०८ वसोर्धारा होममन्त्राः

अग्निर्ऋषिः

मूलम् (संयुक्तम्)

इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी॑ध्रञ्च मे हवि॒र्धान॑ञ्च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा॑श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे ॥ [15]

विश्वास-प्रस्तुतिः

इ॒ध्मश्च॑ मे +++(कल्पताम्)+++ ।
ब॒र्हिश्च॑ मे॒ +++(कल्पताम्)+++ ।
वेदि॑श्च मे॒ +++(कल्पताम्)+++ ।
धिष्णि॑याश्च मे॒ +++(कल्पताम्)+++ ।
स्रुच॑श्च मे +++(कल्पताम्)+++ ।
च॒म॒साश्च॑ मे॒ +++(कल्पताम्)+++ ।
ग्रावा॑णश्च मे॒ +++(कल्पताम्)+++ ।
स्वर॑वश्च मे +++(कल्पताम्)+++ उ॒प॒र॒वाश्च॑ मे +++(कल्पताम्)+++ ।
अ॒धि॒षव॑णे च मे +++(कल्पताम्)+++ ।
द्रो॒ण॒क॒ल॒शश्च॑ मे +++(कल्पताम्)+++ ।
वा॒य॒व्या॑नि च मे +++(कल्पताम्)+++ ।
पू॒त॒भृच्च॑ मे +++(कल्पताम्)+++ ।
आ॒ध॒व॒नीय॑श्च मे॒ +++(कल्पताम्)+++ ।
आग्नी॑ध्रञ्च मे +++(कल्पताम्)+++ ।
ह॒वि॒र्धान॑ञ्च मे +++(कल्पताम्)+++ ।

मूलम्

इ॒ध्मश्च॑ मे +++(कल्पताम्)+++ ।
ब॒र्हिश्च॑ मे॒ +++(कल्पताम्)+++ ।
वेदि॑श्च मे॒ +++(कल्पताम्)+++ ।
धिष्णि॑याश्च मे॒ +++(कल्पताम्)+++ ।
स्रुच॑श्च मे +++(कल्पताम्)+++ ।
च॒म॒साश्च॑ मे॒ +++(कल्पताम्)+++ ।
ग्रावा॑णश्च मे॒ +++(कल्पताम्)+++ ।
स्वर॑वश्च मे +++(कल्पताम्)+++ उ॒प॒र॒वाश्च॑ मे +++(कल्पताम्)+++ ।
अ॒धि॒षव॑णे च मे +++(कल्पताम्)+++ ।
द्रो॒ण॒क॒ल॒शश्च॑ मे +++(कल्पताम्)+++ ।
वा॒य॒व्या॑नि च मे +++(कल्पताम्)+++ ।
पू॒त॒भृच्च॑ मे +++(कल्पताम्)+++ ।
आ॒ध॒व॒नीय॑श्च मे॒ +++(कल्पताम्)+++ ।
आग्नी॑ध्रञ्च मे +++(कल्पताम्)+++ ।
ह॒वि॒र्धान॑ञ्च मे +++(कल्पताम्)+++ ।

सायण-टीका

(अथ चतुर्थाष्टके सप्तमप्रपाठकेऽष्टमोऽनुवाकः) ।
अष्टममाह – इध्मश्च म इति ।
इध्मादीनि यज्ञाङ्गद्रव्याणि यज्ञप्रकरणे प्रसिद्धानि ।

विश्वास-प्रस्तुतिः

गृ॒हाश्च॑ मे॒ +++(कल्पताम्)+++ ।
सद॑श्च मे +++(कल्पताम्)+++ ।
पु॒रो॒डाशा॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

गृ॒हाश्च॑ मे॒ +++(कल्पताम्)+++ ।
सद॑श्च मे +++(कल्पताम्)+++ ।
पु॒रो॒डाशा॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

गृहाः पत्नीशालादयः ।

विश्वास-प्रस्तुतिः

प॒च॒ताश्च॑ मे +++(कल्पताम्)+++ । अ॒व॒भृ॒थश्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

प॒च॒ताश्च॑ मे +++(कल्पताम्)+++ । अ॒व॒भृ॒थश्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

पचताः शामित्रादयः ।

विश्वास-प्रस्तुतिः

स्व॒गा॒का॒रश्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

स्व॒गा॒का॒रश्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

ेस्वगाकारः शंयुवाकः ।
तेन हि यथास्यं देवतानां हविर्नमनं क्रियते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठकेऽष्टमोऽनुवाकः ॥
८ ॥

चतुर्थकाण्डे सप्तमप्रपाठके नवमोऽनुवाकः