०४

मूलम् (संयुक्तम्)

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॑ खनति॒ प्रसू॑त्या॒ अथो॑ धू॒ममे॒वैतेन॑ जनयति॒ ज्योति॑ष्मन्तन्त्वाग्ने सु॒प्रती॑क॒मित्या॑ह॒ ज्योति॑रे॒वैतेन॑ जनयति॒

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॑ खनति॒ , प्रसू॑त्या॒ , अथो॑ धू॒ममे॒वैतेन॑ जनयति ।
ज्योति॑ष्मन्तन् त्वाऽग्ने सु॒प्रती॑क॒म् इत्या॑ह । ज्योति॑रे॒वैतेन॑ जनयति ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॑ खनति॒ , प्रसू॑त्या॒ , अथो॑ धू॒ममे॒वैतेन॑ जनयति ।
ज्योति॑ष्मन्तन् त्वाऽग्ने सु॒प्रती॑क॒म् इत्या॑ह । ज्योति॑रे॒वैतेन॑ जनयति ।

भट्टभास्कर-टीका

1देवस्य त्वेत्यादि ॥ द्वावेतौ खननमन्त्रौ । अथो अपि च एतेन प्रथमेन मन्त्रेण उत्पत्स्यमानस्याग्नेः धूमं जनयति प्राथम्यात् । ज्योतिरेव एतेन द्वितीयेन मन्त्रेण ॥

मूलम् (संयुक्तम्)

सो॒॑ऽग्निर्जा॒तᳶ प्र॒जाश्शु॒चार्प॑य॒त्तन्दे॒वा अ॑र्ध॒र्चेना॑शमयञ्छि॒वम्प्र॒जाभ्योऽहिँ॑सन्त॒मित्या॑ह प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति॒ द्वाभ्या॑ङ्खनति॒ प्रति॑ष्ठित्या

विश्वास-प्रस्तुतिः

सो॒॑ऽग्निर्जा॒तᳶ प्र॒जाश्शु॒चार्प॑य॒त् तन्दे॒वा अ॑र्ध॒र्चेना॑शमयन् ।
शि॒वम् प्र॒जाभ्योऽहिँ॑सन्त॒मित्या॑ह ।
प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति ।
द्वाभ्या॑ङ् खनति॒ प्रति॑ष्ठित्यै ।

मूलम्

सो॒॑ऽग्निर्जा॒तᳶ प्र॒जाश्शु॒चार्प॑य॒त् तन्दे॒वा अ॑र्ध॒र्चेना॑शमयन् ।
शि॒वम् प्र॒जाभ्योऽहिँ॑सन्त॒मित्या॑ह ।
प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति ।
द्वाभ्या॑ङ् खनति॒ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

2सोग्निरित्यादि ॥ पूर्वेणार्धेन जातमग्निं प्रजाश्शोचयन्तं उत्तरेणार्धर्चेनाशमयन्, शिवं प्रजाभ्य इति दर्शनात् ॥

मूलम् (संयुक्तम्)

अ॒पाम्पृ॒ष्ठम॒सीति॑ पुष्करप॒र्णमा [16]
ह॒र॒त्य॒पाव्ँवा ए॒तत्पृ॒ष्ठय्ँयत्पु॑ष्करप॒र्णँ रू॒पेणै॒वैन॒दा ह॑रति पुष्करप॒र्णेन॒ सम्भ॑रति॒ योनि॒र्वा अ॒ग्नेᳶ पु॑ष्करप॒र्णँ सयो॑निमे॒वाग्निँ सम्भ॑रति कृष्णाजि॒नेन॒ सम्भ॑रति

विश्वास-प्रस्तुतिः

अ॒पाम् पृ॒ष्ठम॒सीति॑ पुष्करप॒र्णम् आह॑रति। [16]
अ॒पाव्ँ वा ए॒तत् पृ॒ष्ठय्ँ , यत् पु॑ष्करप॒र्णम् । रू॒पेणै॒वैन॒द् आ ह॑रति ।

