मूलम् (संयुक्तम्)
स॒प्तभि॑र्धूपयति स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाश्शिर॑ ए॒तद्य॒ज्ञस्य॒ यदु॒खा शी॒र्षन्ने॒व य॒ज्ञस्य॑ प्रा॒णान्द॑धाति॒ तस्मा॑त्स॒प्त शी॒र्षन्प्रा॒णा अ॑श्वश॒केन॑ धूपयति प्राजाप॒त्यो वा अश्व॑स्सयोनि॒त्वाय ।
विश्वास-प्रस्तुतिः
स॒प्तभि॑र् धूपयति ।
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः ।
शिर॑ ए॒तद् य॒ज्ञस्य॒ यदु॒खा ।
शी॒र्षन्न् ए॒व य॒ज्ञस्य॑ प्रा॒णान् द॑धाति ।
तस्मा॑त् स॒प्त शी॒र्षन् प्रा॒णाः ।
अ॒श्व॒श॒केन॑ धूपयति ।
प्रा॒जा॒प॒त्यो वा अश्व॑स् , सयोनि॒त्वाय॑ ।
मूलम्
स॒प्तभि॑र् धूपयति ।
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः ।
शिर॑ ए॒तद् य॒ज्ञस्य॒ यदु॒खा ।
शी॒र्षन्न् ए॒व य॒ज्ञस्य॑ प्रा॒णान् द॑धाति ।
तस्मा॑त् स॒प्त शी॒र्षन् प्रा॒णाः ।
अ॒श्व॒श॒केन॑ धूपयति ।
प्रा॒जा॒प॒त्यो वा अश्व॑स् , सयोनि॒त्वाय॑ ।
भट्टभास्कर-टीका
1सप्तभिरिति ॥ ‘वसवस्त्वा धूपयन्तु’ इत्यादिभिः अश्वशकेन दीप्तेन उखां धूपयति । झल्युपोत्तमस्य उदात्तत्वम् । सप्त वा इति । चक्षुषी श्रोत्रे नासिके आस्यमिति । ‘ये च तद्धिते’ इति शीर्षन्भावः । शिर इति प्राधान्यात् । शीर्षन्निति । ‘सुपां सुलुक्’ इति ङेर्लुक् । ‘शीर्षन् छन्दसि’ इति शीर्षन्नादेशः । अश्वशकेनेत्यादि । शकं वालम् । शकृदित्येके । योनिः कारणं सर्वस्य प्रजापतिस्तेन सहितं धूपनं भवति ॥
मूलम् (संयुक्तम्)
अदि॑ति॒स्त्वेत्या॑हे॒यव्ँ वा अदि॑ति॒रदि॑त्यै॒वादि॑त्याङ्खनत्य॒स्या अक्रू॑रङ्काराय॒ न हि स्वस्स्वँ हि॒नस्ति॑ दे॒वाना॑न्त्वा॒ पत्नी॒रित्या॑ह दे॒वाना॑म् [35]
वा ए॒ताम्पत्न॒योऽग्रे॑ऽकुर्व॒न्ताभि॑रे॒वैना॑न्दधाति
विश्वास-प्रस्तुतिः
“अदि॑ति॒स्त्वा”+ इत्या॑ह । इ॒यव्ँ वा अदि॑तिः ।
अदि॑त्यै॒वादि॑त्याङ् खनत्य् अ॒स्या अक्रू॑रङ्काराय ।
न हि स्वस् स्वँ हि॒नस्ति॑ ।
दे॒वाना॑न् त्वा॒ पत्नी॒र् इत्या॑ह ।
दे॒वानाव्ँ॒ वा ए॒ताम् पत्न॒योऽग्रे॑ऽकुर्वन् ।[35]
ताभि॑र् ए॒वैना॑न् दधाति ।
मूलम्
“अदि॑ति॒स्त्वा”+ इत्या॑ह । इ॒यव्ँ वा अदि॑तिः ।
अदि॑त्यै॒वादि॑त्याङ् खनत्य् अ॒स्या अक्रू॑रङ्काराय ।
न हि स्वस् स्वँ हि॒नस्ति॑ ।
दे॒वाना॑न् त्वा॒ पत्नी॒र् इत्या॑ह ।
