०७ वसोर्धारा होममन्त्राः

अग्निर्ऋषिः

मूलम् (संयुक्तम्)

अँ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑पतिश्च म उपाँ॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ [13] मे॒ऽति॒ग्रा॒ह्या॑श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया॑श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ [14]

विश्वास-प्रस्तुतिः

अँ॒शुश्च॑ मे +++(कल्पताम्)+++ ।
र॒श्मिश्च॒ म +++(कल्पताम्)+++ । अदा॑भ्यश्च॒ मे+++(कल्पताम्)+++ ।

मूलम्

अँ॒शुश्च॑ मे +++(कल्पताम्)+++ ।
र॒श्मिश्च॒ म +++(कल्पताम्)+++ । अदा॑भ्यश्च॒ मे+++(कल्पताम्)+++ ।

सायण-टीका

(अथ चतुर्थाष्टके सप्तमप्रपाठके सप्तमोऽनुवाकः)।
सप्तममाह— अँशुश्च म इति ।
अश्वादयः सोमग्रहविशेषाः सोमप्रकरणे प्रसिद्धाः ।
तत्र रश्मिग्रहादर्शनाददाभ्यस्यैव ग्रहस्य गृह्यमाणत्वदशां पृथक्कृत्य रश्मिशब्देन निर्दिश्यते ।
रश्मीनां तु तद्ग्रहणसाधनत्वात् ।
तथा च तद्ग्रहणमन्त्रः पठ्यते– “शुक्रं ते शुक्रेण गृह्णाम्यह्नो रूपेण सूर्यस्य रस्मिभिः” इति ।

विश्वास-प्रस्तुतिः

अधि॑पतिश्च म +++(कल्पताम्)+++ ।

मूलम्

अधि॑पतिश्च म +++(कल्पताम्)+++ ।

सायण-टीका

अधिपतिशब्देन दधिग्रहो विवक्षितः ।
तस्य च श्रेष्ठत्वादाधिपत्यम् ।
अत एव श्रूयते “ज्येष्ठो वा एष ग्रहाणाम्” इति ।

विश्वास-प्रस्तुतिः

उ॒पाँ॒शुश्च॑ मे+++(कल्पताम्)+++ । अ॒न्त॒र्या॒मश्च॑ मे +++(कल्पताम्)+++ । ऐ॒न्द्र॒वा॒य॒वश्च॑ मे +++(कल्पताम्)+++ ।
मै॒त्रा॒व॒रु॒णश्च॑ मे +++(कल्पताम्)+++ । आ॒श्वि॒नश्च॑ मे +++(कल्पताम्)+++ ।

प्र॒ति॒प्र॒स्थान॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

उ॒पाँ॒शुश्च॑ मे+++(कल्पताम्)+++ । अ॒न्त॒र्या॒मश्च॑ मे +++(कल्पताम्)+++ । ऐ॒न्द्र॒वा॒य॒वश्च॑ मे +++(कल्पताम्)+++ ।
मै॒त्रा॒व॒रु॒णश्च॑ मे +++(कल्पताम्)+++ । आ॒श्वि॒नश्च॑ मे +++(कल्पताम्)+++ ।

प्र॒ति॒प्र॒स्थान॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

प्रतिप्रस्थानशब्देन द्विदेवत्यग्रहसहभावी प्रतिनि(धि)र्ग्राह्यो विवक्षितः ।
घ्रुवाख्यस्यैव ग्रहस्यावनयनदशायां वैश्वानरसूक्तपाठात्तदर्वस्थापन्नो वैश्वानरशब्देनोच्यते ।

विश्वास-प्रस्तुतिः

शु॒क्रश्च॑ मे +++(कल्पताम्)+++ ।
म॒न्थी च॑ म +++(कल्पताम्)+++ । आ॒ग्र॒य॒ण॒श्च॑ मे +++(कल्पताम्)+++ ।
वै॒श्व॒दे॒वश्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