पु॒ष्क॒र॒पर्णेन॒ सम्भ॑रति ।
योनि॒र् वा अ॒ग्नेᳶ पु॑ष्करप॒र्णम् ।
सयो॑निमे॒वाग्निँ सम्भ॑रति ।

3अपामित्यादि ॥ पुष्करपर्णं पद्मपत्रं अपामेतत्पृष्ठमिव उपरिभावात् । तस्माद्रूपेणात्मीयेन सह एनदाहृतं भवति अपां पृष्ठमसि इत्याहरणात् । योनिर्वा इति । ‘त्वामग्ने पुष्करादध्यथर्वा निरमन्थत’ इति मन्त्रलिङ्गात् ।

मूलम् (संयुक्तम्)

कृष्णाजि॒नेन॒ सम्भ॑रति य॒ज्ञो वै कृ॑ष्णाजि॒नय्ँ य॒ज्ञेनै॒व य॒ज्ञँ सम्भ॑रति॒ यद्ग्रा॒म्याणा॑म्पशू॒नाञ्चर्म॑णा स॒म्भरे॑द्ग्रा॒म्यान्प॒शूञ्छु॒चार्प॑येत्कृष्णाजि॒नेन॒ सम्भ॑रत्यार॒ण्याने॒व प॒शून् [17]
शु॒चार्प॑यति॒ तस्मा॑त्स॒माव॑त्पशू॒नाम्प्र॒जाय॑मानानामार॒ण्याᳶ प॒शव॒ᳵ कनी॑याँसश्शु॒चा ह्यृ॑ता लो॑म॒तस्सम्भ॑र॒त्यतो॒ ह्य॑स्य॒ मेध्य॑ङ्कृष्णाजि॒नञ्च॑ पुष्करप॒र्णञ्च॒ सँ स्तृ॑णाती॒यव्ँ वै कृ॑ष्णाजि॒नम॒सौ पु॑ष्करप॒र्णमा॒भ्यामे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णात्य्

विश्वास-प्रस्तुतिः

कृ॒ष्णा॒जि॒नेन॒ सम्भ॑रति । य॒ज्ञो वै कृ॑ष्णाजि॒नय्ँ , य॒ज्ञेनै॒व य॒ज्ञँ सम्भ॑रति ।

यद्ग्रा॒म्याणा॑म् पशू॒नाञ् चर्म॑णा स॒म्भरे॑द् , ग्रा॒म्यान् प॒शूञ्छु॒चार्प॑येत् ,
कृष्णाजि॒नेन॒ सम्भ॑रत्य् आर॒ण्याने॒व प॒शून् शु॒चा ऽर्प॑यति । [17]

तस्मा॑त् स॒माव॑त् पशू॒नाम् प्र॒जाय॑मानानामार॒ण्याᳶ प॒शव॒ᳵ कनी॑याँसश्शु॒चा ह्यृ॑ताः ।
लो॒म॒तस् सम्भ॑र॒त्यतो॒ ह्य॑स्य॒ मेध्य॑म् ।

कृ॒ष्णा॒जि॒नञ्च॑ पुष्करप॒र्णञ्च॒ सँ स्तृ॑णाति + इ॒यव्ँ वै कृ॑ष्णाजि॒नम् ,
अ॒सौ पु॑ष्करप॒र्णम् आ॒भ्याम् ए॒वैन॑म् उभ॒यत॒ᳶ परि॑ गृह्णाति ।

