मूलम् (संयुक्तम्)
क्रू॒रमि॑व॒ वा अ॑स्या ए॒तत्क॑रोति॒ यत्खन॑त्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताश्शा॒न्ताभि॑रे॒वास्यै॒ शुचँ॑ शमयति॒ सन्ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधा॒त्वित्या॑ह प्रा॒णो वै वा॒युᳶ प्रा॒णेनै॒वास्यै॑ प्रा॒णँ सन्द॑धाति॒ सन्ते॑ वा॒युरित्या॑ह॒ तस्मा॑द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते॒ तस्मै॑ च देवि॒ वष॑डस्तु [21]
तुभ्य॒मित्या॑ह॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व वृष्टि॑न्दधाति॒ तस्मा॒त्सर्वा॑नृ॒तून्व॑र्षति॒
विश्वास-प्रस्तुतिः
क्रू॒रमि॑व॒ वा अ॑स्या ए॒तत्क॑रोति॒ , यत् खन॑ति ।
अ॒प उप॑ सृज॒ति ।
आपो॒ वै शा॒न्ताः ।
शा॒न्ताभि॑रे॒वास्यै॒ शुचँ॑ शमयति ।
सन्ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधा॒त्वित्या॑ह ।
प्रा॒णो वै वा॒युः । प्रा॒णेनै॒वास्यै॑ प्रा॒णँ सन्द॑धाति ।
सन्ते॑ वा॒युर् इत्या॑ह ।
तस्मा॑द् वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते ।
“तस्मै॑ च देवि॒ वष॑डस्तु तुभ्य॒म्” इत्या॑ह । [21]
षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व वृष्टि॑न् दधाति ।
तस्मा॒त् सर्वा॑न् ऋ॒तून् व॑र्षति ।
मूलम्

भट्टभास्कर-टीका
1क्रूरमिवेत्यादि ॥ अस्याः पृथिव्याः अप उपसृजति अश्वलोमेनावटं पूरयित्वा ‘सं ते वायुः’ इति मन्त्रेणाप उपसृजति अपोवनयति शान्ताः सुखहेतवः । अस्या इति चतुर्थ्यर्थे षष्ठी । प्राणेनेति । प्राणेन वायुना अस्याः प्राणस्थानीयमवटं संदधाति ‘हृदयं’ इति मन्त्रे दर्शनात् । तस्मादिति । यस्मात् वायुः सन्धातृत्वेन अभिधीयते । तस्मात् वायुप्रच्युता वृष्टिः दिवः पृथिवीं गच्छति गत्वा च खातान्यतिवारयति । ईर गतौ तौदादिकः । षड्वा इति । षट्छब्दवता षट्छब्देनापां उपसर्जनात् वाचकत्वेन षट्छब्दवत्सु षट्स्वपि ऋतुषु वृष्टिं निदधाति ॥
मूलम् (संयुक्तम्)
यद्व॑षट्कु॒र्याद्या॒तया॑माऽस्य वषट्का॒रस्स्या॒द्यन्न व॑षट्कु॒र्याद्रक्षाँ॑सि य॒ज्ञँ ह॑न्यु॒र्वडित्या॑ह प॒रोक्ष॑मे॒व वष॑ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒
विश्वास-प्रस्तुतिः
यद् व॑षट्कु॒र्याद् या॒तया॑माऽस्य वषट्का॒रस् स्या॑त् ।
यन्न व॑षट्कु॒र्याद्रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
वडित्या॑ह ।
प॒रोक्ष॑मे॒व वष॑ट्करोति॒ , नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ ,
न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति ।