दे॒वानाव्ँ॒ वा ए॒ताम् पत्न॒योऽग्रे॑ऽकुर्वन् ।[35]
ताभि॑र् ए॒वैना॑न् दधाति ।
भट्टभास्कर-टीका
2अदितिस्त्वेति ॥ अवटं खानयति पृथिव्या अक्रूरंकारणार्थं पृथिव्यैव पृथिवीं चखानेति न हि आत्मानं हिनस्ति । तेनाध्वर्योर्नापराधः । करोतेः छान्दसः खञ् । ‘देवानां त्वा’ इत्यवटे उखां प्रवृणक्ति पत्नय इति । छान्दसं ङीपो ह्रस्वत्वम् ॥
मूलम् (संयुक्तम्)
धि॒षणा॒स्त्वेत्या॑ह वि॒द्या वै धि॒षणा॑ वि॒द्याभि॑रे॒वैना॑म॒भीन्द्धे॒ ग्नास्त्वेत्या॑ह॒ छन्दाँ॑सि॒ वै ग्नाश्छन्दो॑भिरे॒वैनाँ॑ श्रपयति॒ वरू॑त्रय॒स्त्वेत्या॑ह॒ होत्रा॒ वै वरू॑त्रयो॒ होत्रा॑भिरे॒वैना॑म्पचति॒ जन॑य॒स्त्वेत्या॑ह दे॒वानाव्ँ॒ वै पत्नीः॑ [36]
जन॑य॒स्ताभि॑रे॒वैना॑म्पचति
विश्वास-प्रस्तुतिः
“धि॒षणा॑स् त्वा” + इत्या॑ह ।
वि॒द्या वै धि॒षणा॑ । वि॒द्याभि॑र् ए॒वैना॑म॒भीन्द्धे॒
“ग्नास्त्वा॑” + इत्या॑ह ।
छन्दाँ॑सि॒ वै ग्नाः । छन्दो॑भिरे॒वैनाँ॑ श्रपयति ।
“वरू॑त्रयस् त्वा” + इत्या॑ह ।
होत्रा॒ वै वरू॑त्रयः ।
होत्रा॑भिर् ए॒वैना॑म् पचति ।
“जन॑यस्त्वा” + इत्या॑ह
दे॒वानाव्ँ॒ वै पत्नीः॑ जन॑यः । [36]
ताभि॑रे॒वैना॑म् पचति ।
मूलम्
“धि॒षणा॑स् त्वा” + इत्या॑ह ।
वि॒द्या वै धि॒षणा॑ । वि॒द्याभि॑र् ए॒वैना॑म॒भीन्द्धे॒
“ग्नास्त्वा॑” + इत्या॑ह ।
छन्दाँ॑सि॒ वै ग्नाः । छन्दो॑भिरे॒वैनाँ॑ श्रपयति ।
“वरू॑त्रयस् त्वा” + इत्या॑ह ।
होत्रा॒ वै वरू॑त्रयः ।
होत्रा॑भिर् ए॒वैना॑म् पचति ।
“जन॑यस्त्वा” + इत्या॑ह
दे॒वानाव्ँ॒ वै पत्नीः॑ जन॑यः । [36]
ताभि॑रे॒वैना॑म् पचति ।
भट्टभास्कर-टीका
3धिषणास्त्वेति पुरस्ताद्दीपयति ॥ धिषणा इति । ‘धृषेर्धिष्च संज्ञायाम्’ इति क्युप्रत्ययः । ग्नास्त्वेति । दक्षिणत उपोषति । वरूत्रय इति । तृचि ग्रसितस्कभितादौ निपात्यते । छान्दसं ङीपो ह्रस्वत्वम् । होत्रादयः सप्त होत्राः । जनयस्त्वेति उत्तरतः । पत्नीरिति । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । अत्र वरूत्रय इति युष्मच्छब्दोपादानेन ‘त्वा देवी’ इत्यादेः उभयत्र सम्बन्धं दर्शयति ॥
मूलम् (संयुक्तम्)
ष॒ड्भिᳶ प॑चति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैना॑म्पचति॒ द्विᳶ पच॒न्त्वित्या॑ह॒ तस्मा॒द्द्विस्सव्ँ॑वत्स॒रस्य॑ स॒स्यम्प॑च्यते
