०३

मूलम् (संयुक्तम्)

उत्क्रा॒मोद॑क्रमी॒दिति॒ द्वाभ्या॒मुत्क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्या॒न्तस्मा॒दनु॑रूपाᳶ प॒शव॒ᳶ प्र जा॑यन्ते॒ऽप उप॑ सृजति॒ यत्र॒ वा आप॑ उप॒गच्छ॑न्ति॒ तदोष॑धय॒ᳶ प्रति॑ तिष्ठ॒न्त्योष॑धीᳶ प्रति॒तिष्ठ॑न्तीᳶ प॒शवोऽनु॒ प्रति॑ तिष्ठन्ति प॒शून्य॒ज्ञो य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जास्तस्मा॑द॒प उप॑ सृजति॒ प्रति॑ष्ठित्यै॒

विश्वास-प्रस्तुतिः

उत्क्रा॒मोद॑क्रमी॒दिति॒ द्वाभ्या॒म् उत्क्र॑मयति । प्रति॑ष्ठित्यै ।
अनु॑रूपाभ्याम् ।
तस्मा॒दनु॑रूपाᳶ प॒शव॒ᳶ प्र जा॑यन्ते ।
अ॒प उप॑ सृजति ।
यत्र॒ वा आप॑ उप॒गच्छ॑न्ति॒ , तदोष॑धय॒ᳶ प्रति॑ तिष्ठन्ति ।
ओष॑धीᳶ प्रति॒तिष्ठ॑न्तीᳶ प॒शवोऽनु॒ प्रति॑ तिष्ठन्ति ।
प॒शून्य॒ज्ञः । य॒ज्ञय्ँ यज॑मानः । यज॑मानम् प्र॒जाः ।
तस्मा॑द॒प उप॑ सृजति । प्रति॑ष्ठित्यै ।

मूलम्

भट्टभास्कर-टीका

1उत्क्रामोदक्रमीदिति ॥ द्वाभ्यां अश्वं प्राञ्चमुत्क्रामयति । द्वित्वात् प्रतिष्ठित्यै भवति । ‘उत्क्राम महते सौभगाय, उदक्रमीद्द्रविणोदा वाजी’ इति दर्शनात् आनुरूप्यमनयोः कर्मणि । आपो देवीरिति पदाशयमद्भिरुपसृजति । यत्र वा इत्यादि । गतम् । लक्षणे अनोः कर्मप्रवचनीयत्वम् ॥

मूलम् (संयुक्तम्)

यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जुहु॒याद॒न्धो॑ऽध्व॒र्युः [11]
स्या॒द्रक्षाँ॑सि य॒ज्ञँ ह॑न्यु॒र्हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो॑ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒ जिघ॑र्म्य॒ग्निम्मन॑सा घृ॒तेनेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति प्रति॒क्ष्यन्त॒म्भुव॑नानि॒ विश्वेत्या॑ह॒ सर्वँ॒ ह्ये॑ष प्र॒त्यङ्क्षेति॑ पृ॒थुन्ति॑र॒श्चा वय॑सा बृ॒हन्त॒मित्या॒हाल्पो॒ ह्ये॑ष जा॒तो म॒हान् [12]
भव॑ति॒ व्यचि॑ष्ठ॒मन्नँ॑ रभ॒सव्ँविदा॑न॒मित्या॒हान्न॑मे॒वास्मै॑ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वव्ँ वेद

विश्वास-प्रस्तुतिः

यद॑ध्व॒र्युर् अ॑न॒ग्नावाहु॑तिञ् जुहु॒याद् अ॒न्धो॑ऽध्व॒र्युस् स्या॒द् रक्षाँ॑सि य॒ज्ञँ ह॑न्युः । [11]
हिर॑ण्यमु॒पास्य॑ जुहोति ।
अ॒ग्नि॒वत्ये॒व जु॑होति ।
नान्धो॑ ऽध्व॒र्युर् भव॑ति॒ , न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति ।
जिघ॑र्म्य॒ग्निम्मन॑सा घृ॒तेन॑"+ इत्या॑ह ।
मन॑सा॒ हि पुरु॑षो य॒ज्ञम् अ॑भि॒गच्छ॑ति ।
“प्रति॒क्ष्यन्त॒म् भुव॑नानि॒ विश्वा॑”+ इत्या॑ह ।
सर्वँ॒ ह्ये॑ष प्र॒त्यङ्क्षेति॑ ।
“पृ॒थुन्ति॑र॒श्चा वय॑सा बृ॒हन्त॒म्” इत्या॑ह ।
अल्पो॒ ह्ये॑ष जा॒तो म॒हान् भव॑ति ।[12]
व्यचि॑ष्ठ॒मन्नँ॑ रभ॒सव्ँ विदा॑न॒म्" इत्या॑ह ।
अन्न॑मे॒वास्मै॑ स्वदयति ।
सर्व॑मस्मै स्वदते॒ य ए॒वव्ँ वेद॑ ।