2यदित्यादि ॥ वषट्कारस्य करणे यातयामा आत्तरसः स्यात् उपयुक्तत्वात् । अकरणे यज्ञं रक्षांसि च बाधेरन् । तस्माल्लुप्तवषट्कारं वडित्येव ब्रूयात् । तत्परोक्षमप्रत्यक्षं वषट्कारमेव करोति । तदनया यातयामत्वं अविकृतस्य अनुपयुक्तत्वात् । न च रक्षोभिः पीडा, एकदेशविकृतस्यानन्यत्वेन वषट्कारसद्भावात् ॥
मूलम् (संयुक्तम्)
सुजा॑तो॒ ज्योति॑षा स॒हेत्य॑नु॒ष्टुभोप॑ नह्यत्यनु॒ष्टुप् [22]
सर्वा॑णि॒ छन्दाँ॑सि॒ छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूᳶ प्रि॒ययै॒वैन॑न्त॒नुवा॒ परि॑ दधाति॒ वेदु॑को॒ वासो॑ भवति॒ य ए॒वव्ँ वेद॑ वारु॒णो वा अ॒ग्निरुप॑नद्ध॒ उदु॑ तिष्ठ स्वध्वरो॒र्ध्व ऊ॒ षु ण॑ ऊ॒तय॒ इति॑
विश्वास-प्रस्तुतिः
सुजा॑तो॒ ज्योति॑षा स॒हेत्य॑नु॒ष्टुभोप॑ नह्यति ।
अ॒नु॒ष्टुप्सर्वा॑णि॒ छन्दाँ॑सि । [22]
छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूः ।
प्रि॒ययै॒वैन॑न् त॒नुवा॒ परि॑ दधाति ।
वेदु॑को॒ वासो॑ भवति॒ य ए॒वव्ँ वेद॑ ।
वा॒रु॒णो वा अ॒ग्निर् उप॑नद्धः ।
उदु॑ तिष्ठ स्वध्वरो॒र्ध्व ऊ॒ षु ण॑ ऊ॒तय॒ इति॑।

3सुजात इत्यादि ॥ अनया त्रिष्टुभा योक्त्रेणापनह्यति परिदधाति संव्ययते एवं वेदिता लब्धवान् भवति । छान्दस उकञ् ॥
मूलम् (संयुक्तम्)
सावि॒त्रीभ्या॒मुत्ति॑ष्ठति सवि॒तृप्र॑सूत ए॒वास्यो॒र्ध्वाव्ँव॑रुणमे॒निमुत्सृ॑जति॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒
विश्वास-प्रस्तुतिः
सा॒वि॒त्रीभ्या॒म् उत्ति॑ष्ठति ।
स॒वि॒तृप्र॑सूत ए॒वास्यो॒र्ध्वाव्ँ व॑रुणमे॒निम् उत्सृ॑जति ।
द्वाभ्या॒म् प्रति॑ष्ठित्यै ।
मूलम्
सा॒वि॒त्रीभ्या॒म् उत्ति॑ष्ठति ।
स॒वि॒तृप्र॑सूत ए॒वास्यो॒र्ध्वाव्ँ व॑रुणमे॒निम् उत्सृ॑जति ।
द्वाभ्या॒म् प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
4सावित्रीभ्यामित्यादि ॥ तुल्यकार्ययोः द्वितीयायाः सावित्रीत्वात् प्रथमाऽपि सावित्री । यद्वा - देवस्सविता तमर्हतीति देव्या । ‘सुपां सुलुक्’ इति तृतीयाया लुक् । सवितृप्रसूतः सवित्राऽनुज्ञातः । ‘तृतीयाकर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । वरुणमेनिमिति । वरुणो वारयिता निरोधकः तत्सम्बन्धिनी याऽस्य मेनिः रूपं वरुणगृहीतत्वं तामूर्ध्वामुत्सृजति सादयति अनेनार्धेन । द्वाभ्यामिति प्रतितिष्ठत्येव ॥
मूलम् (संयुक्तम्)
स जा॒तो गर्भो॑ असि [23]
