१४ विहव्याख्येष्टकोपधानम्

त्रिष्टुप्
अग्निर्ऋषिः

चतुर्थकाण्डे सप्तमप्रपाठके चतुर्दशोऽनुवाकः

सायणोक्त-विनियोगः

(अथ चतुर्थकाण्डे सप्तमप्रपाठके चतुर्दशोऽनुवाकः)।
२२६२
(अथ चतुर्थकाण्डे सप्तमप्रपाठके चतुर्दशोऽनुवाकः )।
अथ चतुर्दशे विहव्याख्या इष्ठका उच्यन्ते । त्रयोदशो पुनश्चितिरुक्ता।
कल्पः— “ममाग्ने वर्चो विहवेष्वित्यनुवाकेन प्रतिमन्त्रमिष्टकामिर्धिष्णियाँश्चिनोत्यश्मनवमा आग्नीध्रीय उपदधाति द्वादश षोडशैकवि॑शाप्तिं चतुर्विंशतिं वा होत्रीय एकादश ब्राह्मणाच्छंसीये षण्मार्जालीयेऽष्टावष्टाद्गन्येषु धिष्णियेषूपदधातीति विज्ञायेत” इति।
तत्र प्रथमामाह – ममाग्ने वर्च इति।

०१ ममाग्ने वर्चो ...{Loading}...

म᳓माग्ने व᳓र्चो विहवे᳓षु अस्तु
वयं᳓ त्वे᳓न्धानास् तनु᳓वम् पुषेम
म᳓ह्यं नमन्ताम् प्रदि᳓शश् च᳓तस्रस्
त्व᳓या᳓ध्यक्षेण पृ᳓तना जयेम

विश्वास-प्रस्तुतिः ...{Loading}...

मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒
इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र् अ॒ग्निः ।
ममा॒न्तरि॑क्षम् उ॒रु गो॒पम् अ॑स्तु॒
मह्यव्ँ॒ वातᳶ॑ पवता॒ङ् कामे॑ अ॒स्मिन् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।
ममा॒न्तरि॑क्षमु॒रु गो॒पम॑स्तु॒ मह्यव्ँ॒वातᳶ॑ पवता॒ङ्कामे॑ अ॒स्मिन् ।

सायण-टीका

अथ द्वितीयामाह– मम देबा इति।
सर्वे देवा मम विहवे मदीययज्ञे सन्तु तिष्ठन्तु ।
देवा एव विशेष्यन्ते – इन्द्रावन्त इन्द्रयुक्ता मरुतो मरुद्गणा विष्णुरग्निश्चेत्येषवाद्याः।
इदमुरु विस्तीर्णमन्तरिक्षं मम गोपं रक्षकमस्तु।
अयं वातो वायुर्मह्यं मदर्थमस्मिन्कामे यज्ञफले निमित्तभूते सति पवतां संचरतु।
मदीयकामं साधयत्वित्यर्थः।

विश्वास-प्रस्तुतिः ...{Loading}...

मयि॑ दे॒वा द्रवि॑ण॒म् आ य॑जन्ता॒म्
मय्य् आ॒शीर् अ॑स्तु॒ मयि॑ दे॒व-हू॑तिः ।
दैव्या॒ होता॑र् आ+++(→शाकले होतारो)+++ वनिषन्त+++(=संभजन्तु?)+++ [29]
पूर्वे ऽरि॑ष्टास् स्याम त॒नुवा॑ सु॒वीराः॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्ता॒म्मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।
दैव्या॒ होता॑रा वनिषन्त [29] पूर्वेऽरि॑ष्टास्स्याम त॒नुवा॑ सु॒वीराः॑ ।

