणि॑ ।
सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये॑ क्रियन्ते ।
तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य भवन्ति । [42]

मूलम्

ऊ॒ना॒ति॒रि॒क्ता मि॑थु॒नाः ।
प्रजा॑त्यै ।
लो॒म॒शव्ँ वै नामै॒तच् छन्दᳶ॑ प्र॒जाप॑तेः ।
प॒शवो॑ लोम॒शाः । प॒शूने॒वाव॑ रुन्धे ।
सर्वा॑णि॒ वा ए॒ता रू॒पाणि॑ ।
सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये॑ क्रियन्ते ।
तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य भवन्ति । [42]

भट्टभास्कर-टीका

7ऊनातिरिक्ता इति ॥ एवमूनातिरिक्तस्वभावतया मिथुना द्विप्रकारकत्वात् यस्मादेतस्मात्प्रजात्यै भवति । लोमशमिति । मध्ये सूक्ष्मत्वात् लोमवत्तनुतरमध्यमस्यास्तीति, लोमादित्वाच्छः । यथोक्तम् - ‘त्रिपादनिष्ठमध्या पिपीलिकामध्या’ इति । सर्वाणि वा इति । छन्दसां नानाऋक्त्वात् सर्वाणि रूपाणि एता आप्रियः । सर्वाणि अग्नौ चित्ये चेतव्ये क्रियन्ते । तस्मादित्यादि । ‘चित्याग्निचित्ये च’ इति निपात्यते । चित्याग्नेस्सम्बन्धिनि पशौ भवन्ति ॥

मूलम् (संयुक्तम्)

एक॑विँशतिँ सामिधे॒नीरन्वा॑ह॒ रुग्वा ए॑कविँ॒शो रुच॑मे॒व ग॑च्छ॒त्यथो॑ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविँ॒शश्

विश्वास-प्रस्तुतिः

एक॑विँशतिँ सामिधे॒नीरन्वा॑ह ।
रुग्वा ए॑कविँ॒शो , रुच॑मे॒व ग॑च्छति ।
अथो॑ प्रति॒ष्ठामे॒व , प्र॑ति॒ष्ठा ह्ये॑कविँ॒शः ।

मूलम्

एक॑विँशतिँ सामिधे॒नीरन्वा॑ह ।
रुग्वा ए॑कविँ॒शो , रुच॑मे॒व ग॑च्छति ।
अथो॑ प्रति॒ष्ठामे॒व , प्र॑ति॒ष्ठा ह्ये॑कविँ॒शः ।

भट्टभास्कर-टीका

8एकविंशतिमिति ॥ ‘समिधामाधाने षेण्यण्’ । अस्मिन् पशौ एकविंशंतिं ता अन्वाह । सङ्ख्याविशेषेण एकविंशतिस्तोमत्वात् तस्य च ऋक्प्रतिष्ठयोः हेतुत्वात्तयोर्लाभः । ‘स्तोमे डविधिः पञ्चदशाद्यर्थे’ इति डः । अथो अपि च प्रतिष्ठामेवैति गच्छतीत्येव । काः पुनस्ताः उच्यन्ते - प्रवो वाजाः’ इत्येकादश प्राकृत्यः, ‘समास्त्वाग्ने’ इति दश ॥

मूलम् (संयुक्तम्)

चतु॑र्विँशति॒मन्वा॑ह॒ चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रो॑ऽग्निर्वै॑श्वान॒रस्सा॒क्षादे॒व वै॑श्वान॒रमव॑ रुन्द्धे॒ परा॑ची॒रन्वा॑ह॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कस्

विश्वास-प्रस्तुतिः

चतु॑र्विँशति॒मन्वा॑ह ।
चतु॑र्विँशतिरर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॑वत्स॒रो॑ऽग्निर्वै॑श्वान॒रः ।
सा॒क्षादे॒व वै॑श्वान॒रमव॑ रुन्धे ।
परा॑ची॒रन्वा॑ह ।
परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः ।