शु॒क्रश्च॑ मे +++(कल्पताम्)+++ ।
म॒न्थी च॑ म +++(कल्पताम्)+++ । आ॒ग्र॒य॒ण॒श्च॑ मे +++(कल्पताम्)+++ ।
वै॒श्व॒दे॒वश्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

आद्यो वैश्वदेवः प्रातःसवनगतः।

विश्वास-प्रस्तुतिः

ध्रु॒वश्च॑ मे +++(कल्पताम्)+++ ।
वै॒श्वा॒न॒रश्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

ध्रु॒वश्च॑ मे +++(कल्पताम्)+++ ।
वै॒श्वा॒न॒रश्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

उत्तरस्तृतीयसवनगतः ।

विश्वास-प्रस्तुतिः

ऋ॒तु॒ग्र॒हाश्च॑ मे +++(कल्पताम्)+++ ।
अ॒ति॒ग्रा॒ह्या॑श्च मे +++(कल्पताम्)+++ ।
ऐ॒न्द्रा॒ग्नश्च॑ मे +++(कल्पताम्)+++ ।
वै॒श्व॒दे॒वश्च॑ मे +++(कल्पताम्)+++ ।

म॒रु॒त्व॒तीया॑श्च मे +++(कल्पताम्)+++ ।
मा॒हे॒न्द्र॑श्च मे +++(कल्पताम्)+++ ।
आ॒दि॒त्यश्च॑ मे +++(कल्पताम्)+++ ।
सा॒वि॒त्रश्च॑ मे +++(कल्पताम्)+++ ।
सा॒र॒स्व॒तश्च॑ मे +++(कल्पताम्)+++ ।
पौ॒ष्णश्च॑ मे +++(कल्पताम्)+++ ।
{+++( एवं पौष्णोऽपि विकृतिगामी द्रष्टव्यः ॥ )+++} पा॒त्नी॒व॒तश्च॑ मे +++(कल्पताम्)+++ ।
हा॒रि॒यो॒ज॒नश्च॑ मे +++(कल्पताम्)+++ ।

मूलम्

ऋ॒तु॒ग्र॒हाश्च॑ मे +++(कल्पताम्)+++ ।
अ॒ति॒ग्रा॒ह्या॑श्च मे +++(कल्पताम्)+++ ।
ऐ॒न्द्रा॒ग्नश्च॑ मे +++(कल्पताम्)+++ ।
वै॒श्व॒दे॒वश्च॑ मे +++(कल्पताम्)+++ ।

म॒रु॒त्व॒तीया॑श्च मे +++(कल्पताम्)+++ ।
मा॒हे॒न्द्र॑श्च मे +++(कल्पताम्)+++ ।
आ॒दि॒त्यश्च॑ मे +++(कल्पताम्)+++ ।
सा॒वि॒त्रश्च॑ मे +++(कल्पताम्)+++ ।
सा॒र॒स्व॒तश्च॑ मे +++(कल्पताम्)+++ ।
पौ॒ष्णश्च॑ मे +++(कल्पताम्)+++ ।
{+++( एवं पौष्णोऽपि विकृतिगामी द्रष्टव्यः ॥ )+++} पा॒त्नी॒व॒तश्च॑ मे +++(कल्पताम्)+++ ।
हा॒रि॒यो॒ज॒नश्च॑ मे +++(कल्पताम्)+++ ।

सायण-टीका

सारस्वतग्रहोऽभिषेचनीयाख्याविकृतौ दृष्टव्यः ।
“सारस्वतं ग्रहं गृह्णाति” इति तत्राऽऽम्नानात् ।
एवं पौष्णोऽपि विकृतिगामी द्रष्टव्यः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके सप्तमोऽनुवाकः ॥
७ ॥

चतुर्थकाण्डे सप्तमप्रपाठकेऽष्टमोऽनुवाकः