सायण-टीका

अथ तृतीयामाह– मयि देवा इति।
एते देवा मयि यजमाने द्रविणं धनमायजन्तां सर्वतः संपादयन्तु।
आशीराशास्यमानं फलं मय्यस्तु यजमाने सिद्धं भवतु।
तथा देवहूतिर्देवानामाह्वानं च मयि भवतु।
दैव्या होतारा देवसंबन्धिन ऋत्विजः पूर्वे त्वनादिसिद्धा वनिषन्तास्मद्यज्ञं संभजन्तु।
वयं च तनुवा शरीरेणारिष्टा हिंसा रहिताः सुवीराः शोभनपुत्रयुक्ताः स्याम भवाम।

विश्वास-प्रस्तुतिः

मह्यय्ँ॑ यजन्तु॒ मम॒ यानि॑ ह॒व्या
ऽऽकू॑तिस् स॒त्या मन॑सो मे अस्तु
एनो॒ मा नि गा॑ङ् कत॒मच्च॒न+अ॒हव्ँ
विश्वे॑ देवासो॒ अधि॑ वोचता मे ।

मूलम्

मह्यय्ँ॑यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिस्स॒त्या मन॑सो मे अस्तु ।
एनो॒ मा नि गा॑ङ्कत॒मच्च॒नाहव्ँविश्वे॑ देवासो॒ अधि॑ वोचता मे ।

सायण-टीका

अथ चतुर्थीमाह– मह्यं यजन्त्विति।
यानि मम हव्या मदीयानि हवींपि सन्ति तानि सर्वाणि मह्यं मदर्थं दैव्या ऋत्विजो यजन्तु।
मे मम मनस आकूतिर्मदीयस्य मनसः संबंधी योऽयं संकल्पः— साऽऽकूतिः सत्याऽस्तु। संकल्पितार्थः सिध्यत्वित्यर्थः। अहं कतमच्चनैनः किमपि पापं मा निगां नितरां मा प्राप्नवानि। विश्वे देवासो हे विश्वे देवा मे मदर्थमघिवोचताऽऽधिक्यं ब्रूत यजमानानां मध्येऽयमधिक इति देवानामग्रे कथयत।

०५ देवीः षळुर्वीरुरु ...{Loading}...

दे᳓वीः षड्-उर्वीर् उरु᳓ णᳵ कृणोत
वि᳓श्वे देवास इह᳓ वीरयध्वम्
मा᳓ हास्महि प्रज᳓या मा᳓ तनू᳓भिर्
मा᳓ रधाम द्विषते᳓ सोम राजन् ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर् म॒न्युम् प्र॑तिनु॒दन् पु॒रस्ता॒द् [30]
अद॑ब्धो गो॒पाᳶ परि॑ पाहि न॒स् त्वम् ।
प्र॒त्यञ्चो॑ यन्तु नि॒-गुत॒ᳶ+++(←गु गमने)+++ पुन॒स् ते॑
ऽमा+++(=सह)++++एषा॑ञ् चि॒त्तम् प्र॒बुधा॒ वि ने॑शत्+++(=विनश्यतु)+++ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

अ॒ग्निर्म॒न्युम्प्र॑तिनु॒दन्पु॒रस्ता॑त् [30] अद॑ब्धो गो॒पाᳶ परि॑ पाहि न॒स्त्वम् ।
प्र॒त्यञ्चो॑ यन्तु नि॒गुत॒ᳶ पुन॒स्ते॑ऽमैषा॑ञ्चि॒त्तम्प्र॒बुधा॒ वि ने॑शत् ।

सायण-टीका

अथ षष्ठीमाह– अग्निर्मन्युमिति । अयमग्निर्मन्युं वैरिणां कोपं प्रतिनुदन्निराकुर्वन्पुरस्ता दस्माकं पुरतो गच्छत्विति शेषः । हेऽग्ने त्वमदव्यः केनाप्यहिंसितो गोपा रक्षणसमर्थः सन्नोऽस्मान्परिपत्हि सर्वतः पालय । तव पालने सति ते वैरिणः प्रत्यञ्चः प्रतिमुखाः विमुखा सन्तो निगुतो नितरां गमनशीलाः पलायनपराः पुनर्यन्तु भूयो भूयो यत्र क्वापि गच्छन्तु। एषां वैरिणां चित्तम् अन्तःकरणं प्रबुधा ऽमा विनेशत् प्रबोधेन सह विनश्यतु।

विश्वास-प्रस्तुतिः ...{Loading}...

