त्रिष्टुप् ।
३ मध्येज्योतिः ।
विश्वेदेवा ऋषयः ।
चतुर्थकाण्डे षष्ठप्रपाठके नवमोऽनुवाकः
विश्वास-प्रस्तुतिः
ये वा॒जिन॑म्परि॒पश्य॑न्ति प॒क्वय्ँय ई॑मा॒हुस्सु॑र॒भिर्निर्ह॒रेति॑ ।
ये चार्व॑तो माँसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ।
मूलम्
ये वा॒जिन॑म्परि॒पश्य॑न्ति प॒क्वय्ँय ई॑मा॒हुस्सु॑र॒भिर्निर्ह॒रेति॑ ।
ये चार्व॑तो माँसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ।
सायण-टीका
(अथ चतुर्थाष्टके पष्टप्रपाठके नवमोऽनुवाकः)।
अष्टमेऽनुवाके पूर्वानुवाकबदश्वस्तोमीयाः केचिन्मन्त्रा उक्ताः ।
अथ नवमेऽविशिष्टा अश्वस्तोत्रमन्प्रा उच्यन्ते ।
तत्र प्रथमामृचमाह— ये बाजिनमिति ।
ये पुरुषा वाजिनमेतमश्वं पक्वं पाकं प्राप्तं परिपश्यन्ति षरित आगत्याऽऽदूरेण पश्यन्ति, य ईं येऽप्यन्ये सुरभिः सुगन्धोऽयमश्वोऽस्मान्निर्हर निष्कृष्याल्पमाहरेत्याहुः, उतो अपि च ये चान्येऽर्वतोश्वस्य संबन्धिनीं मांसभिक्षामुपासते प्रार्थयन्ते, तेषां सर्वेषामभिगूर्तिः संकल्पो न इन्वतु प्राप्नोत्वस्माकं श्रेयते भवत्वित्यर्थः।
विश्वास-प्रस्तुतिः
यन्नीक्ष॑णम्माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि ।
ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्कास्सू॒नाᳶ परि॑ भूष॒न्त्यश्व॑म् ।
मूलम्
यन्नीक्ष॑णम्माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि ।
ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्कास्सू॒नाᳶ परि॑ भूष॒न्त्यश्व॑म् ।
सायण-टीका
अथ द्वितीयामृचमाह– यन्नीक्षणमिति।
मांसं पच्यते यस्यामुखायां सा मांस्पचनी, तस्या उखाया नीक्षणं नितरमीक्षणमादरेण दर्शनं यदस्ति, यानि च पात्राणि यूष्णो रसस्याऽऽसेचनानि सर्वतः सेचनाधारभूतानि, चरूणां मांसादीनामपिधानाऽऽच्छादनपात्राणि ??? ऊष्मण्योष्मरक्षणार्थानि यानि सन्ति, अङ्का मांसलेनाङ्किताः सूनाः स्वधितिवेतसशाखाद्या याः सन्ति, तानि सर्वाण्यश्वं परिभूषन्ति अश्वस्य यत्कार्यं तदेव कुर्वन्तीत्यर्थः ।
विश्वास-प्रस्तुतिः
नि॒क्रम॑णन्नि॒षद॑नव्ँवि॒वर्त॑नय्ँ॒यच्च॒ पड्बी॑श॒मर्व॑तः ।
यच्च॑ प॒पौ यच्च॑ घा॒सिम् [43] ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।
मूलम्
नि॒क्रम॑णन्नि॒षद॑नव्ँवि॒वर्त॑नय्ँ॒यच्च॒ पड्बी॑श॒मर्व॑तः ।
यच्च॑ प॒पौ यच्च॑ घा॒सिम् [43] ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।
सायण-टीका
अथ तृतीयामृचमाह– निष्क्रमणमिति ।
निष्क्रमणमश्वस्य पादप्रक्षेपस्थानं निषदनं निवासस्थानं विवर्तनं परिवर्तनस्थानं च यदस्ति, यदप्यर्वतोऽश्वस्य पड्बीशं पादबन्धनस्थानं पादक्षुण्णरजो वाऽस्ति, यदप्युदकं पपौ, यच्च घासिं तृणादिकं जघास भक्षितवान्, ते त्वदीयं सर्वा ता तत्सर्वं देवेष्यप्यस्तु देवेष्वेव समर्पितं भवतु ।