रोद॑स्यो॒रित्या॑हे॒मे वै रोद॑सी॒ तयो॑रे॒ष गर्भो॒ यद॒ग्निस्तस्मा॑दे॒वमा॒हाग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धी॒ष्वित्या॑ह य॒दा ह्ये॑तव्ँवि॒भर॒न्त्यथ॒ चारु॑तरो॒ भव॑ति॒ प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गा॒ इत्या॒हौष॑धयो॒ वा अ॑स्य मा॒तर॒स्ताभ्य॑ ए॒वैन॒म्प्र च्या॑वयति स्थि॒रो भ॑व वी॒ड्व॑ङ्ग॒ इति॑ गर्द॒भ आ सा॑दयति [24]
विश्वास-प्रस्तुतिः
स जा॒तो गर्भो॑ असि रोद॑स्यो॒र् इत्या॑ह । [23]
इ॒मे वै रोद॑सी ।
तयो॑रे॒ष गर्भो॒ यद॒ग्निः । तस्मा॑दे॒वमा॑ह ।
“अग्ने॒ चारु॒र् विभृ॑त॒ ओष॑धी॒ष्व्” इत्या॑ह ।
य॒दा ह्य् ए॑तव्ँ वि॒भर॒न्त्य् , अथ॒ चारु॑तरो॒ भव॑ति ।
प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गा॒ इत्या॒ह ।
ओष॑धयो॒ वा अ॑स्य मा॒तरः॑ ।
ताभ्य॑ ए॒वैन॒म् प्र च्या॑वयति ।
स्थि॒रो भ॑व वी॒ड्व॑ङ्ग॒ इति॑ गर्द॒भ आ सा॑दयति [24]

5स जात इति भरणमन्त्रः । इमे इत्यादि । गतम् । यदा हि इत्यादि । यदा ह्येतं जातमग्निं ओषधयो मातृस्थानीया विहरन्ति विविधं परिगृह्णन्ति । ‘हृग्रहोर्भः’ । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम् समासश्च । अनन्तरं चारुतरो दर्शनीयतरो भवति । तस्मादेवमाहेत्येव । ओषधयो वा इति । मातृस्थानीयानां ओषधीनां सकाशमेनं प्रापयति ॥
मूलम् (संयुक्तम्)
सन्न॑ह्यत्ये॒वैन॑मे॒तया॑ स्थे॒म्ने
विश्वास-प्रस्तुतिः
सन्न॑ह्यत्य् ए॒वैन॑म् ए॒तया॑ स्थे॒म्ने ।
मूलम्
सन्न॑ह्यत्य् ए॒वैन॑म् ए॒तया॑ स्थे॒म्ने ।
भट्टभास्कर-टीका
6सं नह्यत्येवेति ॥ एतया ऋचा आसादनं गर्दभस्य संनहनार्थम् । स्थिरो भव वीड्वङ्गो दृढाङ्गो भव वाजी भव हे अर्वन् । अरणकुशलेति । तच्च स्थेम्ने वहनकाले स्थिरत्वाय । प्रियस्थिरादिना स्थ आदेशः, उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥
मूलम् (संयुक्तम्)
ग॑र्द॒भेन॒ सम्भ॑रति॒ तस्मा॑द्गर्द॒भᳶ प॑शू॒नाम्भा॑रभा॒रित॑मो गर्द॒भेन॒ सम्भ॑रति॒ तस्मा॑द्गर्द॒भोऽप्य॑नाले॒शेत्य॒न्यान्प॒शून्मे॑द्य॒त्यन्नँ॒ ह्ये॑नेना॒र्कँ स॒म्भर॑न्ति गर्द॒भेन॒ सम्भ॑रति॒ तस्मा॑द्गर्द॒भो द्वि॒रेता॒स्सन्कनि॑ष्ठम्पशू॒नाम्प्र जा॑यते॒ऽग्निर्ह्य॑स्य॒ योनि॑न्नि॒र्दह॑ति
विश्वास-प्रस्तुतिः
ग॒र्द॒भेन॒ सम्भ॑रति ।
तस्मा॑द् गर्द॒भᳶ प॑शू॒नाम् भा॑रभा॒रित॑मः ।
ग॒र्द॒भेन॒ सम्भ॑रति ।
तस्मा॑द् गर्द॒भोऽप्य॑नाले॒शेत्य् अ॒न्यान् प॒शून् मे॑द्य॒ति ।
अन्नँ॒ ह्ये॑नेना॒र्कँ स॒म्भर॑न्ति ।
ग॒र्द॒भेन॒ सम्भ॑रति ।
तस्मा॑द् गर्द॒भो द्वि॒रेता॒स्सन् कनि॑ष्ठम् पशू॒नाम् प्र जा॑यते ।
अ॒ग्निर्ह्य॑स्य॒ योनि॑न् नि॒र्दह॑ति ।

