अग्निर्ऋषिः
चतुर्थकाण्डे सप्तमप्रपाठके द्वितियोऽनुवाकः
मूलम् (संयुक्तम्)
ज्यैष्ठ्य॑ञ्च म॒ आधि॑पत्यञ्च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धञ्च॑ मे॒ वृद्धि॑श्च मे स॒त्यञ्च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च [3]
मे॒ धन॑ञ्च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तञ्च॑ मे जनि॒ष्यमा॑णञ्च मे सू॒क्तञ्च॑ मे सुकृ॒तञ्च॑ मे वि॒त्तञ्च॑ मे॒ वेद्य॑ञ्च मे भू॒तञ्च॑ मे भवि॒ष्यच्च॑ मे सु॒गञ्च॑ मे सु॒पथ॑ञ्च म ऋ॒द्धञ्च॑ म॒ ऋद्धि॑श्च मे कॢ॒प्तञ्च॑ मे॒ कॢप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ॥ [4]
विश्वास-प्रस्तुतिः
ज्यैष्ठ्य॑ञ्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
ज्यैष्ठ्य॑ञ्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
(अथ चतुर्थकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः) ।
अथ द्वितीयमाह– ज्यैष्ठ्यं च म इति ।
ज्यैष्ठ्यं प्रशस्ततममत्वम् ।
विश्वास-प्रस्तुतिः
आधि॑पत्यञ्च मे +++(कल्पताम्)+++ ।
मूलम्
आधि॑पत्यञ्च मे +++(कल्पताम्)+++ ।
सायण-टीका
आधिपत्यं स्वामित्वम् ।
विश्वास-प्रस्तुतिः
म॒न्युश्च॑ मे॒ +++(कल्पताम्)+++ ।
भाम॑श्च॒ मे +++(कल्पताम्)+++ ।
मूलम्
म॒न्युश्च॑ मे॒ +++(कल्पताम्)+++ ।
भाम॑श्च॒ मे +++(कल्पताम्)+++ ।
सायण-टीका
मन्युभामाशब्दौ क्रोधावान्तरविशेषवाचिनौ ।
एको मानसोऽक्षमादिलिङ्गजन्यो बाह्यः ।
विश्वास-प्रस्तुतिः
अम॑श्च॒ मे +++(कल्पताम्)+++ ।
मूलम्
अम॑श्च॒ मे +++(कल्पताम्)+++ ।
सायण-टीका
अमोऽप्रमेयत्वं विरोधिभिरियत्तया परिच्छेत्तुमशक्यत्मम् ।
विश्वास-प्रस्तुतिः
अम्भ॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
अम्भ॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
अम्भः शैत्यमाधुर्योपेतमुदकम् ।
विश्वास-प्रस्तुतिः
जे॒मा च॑ मे +++(कल्पताम्)+++ ।
मूलम्
जे॒मा च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
जेमा जयसामर्थ्यम् ।
विश्वास-प्रस्तुतिः
म॒हि॒मा च॑ मे +++(कल्पताम्)+++ ।
मूलम्
म॒हि॒मा च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
गृहिमा महत्त्वं जयसंपादितधनादिसंपत्तिः ।
विश्वास-प्रस्तुतिः
व॒रि॒मा च॑ मे +++(कल्पताम्)+++ ।
मूलम्
व॒रि॒मा च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
वरिमा वरणीयत्वं पूज्यत्वम् ।
विश्वास-प्रस्तुतिः
प्र॒थि॒मा च॑ मे +++(कल्पताम्)+++ ।
मूलम्
प्र॒थि॒मा च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
प्रथिमा मृहक्षेत्रादिविस्तारः ।
विश्वास-प्रस्तुतिः
व॒र्ष्मा च॑ मे +++(कल्पताम्)+++ ।
मूलम्
व॒र्ष्मा च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
वर्ष्मा पुत्रपौत्रादिशरीराणि ।
विश्वास-प्रस्तुतिः
द्रा॒घु॒या च॑ मे +++(कल्पताम्)+++ ।
मूलम्
द्रा॒घु॒या च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
द्राघुया पुत्रपौत्रादिविषय दीर्घत्वमविच्छिन्ना संततिरिस्यर्थः ।
विश्वास-प्रस्तुतिः
वृ॒द्धञ्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
वृ॒द्धञ्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
वृद्धं प्रभूतमन्नं धन च ।
विश्वास-प्रस्तुतिः
वृद्धि॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
वृद्धि॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
वृद्धिर्विद्यादिगुणैरुत्कर्पः ।
विश्वास-प्रस्तुतिः
स॒त्यञ्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
स॒त्यञ्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
सत्यं यथार्थभाषणम् ।
विश्वास-प्रस्तुतिः
श्र॒द्धा च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
श्र॒द्धा च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
श्रद्धा परलोकोऽस्तीति बुद्धिः ।
विश्वास-प्रस्तुतिः
जग॑च्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
जग॑च्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
जगणङ्गमाजङ्गमात्मकम् ।
विश्वास-प्रस्तुतिः