विश्वास-प्रस्तुतिः
मा त्वा॒ग्निर्ध्व॑नयिद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ ।
इ॒ष्टव्ँवी॒तम॒भिगू॑र्तव्ँ॒वष॑ट्कृत॒न्तन्दे॒वास॒ᳶ प्रति॑ गृभ्ण॒न्त्यश्व॑म् ।
मूलम्
मा त्वा॒ग्निर्ध्व॑नयिद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ ।
इ॒ष्टव्ँवी॒तम॒भिगू॑र्तव्ँ॒वष॑ट्कृत॒न्तन्दे॒वास॒ᳶ प्रति॑ गृभ्ण॒न्त्यश्व॑म् ।
सायण-टीका
अथ चतुर्थीमृचमाह– मा त्नाऽग्निरिति ।
हेऽश्व त्वां धूमगन्धिर्धूमगन्धापादकोऽग्निर्मा ध्वनयित्पा कशब्दोपेतं मा करोतु ।
काष्ठविशेषयुक्तेन केनविदग्निना पक्वमोदनादिकं धूमगन्धो पेतं भवति ।
तथा दुष्पाकेन(ण) कुशब्दं यथा भवति तथा पच्यन्ते ।
तदुभयमत्र मा भूदित्यर्थः ।
किंच भ्राजन्त्युखा सम्यक्तप्ता स्थाली माऽभिविक्तातिपा केनाभितो विक्तं विदग्धं मा करोतु ।
त्वं तु जघ्रिराघ्राणयोग्यः सुगन्धो भ (न्विर्म) वेति शेषः ।
इष्टमन्तयन्तेच्छाविषयं वीतं कान्तं रमणीयपाकमभिगूर्तंदेवयोग्यमस्त्विति यजमानैः संकल्पितं वषट्कृतं वषट्कारेण प्रदत्तमश्वं देवाः प्रतिगृभ्णन्ति देवाः स्वी कुर्वन्तु ।
विश्वास-प्रस्तुतिः
यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सय्ँया हिर॑ण्यान्यस्मै ।
स॒न्दान॒मर्व॑न्त॒म्पड्बी॑शम्प्रि॒या दे॒वेष्वा या॑मयन्ति ।
मूलम्
यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सय्ँया हिर॑ण्यान्यस्मै ।
स॒न्दान॒मर्व॑न्त॒म्पड्बी॑शम्प्रि॒या दे॒वेष्वा या॑मयन्ति ।
सायण-टीका
अथ पञ्चमीमृचमाह– यदश्वायेति ।
हन्यमानस्याश्वस्याधस्ताद्वस्त्रमुपरिष्टाच्च किंचिद्वस्त्रं प्रसार यन्ति, तदुभयमत्र वासःशब्देनाधीवासशब्देन चोच्यते ।
यद्वासोऽश्वार्थमुपस्तृणन्त्यधः प्रसारयन्ति, यच्चाधि (धी)वासमुपर्याच्छदयन्ति, यानि चान्यानि हिरण्यमण्यादीन्यस्मा अश्वार्थं संपादितानि, अर्वन्तमर्वतोऽश्वस्य यत्संदानं बन्धनसाधनं दाम, यच्च पड्बीशं पादबन्धनस्थानगता रज्जुस्तानि सर्वाणि देवेषु प्रिया प्रियाणि भूत्वाऽऽयामयन्ति सर्वतः प्रसारयन्तु ।
विश्वास-प्रस्तुतिः
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्णि॑या वा॒ कश॑या [44] वा॒ तु॒तोद॑ ।
स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ।
मूलम्
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्णि॑या वा॒ कश॑या [44] वा॒ तु॒तोद॑ ।
स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ।
सायण-टीका
अथ षष्ठीमृचमाह– यत्ते साद इति ।