7गर्दभेनेत्यादि ॥ पशूनां मध्ये अतिशयेन भारभारितमः भारं वोदुं समर्थः अग्नेरपि वोढृत्वात् कुशलस्सूक्ष्मो व्यावर्तकोऽन्यो हेतुः । तेनाल्पेनापि विरहितेऽस्मिन् गर्दभे सत्येव आयतनात् पशूनतिमेद्यति अतिक्रम्य मेहयति द्विरेता भवति । हेतुं समर्थयते - अन्नमिति । अर्कमर्चनीयं अनेन गर्दभेन यस्मात्संभरति तस्मात् अन्नं सन्नद्धेन तथा वोस्यति । ‘द्वितीयाटौ स्वेनः’ इत्येनादेशः अनुदात्तः । अर्चतेः कर्मणि घोञि अर्कः । तस्मादिति । द्विरेताः अपि सन् कनिष्ठं अतिस्वल्पमेव प्रजायते प्रजामुत्पादयति । अर्ग्निमिति । योनिं प्रजननशक्तिं अस्य स्त्र्यमाणो(?)निर्दहति ॥
मूलम् (संयुक्तम्)
प्र॒जासु॒ वा ए॒ष ए॒तर्ह्यारू॑ढः [25]
स ई॑श्व॒रᳶ प्र॒जाश्शु॒चा प्र॒दह॑श्शि॒वो भ॑व प्र॒जाभ्य॒ इत्या॑ह प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिर॒ इत्या॑ह मान॒व्यो॑ हि प्र॒जा मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्ष॒म्मा वन॒स्पती॒नित्या॑है॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॑श्शमयति॒ प्रैतु॑ वा॒जी कनि॑क्रद॒दित्या॑ह वा॒जी ह्ये॑ष नान॑द॒द्रास॑भ॒ᳶ पत्वेति॑ [26]
आ॒ह॒ रास॑भ॒ इति॒ ह्ये॑तमृष॒योऽव॑द॒न्भर॑न्न॒ग्निम्पु॑री॒ष्य॑मित्या॑हा॒ग्निँ ह्ये॑ष भर॑ति॒ मा पा॒द्यायु॑षᳶ पु॒रेत्या॒हायु॑रे॒वास्मि॑न्दधाति॒ तस्मा॑द्गर्द॒भस्सर्व॒मायु॑रेति॒ तस्मा॑द्गर्द॒भे पु॒रायु॑ष॒ᳶ प्रमी॑ते बिभ्यति॒
विश्वास-प्रस्तुतिः
प्र॒जासु॒ वा ए॒ष ए॒तर्ह्यारू॑ढः । [25]
स ई॑श्व॒रᳶ प्र॒जाश् शु॒चा प्र॒दहः॑ ।
“शि॒वो भ॑व प्र॒जाभ्य॒” इत्या॑ह । प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति ।
“मानु॑षीभ्य॒स् त्वम् अ॑ङ्गिर॒” इत्या॑ह । मा॒न॒व्यो॑ हि प्र॒जाः ।
“मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्ष॒म्मा वन॒स्पती॑न्”+ इत्या॑ह ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॑श् शमयति ।
“प्रैतु॑ वा॒जी कनि॑क्रद॒द्”+ इत्या॑ह । वा॒जी ह्ये॑षः ।
नान॑द॒द् रास॑भ॒ᳶ पत्वेत्या॑ह । [26]
रास॑भ॒ इति॒ ह्ये॑तमृष॒योऽव॑दन् ।
“भर॑न्न् अ॒ग्निम्पु॑री॒ष्य॑म्” इत्या॑ह ।
अ॒ग्निँ ह्ये॑ष भर॑ति ।
“मा पा॒द्यायु॑षᳶ पु॒रा” + इत्या॑ह ।
आयु॑रे॒वास्मि॑न् दधाति॒ । तस्मा॑द् गर्द॒भस् सर्व॒मायु॑रेति ।
तस्मा॑द् गर्द॒भे पु॒रायु॑ष॒ᳶ प्रमी॑ते बिभ्यति ।