मूलम्

चतु॑र्विँशति॒मन्वा॑ह ।
चतु॑र्विँशतिरर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॑वत्स॒रो॑ऽग्निर्वै॑श्वान॒रः ।
सा॒क्षादे॒व वै॑श्वान॒रमव॑ रुन्धे ।
परा॑ची॒रन्वा॑ह ।
परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः ।

भट्टभास्कर-टीका

9चतुर्विंशतिमिति ॥ तासां दशानामेवोद्धृत्य अवधार्य लोके ददाति । अथ ‘पृथुपाजाः’ इति द्वौ धाय्ये ददाति । अथ ‘युक्ष्वा हि’ इत्येतां ददाति । ज्योतिष्मतीं चेमामन्वाह । ता एताः पराच्योनूच्यमानाः चतुर्विंशतिः सम्पद्यन्ते । चतुर्विंशतिरर्धमासा इत्यादि । गतम् । पराचीरिति । अनावृत्ता एव । ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् । पराङिति । न कदाचिदिह अनुवर्तते ॥

मूलम् (संयुक्तम्)

समा॑स्त्वाग्न ऋ॒तवो॑ वर्धय॒न्त्वित्या॑ह॒ समा॑भिरे॒वाग्निव्ँव॑र्धयति [43]
ऋ॒तुभि॑स्सव्ँवत्स॒रव्ँ विश्वा॒ आ भा॑हि प्र॒दिशᳶ॑ पृथि॒व्या इत्या॑ह॒ तस्मा॑द॒ग्निस्सर्वा॒ दिशोऽनु॒ वि भा॑ति॒ प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒दित्या॑ह मृ॒त्युमे॒वास्मा॒दप॑ नुद॒त्युद्व॒यन्तम॑स॒स्परीत्या॑ह पा॒प्मा वै तमᳶ॑ पा॒प्मान॑मे॒वास्मा॒दप॑ ह॒न्त्यग॑न्म॒ ज्योति॑रुत्त॒ममित्या॑हा॒सौ वा आ॑दि॒त्यो ज्योति॑रुत्त॒ममा॑दि॒त्यस्यै॒व सायु॑ज्यङ्गच्छति॒

विश्वास-प्रस्तुतिः

समा॑स्त्वाऽग्न ऋ॒तवो॑ वर्धय॒न्त्व् इत्या॑ह॒ समा॑भिरे॒वाग्निव्ँ व॑र्धयति । [43]
ऋ॒तुभि॑स् सव्ँवत्स॒रम् । विश्वा॒ आ भा॑हि प्र॒दिशᳶ॑ पृथि॒व्या इत्या॑ह ।
तस्मा॑द॒ग्निस् सर्वा॒ दिशोऽनु॒ वि भा॑ति ।
प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒द् इत्या॑ह ।
मृ॒त्युमे॒वास्मा॒द् अप॑ नुदति ।
उद्व॒यन्तम॑स॒स्परि॑ + इत्या॑ह ।
पा॒प्मा वै तमः॑ ।
पा॒प्मान॑म् ए॒वास्मा॒दप॑ ह॒न्ति ।
“अग॑न्म॒ ज्योति॑रुत्त॒मम्” इत्या॑ह ।
अ॒सौ वा आ॑दि॒त्यो ज्योति॑रुत्त॒मम् ।
आ॒दि॒त्यस्यै॒व सायु॑ज्यङ् गच्छति ।