हेऽश्व तव सादे नमने ( महसोत्सवेन ) शूकृतस्य शूकारो ध्वन्यनुकरणं प्रौढस्याश्वस्य शीघ्रगमने शूकारो जायते, तेन शूकारेण युक्तस्य शीघ्रगमनायोपर्यारूढः पार्ष्णिया स्वकीयेन पादपृष्ठमागेन हस्तधृतया कशया वा तु (यत्तु) तोद व्यथां चकार, ते त्वदीयं सर्वा ता तत्सर्वं ब्रह्मणा मन्त्रेण सूदयामि जुहोमि ।
तत्र दृष्टान्तः—अध्वरेषु यागेषु हविः संबन्धीनि तानि सर्वाण्याज्यादिविशेषरूपाणि स्रुचेव यथा स्रुचाऽऽज्यं जुह्वति तद्वत्।
विश्वास-प्रस्तुतिः
चतु॑स्त्रिँशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑ति॒स्समे॑ति ।
अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ।
मूलम्
चतु॑स्त्रिँशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑ति॒स्समे॑ति ।
अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ।
सायण-टीका
सप्तमीमाह चतुस्त्रिँशदिति।
वाजिनोऽन्नसाधनस्य देवबन्धोर्देवाप्रियस्य देवार्थं बध्यमानस्याश्वस्य संबन्धिनीर्वङ्कीर्वक्राणि पार्श्वद्वयगतान्यस्थीन्येकैकस्मिन्पार्श्वे स दशेत्येवं चतुस्त्रिंशत्संख्याकाः, अन्यस्य तु पशोः षङ्विंशतिरेव ।
अतः सावधाना स्वधितिरश्वं समेति संगच्छताम् ।
यथाऽस्थिलेशोऽपि हविंषि न मिलति तथा वियुनक्ती (क्त् वि)त्यर्थः ।
हे शमितारो गात्रा हृदयाद्यङ्गानि अच्छिद्रा वयुना छिद्ररहितानि यथा भवन्ति तथा कृणोत कुरुत ।
तत्र चायमुपायः– पुरुष्परुरनुघुष्य तत्पर्वानुक्रमेण तदीदृशमिति कथमपि ज्ञात्वा विशस्त विशसनं कुरुत।
विश्वास-प्रस्तुतिः
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः ।
या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑ना॒म्प्र जु॑होम्य॒ग्नौ ।
मूलम्
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः ।
या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑ना॒म्प्र जु॑होम्य॒ग्नौ ।
सायण-टीका
अथाष्टमी (मृच) माह– एकस्त्वष्टुरिति ।
त्वष्टुर्दीप्तिमतोऽऽश्वस्यर्तूपलक्षितकालीन एको विशस्ताहिंसिता ।
तथा द्वा यन्तारा विशसनकाले यथेतस्ततो न चलति तथा नि या मकौ द्वौ।
अत एवान्यत्राऽऽम्नातम् “अघ्रिगुश्चापापश्च ।
उभौ देवानाँ शमि तारौ” इति हेऽश्व ते तव गात्राणां यान्यङ्गानि ऋतुथर्तूपलक्षिते तत्तत्काले कृणोमि च्छिनद्मि, पिण्डानां मांसपिण्डानां मध्ये ताता तानि तान्यङ्गानि प्रजुहोम्यग्नौ प्रकर्षेण जुहोमि ।
विश्वास-प्रस्तुतिः
मा त्वा॑ तपत् [45] प्रि॒य आ॒त्मापि॒यन्त॒म्मा स्वधि॑तिस्त॒नुव॒ आ ति॑ष्ठिपत्ते ।
मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ।
मूलम्
मा त्वा॑ तपत् [45] प्रि॒य आ॒त्मापि॒यन्त॒म्मा स्वधि॑तिस्त॒नुव॒ आ ति॑ष्ठिपत्ते ।
मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ।
सायण-टीका
अथ नवमी (मृच)माह— मा त्वेति।
