०६

मूलम् (संयुक्तम्)

वा॒रु॒णो वा अ॒ग्निरुप॑नद्धो॒ वि पाज॒सेति॒ वि स्रँ॑सयति सवि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीव्ँवरुणमे॒निव्ँवि सृ॑जत्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताश्शा॒न्ताभि॑रे॒वास्य॒ शुचँ॑ शमयति ति॒सृभि॒रुप॑ सृजति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुचँ॑ शमयति मि॒त्रस्सँ॒सृज्य॑ पृथि॒वीमित्या॑ह मि॒त्रो वै शि॒वो दे॒वाना॒न्तेनै॒व [31]
ए॒नँ॒ सँ सृ॑जति॒ शान्त्यै॒

विश्वास-प्रस्तुतिः

वा॒रु॒णो वा अ॒ग्निरुप॑नद्धः ।
वि पाज॒सेति॒ वि स्रँ॑सयति ।
स॒वि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीव्ँ वरुणमे॒निव्ँ वि सृ॑जति ।

अ॒प उप॑ सृजति ।
आपो॒ वै शा॒न्ताः । शा॒न्ताभि॑रे॒वास्य॒ शुचँ॑ शमयति ।
ति॒सृभि॒रुप॑ सृजति । त्रि॒वृद् वा अ॒ग्निः ।
यावा॑ने॒वाग्निस् तस्य॒ शुचँ॑ शमयति ।
“मि॒त्रस्सँ॒सृज्य॑ पृथि॒वीम्” इत्या॑ह ।
मि॒त्रो वै शि॒वो दे॒वाना॑म् ।
तेनै॒व ए॒नँ॒ सँ सृ॑जति [31]। शा॑न्त्यै॑ ।

मूलम्

वा॒रु॒णो वा अ॒ग्निरुप॑नद्धः ।
वि पाज॒सेति॒ वि स्रँ॑सयति ।
स॒वि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीव्ँ वरुणमे॒निव्ँ वि सृ॑जति ।

अ॒प उप॑ सृजति ।
आपो॒ वै शा॒न्ताः । शा॒न्ताभि॑रे॒वास्य॒ शुचँ॑ शमयति ।
ति॒सृभि॒रुप॑ सृजति । त्रि॒वृद् वा अ॒ग्निः ।
यावा॑ने॒वाग्निस् तस्य॒ शुचँ॑ शमयति ।
“मि॒त्रस्सँ॒सृज्य॑ पृथि॒वीम्” इत्या॑ह ।
मि॒त्रो वै शि॒वो दे॒वाना॑म् ।
तेनै॒व ए॒नँ॒ सँ सृ॑जति [31]। शा॑न्त्यै॑ ।

भट्टभास्कर-टीका

1वरुणो वा इत्यादि ॥ विषूचीं विष्वग्गमनां वरुणमेनिं वरुणशरीरं विसृजति विश्लथयति अनेन विस्रंसनेन । अप उपसृजतीति । आपोहिष्ठादिभिः । त्रिवृद्वा इति । साहचर्यात्ताच्छब्द्यम् । त्रिरूपत्वात्त्रिवृत्त्वम् । मित्रस्संसृज्येति द्वाभ्यामर्मकपालादिभिरेनं संसृजतीति ॥

मूलम् (संयुक्तम्)

यद्ग्रा॒म्याणा॒म्पात्रा॑णाङ्क॒पालैः॑ सँसृ॒जेद्ग्रा॒म्याणि॒ पात्रा॑णि शु॒चार्प॑येदर्मकपा॒लैस्सँ सृ॑जत्ये॒तानि॒ वा अ॑नुपजीवनी॒यानि॒ तान्ये॒व शु॒चार्प॑यति॒ शर्क॑राभि॒स्सँ सृ॑जति॒ धृत्या॒ अथो॑ श॒न्त्वाय

विश्वास-प्रस्तुतिः

यद्ग्रा॒म्याणा॒म् पात्रा॑णाङ् क॒पालैः॑ सँसृ॒जेद्ग्रा॒म्याणि॒ पात्रा॑णि शु॒चार्प॑येत् ।
अ॒र्म॒क॒पा॒लैस् सँ सृ॑जति ।
ए॒तानि॒ वा अ॑नुपजीवनी॒यानि॑ ।
तान्ये॒व शु॒चा ऽर्प॑यति ।
शर्क॑राभि॒स् सँ सृ॑जति ।
धृत्यै॑ । अथो॑ श॒न्त्वाय॑ ।