2यदध्वर्युरित्यादि ॥ यत्र दक्षिणेऽवान्तरशफे जिघर्म्यग्निमित्यभिजुहोति तत्र हिरण्यं निधाय होतव्यमित्यनेन विधीयते । मनसा हीति । अभि गच्छति संकल्पयति । सर्वं ह्येष इति । एष ह्यग्निं सर्वं भूतजातं प्रत्यङ्क्षेति अनुप्रविशति सर्वोपकारित्वात् सर्वगतत्वाच्च । क्षि निवासगत्योः तौदादिकः, व्यत्ययेन शपो लुक् । तस्मात्प्रतिक्ष्यन्तमुच्यते इति व्यत्ययेन उदङ्ग [. . . त्ययेन अङ्] क्रियते इति मन्यते । पृथुमित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्या॑ह॒ तस्मा॒द्यत्पुरु॑षो॒ मन॑साभि॒गच्छ॑ति॒ तद्वा॒चा व॑दत्यर॒क्षसेत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै॒ मर्य॑श्रीस्स्पृह॒यद्व॑र्णो अ॒ग्निरित्या॒हाप॑चितिमे॒वास्मि॑न्दधा॒त्यप॑चितिमान्भवति॒ य ए॒वं [13]
वेद॒ मन॑सा॒ त्वै तामाप्तु॑मर्हति॒ याम॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जु॒होति॒ मन॑स्वतीभ्याञ्जुहो॒त्याहु॑त्यो॒राप्त्यै॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै

विश्वास-प्रस्तुतिः

आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्या॑ह ।
तस्मा॒द् यत् पुरु॑षो॒ मन॑सा ऽभि॒गच्छ॑ति॒ , तद् वा॒चा व॑दति ।
अ॒र॒क्षसेत्या॑ह । रक्ष॑सा॒मप॑हत्यै ।
मर्य॑श्रीस् स्पृह॒यद् व॑र्णो अ॒ग्निर् + इत्या॑ह ।
अप॑चितिमे॒वास्मि॑न् दधाति ।
अप॑चितिमान् भवति॒ य ए॒वव्ँ वेद॑ । [13]
मन॑सा॒ त्वै तामाप्तु॑मर्हति॒ याम् अ॑ध्व॒र्युर् अ॑न॒ग्नावाहु॑तिञ् जु॒होति॑ ।
मन॑स्वतीभ्याञ् जुहोति ।
आहु॑त्यो॒राप्त्यै॑ । द्वाभ्या॒म् प्रति॑ष्ठित्यै ।

3उत्तरेऽवान्तरे शफे अभिजुहोति - आ त्वेति ॥ तस्मादिति । पूर्वो हि होमो मनसा, अयं तु वचसा । यस्मादेवं तस्मात्पुरुषः पूर्वं मनसाभिगतं पश्चाद्वाचा वदति । अपचितिं पूजां अस्मिन् दधाति, स्पृहणीयवर्ण इति दर्शनान् । मनसा तै तामिति । अनग्नौ हूयमाना आहुतिः मनसैवाप्यते । तस्मात् मनस्वतीभ्यां ऋग्भ्यां पूर्वोत्तराभ्यां होमः आहुत्योराप्त्यै भवति एवं हि आहुती अभिनिवृत्ते भवत इति । तदन्तलोपश्छान्दसः । प्रातिशाख्यं च ‘तुनुपूर्व उदात्तयोर्वकारः’ इति । द्वाभ्यामिति । जुहोतीत्येव ॥

मूलम् (संयुक्तम्)

यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्त्ये॒तर्हि॒ खलु॒ वा ए॒तद्य॑ज्ञमु॒खय्ँयर्ह्ये॑न॒दाहु॑तिरश्ञु॒ते परि॑ लिखति॒ रक्ष॑सा॒मप॑हत्यै ति॒सृभि॒ᳶ परि॑ लिखति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मा॒द्रक्षाँ॒स्यप॑ हन्ति [14]
गा॒य॒त्रि॒या परि॑ लिखति॒ तेजो॒ वै गा॑य॒त्री तेज॑सै॒वैन॒म्परि॑ गृह्णाति त्रि॒ष्टुभा॒ परि॑ लिखतीन्द्रि॒यव्ँ वै त्रि॒ष्टुगि॑न्द्रि॒येणै॒वैन॒म्परि॑ गृह्णात्यनु॒ष्टुभा॒ परि॑ लिखत्यनु॒ष्टुप्सर्वा॑णि॒ छन्दाँ॑सि परि॒भूᳶ पर्या॑प्त्यै