धा॒ता धा॑तृ॒णाम् भुव॑नस्य॒ यस् पति॑र्
दे॒वँ स॑वि॒तार॑म् अभिमाति॒षाह॑म् ।
इ॒मय्ँ य॒ज्ञम् अ॒श्विनो॒भा बृह॒स्-पति॑र्
दे॒वाᳶ पा॑न्तु॒ यज॑मानन् न्य॒र्थात् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

धा॒ता धा॑तृ॒णाम्भुव॑नस्य॒ यस्पति॑र्दे॒वँ स॑वि॒तार॑मभिमाति॒षाह॑म् ।
इ॒मय्ँ य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाᳶ पा॑न्तु॒ यज॑मानन्न्य॒र्थात् ।

सायण-टीका

अथ सप्तमीमाह– धाता धातृणामिति। घातृणां जगत्कर्तॄणां दक्षप्रजापत्यादीनामपि धाता यः स्रष्टा भुवनस्य लोकस्य पतिः पालकश्च। तथाऽश्विनोमोभावश्विनौ बृहस्पतिश्चेत्येते देवा नोऽस्मदीयमिमं यज्ञं यजमानं च न्यर्थात्फलवैगुण्यलक्षणाद्वैयर्थ्यात्पान्तु रक्षन्तु। कीदृशं यज्ञम्, देवं तत्तन्मन्त्रव्यवहारयुक्तं सवितारं महाफलजनकमभिमातिषाहं पापलक्षणस्याभिमातेररेरमिभवितारम्।

०८ उरुव्यचा नो ...{Loading}...

उरु-व्य᳓चा नो महिष᳓श् श᳓र्म यँसद्
अस्मि᳓न् ह᳓वे पुरुहूतᳶ᳓ पुरुक्षु᳓ ।
स᳓ नᳶ प्रजा᳓यै हर्यश्व मृडये᳓न्द्र
मा᳓ नो᳓ री᳓रि᳓षो मा᳓ प᳓रा दाः

०९ ये नः ...{Loading}...

ये᳓ नस् सप᳓त्ना अ᳓प ते᳓ भवन्त्व्
इन्द्राग्नि᳓भ्याम् अ᳓व बाधामहे ता᳓न् ।
व᳓सवो रुद्रा᳓ आदित्या᳓ उपरि-स्पृ᳓शम्
मोग्र᳓ञ् चे᳓त्तारम् अधिराज᳓म् अक्रन्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒र्वाञ्च॒म् इन्द्र॑म् अ॒मुतो॑ हवामहे॒
यो गो॒-जिद् ध॑न॒-जिद् अ॑श्व॒-जिद् यः ।
इ॒मन् नो॑ य॒ज्ञव्ँ वि॑ह॒वे जु॑षस्व
+अ॒स्य कु॑र्मो हरिवो मे॒दिन॑न्+++(=स्नेहवन्तं)+++ त्वा ॥ [32]

सर्वाष् टीकाः ...{Loading}...