मूलम्

यद्ग्रा॒म्याणा॒म् पात्रा॑णाङ् क॒पालैः॑ सँसृ॒जेद्ग्रा॒म्याणि॒ पात्रा॑णि शु॒चार्प॑येत् ।
अ॒र्म॒क॒पा॒लैस् सँ सृ॑जति ।
ए॒तानि॒ वा अ॑नुपजीवनी॒यानि॑ ।
तान्ये॒व शु॒चा ऽर्प॑यति ।
शर्क॑राभि॒स् सँ सृ॑जति ।
धृत्यै॑ । अथो॑ श॒न्त्वाय॑ ।

भट्टभास्कर-टीका

2यद्ग्राम्याणामित्यादि ॥ अर्मकपालानि पुरातनशून्याधिवासलोष्ठानि । शर्कराः शुक्ला मृत्परिणामाः । अथो अपि च शंत्वाय सुखस्थानाय ॥

मूलम् (संयुक्तम्)

अ॑जलो॒मैस्सँ सृ॑जत्ये॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूर्यद॒जा प्रि॒ययै॒वैन॑न्त॒नुवा॒ सँ सृ॑ज॒त्यथो॒ तेज॑सा कृष्णाजि॒नस्य॒ लोम॑भि॒स्सम् [32]
सृ॒ज॒ति॒

विश्वास-प्रस्तुतिः

अ॒ज॒लो॒मैस्सम् सँ सृ॑जति । ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूर् यद॒जा ।
प्रि॒ययै॒वैन॑न् त॒नुवा॒ सँ सृ॑ज॒त्य् अथो॒ तेज॑सा ।
कृ॒ष्णा॒जि॒नस्य॒ लोम॑भि॒स् सँ सृ॑जति । [32]

मूलम्

अ॒ज॒लो॒मैस्सम् सँ सृ॑जति । ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूर् यद॒जा ।
प्रि॒ययै॒वैन॑न् त॒नुवा॒ सँ सृ॑ज॒त्य् अथो॒ तेज॑सा ।
कृ॒ष्णा॒जि॒नस्य॒ लोम॑भि॒स् सँ सृ॑जति । [32]

भट्टभास्कर-टीका

3अजलोमैरिति ॥ ‘अच्प्रत्यन्ववपूर्वात्’ इति योगविभागादच् समासान्तः । अग्नेः प्रिया तनूरिति । ‘आग्नेयी वा एषा’ । यदजा’ इति । अथो अपि च तेजसैवैनं संसृजति अजलोमव्याजेन ॥

मूलम् (संयुक्तम्)

य॒ज्ञो वै कृ॑ष्णाजि॒नय्ँ य॒ज्ञेनै॒व य॒ज्ञँ सँ सृ॑जति रु॒द्रास्स॒म्भृत्य॑ पृथि॒वीमित्या॑है॒ता वा ए॒तन्दे॒वता॒ अग्रे॒ सम॑भर॒न्ताभि॑रे॒वैनँ॒ सम्भ॑रति म॒खस्य॒ शिरो॒ऽसीत्या॑ह य॒ज्ञो वै म॒खस्तस्यै॒तच्छिरो॒ यदु॒खा तस्मा॑दे॒वमा॑ह य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह य॒ज्ञस्य॒ ह्ये॑ते [33]
प॒दे अथो॒ प्रति॑ष्ठित्यै॒

विश्वास-प्रस्तुतिः

य॒ज्ञो वै कृ॑ष्णाजि॒नम् । य॒ज्ञेनै॒व य॒ज्ञँ सँ सृ॑जति ।
“रु॒द्रास्स॒म्भृत्य॑ पृथि॒वीम्” इत्या॑ह ।
ए॒ता वा ए॒तन् दे॒वता॒ अग्रे॒ सम॑भरन् ।
ताभि॑रे॒वैनँ॒ सम्भ॑रति ।
“म॒खस्य॒ शिरो॒ऽसि”+ इत्या॑ह ।
य॒ज्ञो वै म॒खः ।
तस्यै॒तच् छिरो॒ यदु॒खा ।
तस्मा॑द् ए॒वमा॑ह ।
य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह ।
य॒ज्ञस्य॒ ह्ये॑ते प॒दे [33]। अथो॒ प्रति॑ष्ठित्यै ।

