०२

मूलम् (संयुक्तम्)

व्यृ॑द्धव्ँ॒वा ए॒तद्य॒ज्ञस्य॒ यद॑य॒जुष्के॑ण क्रि॒यत॑ इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्य॑श्वाभि॒धानी॒मा द॑त्ते॒ यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै॒ प्रतू॑र्तव्ँवाजि॒न्ना द्र॒वेत्यश्व॑म॒भि द॑धाति रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे यु॒ञ्जाथाँ॒ रास॑भय्ँयु॒वमिति॑ गर्द॒भमस॑त्ये॒व ग॑र्द॒भम्प्रति॑ ष्ठापयति॒ तस्मा॒दश्वा॑द्गर्द॒भोऽस॑त्तरो॒ योगे॑योगे त॒वस्त॑र॒मित्या॑ह [5]
योगे॑योग ए॒वैनय्ँ॑युङ्क्ते॒ वाजे॑वाजे हवामह॒ इत्या॒हान्नव्ँ॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे॒ सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑हेन्द्रि॒यमे॒वाव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

व्यृ॑द्धव्ँ॒वा ए॒तद्य॒ज्ञस्य॒ यद॑य॒जुष्के॑ण क्रि॒यते॑ ।
इ॒माम् अ॑गृभ्णन्रश॒नाम् ऋ॒तस्येत्य् अ॑श्वाभि॒धानी॒मा द॑त्ते ।
यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै ।
प्रतू॑र्तव्ँ वाजि॒न्ना द्र॒वेत्य् अश्व॑म॒भि द॑धाति ।
रू॒पमे॒वास्यै॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
यु॒ञ्जाथाँ॒ रास॑भय्ँयु॒वम् इति॑ गर्द॒भम् ।
अस॑त्ये॒व ग॑र्द॒भम् प्रति॑ ष्ठापयति ।
तस्मा॒दश्वा॑द् गर्द॒भो ऽस॑त्तरः । “योगे॑योगे त॒वस्त॑र॒म्” इत्या॑ह [5]
योगे॑योग ए॒वैनय्ँ॑ युङ्क्ते ।
वाजे॑वाजे हवामह॒ इत्या॑ह ।
अन्नव्ँ॒ वै वाजः॑ । अन्न॑म् ए॒वाव॑ रुन्धे ।
सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑ह ।
इ॒न्द्रि॒यमे॒वाव॑ रुन्धे ।

मूलम्

भट्टभास्कर-टीका

1व्यृद्धमित्यादि ॥ व्यृद्धं वृद्धिहीनमेतत्कर्म यत् अयजुष्केण अमन्त्रकेण अङ्गेन क्रियते । कमण्यपि निष्ठायाः ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । व्यृद्धमिति । ‘उदात्तस्वरितयोर्यणः’ इति ऋकारस्स्वर्यते । इमामित्यादि । अश्वाभिधानीं अश्वबन्धिनीं रशनां यजुष्कृत्यै यजुषा कृतत्वाय । प्रतूर्तमित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

ऽग्निर्दे॒वेभ्यो॒ निला॑यत॒ तम्प्र॒जाप॑ति॒रन्व॑विन्दत्प्राजाप॒त्योऽश्वोऽश्वे॑न॒ सम्भ॑र॒त्यनु॑वित्त्यै पापवस्य॒सव्ँवा ए॒तत्क्रि॑यते॒ यच्छ्रेय॑सा च॒ पापी॑यसा च समा॒नङ्कर्म॑ कु॒र्वन्ति॒ पापी॑यान् [6]
ह्यश्वा॑द्गर्द॒भोऽश्व॒म्पूर्व॑न्नयन्ति

विश्वास-प्रस्तुतिः

अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत ।
तम् प्र॒जाप॑ति॒रन्व॑विन्दत् ।
प्रा॒जा॒प॒त्यो ऽश्वः॑ ।
अश्वे॑न॒ सम्भ॑र॒त्य् अनु॑वित्त्यै ।
पा॒प॒व॒स्य॒सव्ँ वा ए॒तत् क्रि॑यते॒ , यच् छ्रेय॑सा च॒ पापी॑यसा च समा॒नङ् कर्म॑ कु॒र्वन्ति॑ ।
पापी॑यान् ह्यश्वा॑द् गर्द॒भः । [6]
अश्व॒म् पूर्व॑न् नयन्ति ।