मूलम्

समा॑स्त्वाऽग्न ऋ॒तवो॑ वर्धय॒न्त्व् इत्या॑ह॒ समा॑भिरे॒वाग्निव्ँ व॑र्धयति । [43]
ऋ॒तुभि॑स् सव्ँवत्स॒रम् । विश्वा॒ आ भा॑हि प्र॒दिशᳶ॑ पृथि॒व्या इत्या॑ह ।
तस्मा॑द॒ग्निस् सर्वा॒ दिशोऽनु॒ वि भा॑ति ।
प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒द् इत्या॑ह ।
मृ॒त्युमे॒वास्मा॒द् अप॑ नुदति ।
उद्व॒यन्तम॑स॒स्परि॑ + इत्या॑ह ।
पा॒प्मा वै तमः॑ ।
पा॒प्मान॑म् ए॒वास्मा॒दप॑ ह॒न्ति ।
“अग॑न्म॒ ज्योति॑रुत्त॒मम्” इत्या॑ह ।
अ॒सौ वा आ॑दि॒त्यो ज्योति॑रुत्त॒मम् ।
आ॒दि॒त्यस्यै॒व सायु॑ज्यङ् गच्छति ।

भट्टभास्कर-टीका

10अथ मन्त्रपदान्यनुसन्धत्ते - समास्त्वेत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

न सव्ँ॑वत्स॒रस्ति॑ष्ठति॒ नास्य॒ श्रीस्ति॑ष्ठति॒ यस्यै॒ताᳵ क्रि॒यन्ते॒ ज्योति॑ष्मतीमुत्त॒मामन्वा॑ह॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥ [44]

विश्वास-प्रस्तुतिः

न सव्ँ॑वत्स॒रस् ति॑ष्ठति॒ , नास्य॒ श्रीस्ति॑ष्ठति॒ , यस्यै॒ताᳵ क्रि॒यन्ते॑ ।
ज्योति॑ष्मतीम् उत्त॒मामन्वा॑ह ।
ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद् दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥ [44]

मूलम्

न सव्ँ॑वत्स॒रस् ति॑ष्ठति॒ , नास्य॒ श्रीस्ति॑ष्ठति॒ , यस्यै॒ताᳵ क्रि॒यन्ते॑ ।
ज्योति॑ष्मतीम् उत्त॒मामन्वा॑ह ।
ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद् दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥ [44]

भट्टभास्कर-टीका

11न संवत्सर इत्यादि ॥ यस्यैताश्चतुर्विंशतिसामिधेन्यः क्रियन्ते अस्य संवत्सरश्श्रीश्च न तिष्ठति उपकरोत्येव । ज्योतिष्मतीं ‘उद्वयं तमसः’ इत्येतामन्वाह । उपरिष्टाद्धारणेन स्वर्गो लोकः प्रकाशितो भवति । अन्ये आहुः - यस्यैवमेताः क्रियन्ते अस्य संवत्सरश्श्रीश्च न तिष्ठति दीर्घकालौ न स्याताम् । ज्योतिष्मत्या उत्तमत्वे ज्योतिष्मान् भवति । संवत्सरेण श्रिया च द्युतिमान् भवति । स्वर्लोकश्चानुज्ञातो भवति । अत्र सामिधेनीनां प्रथमाम्नानेऽपि पश्वपेक्षितत्वात् पशुविधानानन्तरमाप्रीणां ब्राह्मणं, ततः सामिधेनीनां ब्राह्मणमिति ॥

इति पञ्चमे प्रथमे अष्टमोनुवाकः ॥

मूलम् (संयुक्तम्)

ष॒ड्भिर्दी॑क्षयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑न्दीक्षयति

विश्वास-प्रस्तुतिः

ष॒ड्भिर् दी॑क्षयति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैन॑न् दीक्षयति ।

मूलम्

ष॒ड्भिर् दी॑क्षयति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैन॑न् दीक्षयति ।

भट्टभास्कर-टीका

1षड्भिरित्यादि ॥ ‘आकूतिमग्निं’ इत्यादिषड्भिराग्निकीभिः दीक्षाहुतिभिः यजमानं दीक्षयति । स्थिता एव ‘आकूत्यै प्रयुजेऽग्नये’ इति पश्चादाग्निकी । ‘षट्त्रिचतुर्भ्यो हलादिः’ इति विभक्तेरुदात्तत्वम् ॥

मूलम् (संयुक्तम्)

