०९ वसोर्धारा होममन्त्राः

अग्निर्ऋषिः

मूलम् (संयुक्तम्)

अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तञ्च॑ मेऽहोरा॒त्रयो॑र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् [16]

विश्वास-प्रस्तुतिः

अ॒ग्निश्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

अ॒ग्निश्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

(अथ चतुर्थाष्टके सप्तमप्रपाठके नवमोऽनुवाकः)।
नवममाह– अग्निश्च म इति।
अग्निश्चीयमानो वह्निः।

विश्वास-प्रस्तुतिः

घ॒र्मश्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

घ॒र्मश्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

धर्मः प्रवर्ग्यः ।

विश्वास-प्रस्तुतिः

अ॒र्कश्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

अ॒र्कश्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

इन्द्रायार्क वंते पुरोडाशमिति विहितो यागोऽर्कः ।

विश्वास-प्रस्तुतिः

सूर्य॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

सूर्य॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

सौर्यं चरुमिति विहितो यागः सूयः।

विश्वास-प्रस्तुतिः

प्रा॒णश्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

प्रा॒णश्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

प्राणाय स्वाहेति विहितो होमःप्राणः ।

विश्वास-प्रस्तुतिः

अ॒श्व॒मे॒धश्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

अ॒श्व॒मे॒धश्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

अश्वमेधः प्रसिद्धः ।

विश्वास-प्रस्तुतिः

पृ॒थि॒वी च॑ मे +++(कल्पताम्)+++ ।
अदि॑तिश्च मे॒ +++(कल्पताम्)+++ ।
दिति॑श्च मे॒ +++(कल्पताम्)+++ ।
द्यौश्च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

पृ॒थि॒वी च॑ मे +++(कल्पताम्)+++ ।
अदि॑तिश्च मे॒ +++(कल्पताम्)+++ ।
दिति॑श्च मे॒ +++(कल्पताम्)+++ ।
द्यौश्च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

पृथिव्यादयो देवताविशेषाः।

विश्वास-प्रस्तुतिः

शक्व॑रीः +++(मे य॒ज्ञेन॑ कल्पन्ताम् )+++ ।

मूलम्

शक्व॑रीः +++(मे य॒ज्ञेन॑ कल्पन्ताम् )+++ ।

सायण-टीका

शक्वरीः शक्वर्यः ।

विश्वास-प्रस्तुतिः

अ॒ङ्गुल॑यः +++(मे य॒ज्ञेन॑ कल्पन्ताम् )+++ ।

मूलम्

अ॒ङ्गुल॑यः +++(मे य॒ज्ञेन॑ कल्पन्ताम् )+++ ।

सायण-टीका

अङ्गुलयोऽङ्गुलिवद्विराट्पुरुषस्यावयवविशेषाः ।

विश्वास-प्रस्तुतिः

दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।

मूलम्

दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।

सायण-टीका

दिशः प्राच्याद्याः चशब्दाद्विदिशोऽपि ।
ताः सर्वा मे मदीयेन यज्ञेन कल्पन्तां स्वस्वव्यापारसमर्था भवन्तु ।

विश्वास-प्रस्तुतिः

ऋक्च॑ मे॒ +++(कल्पताम्)+++ ।
साम॑ च मे॒ +++(कल्पताम्)+++ ।

मूलम्

ऋक्च॑ मे॒ +++(कल्पताम्)+++ ।
साम॑ च मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

ऋगादयो मन्त्रविशेषाः ।

विश्वास-प्रस्तुतिः

स्तोम॑श्च मे॒ +++(कल्पताम्)+++ ।
यजु॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

स्तोम॑श्च मे॒ +++(कल्पताम्)+++ ।
यजु॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

स्तोमः सामावृत्तिरूपं स्तोत्रम् ।

विश्वास-प्रस्तुतिः

दी॒क्षा च॑ मे॒ +++(कल्पताम्)+++ ।

मूलम्

दी॒क्षा च॑ मे॒ +++(कल्पताम्)+++ ।

सायण-टीका

दीक्षा यजमानसंस्कारः ।

विश्वास-प्रस्तुतिः

तप॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

तप॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

तपः पापक्षयार्थमनशनादि ।

विश्वास-प्रस्तुतिः

ऋ॒तुश्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

ऋ॒तुश्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

ऋतुर्यज्ञाङ्गभूतः कालः ।

विश्वास-प्रस्तुतिः

व्र॒तञ्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

व्र॒तञ्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

व्रतमेकस्तनादि ।

विश्वास-प्रस्तुतिः

अ॒हो॒रा॒त्रयो॑र्वृ॒ष्ट्या +++(कल्पताम्)+++ ।

मूलम्

अ॒हो॒रा॒त्रयो॑र्वृ॒ष्ट्या +++(कल्पताम्)+++ ।

सायण-टीका

अहोरात्रयोः संबन्धिनी या वृष्टिस्तया मदीयं सस्यं कल्पतामिति शेषः ।

विश्वास-प्रस्तुतिः

बृ॒ह॒द्र॒थ॒न्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम्

मूलम्

बृ॒ह॒द्र॒थ॒न्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम्

सायण-टीका

बृहद्रथंतरे सामनी, ते च मदीयेन यज्ञेन कल्पेतां स्वस्वव्यवहारसमर्थे भवेताम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके नवमोऽनुवाकः ॥
९ ॥

चतुर्थाष्टके सप्तमप्रपाठके दशमोऽनुवाकः