4यज्ञो वा इति ॥ प्रधानसाधनत्वात् । ग्राम्याणामित्यदि । ग्राम्यसंज्ञाभाजो ये ग्राम्याः पशवो गोजाव्यश्वतरीगर्दभपुरुषोष्ट्राः सप्त द्विखुराः श्वापदानि च पक्षिणश्च सरीस्रपाणि च हस्ती च मर्कटश्च नादेयाश्चेति सप्त आरण्याः । तस्मादित्यादि । समावत् ‘समादावतुप्’ इति स्वार्थिकः । कनीयांसः स्वल्पतराः शुचा ऋतत्वात् प्राप्तत्वान्नाभिवृद्धिरारण्यानाम् । लोमतः लोमसु । आद्यादित्त्वात्तसिः । अतो हीति । यस्मादत्र संभ्रियते तस्मादिदमस्य कृष्णाजिनस्य लोम मेधार्हम् । कृष्णाजिनं चेत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ तमथ॒र्वान्व॑पश्य॒दथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्न॒ इति॑ [18]
आ॒ह॒ य ए॒वैन॑म॒न्वप॑श्य॒त्तेनै॒वैनँ॒ सम्भ॑रति॒ त्वाम॑ग्ने॒ पुष्क॑रा॒दधीत्या॑ह पुष्करप॒र्णे ह्ये॑न॒मुप॑श्रित॒मवि॑न्द॒त्तमु॑ त्वा द॒ध्यङ्ङृषि॒रित्या॑ह द॒ध्यङ्वा आ॑थर्व॒णस्ते॑ज॒स्व्या॑सी॒त्तेज॑ ए॒वास्मि॑न्दधाति॒ तमु॑ त्वा पा॒थ्यो वृषेत्या॑ह॒ पूर्व॑मे॒वोदि॒तमुत्त॑रेणा॒भि गृ॑णाति [19]

विश्वास-प्रस्तुतिः

अ॒ग्नि॒र्दे॒वेभ्यो॒ निला॑यत॒ , तमथ॒र्वा ऽन्व॑पश्यत् ।
अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्न॒ इत्या॑ह । [18]
य ए॒वैन॑म् अ॒न्वप॑श्य॒त् तेनै॒वैनँ॒ सम्भ॑रति ।
“त्वाम॑ग्ने॒ पुष्क॑रा॒दधि॑”+ इत्या॑ह । पु॒ष्क॒र॒प॒र्णे ह्ये॑न॒मुप॑श्रित॒म् अवि॑न्दत् ।
“तमु॑ त्वा द॒ध्यङ्ङृषि॒र्” इत्या॑ह ।
द॒ध्य॒ङ्वा आ॑थर्व॒णस् ते॑ज॒स्व्या॑सी॒त् , तेज॑ ए॒वास्मि॑न् दधाति ।
“तमु॑ त्वा पा॒थ्यो वृषा॑” + इत्या॑ह । पूर्व॑मे॒वोदि॒तम् उत्त॑रेणा॒भि गृ॑णाति । [19]

5अग्निर्देवेभ्यो निलायत निरगच्छत् । पूर्ववल्लत्वम् । अथर्वा नाम ऋषिः तमन्वपश्यत् । तत्र पुरीष्योसीत्यादिभिः अष्टाभिः मृदं खनति भरति । अन्वविन्दत् लब्धवान् अथर्वा । ‘हि च’ इति निघाताभावः । दध्यङ्वा इत्यादि । दध्यञ्चतीति दध्यङ् । ‘ऋत्विक्’ इत्यादिना क्विन् ‘क्विन्प्रत्ययस्य’ इति नुमः कुत्वम् । दध्यङ् नाम अथर्वणः पुत्रः ऋषिः अर्णे पाथसि भवः पाथ्यः स एव दध्यङ् । ‘पाथोनदीभ्यामण्’ । पूर्वमेवोदितमिति । पूर्वेण मन्त्रेण उक्तमेवार्थं उत्तरेणाभिगृह्णाति अनुवदति उभयोरेकार्थत्वात् ॥

मूलम् (संयुक्तम्)

च॒त॒सृभि॒स्सम्भ॑रति च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिरे॒व गा॑य॒त्रीभि॑र्ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्रा॑ह्म॒णस्त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो॑

विश्वास-प्रस्तुतिः

च॒त॒सृभि॒स् सम्भ॑रति , च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिर् ए॒व ।
गा॒य॒त्रीभि॑र्ब्राह्म॒णस्य॑ , गाय॒त्रो हि ब्रा॑ह्म॒णः ।
त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य॒ , त्रैष्टु॑भो॒ हि रा॑ज॒न्यः॑ ।

मूलम्

च॒त॒सृभि॒स् सम्भ॑रति , च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिर् ए॒व ।
गा॒य॒त्रीभि॑र्ब्राह्म॒णस्य॑ , गाय॒त्रो हि ब्रा॑ह्म॒णः ।
त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य॒ , त्रैष्टु॑भो॒ हि रा॑ज॒न्यः॑ ।