स॒प्तभि॑र्दीक्षयति स॒प्त छन्दाँ॑सि॒ छन्दो॑भिरे॒वैन॑न्दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्य॑नु॒ष्टुभो॑त्त॒मया॑ जुहोति॒ वाग्वा अ॑नु॒ष्टुप्तस्मा॑त्प्रा॒णानाव्ँ॒वागु॑त्त॒मा

विश्वास-प्रस्तुतिः

स॒प्तभि॑र्दीक्षयति ।
स॒प्त छन्दाँ॑सि । छन्दो॑भिरे॒वैन॑न् दीक्षयति ।
विश्वे॑ दे॒वस्य॑ ने॒तुरित्य॑नु॒ष्टुभो॑त्त॒मया॑ जुहोति ।
वाग्वा अ॑नु॒ष्टुप् ।
तस्मा॑त् प्रा॒णानाव्ँ॒ वागु॑त्त॒मा ।

मूलम्

स॒प्तभि॑र्दीक्षयति ।
स॒प्त छन्दाँ॑सि । छन्दो॑भिरे॒वैन॑न् दीक्षयति ।
विश्वे॑ दे॒वस्य॑ ने॒तुरित्य॑नु॒ष्टुभो॑त्त॒मया॑ जुहोति ।
वाग्वा अ॑नु॒ष्टुप् ।
तस्मा॑त् प्रा॒णानाव्ँ॒ वागु॑त्त॒मा ।

भट्टभास्कर-टीका

2सप्तभिरिति ॥ ‘विश्वे देवस्य’ इति सप्तमी । ‘झल्युपोत्तमम्’ इत्युपोत्तमस्योदात्तत्वम् । उत्तमशब्द उञ्छादित्वादन्तोदात्तः ॥

मूलम् (संयुक्तम्)

एक॑स्माद॒क्षरा॒दना॑प्तम्प्रथ॒मम्प॒दन्तस्मा॒द्यद्वा॒चोऽना॑प्त॒न्तन्म॑नु॒ष्या॑ उप॑ जीवन्ति

विश्वास-प्रस्तुतिः

एक॑स्माद् अ॒क्षरा॒दना॑प्तम् प्रथ॒मम् प॒दम् ।
तस्मा॒द् यद् वा॒चोऽना॑प्त॒न् , तन्म॑नु॒ष्या॑ उप॑ जीवन्ति ।

मूलम्

एक॑स्माद् अ॒क्षरा॒दना॑प्तम् प्रथ॒मम् प॒दम् ।
तस्मा॒द् यद् वा॒चोऽना॑प्त॒न् , तन्म॑नु॒ष्या॑ उप॑ जीवन्ति ।

भट्टभास्कर-टीका

3एकस्मादित्यादि ॥ एकमक्षरमभिसमीक्ष्य अनाप्तं अपूर्णं प्रथमं पदं पादः अस्मिन् । तस्माद्वाचोऽनाप्तं अपरिपूर्णं तुर्यं मनुष्या उपजीवन्ति ‘तुरीयं वाचो मनुष्या वदन्ति’ इति । ननु द्वितीयमपि सप्ताक्षरमेव, सत्यम् इयादिपूरणेनाष्टाक्षरत्वं भविष्यतीति । अनेनैव न्यायेन प्रथममप्यष्टाक्षरं स्यात्, न, प्रयोजनाभावात् इयादिपूरणाप्रवृत्तेः । न हि न्यूनाक्षरत्वादेव इयादिना पूरयितव्यम् । अपि तु वृत्त्यनुरोधेन । तत्राष्टाक्षरस्य पादस्य वृत्तिलक्षणं पञ्चममक्षरं सप्तमं च लघु स्यात् षष्ठं गुर्विति । न च प्रथमे पादे इयादिना पूरितेऽपि अभीष्टवृत्तिलाभः, सत्यप्यस्मिन् सप्तमस्य गुरुत्वात् षष्ठस्य लघुत्वापत्तेः पञ्चमस्य प्रागेव लघुत्वात् । तस्मात् इयादिपूरणाप्रसङ्गात् प्रथममित्युक्तम् ॥

