मूलम् (संयुक्तम्)
सा॒वि॒त्राणि॑ जुहोति॒ प्रसू॑त्यै चतुर्गृही॒तेन॑ जुहोति॒ चतु॑ष्पादᳶ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒
विश्वास-प्रस्तुतिः
सा॒वि॒त्राणि॑ जुहोति । प्रसू॑त्यै ।
च॒तु॒र्गृ॒ही॒तेन॑ जुहोति ।
चतु॑ष्पादᳶ प॒शवः॑ ।
प॒शूने॒वाव॑ रुन्धे ।
चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।
मूलम्
सा॒वि॒त्राणि॑ जुहोति । प्रसू॑त्यै ।
च॒तु॒र्गृ॒ही॒तेन॑ जुहोति ।
चतु॑ष्पादᳶ प॒शवः॑ ।
प॒शूने॒वाव॑ रुन्धे ।
चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
1अतः परं अग्निकाण्डमग्न्यार्षेयमारभ्यते । तत्राद्यं प्रश्नचतुष्टयमेकं काण्डं चतुर्थकाण्डाम्नातमन्त्रब्राह्मणं, शिष्टं प्रश्नत्रयं काण्डान्तरं प्रयोगविशेषार्थम् । तत्र उखां संभरिष्यतः सावित्रहोमं विदधाति - सावित्राणि जुहोतीति ॥ सावित्रैः मन्त्रैरेकाहुतिं जुहोति । मन्त्रबहुत्वात् बहुवचनम् । तत्र ‘युञ्जानः प्रथमं मनः’ इत्याद्याः सप्त सावित्र्य ऋचः, एकं सावित्रं यजुः । ‘नपुंसकमनपुंसकेन’ इति नपुंसकस्य शेषात्सावित्राणि सर्वाण्युच्यन्ते । ‘युजे वाम्’ इत्यस्या अपि ‘सूराः’ इति सूतिधात्वन्वयेन सावित्रत्वम्, यथा ‘विश्वेदेवस्य नेतुः’ इति सूत्यर्थान्वयेन सावित्री ऋग्भवति । अन्ये तु छत्रिन्यायेनेत्याहुः, लिङ्गसमवायात् । प्रसूत्यै अनुज्ञानाय कर्मणो भवति सावित्राऽनुज्ञातं कर्म यथा स्यादिति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । चतुर्गृहीतेनेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
छन्दाँ॑सि दे॒वेभ्योऽपा॑क्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यव्ँव॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुर्गृही॒तम॑धारयन्पुरोनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुर्गृही॒तञ्जु॒होति॒ छन्दाँ॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यव्ँव॑हन्ति॒
विश्वास-प्रस्तुतिः
छन्दाँ॑सि दे॒वेभ्योऽपा॑क्रामन् ।
न वो॑ऽभा॒गानि॑ ह॒व्यव्ँ व॑क्ष्याम॒ इति॑ ।
तेभ्य॑ ए॒तच् च॑तुर्गृही॒तम् अ॑धारयन् ।
पु॒रो॒नु॒वा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॑ ।
यच् च॑तुर्गृही॒तञ् जु॒होति॒ , छन्दाँ॑स्ये॒व तत् प्री॑णाति ।
तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यव्ँ व॑हन्ति ।
मूलम्
छन्दाँ॑सि दे॒वेभ्योऽपा॑क्रामन् ।
न वो॑ऽभा॒गानि॑ ह॒व्यव्ँ व॑क्ष्याम॒ इति॑ ।
तेभ्य॑ ए॒तच् च॑तुर्गृही॒तम् अ॑धारयन् ।