8अथ शिवो भवेत्युपस्थानं विधातुमाह - प्रजास्विति ॥ यदा अग्निः बहिः आसादितो भवति एतर्हि एतस्मिन्काले एषोऽग्निः प्रजास्वारूढो भवति । पूर्ववदिदम एनादेशः । स इत्यादि । गतम् । ‘ईश्वरे तोसुन्कसुनौ’ इति दहतेः कसुन् । मानव्य इति । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । तत ‘उदात्तस्वरितयोः’ इति विभकिस्स्वर्यते । ‘प्रैतु वाजी’ इति पूर्ववन्नीयमानमनुमन्त्रयते । ‘नानदत्’ इत्यादिना शिष्टेन पादत्रयेण उत्तराभ्यां च ऋग्भ्यां गर्दभमन्वीयमानमनुमन्त्रयते । तस्मादिति । आयुषो मध्ये प्रमीते मृते गर्दभे बिभ्यति प्रजाः उत्पातत्वात् ॥
मूलम् (संयुक्तम्)
वृषा॒ग्निव्ँवृष॑ण॒म्भर॒न्नित्या॑ह वृषा॒ ह्ये॑ष वृषा॒ग्निर॒पाङ्गर्भ॑म् [27]
स॒मु॒द्रिय॒मित्या॑हा॒पाँ ह्ये॑ष गर्भो॒ यद॒ग्निरग्न॒ आ या॑हि वी॒तय॒ इति॒ वा इ॒मौ लो॒कौ व्यै॑ता॒मग्न॒ आ या॑हि वी॒तय॒ इति॒ यदाहा॒नयो॑र्लो॒कयो॒र्वीत्यै॒
विश्वास-प्रस्तुतिः
“वृषा॒ ऽग्निव्ँ वृष॑ण॒म् भर॒॑न्न्” + इत्या॑ह ।
वृषा॒ ह्ये॑षः ।
वृषा॒ग्निः ।
“अ॒पाङ्गर्भ॑म् स॒मु॒द्रिय॒म्”+ इत्या॑ह । [27]
अ॒पाँ ह्ये॑ष गर्भो॒ यद॒ग्निः ।
अग्न॒ आ या॑हि वी॒तय॒ इति॒ वा इ॒मौ लो॒कौ व्यै॑ताम् ।
अग्न॒ आ या॑हि वी॒तय॒ इति॒ यदाह॑ ।
अ॒नयो॑र् लो॒कयो॒र् वीत्यै ।

9वृषा हीति ॥ अयं सेक्ता अग्नि वृष्टिहेतुः । अग्न आयहीति वीतिः प्रजननशक्तिः । ‘मन्त्रे वृष’ इति क्तिन उदात्तत्वम् । अनयोर्लोकयोः प्रजानां प्रजननार्थं, आयाहीति वचनात् । इमौ लोकौ द्यावापृथिव्यौ व्यैतां व्यगच्छताम् । विगतयोर्ह्यनयोः प्रजननादिसिद्धिरिति । तस्मादेतद्वचनमनयोर्लोकयोः वीत्यै विगमनाय भवति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
प्रच्यु॑तो॒ वा ए॒ष आ॒यत॑ना॒दग॑तᳶ प्रति॒ष्ठाँ स ए॒तर्ह्य॑ध्व॒र्युञ्च॒ यज॑मानञ्च ध्यायत्यृ॒तँ स॒त्यमित्या॑हे॒यव्ँवा ऋ॒तम॒सौ [28]
स॒त्यम॒नयो॑रे॒वैन॒म्प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒
विश्वास-प्रस्तुतिः
प्रच्यु॑तो॒ वा ए॒ष आ॒यत॑ना॒दग॑तᳶ प्रति॒ष्ठाम् ।
स ए॒तर्ह्य॑ध्व॒र्युञ्च॒ यज॑मानञ्च ध्यायति ।
“ऋ॒तँ स॒त्यम्” इत्या॑ह ।
इ॒यव्ँ वा ऋ॒तम् , अ॒सौ स॒त्यम् । [28]
अ॒नयो॑र् ए॒वैन॒म् प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः ।

10प्रच्युत इत्यादि ॥ स्वस्थानात्प्रच्युतः प्रतिष्ठां च गतः क्वचिदास्थापितश्च । सोऽयमिदानीं अध्वर्युः यजमानं ध्यायति चिन्तयति किं कृतमाभ्यामिति क्रुध्यति । ऋतं सत्यमिति समीक्षते । प्रतिष्ठापयतीति । तेन अप्रतिष्ठितत्वदोषाभावः । नार्तिमार्छतीति । आङ्पूर्वोऽयमृच्छतिः विनाशे । अत्रानयोरेको गतिमात्रवचनः । आङ्पूर्वात् क्तिनः ‘उपसर्गादृत्ति धातौ’ इति वृद्धिः । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । अवग्रहो नेष्यते ॥