मूलम्

अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः ।
इ॒मन्नो॑ य॒ज्ञव्ँवि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिन॑न्त्वा ॥ [32]

सायण-टीका

अथ दशमीमाह– अर्वाञ्चमिन्द्रमिति। य इन्द्रो गोजित्परकीयगवां जेता, तथा यो धनजित्परकीयधनस्य जेता, योऽश्वजीत्परकीयाश्वानां जेताऽस्ति, अर्वाञ्चमस्मदभिमुखं तमिन्द्रममुतोऽमुं यज्ञं निमित्तीकृत्य हवामह आह्वयामः। हे इन्द्र विहवे विविधाह्वाने सति नोऽस्मदीयमिमं यज्ञं जुषस्व सेवस्य। हरिनामकावश्वौ यस्य स हरिवान्। हे हरिव इन्द्र त्वामस्य यजमानस्य मेदिनं स्नेहवन्तं कुर्मः।

सायणोक्त-विनियोगः

एत्रैर्मन्त्रैः साध्यमुपधानं विधित्सुरादौ कानिचित्काम्यचयनानि दर्शंयति।
यदुक्तं सूत्रकारेण – “छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते सर्वैश्छन्दोभिश्चिनुयादित्येकं प्राकृतैरित्यपरम” इति। तदिदं विधत्ते– “छन्दश्चितं चिन्वीत पशुकामः पशवो वै छन्दाँसि पशुमानेव भवति” [सं० का ५ प्र० ४ अ० ११] इति।
अग्निर्मूर्धा दिवः ककुदित्यनुवाकोक्ता नानाछन्दोयुक्तमन्त्रास्तैरवे चितो न तु यजुर्भिरिति च्छन्दश्चितस्तादृशमग्निं पशुकामश्चिनुयात्।
यच्च सूत्रकारेणोक्तम् “श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते वक्रपक्षो व्यस्तपुच्छो भवति पश्चात्प्राङ्दूहति पुरस्तात्प्रत्यङ्ङुदूहत्येवमिव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते” इति। तदीदं विधत्ते– “श्येनचितं चिन्वीत सुवर्गकामः श्येनो वै वयसां पतिष्ठः श्येन एव भूत्वा सुवर्गं लोकं पतति” [सं० का ५ प्र० ४ अ० ११] इति।
वयसां मध्ये श्येनोऽतिशीघ्रं पतितुं समर्थः। श्येन एव शेनवच्छीघ्रगाम्येव।
२२६६ यदुक्तं सूत्रकारेण– “कङ्कचिदलजचिदिति श्येनचिता व्याख्यातौ” इति। तदिदमुभयं क्रमेण विधत्ते– “कङ्कचितं चिन्वीत यः कामयेत शर्षिण्वानमुष्मिल्ँ लोके स्यामिति। शीर्षण्वानेवामुष्मिल्ँ लोके भवत्यलजचितं चिन्वीत चतुःसीतं प्रतिष्ठाकामश्चतस्त्रो दिशो दिक्ष्ववे प्रतितिष्ठति” [सं० का ५ प्र० ४ अ० ११] इति।
कङ्कालजौ श्येनस्यैवावान्तरजातिभेदौ। तत्र कङ्कस्य शिरो मण्डलाकारम्। अजलस्य तु पादयोर्विशेषः। अत एव पादस्थानीयासु सीतासु द्वादशसंख्यामपोद्य चतुःसंख्यां ब्रूते। तत्र कङ्कचिता स्वर्गलोके शीर्षण्वान्सर्वेषां मध्य उन्नतशिरस्कः प्रभुर्भवतीत्यर्थः ।
अथालजचिता सीताचतुष्टयदिग्द्वारा प्रतिष्ठां प्राप्नोति। यदप्युक्तं सूत्रकारेण “प्रउगचितं चिन्वीत भ्रातृव्यवनिति विज्ञायते यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणी प्रत्यालिखेत्” इति। तदिदं विधत्ते– “प्रऊगचितं चिन्वीत भ्रातुव्यवान्प्रैव भ्रातृव्यान्नुदते” [सं० का ५ प्र० ४ अ० ११] इति।
