०६ वसोर्धारा होममन्त्राः

अग्निर्ऋषिः

मूलम् (संयुक्तम्)

अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च [11] म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षञ्च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ [12]

विश्वास-प्रस्तुतिः

अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ +++(कल्पताम्)+++ ।
सोम॑श्च म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
स॒वि॒ता च॑ म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
सर॑स्वती च म इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ +++(कल्पताम्)+++ ।
बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
वरु॑णश्च म॒ इन्द्र॑श्च मे॒ +++(कल्पताम्)+++ ।
त्वष्टा॑ च म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ +++(कल्पताम्)+++ ।
विष्णु॑श्च मे॒
इन्द्र॑श्च मे॒ +++(कल्पताम्)+++ । अ॒श्विनौ॑ च मे॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
म॒रुत॑श्च मे॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
पृ॒थि॒वी च॑ म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ अ॒न्तरि॑क्षञ्च म॒ इन्द्र॑श्च मे॒ +++(कल्पताम्)+++ ।
द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ +++(कल्पताम्)+++ ।

मूलम्

सायण-टीका

(अथ चतुर्थाष्टके सप्तमप्रपाठके षष्ठोऽनुवाकः)।
षष्टमाह— अग्निश्च म इति।
अग्न्यादयः प्रसिद्धा देवताः । तैः सर्वैः सह समानभागेपेतत्वादिन्द्र एकैकया देवतया सह पढ्येते ।

विश्वास-प्रस्तुतिः

दिश॑श्च म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

दिश॑श्च म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

दिक्शब्देन प्राच्याद्याश्चतस्र उच्यन्ते।

विश्वास-प्रस्तुतिः

मू॒र्धा च॑ म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।

मूलम्

मू॒र्धा च॑ म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।
प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे +++(कल्पताम्)+++ ।

सायण-टीका

मूर्धशब्देन चोर्ध्वा दिक् । सा च मुख्यत्वाभिप्रायेण पृथङ् निर्दिष्टा ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥

चतुर्थकाण्डे सप्तमप्रपाठके सप्तमोऽनुवाकः