पु॒रो॒नु॒वा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॑ ।
यच् च॑तुर्गृही॒तञ् जु॒होति॒ , छन्दाँ॑स्ये॒व तत् प्री॑णाति ।
तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यव्ँ व॑हन्ति ।
भट्टभास्कर-टीका
2छन्दांसीत्यादि ॥ प्रायेणाग्निविषयाणि छन्दांसि चत्वारि गायत्री त्रिष्टुप् जगती अनुष्टुबिति भागानि वयं युष्माकं हव्यं न वक्ष्याम इत्यभिधाय देवेभ्यः छन्दांसि अपाक्रामन् । ततो देवाः तेभ्यः एतच्चतुर्गृहीतं अधारयन् छन्दोर्थमेतत् अकल्पयन् । किम्? पुरोनुवाक्यादिभ्यश्चतुर्भ्यः यद्गृहीतं तद्गायत्र्याद्यर्थमधारयन् । सर्वत्र हि पुरोनुवाक्यादिभ्यः चतुर्गृहीते इदमिदानीं छन्दोभ्यः इति । तस्मात् चतुर्गृहीतस्य होमः इदानीं छन्दसां प्रीणनार्थं भवति । तानि च प्रीतानि अस्य देवेभ्यो हव्यं वहन्ति ॥
मूलम् (संयुक्तम्)
यङ्का॒मये॑त [1]
पापी॑यान्त्स्या॒दित्येकै॑क॒न्तस्य॑ जुहुया॒दाहु॑तीभिरे॒वैन॒मप॑ गृह्णाति॒ पापी॑यान्भवति॒ यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुया॒दाहु॑त्यै॒वैन॑म॒भि क्र॑मयति॒ वसी॑यान्भव॒त्यथो॑ य॒ज्ञस्यै॒वैषाभिक्रा॑न्ति॒र्
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त -
“पापी॑यान्त् स्या॒द्” इति॑ । एकै॑क॒न् तस्य॑ जुहुयात् ।
आहु॑तीभिर् ए॒वैन॒मप॑ गृह्णाति॒ , पापी॑यान् भवति ।
यङ्का॒मये॑त॒ -
“वसी॑यान्त् स्या॒द्” इति॑ ।
सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात् ।
आहु॑त्यै॒वैन॑म् अ॒भि क्र॑मयति॒ , वसी॑यान् भवति ।
अथो॑ य॒ज्ञस्यै॒वैषाभिक्रा॑न्तिः ।
मूलम्
यङ्का॒मये॑त -
“पापी॑यान्त् स्या॒द्” इति॑ । एकै॑क॒न् तस्य॑ जुहुयात् ।
आहु॑तीभिर् ए॒वैन॒मप॑ गृह्णाति॒ , पापी॑यान् भवति ।
यङ्का॒मये॑त॒ -
“वसी॑यान्त् स्या॒द्” इति॑ ।
सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात् ।
आहु॑त्यै॒वैन॑म् अ॒भि क्र॑मयति॒ , वसी॑यान् भवति ।
अथो॑ य॒ज्ञस्यै॒वैषाभिक्रा॑न्तिः ।
भट्टभास्कर-टीका
3यं कामयेतेत्यादि ॥ पापीयान् पापधरः एकैकं प्रतिमन्त्रं च जुहुयात् । ‘एकं बहुव्रीहिवत्’ इति द्विप्रयोगे विभक्तिलोपः । अवग्रहे तु विभक्तिः श्रूयते । आहुतिशब्दस्य संहितायां छान्दसं दीर्घत्वम् । वसीयान् वसुमत्तरः विन्मतोर्लुक् ‘टेः’ इति टिलोपः । सर्वाण्यनुद्रुत्य अन्ते एकामाहुतिं जुहुयात् । तत आहुत्या एकया उपरि क्रियमाणया एनमभिक्रमयति उपरि गमयति ततो वसीयान् भवति । अथो अपि च यज्ञस्यैव इयमभिक्रान्तीः यज्ञमेवानेन अभिक्रामयति ॥