प्रउगमनोमुखं, यथा शकटस्य पश्चाद्भागो विस्तृतः पूर्वभागः संकुचितस्तद्वत्। एतेन भ्रातृव्यान्प्रणुदते।
यदप्युक्तं सूत्रकारेण– “उभयतः प्रउगं चिन्वति यः कामयेत प्रजातान्भ्रातृव्यान्नुदेय प्रति जानिष्यमाणानिति विज्ञायते यथा विमुखे शकटे” इति। तदिदं विधत्ते “उभयतः प्रउगं चिन्वीत यःकामयेत प्रजातान्भ्रातृव्यान्नुदेय प्रति जनिष्यमाणानिति प्रैव जातान्भ्रातृब्यान्नुदते प्रति जनिष्यमाणान्” ( सं० का ५ प्र० ४ अ० ११) इति।
प्राक्पश्चाच्चा शकटसुखसदृशमुभयतः प्रउगं तेनोत्पन्नान्भ्रातृव्यान्विनाशयति। उत्पत्स्यमानानामुत्पत्तिं प्रतिबध्नाति।
यदप्युक्तं सूत्रकारेण– “रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वा” इति। तदिदं विधत्ते– “रथचक्रचितं चिन्वीत भ्रातृव्यवान्वज्रो वै रथो वज्रमेव भ्रातृव्येभ्यः २२६७ प्रहरति” (सं० का ५ प्र० ४ अ० ११) इति।
रथचक्रवद्वर्तुलत्वेन चीयत इति रथचक्रचित्।
यदप्युक्तं सूत्रकारेण– “द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते द्वयानि तु खलु द्रोणानि चतुरश्राणि परिमण्डलानि च तत्र याथाकामी” इति। तदेतद्विधत्त– “द्रोणचितं चिन्वीतान्नकामो द्रोणे वा अन्नं भ्नियते सयोन्येवान्नमवरुन्धे” ( सं० का ५ प्र० ४ अ० ११) इति।
द्रोणे हि धान्यं भरन्त्यतो धान्यस्थानसहितमन्नं प्राप्नोति।
यदप्युक्तं सूत्रकारेण “समूह्यं चिन्वीत पशुकाम इति विज्ञायते समूहन्निवे ष्टका उपदधाति” इति। तदिदं विधत्ते– “समूह्यं चिन्वीत पशुकामः पशुमानेव भवति” [सं० का ५ प्र० ४ अ० ११] इति।
समूहमर्हतीति समूह्यः।
यदप्युक्तं सूत्रकारेण– “परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति स परिचाय्यः” इति। तदिदं विधत्ते– “परिचाय्यं चिन्वीत ग्रामकामो ग्राम्येव भवति” (सं० का ५ प्र० ४ अ० ११) इति।
यदप्युक्तं सूत्रकारेण– “श्मशानचिदं चिन्वीत यः कामयेत पितृलोक ऋघ्नुयामिति विज्ञायते द्वयानि तु खलु श्मशानानि चतुरश्राणि परिमण्डलानि च तत्र याथाकामी” इति। तदेतद्विधत्ते– “श्मशानचिते चिन्वीत यः कामयेत पितृलोक ऋघ्नुयामिति पितृलोक एवर्ध्नोति” (सं० का ५ प्र० ४ अ० ११) इति।
तदेवं काम्यचयनानि समापितानि। अथ प्रकृतैर्ममाग्ने वर्च इत्यादिभिर्मन्त्रैः साध्यमुपधानं विधत्ते– “विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताँ स एता जमदग्निर्विहव्यां अपश्यत्ता उपाधत्त ताभिर्वै स वसिष्ठस्येन्द्रियं वीर्यमवृङ्क्त यद्विहव्या उपदधातीन्द्रियमेव २२६८ ताभिर्वीर्य यजमानो भ्रातृव्यस्य वृङ्क्ते” (सं० का ५ प्र० ४ अ० ११) इति।
विहवशब्दोपंतैर्मन्त्रैरुपधेया इष्टका विहव्याः। उपधानदेशं विधत्ते– “होतुर्धिष्णिय उपदधाति यजमानायतनं वै होता स्व एवास्मा आयतन इन्द्रियं वीर्यमवरुन्धे” [सं० का ५ प्र० ४ अ० ११] इति।