मूलम्

य॒ज्ञो वै कृ॑ष्णाजि॒नम् । य॒ज्ञेनै॒व य॒ज्ञँ सँ सृ॑जति ।
“रु॒द्रास्स॒म्भृत्य॑ पृथि॒वीम्” इत्या॑ह ।
ए॒ता वा ए॒तन् दे॒वता॒ अग्रे॒ सम॑भरन् ।
ताभि॑रे॒वैनँ॒ सम्भ॑रति ।
“म॒खस्य॒ शिरो॒ऽसि”+ इत्या॑ह ।
य॒ज्ञो वै म॒खः ।
तस्यै॒तच् छिरो॒ यदु॒खा ।
तस्मा॑द् ए॒वमा॑ह ।
य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह ।
य॒ज्ञस्य॒ ह्ये॑ते प॒दे [33]। अथो॒ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

4यज्ञो वै कृष्णाजिनमिति ॥ प्रधानाङ्गत्वात् । यज्ञेनैव यज्ञजन्यमग्निं संसृजति । रुद्रास्संभृत्येति मृदं संक्षिपति । मखस्य शिरोसीति पिण्डकरणमन्त्रः । यज्ञस्य शिरस्थानीया उखा; प्रधानत्वात्, आहवनीयधारणाच्च । अस्य मन्त्रस्य रुद्रास्संभृत्येति संभवरणानन्तरभावित्वे संसृष्टामित्याद्यतिक्रमेणास्मिन्नाम्नानं समानजातीयासाहित्यलाभाय । यज्ञस्य पदे स्थ इति मृदमङ्गुष्ठाभ्यां उपनिगृह्णाति ॥

मूलम् (संयुक्तम्)

प्रान्याभि॒र्यच्छ॒त्यन्व॒न्यैर्म॑न्त्रयते मिथुन॒त्वाय॒ त्र्यु॑द्धिङ्करोति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्यै॒ छन्दो॑भिᳵ करोति वी॒र्यव्ँ॑ वै छन्दाँ॑सि वी॒र्ये॑णै॒वैना॑ङ्करोति॒ यजु॑षा॒ बिल॑ङ्करोति॒ व्यावृ॑त्त्या॒

विश्वास-प्रस्तुतिः

प्रान्याभि॒र् यच् छ॒त्यन्व॒न्यैर्म॑न्त्रयते ।
मि॒थु॒न॒त्वाय॑ ।
त्र्यु॑द्धिङ्करोति॒ , त्रय॑ इ॒मे लो॒का , ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ॥
छन्दो॑भिᳵ करोति । वी॒र्यव्ँ॑ वै छन्दाँ॑सि ।
वी॒र्ये॑णै॒वैना॑ङ् करोति ।
यजु॑षा॒ बिल॑ङ्करोति । व्यावृ॑त्त्यै ।

मूलम्

प्रान्याभि॒र् यच् छ॒त्यन्व॒न्यैर्म॑न्त्रयते ।
मि॒थु॒न॒त्वाय॑ ।
त्र्यु॑द्धिङ्करोति॒ , त्रय॑ इ॒मे लो॒का , ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ॥
छन्दो॑भिᳵ करोति । वी॒र्यव्ँ॑ वै छन्दाँ॑सि ।
वी॒र्ये॑णै॒वैना॑ङ् करोति ।
यजु॑षा॒ बिल॑ङ्करोति । व्यावृ॑त्त्यै ।

भट्टभास्कर-टीका

5प्रान्याभिरिति ॥ अन्याभिः ऋग्भिः प्रत्तान् पिण्डान् अन्यैः यजुर्भिरनुमन्त्रयत इति यावत् । ‘संसृष्टां वसुभिः’ इत्याद्या ऋचः । ‘वसवस्त्वा कृण्वन्तु’ इत्यादियजूंषि । अन्याभ्यां तृतीयम् । उद्धीयत इति उद्धिः उन्नतोऽवयवः । त्र्युद्धिं उखां करोति । त्रित्वान्वयात् लोकत्रयावाप्त्यै भवति । छन्दोभिरिति, ‘वसवस्त्वा कृण्वन्तु’ इत्युख्यैः चतुर्भिः पिण्डानुमन्त्रणैः । वीर्यं वा इति । तद्धेतुत्वात्ताच्छब्द्यम् । यजुषेति । ‘अदितिस्ते बिलं’ इति छन्दोरहितेन ॥