मूलम् (संयुक्तम्)
एति॒ वा ए॒ष य॑ज्ञमु॒खादृद्ध्या॒ यो॑ऽग्नेर्दे॒वता॑या॒ एत्य॒ष्टावे॒तानि॑ सावि॒त्राणि॑ भवन्त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रः [2]
अ॒ग्निस्तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैत्य्
विश्वास-प्रस्तुतिः
एति॒ वा ए॒ष य॑ज्ञमु॒खाद् ऋद्ध्या॒ यो॑ ऽग्नेर् दे॒वता॑या॒ एति॑ ।
अ॒ष्टावे॒तानि॑ सावि॒त्राणि॑ भवन्ति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रो॑ ऽग्निः । [2]
तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैति॑ ।
मूलम्
एति॒ वा ए॒ष य॑ज्ञमु॒खाद् ऋद्ध्या॒ यो॑ ऽग्नेर् दे॒वता॑या॒ एति॑ ।
अ॒ष्टावे॒तानि॑ सावि॒त्राणि॑ भवन्ति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रो॑ ऽग्निः । [2]
तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैति॑ ।
भट्टभास्कर-टीका
4एति वा इत्यादि ॥ यज्ञमुखादारभ्य एष ऋद्ध्या एति अपगच्छति ऋद्धिहीनो भवति योऽग्नेः यज्ञदेवताया एति अग्निं हुत्वा उखादि संभरिष्यन् गच्छंति यज्ञमुखात् ऋद्ध्याः अग्नेश्च देवतायाः नापैति देवताया अग्नेः परिग्रहात् । पञ्चम्यर्थे चतुर्थी ॥
मूलम् (संयुक्तम्)
अ॒ष्टौ सा॑वि॒त्राणि॑ भव॒न्त्याहु॑तिर्नव॒मी त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तयति॒
विश्वास-प्रस्तुतिः
अ॒ष्टौ सा॑वि॒त्राणि॑ भव॒न्त्य् आहु॑तिर् नव॒मी ।
त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तयति ।
मूलम्
अ॒ष्टौ सा॑वि॒त्राणि॑ भव॒न्त्य् आहु॑तिर् नव॒मी ।
त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तयति ।
भट्टभास्कर-टीका
5अष्टौ सावित्राणीत्यादि ॥ अष्टौ मन्त्राः एकाहुतिः नवमी नवत्वान्वयात् । त्रिवृतं नवस्तोत्रीयं होमं यज्ञमुखे वियातयति व्यापारयति ॥
मूलम् (संयुक्तम्)
यदि॑ का॒मये॑त॒ छन्दाँ॑सि यज्ञयश॒सेना॑र्पयेय॒मित्यृच॑मन्त॒माङ्कु॑र्या॒च्छन्दाँ॑स्ये॒व य॑ज्ञयश॒सेना॑र्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानय्ँ यज्ञयश॒सेना॑र्पयेय॒मिति॒ यजु॑रन्त॒मङ्कु॑र्या॒द्यज॑मानमे॒व य॑ज्ञयश॒सेना॑र्पयत्यृ॒चा स्तोमँ॒ सम॑र्ध॒येति॑ [3]
आ॒ह॒ समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
यदि॑ का॒मये॑त॒ -
“छन्दाँ॑सि यज्ञयश॒सेना॑र्पयेयम्” इति॑ + ऋच॑मन्त॒माङ् कु॑र्यात् ।
छन्दाँ॑स्ये॒व य॑ज्ञयश॒सेना॑र्पयति ।
यदि॑ का॒मये॑त॒ -
“यज॑मानय्ँ यज्ञयश॒सेना॑र्पयेय॒म्” इति॒ , यजु॑रन्त॒मङ् कु॑र्यात् ।
यज॑मानमे॒व य॑ज्ञयश॒सेना॑र्पयति ।