मूलम् (संयुक्तम्)
वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यद॒ग्निरुप॑नद्ध॒ ओष॑धय॒ᳶ प्रति॑ गृह्णीता॒ग्निमे॒तमित्या॑ह॒ शान्त्यै॒ व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑ती॒रित्या॑ह॒ रक्ष॑सा॒मप॑हत्यै नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिँ ह॑न॒दित्या॑ह॒ प्रति॑ष्ठित्या॒ ओष॑धय॒ᳶ प्रति॑ मोदध्वम् [29]
ए॒न॒मित्या॒हौष॑धयो॒ वा अ॒ग्नेर्भा॑ग॒धेय॒न्ताभि॑रे॒वैनँ॒ सम॑र्धयति॒ पुष्पा॑वतीस्सुपिप्प॒ला इत्या॑ह॒ तस्मा॒दोष॑धय॒ᳶ फल॑ङ्गृह्णन्त्य्
विश्वास-प्रस्तुतिः
वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यद॒ग्निरुप॑नद्धः ।
“ओष॑धय॒ᳶ प्रति॑ गृह्णीता॒ग्निम् ए॒तम्” इत्या॑ह । शान्त्यै॑ ।
“व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑तीरः” + इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
“नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिँ ह॑न॒द्” + इत्या॑ह ।
प्रति॑ष्ठित्यै ।
ओष॑धय॒ᳶ प्रति॑ मोदध्वमेनम् इत्या॑ह । [29]
ओष॑धयो॒ वा अ॒ग्नेर् भा॑गधेय॑म् ।
ताभि॑र् ए॒वैनँ॒ सम॑र्धयति ।
पुष्पा॑वतीस् सुपिप्प॒ला इत्या॑ह ।
तस्मा॒दोष॑धय॒ᳶ फल॑ङ् गृह्णन्ति ।

11वरुणो वा इत्यादि ॥ उपनद्धस्य प्रकृतत्वात् ‘ओषधयः’ इति द्वौ खर उपावहरणमन्त्रौ । शान्त्यै सुखहेतुत्वाय ॥
मूलम् (संयुक्तम्)
अयव्ँवो॒ गर्भ॑ ऋ॒त्वियᳶ॑ प्र॒त्नँ स॒धस्थ॒मास॑द॒दित्या॑ह॒ याभ्य॑ ए॒वैन॑म्प्रच्या॒वय॑ति॒ तास्वे॒वैन॒म्प्रति॑ ष्ठापयति॒ द्वाभ्या॑मु॒पाव॑हरति॒ प्रति॑ष्ठित्यै ॥ [30]
विश्वास-प्रस्तुतिः
“अयव्ँ वो॒ गर्भ॑ ऋ॒त्वियᳶ॑ प्र॒त्नँ स॒धस्थ॒मास॑द॒द्” इत्या॑ह ।
याभ्य॑ ए॒वैन॑म् प्रच्या॒वय॑ति॒ तास्वे॒वैन॒म् प्रति॑ ष्ठापयति ।
द्वाभ्या॑म् उ॒पाव॑हरति । प्रति॑ष्ठित्यै ॥ [30]
मूलम्
“अयव्ँ वो॒ गर्भ॑ ऋ॒त्वियᳶ॑ प्र॒त्नँ स॒धस्थ॒मास॑द॒द्” इत्या॑ह ।
याभ्य॑ ए॒वैन॑म् प्रच्या॒वय॑ति॒ तास्वे॒वैन॒म् प्रति॑ ष्ठापयति ।
द्वाभ्या॑म् उ॒पाव॑हरति । प्रति॑ष्ठित्यै ॥ [30]
भट्टभास्कर-टीका
12अयं व इति ॥ यासां सकाशं प्रापयितुं अयं स्थानात् प्रच्यावितः ‘प्रमातृभ्यो अधि कनिक्रदत् गाः’ इति तास्वेवौषधीषु एनं प्रतिष्ठापयति अयमग्निर्युष्माकं उत्सं आगत इति । द्वाभ्यामित्यादि । गतम् ॥
इति पञ्चमे प्रथमे पञ्चमोनुवाकः ॥