हेऽश्वापियन्तं शरीरं विसृज्य देवान्गच्छन्तं त्वां प्रिय आत्माप्रीतिहेतुर्विग्रहो मा तपत्संतापं मा कार्षीत्।
तथा स्वधितिस्ते तनुवो गात्राणि नाऽऽतिष्ठिपन्मैव स्थापयतु, किमप्यङ्गमनवशेष्य सर्वं छिनत्त्वित्यर्थः।
अविशस्ता विशसनकौशलरहितः केवलं मांसतृष्णायुक्तोऽतिहाय विशसनकौशलरहितप्रकारम तिलङ्घ्य ते गात्राणि तवाङ्गान्यसिना शस्त्रेण मिथु च्छिद्राणि ना कर्मा करोतु ।
विश्वास-प्रस्तुतिः
न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ ।
हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ।
मूलम्
न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ ।
हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ।
सायण-टीका
अथ दशमी (मृच) माह– न वा उवेतदिति।
शास्त्रानभिज्ञानां लौकिकानां दृष्ट्या त्वमेतत्प्रत्यक्ष मेव म्नियसे शमितृभिर्हिस्यसे च ।
शास्त्रादृष्ट्या तु त्वं न वा उवेतन्म्नियस एत ??? न्मरणमेव न भवति, न च रिष्यसि नापि शमितृभिर्हिस्यसे, किंतु सुगेभिः पथिमिः सुगममार्गैर्देवानिदेषि देवानेव प्राप्नोषि ।
तत्र देवेषु मध्य इन्द्रत्वं प्राप्तस्य ते हरी हरिनामकावश्वौ रथे युक्तावभूतां सर्वथा भविष्यतः।
- एवं तथा मरुद्रूपं प्राप्तस्य ते पृषती चित्रवर्णे अश्वस्त्रियौ युञ्जावभूतां रथे युक्तौ भविष्यतः।
इदानीं रासभस्य धुरि वर्तमानस्व गर्दभवद्भारवाहिनस्तव वाज्युपास्थात्त्वां वोढुं कश्चित्प्रौढोऽश्वः प्राप्तो भविष्यति ।
विश्वास-प्रस्तुतिः
सु॒गव्य॑न्नो वा॒जी स्वश्वि॑यम्पुँ॒सᳶ पु॒त्राँ उ॒त वि॑श्वा॒पुषँ॑ र॒यिम् ।
अ॒ना॒गा॒स्त्वन्नो॒ अदि॑तिᳵ कृणोतु क्ष॒त्रन्नो॒ अश्वो॑ वनताँ ह॒विष्मा॑न् ॥ [46]
मूलम्
सु॒गव्य॑न्नो वा॒जी स्वश्वि॑यम्पुँ॒सᳶ पु॒त्राँ उ॒त वि॑श्वा॒पुषँ॑ र॒यिम् ।
अ॒ना॒गा॒स्त्वन्नो॒ अदि॑तिᳵ कृणोतु क्ष॒त्रन्नो॒ अश्वो॑ वनताँ ह॒विष्मा॑न् ॥ [46]
सायण-टीका
अथैकादशी[ मृच ]माह– सुगव्यमिति।
अयं वाजी नोऽस्माकं सुगव्यं कल्याणगोसमूहं स्वश्वियं कल्याणाश्वसमूहं पुंसः पुत्रान्पुंस्त्वलक्षणसंपन्नान्पुत्रान्, उतापि च विश्वाषुषं विश्वं पोषयितुं रयिं धनं कृणोतु ।
अदितिरियं भूमिर्नोऽस्माकमनागास्त्वमपराधराहित्यं करोतु ।
हविष्मान्हविःस्वरूपेण निष्पन्नोऽयमश्वो नोऽस्माकं क्षत्त्रं बलं वनतां संपादयतु।
तदेवमेतेषु त्रिष्वनुवाकेषु अश्वस्तोत्रप्रतिपादकत्वेनाश्वस्तोमीया मन्त्राः पञ्चत्रिंशदाम्नाताः ।
अवशिष्टा तु पञ्चमकाण्डे समाम्नास्यते ।
तथा च सूत्रकार आह– “क्रमैरत्यक्रमीदित्येतां षट्त्रिंशीम्” इति।
अत्र विनियोगसंग्रहः—
पञ्चत्रिंशद्यदक्रन्दोनुवाकेषु त्रिषु श्रुताः।
अश्वस्तोमीयहोमास्तैरिति षष्ठः समीरितः॥
अत्र मीमांसा ।