विश्वास-प्रस्तुतिः

यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति ।
ए॒तर्हि॒ खलु॒ वा ए॒तद् य॑ज्ञमु॒खय्ँ यर्ह्ये॑न॒द् आहु॑तिरश्नु॒ते ।
परि॑ लिखति । रक्ष॑सा॒मप॑हत्यै ।
ति॒सृभि॒ᳶ परि॑ लिखति । त्रि॒वृद्वा अ॒ग्निः ।
यावा॑ने॒वाग्निस् तस्मा॒द् रक्षाँ॒स्यप॑ हन्ति । [14]
गा॒य॒त्रि॒या परि॑ लिखति ।
तेजो॒ वै गा॑य॒त्री । तेज॑सै॒वैन॒म् परि॑ गृह्णाति ।
त्रि॒ष्टुभा॒ परि॑ लिखति ।
इ॒न्द्रि॒यव्ँ वै त्रि॒ष्टुक् । इ॒न्द्रि॒येणै॒वैन॒म् परि॑ गृह्णाति ।
अ॒नु॒ष्टुभा॒ परि॑ लिखति । अ॒नु॒ष्टुप् सर्वा॑णि छन्दाँ॑सि परि॒भूᳶ पर्या॑प्त्यै ।

4’परि वाजपतिः’ इति तिसृभिः पदं परिलिखति गायत्र्यनुष्टुप्त्रिष्टुभिः; तद्विधातुं स्तोतुं चारभते - यज्ञमुखे इत्यादि ॥ ‘अनुदात्तं च’ इति द्वितीयोनुदात्तः । अश्वशफस्य कथं यज्ञमुखत्वमित्याह - एतर्हीत्यादि । एतर्हि अस्मिन्काले खलु एतत्पदं यज्ञमुखं जातं यर्हि यस्मिन्काले एतत्पदमाहुतिरश्नुते प्राप्नुते । ‘अनद्यतनेर्हिल्’ ‘एतेतौ रथोः’ इति एतादेशः । ‘द्वितीयाटौ स्वेनः’ इति एनादेशः ‘एनदिति नपुंसकैकवचनं वक्तव्यम्’ इति । परिलिखतीति पदपरिलेखनविधि । तिसृभिरिति सख्याविधिः । त्रिवृता सहोत्पन्नत्वात्ताच्छब्द्यम्, त्रेधाहितेष्टकत्वाच्च । तस्मात्सर्वस्मादग्नेः रक्षांस्यपहन्ति । गायत्रियेत्यादि । छन्दोविधिः । तेजो वा इति । तद्धेतुत्वात्ताच्छब्द्यं सहोत्पत्त्या । एवमिन्द्रियं वै त्रिष्टुप् इति । अनुष्टुप् सर्वाणि छन्दांसीति । परिभूरिति । वाग्वा अनुष्टुप् । परिर्तो भवतीति परिभूः सर्वतो व्याप्नोति । ‘अभितः परितः’ इति द्वितीया । वलि लोपश्छान्दसः ॥

मूलम् (संयुक्तम्)

मध्य॒तो॑ऽनु॒ष्टुभा॒ वाग्वा अ॑नु॒ष्टुप्तस्मा॑न्मध्य॒तो वा॒चा व॑दामो गायत्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्यथा॑नु॒ष्टुभाथ॑ त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री य॒ज्ञो॑ऽनु॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुप्तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ य॒ज्ञम्परि॑ गृह्णाति ॥ [15]

विश्वास-प्रस्तुतिः

म॒ध्य॒तो॑ ऽनु॒ष्टुभा॑ । वाग्वा अ॑नु॒ष्टुप् ।
तस्मा॑न् मध्य॒तो वा॒चा व॑दामः ।
गा॒य॒त्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्य् अथा॑नु॒ष्टुभाऽथ॑ त्रि॒ष्टुभा॑ ।
तेजो॒ वै गा॑य॒त्री, य॒ज्ञो॑ऽनु॒ष्टुग् इ॑न्द्रि॒यन् त्रि॒ष्टुप् ।
तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ य॒ज्ञम् परि॑ गृह्णाति ॥ [15]

5एवमभिप्रसिद्धेन क्रमेण छन्दांस्याम्नातानि । इदानीं तं बाधित्वा क्रमान्तरं विदधाति - मध्यतोऽनुष्टुभेति ॥ यदि तर्ह्याम्नातक्रमो बाध्यते प्रथमतृतीये उच्येतामित्याह - गायत्रिया प्रथमयेति । कः पुनः अस्मिन्क्रमे इत्याह – तेजो वा इत्यादि । गतम् ॥

इति पञ्चमे प्रथमे तृतीयोनुवाकः ॥