देवाह्वानादिकस्य यजमानकार्यस्य होत्रा निष्पाद्यत्वाद्धोता यजमानस्याऽऽयतनम्। तत्र संख्यां विधत्ते– “द्वादशोपदधाति द्वादशाक्षरा जगती जागताः पशवो जगत्यैवास्मै पशूनव रुन्धे” (सं० का ५ प्र० ४ अ० ११) इति।
यद्यप्यत्र मन्त्राणां दशत्वान्मन्त्रकर्मणोः समसंख्या नास्ति तथाऽपि मन्त्रावृत्त्या कर्मसंख्या पूरणीय। तत्प्रकारश्च सूत्रकारेण दर्शितः—“अल्पीयांसो मन्त्रा भूयांसि कर्माणि तत्र समशः प्रतिविभज्य पूर्वैः पूर्वाणि कारयेदुत्तरैरुत्तराण्यल्पीयांसि कर्माणि भूयांसो मन्त्रास्तत्र प्रतिमन्त्रं कूर्यादवशिष्टा विकल्पार्था यथायूपद्रव्याणीत्यन्ताल्लोपो विवृद्धिर्वा” इति। अतोऽत्र पूर्वभागस्यान्तिमं पञ्चममुत्तरभागस्यान्तिमं दशमं चाऽऽवृत्त्या वर्धयित्वा संख्या पूरणीया। स्थानान्तरेषु संख्यां विधत्ते– “अष्टावष्टावन्येषु धिष्णियेषूपदधात्यष्टाशफाः पशवः पशूनेवावरुन्धे” (सं० का० ५ प्र० ४ अ० ११) इति।
प्रशास्त्रीयपोत्रीयनेष्ट्रीयाच्छावाकीयादीन्यन्यानि धिष्णियानि। तत्र नवमदशममन्त्रयोर्लोपेनाष्टसंख्याऽवगन्तव्या।
क्वचित्संख्यान्तरं विधत्ते– “षण्मार्जालीये षड्वा ऋतव ऋतवः खलु वै देवाः पितर ऋतूनेव देवान्पतॄन्प्रीणाति” [सं० का० ५ प्र० ४ अ० ११] इति।
दैविकस्य पैतृकस्य च कस्मिंश्चिदृतौ कर्तव्यत्वादृतूनां देवत्वं पितृत्वं च। अत्र सप्तमादीनां चतुर्णां मन्त्राणां लोपः। अत्र विनियोगसंग्रह– ममाग्ने दशभिर्मन्त्रैर्धिष्णियेषु यथायथम्।
इष्टका उपधत्तेऽत्र वह्निकाण्डः समापितः॥
२२६९ अत्र मीमांसा।
तृतीयाध्यास्याष्टमपादे चतुर्दसाधिकरणे चिन्तितम्– ममाग्न इति कस्यात्र फलं लिङ्गेन वक्तृगम।
श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम् ॥
ममाग्ने वर्चो विहवेष्वित्ययं* मन्त्र इष्टकाचयनाङ्गभूतोऽध्वर्युणा पठ्यते। विशिष्टं हवनं येषां यज्ञानां ते विहतास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममास्त्वित्यनेन लिङ्गन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलमिति चेन्मैवम्। () अग्निं चिनुत इत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते। न च परिक्री तस्याध्वर्योर्दक्षिणातिरिक्तफलसंबन्धो न्याय्यः। तस्माच्छुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम्। मदीययजमानस्य तद्वर्चोऽस्त्विति ह्युपचारः। तस्माद्याजमानेन पाठ्येष्वायुर्दा अग्नेऽस्यायुर्मे देहीत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानं तथैवाध्वर्युणा पाठ्येषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥

  • न्यायमालयां ‘त्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रोऽध्व’ इति पाठः।
    ()‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति न्यायामालापाठः।