2अग्निर्देवेभ्य इत्यादि ॥ देवेभ्योपक्रान्तमग्निं प्रजापतिरन्वविन्दत् अन्विष्य लब्धवान् । अश्वोयं प्राजापत्यः । तस्मादश्वेन संभरणं अग्नेर्लाभाय भवति ॥

मूलम् (संयुक्तम्)

पापवस्य॒सस्य॒ व्यावृ॑त्त्यै॒ तस्मा॒च्छ्रेयाँ॑स॒म्पापी॑यान्प॒श्चादन्वे॑ति

विश्वास-प्रस्तुतिः

पा॒प॒व॒स्यसस्य॒ व्यावृ॑त्त्यै ।
तस्मा॒च् छ्रेयाँ॑स॒म् पापी॑यान् प॒श्चादन्वे॑ति ।

मूलम्

पा॒प॒व॒स्यसस्य॒ व्यावृ॑त्त्यै ।
तस्मा॒च् छ्रेयाँ॑स॒म् पापी॑यान् प॒श्चादन्वे॑ति ।

भट्टभास्कर-टीका

3पापवस्यसमित्यादि ॥ पापेन वसीयसं वसुमत्तरं पापेनैव वसुनास्तीति विन्मतोर्लुक् । यद्वा - पापं वसु यस्य स पापवसुः, तस्मात् आतिशायिनिकः ‘टेः’ इति टिलोपः, छान्दस ईकारलोपः, ‘अनसन्तान्नपुंसकात्’ इत्यच्समासान्तः । यद्वा - पापं च शुभं च सह क्रियते इति तद्व्यावृत्तिः विभागः ॥

मूलम् (संयुक्तम्)

ब॒हुर्वै भव॑तो॒ भ्रातृ॑व्यो॒ भव॑तीव॒ खलु॒ वा ए॒ष यो॑ऽग्निञ्चि॑नु॒ते व॒ज्र्यश्वᳶ॑ प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व पा॒प्मान॒म्भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒ गाण॑पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑ रु॒द्रादे॒व [7]
प॒शून्नि॒र्याच्या॒त्मने॒ कर्म॑ कुरुते

विश्वास-प्रस्तुतिः

ब॒हुर्वै भव॑तो॒ भ्रातृ॑व्यः । भव॑तीव॒ खलु॒ वा ए॒ष यो॑ ऽग्निञ्चि॑नु॒ते ।
व॒ज्र्यश्वः॑ ।
प्र॒तूर्व॒न्न् एह्य॑व॒क्राम॒न्न् अश॑स्ती॒र्" इत्या॑ह ।
वज्रे॑णै॒व पा॒प्मान॒म् भ्रातृ॑व्य॒मव॑ क्रामति ।
रु॒द्रस्य॒ गाण॑पत्या॒द् इत्या॑ह ।
रौ॒द्रा वै प॒शवः॑ । रु॒द्रादे॒व प॒शून् नि॒र्याच्या॒त्मने॒ कर्म॑ कुरुते । [7]

4बहुर्वा इत्यादि ॥ भवतः भूतिं लिप्समानस्य बहुः भ्रातृव्यः अनेको बाधकः यश्चाग्निं चिनुते अयमपि भवति भवत्येव तस्मात् बहुभ्रातृव्यः यज्ञार्थं यज्ञात्मानं अश्वं पूर्वं नीयमानं प्रतूर्वन् एहीत्यनुमन्त्रयते । ततो वज्रेणैव पाप्मानं भ्रातृयं अवक्रामति अवष्टभ्य हिनस्ति, मन्त्रलिङ्गं च ‘अवक्रामन्नशस्तीः’ इति । अशस्तयः अकीर्तयः । भ्रातृशब्दात् ‘व्यन् सपत्ने’ इति व्यन्प्रत्ययः । रुद्रस्येत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह पू॒षा वा अध्व॑नाँ सन्ने॒ता सम॑ष्ट्यै॒ पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निरङ्गि॑रसो॒ वा ए॒तमग्रे॑ दे॒वता॑नाँ॒ सम॑भरन्पृथि॒व्यास्स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॒हीत्या॑ह॒ साय॑तनमे॒वैन॑न्दे॒वता॑भि॒स्सम्भ॑रत्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑म॒ इत्या॑ह येन॑ [8]
स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते

विश्वास-प्रस्तुतिः

पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह ।
पू॒षा वा अध्व॑नाँ सन्ने॒ता । सम॑ष्ट्यै ।
पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निः ।
अङ्गि॑रसो॒ वा ए॒तमग्रे॑ दे॒वता॑नाँ॒ सम॑भरन् ।
“पृ॒थि॒व्यास् स॒धस्था॑द् अ॒ग्निम् पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॒हि”+ इत्या॑ह ।
साय॑तनम् ए॒वैन॑न् दे॒वता॑भि॒स् सम्भ॑रति ।
“अ॒ग्निम् पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑म॒” इत्या॑ह ।
येन॑ स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते [8]

5पूष्णा सयुजेति ॥ गर्दभस्यानीयमानस्य अनुमन्त्रणम् । सन्नेता सम्यक्प्रवर्तयिता समष्ट्यै सम्यक्प्राप्त्यै गन्तव्यस्य । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । पुरीषायतन इत्यादि । पुरीषं मृदं आयतनमस्येति तेनाग्निः पुरीष्यमित्युच्यते । अङ्गिरस्वत् ‘नभोङ्गिरोमनुषाम्’ इति वत्वम्, अङ्गिरोभिस्तद्वत्, ‘तसौ मत्त्वर्थे’ इति भत्वम् । देवताभिरङ्गिरोभिश्च संभरति । येनेत्यादि । अच्छेहीति अभिसंप्राप्तुं गच्छेति दर्शनात् प्रतिगच्छन् येन संगच्छते प्रष्ट्रा किमच्छेहीति तं प्रति ‘अग्निं पुरीष्यं अञ्गिरस्वदच्छेमः’ इत्युत्तरं ब्रूयात् । वाजमेवास्य वृङ्क्ते ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निस्स॒म्भृत्य॒ इत्या॑हुरि॒यव्ँ वै प्र॒जाप॑ति॒स्तस्या॑ ए॒तच्छ्रोत्रय्ँ॒यद्व॒ल्मीको॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्याम॒ इति॑ वल्मीकव॒पामुप॑ तिष्ठते सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निँ सम्भ॑रत्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑राम॒ इत्या॑ह॒ येन॑ स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृ॒ङ्क्ते

विश्वास-प्रस्तुतिः

प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निस् स॒म्भृत्य॒ इत्या॑हुः ।
इ॒यव्ँ वै प्र॒जाप॑तिः ।
तस्या॑ ए॒तच् छ्रोत्रय्ँ॒ यद्व॒ल्मीकः॑ ।
“अ॒ग्निम् पु॑री॒ष्य॑मङ्गिर॒स्वद् भ॑रिष्याम॒” इति॑ वल्मीकव॒पामुप॑ तिष्ठते ।
सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निँ सम्भ॑रति ।
अ॒ग्निम् पु॑री॒ष्य॑मङ्गिर॒स्वद् भ॑राम॒ इत्या॑ह ।
येन॑ स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृ॒ङ्क्ते ।

6प्रजापतय इत्यादि ॥ प्रतिप्रोच्य निवेद्य । तस्योत्तरमाह - वाजमेवास्य वृङ्क्ते इति ॥

मूलम् (संयुक्तम्)

ऽन्व॒ग्निरु॒षसा॒मग्र॑म् [9]
अ॒ख्य॒दित्या॒हानु॑ख्यात्या आ॒गत्य॑ वा॒ज्यध्व॑न आ॒क्रम्य॑ वाजिन्पृथि॒वीमित्या॑हे॒च्छत्ये॒वैन॒म्पूर्व॑या वि॒न्दत्युत्त॑रया॒ द्वाभ्या॒मा क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्या॒न्तस्मा॒दनु॑रूपाᳶ प॒शव॒ᳶ प्र जा॑यन्ते॒