मूलम् (संयुक्तम्)

पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः [45]
प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत प्र॒जानाँ॒ सृष्ट्यै॒

विश्वास-प्रस्तुतिः

पू॒र्णया॑ जुहोति ।
पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः ।[45]
प्र॒जाप॑ते॒राप्त्यै॑ ।
न्यू॑नया जुहोति ।
न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत । प्र॒जानाँ॒ सृष्ट्यै॑ ।

मूलम्

पू॒र्णया॑ जुहोति ।
पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः ।[45]
प्र॒जाप॑ते॒राप्त्यै॑ ।
न्यू॑नया जुहोति ।
न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत । प्र॒जानाँ॒ सृष्ट्यै॑ ।

भट्टभास्कर-टीका

4पूर्णयेति ॥ यस्मादियं द्वितीयादिभिः पादैः पूर्णस्वभावा तस्मादनया होमः पूरणस्य प्रजापतेराप्त्यै भवति । न्यूनयेति । नितरामूना न्यूना । यस्माच्चेयं प्रथमेन पादेन न्यूनस्वभावा तस्मादनयोर्होमः प्रजानां सृष्ट्यै भवति । अतो न्यूनात् नितरामूनात् शान्तविकारात् उपादानात् प्रजापतिः प्रजा असृजत मृत्पीण्डादिव घटशरावादिविकारान् कुलालः । तस्मान्न्यूनत्वं प्रजासृष्ट्यै भवति । ‘हि च’ इति निघाताभावः ॥

मूलम् (संयुक्तम्)

यद॒र्चिषि॑ प्रवृ॒ञ्ज्याद्भू॒तमव॑ रुन्धीत॒ यदङ्गा॑रेषु भवि॒ष्यदङ्गा॑रेषु॒ प्र वृ॑णक्ति भवि॒ष्यदे॒वाव॑ रुन्द्धे भवि॒ष्यद्धि भूयो॑ भू॒ताद्द्वाभ्या॒म्प्र वृ॑णक्ति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै॒

विश्वास-प्रस्तुतिः

यद॒र्चिषि॑ प्रवृ॒ञ्ज्याद्भू॒तमव॑ रुन्धीत ।
यदङ्गा॑रेषु भवि॒ष्यत् ।
अङ्गा॑रेषु॒ प्र वृ॑णक्ति ।
भ॒वि॒ष्यदे॒वाव॑ रुन्धे ।
भ॒वि॒ष्यद्धि भूयो॑ भू॒तात् ।
द्वाभ्या॒म् प्र वृ॑णक्ति ।
द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।

मूलम्

यद॒र्चिषि॑ प्रवृ॒ञ्ज्याद्भू॒तमव॑ रुन्धीत ।
यदङ्गा॑रेषु भवि॒ष्यत् ।
अङ्गा॑रेषु॒ प्र वृ॑णक्ति ।
भ॒वि॒ष्यदे॒वाव॑ रुन्धे ।
भ॒वि॒ष्यद्धि भूयो॑ भू॒तात् ।
द्वाभ्या॒म् प्र वृ॑णक्ति ।
द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

5यदित्यादि ॥ यद्युखामर्चिषि प्रवृञ्ज्यात् पातयेत् भूतमुत्पन्नमेव अवरुन्धीत लभेत । यदङ्गारेष्विति । प्रवृञ्ज्यादित्येव । भविष्यदिति । अवरुन्धीतेत्येव । तस्मादङ्गारेष्वपि प्रवृणक्ति भविष्यदवरोधनाय । ननु भूतं नावरुध्यते तत्राह - भविष्यद्धि भूतात् बहुतरमतस्तत् भूयस्येति तमिति(?) । अपरिमितत्वात् भविष्यतो भूयस्त्वम् । द्वाभ्यामिति । ‘मासुभित्था’ इत्याभ्याम् ॥