विश्वास-प्रस्तुतिः
ष॒ड्भिᳶ प॑चति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वैना॑म् पचति ।
“द्विᳶ पच॑न्तु” + इत्या॑ह ।
तस्मा॒द् द्विस् सव्ँ॑वत्स॒रस्य॑ स॒स्यम् प॑च्यते ।
मूलम्
ष॒ड्भिᳶ प॑चति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वैना॑म् पचति ।
“द्विᳶ पच॑न्तु” + इत्या॑ह ।
तस्मा॒द् द्विस् सव्ँ॑वत्स॒रस्य॑ स॒स्यम् प॑च्यते ।
भट्टभास्कर-टीका
4षड्भिरिति ।‘अदितिस्त्वा’ इत्याद्यैः ‘जनयस्त्वा’ इत्यन्तैः । उदकाभरणावटखननस्यापि यागार्थत्वात् । ‘षट्त्रिचतुर्भ्यः’ इति विभक्तेरुदात्तत्वम् । द्विरिति । पञ्चमषष्ठयोः । पचन्त्विति द्विराहेति नानावाक्यत्वात् निघाताभावः, समानवाक्ये पदात्परस्य निघातादिविधानात् । पच्यत इति कर्मकर्तरि यक् ॥
मूलम् (संयुक्तम्)
वारु॒ण्यु॑खाभीद्धा॑ मै॒त्रियोपै॑ति॒ शान्त्यै॑ दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैना॒म्ब्रह्म॑णा दे॒वता॑भि॒रुद्व॑प॒त्य्
विश्वास-प्रस्तुतिः
वा॒रु॒ण्यु॑खाऽभीद्धा॑ ।
मै॒त्रियोपै॑ति । शान्त्यै॑ ।
“दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्व्” इत्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैना॒म् ब्रह्म॑णा दे॒वता॑भि॒र् उद्व॑प॒ति ।
मूलम्
वा॒रु॒ण्यु॑खाऽभीद्धा॑ ।
मै॒त्रियोपै॑ति । शान्त्यै॑ ।
“दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्व्” इत्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैना॒म् ब्रह्म॑णा दे॒वता॑भि॒र् उद्व॑प॒ति ।
भट्टभास्कर-टीका
5वारुणी वरुणिमन् वरुणस्वभावान्मैत्र्येति । अभीद्धेति । इतरमुखां मित्रो भवति [मित्रो भव’ इति] परिगृह्णाति न ‘वरुणः’ इति । तेन वरुणगृहीतत्वाभावः । देवसवेति मुख्याया उखायाः अङ्गानि अनूद्वपति ॥
मूलम् (संयुक्तम्)
अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण [37]
इत्या॑ह॒ तस्मा॑द॒ग्निस्सर्वा॒ दिशोऽनु॒ वि भा॒त्युत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वमित्या॑ह॒ प्रति॑ष्ठित्या
विश्वास-प्रस्तुतिः
“अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण”+ इत्या॑ह । [37]
तस्मा॑द॒ग्निस् सर्वा॒ दिशो ऽनु॒ विभा॑ति ।