विश्वास-प्रस्तुतिः

“अन्व॒ग्निर् उ॒षसा॒मग्र॑म् अख्यद्” इत्या॑ह ।[9]
अनु॑ख्यात्यै ।
आ॒गत्य॑ वा॒ज्यध्व॑न आ॒क्रम्य॑ वाजिन् पृथि॒वीम् इत्या॑ह ।
इ॒च्छत्ये॒वैन॒म् पूर्व॑या वि॒न्दति॑ ।
उत्त॑रया॒ द्वाभ्या॒मा क्र॑मयति । प्रति॑ष्ठित्यै ।
अनु॑रूपाभ्या॒न् तस्मा॒दनु॑रूपाᳶ प॒शव॒ᳶ प्र जा॑यन्ते ।

7अथ उपातियन्ति - अन्वग्निरुषसामग्रमख्यदिति ॥ अनुख्यात्यै अनुक्रमेण ख्यात्यर्थं ‘आगत्य’ ‘आक्रम्य’ इति द्वाभ्यां अश्वेन प्राया मृदमाक्रमयति । तत्राग्निं पूर्वया इच्छति, उत्तरया विन्दति । द्वाभ्यामा क्रमयतीति । प्रतिष्ठार्थमनुरूपाभ्यां आक्रमयतीत्येव । ‘आगत्य वाज्यध्वनः’ ‘आक्रम्य वाजिन्पृथिवीम्’ इति दर्शनात् अनुरूपत्वमनयोः । तस्मात् अनुरूपा जनयित्र्यः प्रजा जायन्ते पशवः ॥

मूलम् (संयुक्तम्)

द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॒मित्या॑है॒भ्यो वा ए॒तल्ँ लो॒केभ्यᳶ॑ प्र॒जाप॑ति॒स्समै॑रयद्रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे व॒ज्री वा ए॒ष यदश्वो॑ द॒द्भिर॒न्यतो॑दद्भ्यो॒ भूयाल्ँ॒लोम॑भिरुभ॒याद॑द्भ्यो॒ यन्द्वि॒ष्यात्तम॑धस्प॒दन्ध्या॑ये॒द्वज्रे॑णै॒वैनँ॑ स्तृणुते ॥10॥

विश्वास-प्रस्तुतिः

द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॒म् इत्या॑ह ।
ए॒भ्यो वा ए॒तल्ँ लो॒केभ्यᳶ॑ प्र॒जाप॑ति॒स् समै॑रयत् ।
रू॒पमे॒वास्यै॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
व॒ज्री वा ए॒ष यदश्वः॑ ।
द॒द्भिर् अ॒न्यतो॑दद्भ्यो॒ भूयाल्ँ॒ लोम॑भिरुभ॒याद॑द्भ्यः ।
यन् द्वि॒ष्यात् तम॑धस्प॒दन्ध्या॑येत् ।
वज्रे॑णै॒वैनँ॑ स्तृणुते ॥10॥

8द्यौस्ते पृष्ठमिति - अश्वस्य पृष्ठं संमृज्यते ॥ एभ्यो वा इत्यादि । गतम् । वज्री वा इत्यादि । गतम् । अन्यतोदद्भ्यः दद्भिः भूयान् बहुतरः उभयतोदत्त्वात् । अथोभयतोदद्भ्यो लोमभिर्भूयान् बहुतरलोमत्वात् । अन्यतरस्मिन् भागे उपरि अधो वा दन्ताः येषां ते अन्यतोदद्भ्यः, ‘छन्दसि वा’ इति दद्भावः, उभयोः दन्ता येषामिति पूर्ववद्दद्भावः, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । पदस्याधस्तात् अधस्पदं, तिष्ठद्गुप्रभृति ‘अधश्शिरसी पदे’ इति सत्वम् । वज्रेणैव एनं स्तृणुते छादयति विनाशयति ॥

इति पञ्चमे प्रथमे द्वितीयोनुवाकः ॥