त्रिष्टुप् ।
विश्वेदेवा ऋषयः ।
चतुर्थकाण्डे षष्ठप्रपाठके सप्तमोऽनुवाकः
विश्वास-प्रस्तुतिः
यदक्र॑न्दᳶ प्रथ॒मञ्जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्य॒म्महि॑ जा॒तन्ते॑ अर्वन् ।
मूलम्
यदक्र॑न्दᳶ प्रथ॒मञ्जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्य॒म्महि॑ जा॒तन्ते॑ अर्वन् ।
सायण-टीका
(अथ चतुर्थकाण्डे षष्ठप्रपाठके सप्तमोऽनुवाकः )।
षष्ठेऽनुवाके कवचादिसंनाहोऽभिहितः।
अथ सप्तमाद्यनुवाकत्रये होमोऽभि घीयते।
कल्पः — “यदक्रन्दः प्रथमं जायमान इत्येतौस्त्रिभिरनुवाकैः षट्त्रिंशतमश्वस्तोमीयाञ्जहोति” इति।
तत्र सप्तमानुवाके प्रथमामृचमाह– यदक्रन्द इति।
हेऽर्वन्यद्यस्मात्कारणाज्जायमान उत्पद्यमान एव प्रथममादावक्रन्दः क्रन्दितवानसि अहो अग्न्यादीनामहं साधनामिति महान्तं शब्दमकरोस्तस्मात्कारणात्ते तव जातं महि महत्।
अत एवोपस्तुत्यं समीचीनमिति
२२०९ सर्वैरपि स्तोतव्यमासीत्।
जायमानेम[ ए ]व विशदी क्रियते समुद्रादुद्यन्समुद्रोपलक्षितादुदकादुत्पद्यमानः।
अप्सुयोनिर्वा अश्व इति श्रुतेः।
उत वा पुरीषात्, अथवा लौकिकदृष्ट्या पुरीषात्पुंस्त्वशक्तिसंपन्नान्महतोऽश्वादुत्पद्यमानः।
जन्मन उपस्तुत्यत्वे दृष्ठान्तद्वयमुच्यतेश्येनस्य पक्षा हरिणस्य बाहू।
इवशब्दोऽत्राध्याहतंव्यः।
यश्चा श्येनाख्यस्य पक्षिणः पक्षौ शीघ्रोत्पतनहेतुत्वात्सर्वैरुपस्तुत्यौ, यथा वा हरिणस्य मृगस्य बाहू पादौ शीघ्रगमनहेतुत्वादुपस्तुत्यौ तद्वदित्यर्थः।
विश्वास-प्रस्तुतिः
य॒मेन॑ द॒त्तन्त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणम्प्रथ॒मो अध्य॑तिष्ठत् ।
ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वव्ँ॑वसवो॒ निर॑तष्ट ।
मूलम्
य॒मेन॑ द॒त्तन्त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणम्प्रथ॒मो अध्य॑तिष्ठत् ।
ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वव्ँ॑वसवो॒ निर॑तष्ट ।
सायण-टीका
अथ द्वितीयामृचमाह– यमेन दत्तमिति।
अत्र यमोऽग्निः।
अग्निर्वाव यम इति श्रुत्यन्तरात्।
त्रिषु लोकेषु त्रायते विस्तार्यत इति त्रितो वायुः।
यमेनाग्निना दत्तनेनमश्वं त्रितो वायुरायुनग्रथे योजितवान्।
तत इन्द्रः प्रथमः सर्वेषु देवेषु मध्ये प्रथमं प्रवृत्तः सन्नेनमश्वमध्यतिष्ठदधिष्ठितवान्योगक्षेमं संपादयितुमभिमानं कृतवानित्यर्थः।
गन्धर्वः कश्चिद्स्याश्वस्य रशनां बन्धनहेतुं रज्जुमगृभ्णात्स्वीकृतवान्।
हे वसवो यूयं सूरादादित्यादिममश्वं निरतष्ट निःशेषेण प्रकाशितवन्तः।
यस्याश्वस्याग्निरानेता, वायुर्योजयिता, इन्द्रोऽभिमन्ता, गन्धर्वो रज्जुग्रहीता, सूर्यप्रकाशेन वसवः प्रकाश यितारस्तादृशोऽयमश्व इति स्तूयते।
विश्वास-प्रस्तुतिः
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।
असि॒ सोमे॑न स॒मया॒ विपृ॑क्तः [34] आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ।
मूलम्
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।
असि॒ सोमे॑न स॒मया॒ विपृ॑क्तः [34] आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ।
सायण-टीका
अथ तृतीयामृचमाह– असि यम इति।
हेऽर्वन्नश्व त्वं यमाभिधोऽग्निरसि।
तथाऽऽदित्योऽसि।
तथा त्रितो वायुरसि।
पूर्वोक्तप्रकारेण वाय्वादित्ययोरनुगृहीतत्वात्तद्रूपत्वम्।
तथा गुह्येन गोप्बेनाश्वमेधाख्येन कर्मणा तत्रत्येन सोमेन च सुमया समये प्राप्तकले विपृक्तो विशेषेण युक्तोऽसि।
ईदृशस्य ते तव द्युलोके बन्धनानि बम्धनसाधनानि दामानि त्रीणीत्येयमभिज्ञा आहुः।
वणिजो हि शक्त्याधिक्येनात्यु ग्रभश्वं विक्रेतुं ग्रामान्तरे नयन्तास्त्रंभिदांमभिर्बध्नन्ति।
दक्षिणवामपार्श्वयोर्दामद्वयमुभौ पुरुषौ गृह्णीतः।
यदा दक्षिणभागवर्तिनं द्रष्टुमुद्युङ्क्ते तदा वामभागवती तमाकर्षति।