“उत्ति॑ष्ठ बृह॒ती भ॑व + ऊ॒र्ध्वा, ति॑ष्ठ ध्रु॒वा त्वम्” इत्या॑ह ।
प्रति॑ष्ठित्यै ।
मूलम्
“अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण”+ इत्या॑ह । [37]
तस्मा॑द॒ग्निस् सर्वा॒ दिशो ऽनु॒ विभा॑ति ।
“उत्ति॑ष्ठ बृह॒ती भ॑व + ऊ॒र्ध्वा, ति॑ष्ठ ध्रु॒वा त्वम्” इत्या॑ह ।
प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
6अपद्यमानेति ॥ पूर्वेणार्धर्चेन अशने प्रतिष्ठापयति, उत्तरेण च श्रपयति ॥
मूलम् (संयुक्तम्)
असु॒र्य॑म्पात्र॒मना॑च्छृण्ण॒मा च्छृ॑णत्ति देव॒त्राक॑रजक्षी॒रेणा च्छृ॑णत्ति पर॒मव्ँवा ए॒तत्पयो॒ यद॑जक्षी॒रम्प॑र॒मेणै॒वैना॒म्पय॒सा च्छृ॑णत्ति॒ यजु॑षा॒ व्यावृ॑त्त्यै॒ छन्दो॑भि॒रा च्छृ॑णत्ति॒ छन्दो॑भि॒र्वा ए॒षा क्रि॑यते॒ छन्दो॑भिरे॒व छन्दाँ॒स्या च्छृ॑णत्ति ॥ [38]
विश्वास-प्रस्तुतिः
अ॒सु॒र्य॑म् पात्र॒म् अना॑च्छृण्णम् ।
आ च्छृ॑णत्ति देव॒त्राऽकः॑ ।
अ॒ज॒क्षी॒रेणा च्छृ॑णत्ति ।
प॒र॒मव्ँ वा ए॒तत् पयो॒ , यद॑जक्षी॒रम् ।
प॒र॒मेणै॒वैना॒म् पय॒सा ऽऽच्छृ॑णत्ति ।
यजु॑षा॒ व्यावृ॑त्त्यै ।
छन्दो॑भि॒रा च्छृ॑णत्ति ।
छन्दो॑भि॒र् वा ए॒षा क्रि॑यते ।
छन्दो॑भिरे॒व छन्दाँ॒स्या च्छृ॑णत्ति ॥ [38]
मूलम्
अ॒सु॒र्य॑म् पात्र॒म् अना॑च्छृण्णम् ।
आ च्छृ॑णत्ति देव॒त्राऽकः॑ ।
अ॒ज॒क्षी॒रेणा च्छृ॑णत्ति ।
प॒र॒मव्ँ वा ए॒तत् पयो॒ , यद॑जक्षी॒रम् ।
प॒र॒मेणै॒वैना॒म् पय॒सा ऽऽच्छृ॑णत्ति ।
यजु॑षा॒ व्यावृ॑त्त्यै ।
छन्दो॑भि॒रा च्छृ॑णत्ति ।
छन्दो॑भि॒र् वा ए॒षा क्रि॑यते ।
छन्दो॑भिरे॒व छन्दाँ॒स्या च्छृ॑णत्ति ॥ [38]
भट्टभास्कर-टीका
7असुर्यमिति ॥ अनाच्छृण्णं यदभीद्धं पात्रं पयःप्रभृत्यासेचनेन दीप्तं तदसुर्यं असुरस्य स्वाम्यात् । ‘असुररय स्वम्’ इति यत् । उ छृदिर् दीप्तिदीपनयोः, रौधादिकः ।आछृणत्ति छागादिपयसा दीपयति उखाम् । देवत्राऽकरिति । देवाधीनमेव करोति । ‘देये त्रा च’ इति त्राप्रत्ययः । करोतेः छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् । परमेणेति । परमं पयोऽमृतम् । यजुषेति । आच्छृणत्तीत्येव ‘वसवस्त्वा’च्छृन्दन्तु’ इत्यादिकेन । छन्दोभिर्वा एषा क्रियत इति । ‘वसवस्त्वा कृण्वन्तु’ इति ॥
इति पञ्चमे प्रथमे सप्तमोऽनुवाकः ॥