मूलम् (संयुक्तम्)

ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ सम्भृ॑ता॒ यदु॒खा सा यद्भिद्ये॒तार्ति॒मार्च्छे॑त् [46]
यज॑मानो ह॒न्येता॑स्य य॒ज्ञो मित्रै॒तामु॒खान्त॒पेत्या॑ह॒ ब्रह्म॒ वै मि॒त्रो ब्रह्म॑न्ने॒वैना॒म्प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते॒

विश्वास-प्रस्तुतिः

ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ सम्भृ॑ता॒ यदु॒खा
सा यद्भिद्ये॒तार्ति॒मार्च्छे॑त् [46]
यज॑मानो ह॒न्येता॑स्य य॒ज्ञः ।
मि॒त्रै॒ताम् उ॒खान्त॒पेत्या॑ह ।
ब्रह्म॒ वै मि॒त्रः ।
ब्रह्म॑न्ने॒वैना॒म् प्रति॑ ष्ठापयति ।
नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते ।

मूलम्

ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ सम्भृ॑ता॒ यदु॒खा
सा यद्भिद्ये॒तार्ति॒मार्च्छे॑त् [46]
यज॑मानो ह॒न्येता॑स्य य॒ज्ञः ।
मि॒त्रै॒ताम् उ॒खान्त॒पेत्या॑ह ।
ब्रह्म॒ वै मि॒त्रः ।
ब्रह्म॑न्ने॒वैना॒म् प्रति॑ ष्ठापयति ।
नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते ।

भट्टभास्कर-टीका

6ब्रह्मणेति ॥ ‘वसवस्त्वा कृण्वन्तु’ इत्यनेन । ‘मित्रैतामुखां तप’ इति मित्रायोखा परिदीयते । प्रमितेस्त्रायत इति मित्रः ॥

मूलम् (संयुक्तम्)

यदि॒ भिद्ये॑त॒ तैरे॒व क॒पालै॒स्सँ सृ॑जे॒त्सैव तत॒ᳶ प्राय॑श्चित्ति॒र्

विश्वास-प्रस्तुतिः

यदि॒ भिद्ये॑त॒ तैरे॒व क॒पालै॒स् सँ सृ॑जेत् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

यदि॒ भिद्ये॑त॒ तैरे॒व क॒पालै॒स् सँ सृ॑जेत् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

7यदि भिद्येतेति ॥ पुनरुखाकरणे तैरेव कपालैः संसर्जनीयैः संसृजति । मृदमर्मकपालैः । सैव प्रायश्चित्तिः ततः अपचारदोषात् । प्रायोऽपचारः तन्निवृत्त्यर्थं आज्ञातं प्रायश्चितिः । दासीभारादिः । व्यत्ययेन वा प्रयोगः ॥

मूलम् (संयुक्तम्)

यो ग॒तश्री॒स्स्यान्म॑थि॒त्वा तस्याव॑ दध्याद्भू॒तो वा ए॒ष स स्वां [47]
दे॒वता॒मुपै॑ति॒

विश्वास-प्रस्तुतिः

यो ग॒तश्री॒स् स्यान् म॑थि॒त्वा तस्याव॑ दध्यात् ।
भू॒तो वा ए॒ष स स्वान् दे॒वता॒म् उपै॑ति । [47]

मूलम्

यो ग॒तश्री॒स् स्यान् म॑थि॒त्वा तस्याव॑ दध्यात् ।
भू॒तो वा ए॒ष स स्वान् दे॒वता॒म् उपै॑ति । [47]

भट्टभास्कर-टीका

8गतश्रीरिति ॥ शुश्रुवान् ग्रामणी राजन्यः च भूतः प्रभूतः । एषः गतश्रीः । स्वामेव महतीं देवतामुपैति मथित्वाऽवदानेन ॥

मूलम् (संयुक्तम्)