धन॑ञ्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
धन॑ञ्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
धनं सुवर्णादि ।
विश्वास-प्रस्तुतिः
वश॑श्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
वश॑श्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
वशः सर्वस्वाधीनत्वम् ।
विश्वास-प्रस्तुतिः
त्विषि॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
त्विषि॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
त्विषिः शरीरकान्तिः ।
विश्वास-प्रस्तुतिः
क्री॒डा च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
क्री॒डा च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
क्रीडाऽक्षद्यूतादिः ।
विश्वास-प्रस्तुतिः
मोद॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
मोद॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
मोदस्तज्जन्यो हर्षः ।
विश्वास-प्रस्तुतिः
जा॒तञ्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
जा॒तञ्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
जातं पूर्वसिद्धापत्यम् ।
विश्वास-प्रस्तुतिः
ज॒नि॒ष्यमा॑णञ्च मे +++(कल्पताम्)+++ ।
मूलम्
ज॒नि॒ष्यमा॑णञ्च मे +++(कल्पताम्)+++ ।
सायण-टीका
जनिष्यमाणं भविष्यदपस्यम् ।
विश्वास-प्रस्तुतिः
सू॒क्तञ्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
सू॒क्तञ्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
सूक्तमृक्समूहः ।
विश्वास-प्रस्तुतिः
सु॒कृ॒तञ्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
सु॒कृ॒तञ्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
सुकृतं तज्जन्यमपूर्वम् ।
विश्वास-प्रस्तुतिः
वि॒त्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
वि॒त्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
वित्तं पूर्वलब्धम् ।
विश्वास-प्रस्तुतिः
वेद्य॑ञ्च मे +++(कल्पताम्)+++ ।
मूलम्
वेद्य॑ञ्च मे +++(कल्पताम्)+++ ।
सायण-टीका
वेद्यामितः परं लव्धव्यं द्रव्यजातम् ।
विश्वास-प्रस्तुतिः
भू॒तञ्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
भू॒तञ्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
भूतं पूर्वसिद्धं क्षेत्रादि ।
विश्वास-प्रस्तुतिः
भ॒वि॒ष्यच्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
भ॒वि॒ष्यच्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
भविष्यत्संपत्स्यमानम् ।
विश्वास-प्रस्तुतिः
सु॒गञ्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
सु॒गञ्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
सुगं सुष्ठु गन्तव्यं बन्धुजनयुक्तग्रामान्तरादि ।
विश्वास-प्रस्तुतिः
सु॒पथ॑ञ्च मे॒ +++(कल्पताम्)+++ ।
मूलम्
सु॒पथ॑ञ्च मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
सुपथं चोरादिरहितो मार्गः।
विश्वास-प्रस्तुतिः
ऋ॒द्धञ्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
ऋ॒द्धञ्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
ऋद्धं वर्धितं धनादिकमनुष्ठितकर्मफलं वा ।
विश्वास-प्रस्तुतिः
ऋद्धि॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
ऋद्धि॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
ऋद्धिरनुष्ठास्यमानसत्रफम् ।
विश्वास-प्रस्तुतिः
कॢ॒प्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।
मूलम्
कॢ॒प्तञ्च॑ मे॒ +++(कल्पताम्)+++ ।
सायण-टीका
क्लृप्तं समर्थं स्यकार्यक्षमद्रव्यम् ।
विश्वास-प्रस्तुतिः
कॢप्ति॑श्च मे +++(कल्पताम्)+++ ।
मूलम्
कॢप्ति॑श्च मे +++(कल्पताम्)+++ ।
सायण-टीका
कॢप्तिः स्वकीयसामर्थ्यम् ।
विश्वास-प्रस्तुतिः
म॒तिश्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
म॒तिश्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
मतिः पदार्थमात्रनिश्चयः ।
विश्वास-प्रस्तुतिः
सु॒म॒तिश्च॑ मे +++(कल्पताम्)+++ ।
मूलम्
सु॒म॒तिश्च॑ मे +++(कल्पताम्)+++ ।
सायण-टीका
सुमतिदुर्घटराजकार्यादिनिश्चयः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः ॥
२ ॥