भट्टभास्कर-टीका

6चतसृभिरिति सञ्ख्याविधिः । छन्दोभिरेवेति । सम्भरणं कृतं भवतीति । गायत्रीभिरित्यादि छन्दोविधिः । अत्रादितश्चतस्रो गायत्र्यः । तिस्रः त्रिष्टुभः पञ्चम्याद्याः । सप्तमी पथ्याबृहतीति, त्रिष्टुबेव वा; छन्दोन्तरस्येहाप्रस्तुतत्वात् ॥

मूलम् (संयुक्तम्)

यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दित्यु॒भयी॑भि॒स्तस्य॒ सम्भ॑रे॒त्तेज॑श्चै॒वास्मा॑ इन्द्रि॒यञ्च॑ स॒मीची॑ दधात्य्

विश्वास-प्रस्तुतिः

यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒द् इति॑ + उ॒भयी॑भि॒स् तस्य॒ सम्भ॑रेत् । तेज॑श्चै॒वास्मा॑ इन्द्रि॒यञ् च॑ स॒मीची॑ दधाति ।

मूलम्

यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒द् इति॑ + उ॒भयी॑भि॒स् तस्य॒ सम्भ॑रेत् । तेज॑श्चै॒वास्मा॑ इन्द्रि॒यञ् च॑ स॒मीची॑ दधाति ।

भट्टभास्कर-टीका

7यं कामयेतेति पक्षान्तरम् । वसीयान् वसुमत्तरः । ‘विन्मतोर्लुक्’ ‘टेः’ इति टिलोपः । समीची सङ्गते । संपूर्वादञ्चतेः ‘ऋत्विक्’ इत्यादिना क्विन्, ‘समस्समि’ इति सम्यादेशः ‘चौ’ इति दीर्घत्वम्, अन्तोदात्तं च । ‘नपुंसकाच्च’ इति शीभावः ॥

मूलम् (संयुक्तम्)

अष्टा॒भिस्सम्भ॑रत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्यावा॑ने॒वाग्निस्तँ सम्भ॑रति॒ सीद॑ होत॒रित्या॑ह दे॒वता॑ ए॒वास्मै॒ सँ सा॑दयति॒ नि होतेति॑ मनु॒ष्या॑न्त्सँ सी॑द॒स्वेति॒ वयाँ॑सि॒ जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॒मित्या॑ह देवमनु॒ष्याने॒वास्मै॒ सँस॑न्ना॒न्प्र ज॑नयति ॥ [20]

विश्वास-प्रस्तुतिः

अ॒ष्टा॒भिस् सम्भ॑रति । अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॑य॒त्रो॑ऽग्निर् यावा॑न् ए॒वाग्निस् तँ सम्भ॑रति ।
सीद॑ होत॒रित्या॑ह , दे॒वता॑ ए॒वास्मै॒ सँ सा॑दयति ।
नि होतेति॑ मनु॒ष्या॑न्त्सँ सी॑द॒स्वेति॒ वयाँ॑सि ।
“जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॒म्” इत्या॑ह ।
दे॒व॒म॒नु॒ष्याने॒वास्मै॒ सँस॑न्ना॒न् प्र ज॑नयति ॥ [20]

8अष्टाभिरिति पक्षान्तरम् । ‘सीद होतः’ इत्यादिमन्त्रत्रयेण देवान्मनुष्यान् वयांसि च अस्मै संसादयति सङ्गतान् स्थापयति च धनपातनाय ‘देवान् हविषा यजासि’ इति प्रथमे दर्शनात् `होतृषदने विदानः’ इति द्वितीये दर्शनात् । मनुष्यहोतृग्रहणात् तृतीये ‘देववीतमः’ इति दर्शनात् देवानां तर्पयितृतमः चित्याग्निः सपक्षपुच्छादेति । देवमतुष्यानिति । उपलक्षणत्वाद्वयांसि च ॥

इति पञ्चमे प्रथमे चतुर्थोनुवाकः ॥