यो भूति॑काम॒स्स्याद्य उ॒खायै॑ स॒म्भवे॒त्स ए॒व तस्य॑ स्या॒दतो॒ ह्ये॑ष स॒म्भव॑त्ये॒ष वै स्व॑य॒म्भूर्नाम॒ भव॑त्ये॒व यङ्का॒मये॑त॒ भ्रातृ॑व्यमस्मै जनयेय॒मित्य्

विश्वास-प्रस्तुतिः

यो भूति॑काम॒स् स्यात् ।
य उ॒खायै॑ स॒म्भवे॒त् , स ए॒व तस्य॑ स्यात् ।
अतो॒ ह्ये॑ष स॒म्भव॑ति ।
ए॒ष वै स्व॑य॒म्भूर्नाम॑ ।
भव॑त्ये॒व ।
यङ्का॒मये॑त॒ - “भ्रातृ॑व्यमस्मै जनयेय॒म्” इति ।

मूलम्

यो भूति॑काम॒स् स्यात् ।
य उ॒खायै॑ स॒म्भवे॒त् , स ए॒व तस्य॑ स्यात् ।
अतो॒ ह्ये॑ष स॒म्भव॑ति ।
ए॒ष वै स्व॑य॒म्भूर्नाम॑ ।
भव॑त्ये॒व ।
यङ्का॒मये॑त॒ - “भ्रातृ॑व्यमस्मै जनयेय॒म्” इति ।

भट्टभास्कर-टीका

9य इति ॥ भूतिकामस्य उखासम्भव एवाग्निः न मथित्वाऽवदातव्यः । संभवतीति । ‘हि च’ इति निघाताभावः ॥

मूलम् (संयुक्तम्)

अ॒न्यत॒स्तस्या॒हृत्याव॑ दध्यात्सा॒क्षादे॒वास्मै॒ भ्रातृ॑व्यञ्जनयत्य्

विश्वास-प्रस्तुतिः

अ॒न्यत॒स् तस्या॒हृत्याव॑ दध्यात् ।
सा॒क्षादे॒वास्मै॒ भ्रातृ॑व्यञ् जनयति ।

मूलम्

अ॒न्यत॒स् तस्या॒हृत्याव॑ दध्यात् ।
सा॒क्षादे॒वास्मै॒ भ्रातृ॑व्यञ् जनयति ।

भट्टभास्कर-टीका

10अन्यत इति ॥ उखाव्यतिरिक्तात् ॥

मूलम् (संयुक्तम्)

अम्ब॒रीषा॒दन्न॑काम॒स्याव॑ दध्यादम्ब॒रीषे॒ वा अन्न॑म्भ्रियते॒ सयो॑न्ये॒वान्न॑म् [48]
अव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

अ॒म्ब॒रीषा॒दन्न॑कामस्याव॑ दध्यात् ।
अ॒म्ब॒रीषे॒ वा अन्न॑म्भ्रियते ।
सयो॑न्ये॒वान्न॒म् अव॑ रुन्धे ।[48]

मूलम्

अ॒म्ब॒रीषा॒दन्न॑कामस्याव॑ दध्यात् ।
अ॒म्ब॒रीषे॒ वा अन्न॑म्भ्रियते ।
सयो॑न्ये॒वान्न॒म् अव॑ रुन्धे ।[48]

भट्टभास्कर-टीका

11अम्बरीषादिति ॥ आकूत्येत्येव । अम्बरीषं भर्जनं यत्र लौकिकः पाकः ॥

मूलम् (संयुक्तम्)

मुञ्जा॒नव॑ दधा॒त्यूर्ग्वै मुञ्जा॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒

विश्वास-प्रस्तुतिः

मु॒ञ्जा॒नव॑ दधाति ।
ऊर्ग्वै मुञ्जाः॑ । ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति ।
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत ।

मूलम्

मु॒ञ्जा॒नव॑ दधाति ।
ऊर्ग्वै मुञ्जाः॑ । ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति ।
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत ।