“ऋ॒चा स्तोमँ॒ सम॑र्ध॒य”+ इत्या॑ह । [3]
समृ॑द्ध्यै ।
मूलम्
यदि॑ का॒मये॑त॒ -
“छन्दाँ॑सि यज्ञयश॒सेना॑र्पयेयम्” इति॑ + ऋच॑मन्त॒माङ् कु॑र्यात् ।
छन्दाँ॑स्ये॒व य॑ज्ञयश॒सेना॑र्पयति ।
यदि॑ का॒मये॑त॒ -
“यज॑मानय्ँ यज्ञयश॒सेना॑र्पयेय॒म्” इति॒ , यजु॑रन्त॒मङ् कु॑र्यात् ।
यज॑मानमे॒व य॑ज्ञयश॒सेना॑र्पयति ।
“ऋ॒चा स्तोमँ॒ सम॑र्ध॒य”+ इत्या॑ह । [3]
समृ॑द्ध्यै ।
भट्टभास्कर-टीका
6यदीत्यादि ॥ यज्ञयशसं यज्ञफलम् । ‘अनसन्तान्नपुंसकात्’ इत्यच्समासान्तः । अर्पयेयं प्रापयेयम् । अन्तमां अन्तिमाम्, छान्दसो वर्णविकारः, डिमचो वा आदिलोपः । गतमन्यत् । यद्वा - अन्तिकस्यापि तमे तादिलोपः । ‘ऋचा स्तोमम्’ इत्युपस्थानमन्त्रः ॥
मूलम् (संयुक्तम्)
च॒तुर्भि॒रभ्रि॒मा द॑त्ते च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिरे॒व दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह॒ प्रसू॑त्या
विश्वास-प्रस्तुतिः
च॒तुर्भि॒रभ्रि॒मा द॑त्ते ।
च॒त्वारि॒ छन्दाँ॑सि ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह ।
प्रसू॑त्यै ।
मूलम्
च॒तुर्भि॒रभ्रि॒मा द॑त्ते ।
च॒त्वारि॒ छन्दाँ॑सि ।
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह ।
प्रसू॑त्यै ।
भट्टभास्कर-टीका
7चतुर्भिरित्यादि ॥ ‘देवस्य’ इत्यादिभिः चतुर्भिः मन्त्रैः खनित्रमादत्ते । चत्वारि गायत्र्यादीनि छन्दांसि चतुर्षु मन्त्रेषु श्रुतानि । तेन छन्दोभिरेव अभ्र्यादानं कृतं भवति । चतुर्भिरिति ‘झल्युपोत्तमम्’ इत्युपोत्तमस्योदात्तत्वम् । देवस्येत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स वेणु॒म्प्रावि॑श॒त्स ए॒तामू॒तिमनु॒ सम॑चर॒द्यद्वेणोः॑ सुषि॒रँ सु॑षि॒राभ्रि॑र्भवति सयोनि॒त्वाय॒
विश्वास-प्रस्तुतिः
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत ।
स वेणु॒म् प्रावि॑शत् ।
स ए॒तामू॒तिमनु॒ सम॑चर॒द् , यद् वेणोः॑ सुषि॒रम् ।
सु॑षि॒राभ्रि॑र्भवति सयोनि॒त्वाय ।
मूलम्
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत ।
स वेणु॒म् प्रावि॑शत् ।
स ए॒तामू॒तिमनु॒ सम॑चर॒द् , यद् वेणोः॑ सुषि॒रम् ।
सु॑षि॒राभ्रि॑र्भवति सयोनि॒त्वाय ।
भट्टभास्कर-टीका
8अग्निर्देवेभ्य इत्यादि ॥ निलायत निरगच्छत् । ‘उपसर्गस्यायतौ’ इति लत्वम् । विकारवत्त्वादनवग्रहणम् । वेणुं प्रविश्य ऊतिं रन्ध्रं कुर्वन् वेणोरन्तरालं समचरत् यदिदानीं वेणोः सुषिरं पश्यामः तत्पूर्वमग्निना कृतम् । ‘ऊतियूति’ इति क्तिन उदात्तत्वम् । सुषिरेत्यादि । योन्या सह सयोनित्वम् ॥