नवमाध्यायस्य चतुर्थपादे द्वितीयाधिकरणे चिन्तितम्– न चतुत्रिंशदित्येष निषेधो नियतो न वा ।
गिरपदवदाद्यः स्यान्नैवकारहतत्वतः ॥
निषेधः प्राप्तिपूर्वोऽतः प्रापकोऽत्रानुमीयते ।
निषेधप्रापकाभ्यां च चतुस्त्रिंशद्विकल्प्यते ।
अश्वमेधे त्रयः सवनीयः पशवः श्रुताः—“अश्वस्तूपरो गोमृगस्ते प्राजा * एवमित्यधिकम्।
??? पत्याः” इति ।
तेष्वश्वस्य चतुत्रिंशद्वङ्क्रयः ।
तथा च मन्त्रः पठ्यते– “चतुस्त्रिँ शद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति” इति ।
वाजी गन्धर्ववाहको जातिवशेषः ।
अत एवान्यत्राऽऽम्नायते–
“हयो देवानवहदर्वाऽसुरान्याजी गन्धर्वानश्वो मनुष्यान्” इति ।
देवबन्धुर्देवानां प्रियः ।
स्वधितिश्छेदनहेतुः शस्त्रमित्यर्थः ।
एवं सति अघ्रिगुप्रैषं विशेषोऽयमाम्नायते “न चतुस्त्रिंशदिति ब्रूयात्।
षङ्विंशतिरित्येव ब्रूयात्” इति ।
सोऽयं चतुस्त्रिंशद्वाजिन इत्यादिकाया ऋचः प्रतिषेधो गिरापदनिषेधवान्नित्यो न तु विकल्पितः ।
यथा “न गिरा गिरेति ब्रूयादैरं कृत्वोद्गेयम्” इत्यत्र गिरापदनिषधपुरः सरमि रापदे विहिते सति निषिद्धस्य नित्यानवृत्तिः ।
तथा चतुस्त्रिंशन्मन्त्रनिषे पुरःसरं षड्विंशतिमन्त्रे विहिते सति नित्यनिवृत्तिर्निषिद्धस्येति चेन्मैवम् ।
षड्विंशतिरित्येव ब्रूयादित्येवकारेण विधित्बप्रत्ययबाधात् ।
षड्विंशतिमन्त्रस्तावच्चोदकप्रांप्तत्वान्न विधेयः ।
तस्य चतुस्त्रिंशन्मन्त्रेणापवादप्रसक्तौ न चतुस्त्रिंशदित्यनेनापवादकं मन्त्रं प्रतिषिध्य चोदकप्राप्तस्यानपोदितत्वेन यथापूर्वमवस्थानमनुद्यत इत्येवमर्थं सूचयितुमेवकारः प्रयुक्तः।
गिरापददृष्टान्तस्तु विषमः ।
अप्राप्तत्वादिरापदं तत्र विधीयते ।
तेन च विहितेन पाठप्राप्ते गिरापदे बाधिते स बाधो न गिरा गिरेति निषेधेनानूद्यते ।
ततो दृष्टान्ते निषेधानुवादो दार्ष्टन्तिके विध्यनुवाद इति महद्वैषम्यम् ।
ननु विधिवाक्यस्यैवकारयुक्तस्यानुवादत्वे सति न चतुस्त्रिंशदित्यस्मिन्निषेधे कृत्स्नवाक्यतात्पर्यान्निषिद्धस्य नित्यनिवृत्तिस्तदवस्था स्यात् ।
मैवम् ।
प्रापकस्यापि सद्भावेन निषेधप्राप्तिभ्यां चतुस्त्रिंशन्मन्त्रस्य विकल्पितत्वात्।
अथोच्येत चतुस्त्रिंशद्वाजिन इत्ययं मन्त्रः केवलं स्वरूपेण पठितः, न त्वस्याघ्रिगुप्रैषवत्प्रापकं किंचिदस्तीति ।
तन्न ।
प्रापकवचनस्य कल्पनीयत्वादन्यथा प्रसकत्यभावेन प्रतिषेधानुपपत्तेः ।
तस्मात्प्रसञ्जकेनोपजीव्येनानुमितविधिना प्रत्यक्षनिषेधेन च समानबलतया चतुस्त्रिंशदित्ययं मन्त्रोऽश्वस्याघ्रिगुप्रैषे विकल्प्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठके नवमोऽनुवाकः ॥
९॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठः प्रपाठकः ॥
६ ॥