भट्टभास्कर-टीका

12मुञ्जानित्यादि ॥ गतम् ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् । )+++

मूलम् (संयुक्तम्)

स क्रु॑मु॒कम्प्रावि॑शत्क्रुमु॒कमव॑ दधाति॒ यदे॒वास्य॒ तत्र॒ न्य॑क्त॒न्तदे॒वाव॑ रुन्द्ध॒

विश्वास-प्रस्तुतिः

स क्रु॑मु॒कम्प्रावि॑शत् ।
क्रु॒मुकमव॑ दधाति ।
यदे॒वास्य॒ तत्र॒ न्य॑क्त॒न् तदे॒वाव॑ रुन्धे ।

मूलम्

स क्रु॑मु॒कम्प्रावि॑शत् ।
क्रु॒मुकमव॑ दधाति ।
यदे॒वास्य॒ तत्र॒ न्य॑क्त॒न् तदे॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

13क्रुमुकमिति ॥ दभ्रं काष्ठशकलं न्यक्तं निलीनं अग्ने रूपम् ॥

मूलम् (संयुक्तम्)

आज्ये॑न॒ सय्ँयौ॑त्ये॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यदाज्य॑म्प्रि॒येणै॒वैन॒न्धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा [49]

विश्वास-प्रस्तुतिः

आज्ये॑न॒ सय्ँयौ॑ति ।
ए॒तद् वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यदाज्य॑म् ।
प्रि॒येणै॒वैन॒न् धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा [49]

मूलम्

आज्ये॑न॒ सय्ँयौ॑ति ।
ए॒तद् वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यदाज्य॑म् ।
प्रि॒येणै॒वैन॒न् धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा [49]

भट्टभास्कर-टीका

14आज्येनेत्यादि ॥ गतम् । तेजसेति । समर्धयतीत्येव ॥

मूलम् (संयुक्तम्)

वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒

विश्वास-प्रस्तुतिः

वैक॑ङ्कती॒मा द॑धाति ।
भा ए॒वाव॑ रुन्धे ।
श॒मी॒मयी॒मा द॑धाति ।
शान्त्यै॑ ।

मूलम्

वैक॑ङ्कती॒मा द॑धाति ।
भा ए॒वाव॑ रुन्धे ।
श॒मी॒मयी॒मा द॑धाति ।
शान्त्यै॑ ।

भट्टभास्कर-टीका

15वैकङ्कतीमिति ॥ उख्ये जाते ‘परस्या अधि’ इति वैकङ्कतीं समिधमादधाति । ‘परमस्याः परावतः’ इति शमीमयीमादधाति । ‘द्व्यचश्छन्दसि’ इति मयट् ॥

मूलम् (संयुक्तम्)

सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र्जा॒तमुप॑ तिष्ठते॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केष्वा॒विद॑ङ्गच्छ॒त्यथो॑ प्रा॒णाने॒वात्मन्ध॑त्ते ॥ [50]

विश्वास-प्रस्तुतिः

सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र् जा॒तमुप॑ तिष्ठते ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑व लो॒केष्वा॒विद॑ङ्गच्छति ।
अथो॑ प्रा॒णान् ए॒वात्मन्ध॑त्ते ॥ [50]

मूलम्

सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र् जा॒तमुप॑ तिष्ठते ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑व लो॒केष्वा॒विद॑ङ्गच्छति ।
अथो॑ प्रा॒णान् ए॒वात्मन्ध॑त्ते ॥ [50]

भट्टभास्कर-टीका

16सीद त्वमित्यादि ॥ गतम् । आविदं ख्यातिं गच्छतीति, ‘वि भाहि’ इति लिङ्गात् । अथो अपि च प्राणानात्मनि धत्ते ‘शिवो भूत्वा मह्यं’ इति लिङ्गात् । ‘सुपां सुलुक्’ इति सप्तम्या लुक् ॥

इति पञ्चमे प्रथमे नवमोनुवाकः ॥