मूलम् (संयुक्तम्)
स यत्र॑य॒त्राव॑स॒त्तत्कृ॒ष्णम॑भवत्कल्मा॒षी भ॑वति रू॒पस॑मृद्ध्या उभयतः॒क्ष्णूर्भ॑वती॒तश्चा॒मुत॑श्चा॒र्कस्याव॑रुद्ध्यै
विश्वास-प्रस्तुतिः
स यत्र॑य॒त्राव॑स॒त् तत् कृ॒ष्णम् अ॑भवत्।
क॒ल्मा॒षी भ॑वति रू॒पस॑मृद्ध्यै ।
उ॒भ॒य॒तः॒क्ष्णूर्भ॑वति ।
इ॒तश् चा॒मुत॑श् चा॒र्कस्याव॑रुद्ध्यै ।
मूलम्
स यत्र॑य॒त्राव॑स॒त् तत् कृ॒ष्णम् अ॑भवत्।
क॒ल्मा॒षी भ॑वति रू॒पस॑मृद्ध्यै ।
उ॒भ॒य॒तः॒क्ष्णूर्भ॑वति ।
इ॒तश् चा॒मुत॑श् चा॒र्कस्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
9स इत्यादि ॥ कल्माषी कृष्णबिन्दुमती श्वेता । ‘अन्यतो ङीष्’ इति ङीष् । उभयतःक्ष्णूः उभयोरन्तरयोर्निशिता सूक्ष्मा, क्ष्णु तेजने क्विपि छान्दसं दीर्घत्वम् । इतश्चेत्यादि । इह अस्मादपि लोकात् अर्कस्य अन्नस्य अवरुद्ध्यै भवति ॥
मूलम् (संयुक्तम्)
व्याममा॒त्री भ॑वत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यव्ँ॑ वी॒र्य॑सम्मि॒ताऽप॑रिमिता भव॒त्यप॑रिमित॒स्याव॑रुद्ध्यै॒ यो वन॒स्पती॑नाम्फल॒ग्रहि॒स्स ए॑षाव्ँवी॒र्या॑वान्फल॒ग्रहि॒र्वेणु॑र्वैण॒वी भ॑वति वी॒र्य॑स्याव॑रुद्ध्यै ॥ [4]
विश्वास-प्रस्तुतिः
व्या॒म॒मा॒त्री भ॑वति ।
ए॒ताव॒द् वै पुरु॑षे वी॒र्य॑म् ।
वी॒र्य॑सम्मि॒ता ।
अप॑रिमिता भव॒ति ।
अप॑रिमित॒स्याव॑रुद्ध्यै ।
यो वन॒स्पती॑नाम् फल॒ग्रहि॒स् स ए॑षाव्ँ वी॒र्या॑वान् ।
फ॒ल॒ग्रहि॒र् वेणुः॑ ।
वै॒ण॒वी भ॑वति वी॒र्य॑स्याव॑रुद्ध्यै ॥ [4]
मूलम्
व्या॒म॒मा॒त्री भ॑वति ।
ए॒ताव॒द् वै पुरु॑षे वी॒र्य॑म् ।
वी॒र्य॑सम्मि॒ता ।
अप॑रिमिता भव॒ति ।
अप॑रिमित॒स्याव॑रुद्ध्यै ।
यो वन॒स्पती॑नाम् फल॒ग्रहि॒स् स ए॑षाव्ँ वी॒र्या॑वान् ।
फ॒ल॒ग्रहि॒र् वेणुः॑ ।
वै॒ण॒वी भ॑वति वी॒र्य॑स्याव॑रुद्ध्यै ॥ [4]
भट्टभास्कर-टीका
10व्याममात्री भवतीति ॥ पञ्चारत्निर्व्यामः । चतुररत्निरित्येके । एतावदिति । व्यामप्रमाणं पुरुषे वीर्यम् यस्माद्वीर्येण सम्मिता परिच्छिन्ना । ‘तृतीयाकर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । अपरिमितेत्यादि । गतम् । वनस्पतीनां मध्ये यः फलग्रहिः फलानि बहूनि गृह्णाति स एष वेणुः अस्य तु विशेषः एषां फलग्रहीणां मध्ये एष वीर्यावान् । छान्दसं सांहितिकं दीर्घत्वम् । फलेग्रहिरिति इन्प्रत्ययान्तो निपात्यते, व्यत्ययेन निपातितं एत्वं निवर्तते । वनस्पतिशब्दः उक्तस्वरः । वैणवीत्यादि । गतम् ॥
इति पञ्चमकाण्डे प्रथमप्रश्ने प्रथमोनुवाकः ॥