मूलम् (संयुक्तम्)

इय॑तीङ्करोति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तान्द्विस्त॒नाङ्क॑रोति॒ द्यावा॑पृथि॒व्योर्दोहा॑य॒ चतु॑स्स्तनाङ्करोति पशू॒नान्दोहा॑या॒ष्टास्त॑नाङ्करोति॒ छन्द॑सा॒न्दोहा॑य॒

विश्वास-प्रस्तुतिः

इय॑तीङ् करोति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताम् ।
द्वि॒स्त॒नाङ्क॑रोति । द्यावा॑पृथि॒व्योर् दोहा॑य ।
चतु॑स् स्तनाङ्करोति ।
प॒शू॒नान् दोहा॑य ।
अ॒ष्टास्त॑नाङ्करोति । छन्द॑सा॒न् दोहा॑य ।

मूलम्

इय॑तीङ् करोति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताम् ।
द्वि॒स्त॒नाङ्क॑रोति । द्यावा॑पृथि॒व्योर् दोहा॑य ।
चतु॑स् स्तनाङ्करोति ।
प॒शू॒नान् दोहा॑य ।
अ॒ष्टास्त॑नाङ्करोति । छन्द॑सा॒न् दोहा॑य ।

भट्टभास्कर-टीका

6इयतीमिति ॥ केनचित्परिमाणेन परिमितमिति यावत् । प्रादेशमिति केचित् । इदं परिमाणमस्य ‘किमिदंभ्यां वोघः’ इति वतुप् घकारश्च । ‘इदं किमोरीश्की’, यस्येति लोपः । उदात्तनिवृत्तिस्वरेण उदात्तः । प्रादेशमात्रमूर्ध्वप्रमाणेन अरत्निमात्रं तिर्यक्प्रमाणेन व्यायाममात्रं समन्तपरिमाणेन । प्रजापतिनेति । मुखं च प्रादेशमात्रं ‘यज्ञमुखं वै प्रजापतिः’ इति, तेनैव संमिता कृता भवति । द्विस्तनामिति । द्वौ स्तनावस्याः अश्रीणां रास्नायाश्च सन्धाविति । क्रोडादित्वात् ङीषभावः । ‘सङ्ख्यायास्स्तनः’ इत्युत्तरपदान्तोदात्तत्वम् । चतुस्स्तनामिति । ‘विभाषा छन्दसि’ इति अन्तोदात्ताभावे बहुव्रीहिस्वरः । एवमष्टास्तनामिति छान्दसमात्वम् । छन्दसामिति । गायत्र्यादीनि सादिच्छन्दांस्यष्टौ ॥

मूलम् (संयुक्तम्)

नवा॑श्रिमभि॒चर॑तᳵ कुर्यात्त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॑ कृ॒त्वाय॒ सा म॒हीमु॒खामिति॒ नि द॑धाति दे॒वता॑स्वे॒वैना॒म्प्रति॑ ष्ठापयति ॥ [34]

विश्वास-प्रस्तुतिः

नवा॑श्रिमभि॒चर॑तᳵ कुर्यात् ।
त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति । स्तृत्यै॑ ।
कृ॒त्वाय॒ सा म॒हीमु॒खामिति॒ नि द॑धाति ।
दे॒वता॑स्व् ए॒वैना॒म् प्रति॑ ष्ठापयति ॥ [34]

मूलम्

नवा॑श्रिमभि॒चर॑तᳵ कुर्यात् ।
त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति । स्तृत्यै॑ ।
कृ॒त्वाय॒ सा म॒हीमु॒खामिति॒ नि द॑धाति ।
दे॒वता॑स्व् ए॒वैना॒म् प्रति॑ ष्ठापयति ॥ [34]

भट्टभास्कर-टीका

7नवाश्रिमिति ॥ अभिचरतोन्यत्र चतुरश्रिमष्टाश्रिं वा । त्रिवृतमिति । त्र्यवयवात्त्रिवृत्त्वम् । वज्रस्य स्तृत्यै छादनाय भवति । कृत्वायेति खरे उखानिधानमन्त्रः ॥

इति पञ्चमे प्रथमे षष्ठोनुवाकः ॥