तं चेद्द्गष्टुमुद्युङ्क्ते तदानीमितर आकर्षति।
यदा सदसा पुरतः पलायनं करोति तदा तं वारयितुं गले बद्धमेकं दाम गृहीत्वा पृष्ठतः कश्चिदाकर्षति।
तदिदं बन्धनत्रयम्।
यद्वा शास्त्रसिद्धं किंचित्कारणत्रयं द्रष्टव्यम्।
तदनेन बन्धनत्रयेणाघिकशाक्तिरश्व इति स्तुतो भवति।
विश्वास-प्रस्तुतिः
त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तस्स॑मु॒द्रे ।
उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुᳶ प॑र॒मञ्ज॒नित्र॑म् ।
मूलम्
त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तस्स॑मु॒द्रे ।
उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुᳶ प॑र॒मञ्ज॒नित्र॑म् ।
सायण-टीका
अथ चतुर्थीमृचमाह– २२१० त्रीणि त इति।
यथा द्युलोके तवोचैःश्रवोरूपस्य वन्धनत्रयमाभिज्ञा आहुस्तथैवाप्सु समुद्रे च।
यथा वा वाजपेयेऽप्स्वन्तरमृतमिति मन्त्रेणाश्वानप्सु स्ना पयन्ति तथाऽपि पूर्वोक्तरीत्या बन्धनत्रयमपेक्षितं तथा समुद्रमध्ये स्थिताया वडवाया बन्धनत्रयमित्येवमभिज्ञा आहुः।
उतापि च हेऽर्वन्नश्व ते तव यत्र यस्मिन्पितृवीर्ये परमं जनित्रमुत्तमं जन्मेत्येवंलक्षणाभिज्ञा आहुः, तत्पितृवीर्यं त्वमेव वरुणस्त्रिभिर्बन्धनैर्निवारणीयो भूत्वा मे मम छन्त्सीव कथयसीव।
अयमर्थः—अश्वस्य पितृपक्षभागित्वान्मातरि स्वल्पायामपि सत्यां प्रौढश्चेदश्वो दृश्येत तस्य पिता प्रौढ इत्युत्प्रेक्षितुं शक्यत इति।
विश्वास-प्रस्तुतिः
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानाँ॑ सनि॒तुर्नि॒धाना॑ ।
अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ।
मूलम्
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानाँ॑ सनि॒तुर्नि॒धाना॑ ।
अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ।
सायण-टीका
अथ पञ्चमीमृचगाह– इमा ते बाजिन्निति।
हे वाजिन्नश्व ते तवेमैतानि दृश्यमानानि अवमार्जनानि शरीरशोधनसाधनानि लोहमयानि।
यैर्लोहमयैः प्रातःकालादावश्यस्य पांस्वाद्यपनयनाय शरीरं मृज्यते घर्षणेन शोध्यते तान्यवमार्जनानि।
तथा शफानां खुराणां सनितुर्दातुः पाषाणबहुले मार्गे प्रक्षेप्य[प्तु]स्तव शफभेदनपरिहारार्थमिमा निधानैतानि लोहमयान्यावरणविशेषरूपाणि निधीयन्ते शफेष्विति निधानानिराजानो हि महार्हणां प्रौढानामश्वानां लोहमयैः साधनैः प्रतिदिनं कण्डूरपनयन्ति, शफेषु च लोहपत्राणि कीलयन्ति।
किंच ते तव भद्राः सुवर्णांदिखचितत्वेन कल्याणरूपा रशनाः खलीनलोहकक्ष्याः पुच्छपत्रा अत्रास्मिन्नेव देशे स्थापिता अहमप्यपश्यम्।
कीदृशस्य तव, ऋतस्य सत्यस्य बहुमूल्यार्हस्येत्यर्थः।
कीदृश्यो रशना हति ता विशेष्यन्तेया रशना गोपाः पष्ठदेशव्यथादिपरिहारेणाश्वं गोपायन्त्योऽभिरक्षन्ति उपर्यारूढं पुरुषमभितः पतनादिभ्यः पालयन्ति।
विश्वास-प्रस्तुतिः
आ॒त्मान॑न्ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा [35] प॒तय॑न्तम्पत॒ङ्गम् ।
शिरो॑ अपश्यम्प॒थिभि॑स्सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानम्पत॒त्रि ।
मूलम्
आ॒त्मान॑न्ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा [35] प॒तय॑न्तम्पत॒ङ्गम् ।
शिरो॑ अपश्यम्प॒थिभि॑स्सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानम्पत॒त्रि ।
सायण-टीका
अथ षष्ठीमृचमाह– आत्मानां त इति।
हेऽश्व ते तवाऽऽत्मानं स्वरूपमारात्समीप एव मनसा चित्तेनाजानामभिज्ञातवानस्मि।
कीदृशमात्मानम्, अत्रो रक्षकम्।
शीघ्रगामी ह्यश्वः परसैन्यभञ्जनेन स्वामिनं रक्षति।
तथा दिवा षतयन्तमाकाशेन धावन्तम्।
त्वदीयधावनवेलायं वेगातिशयेन भूमेराक्रमणं केनापि द्गष्टुं न शक्यत इत्यर्थः।
यस्मादाकाशगामी तस्मादेव च पतङ्गं पक्षिसदृशम्।
तथा त्वदीयं शिरोऽप्यहमपश्यम्।
कीदृशं शिरः, सुगेभिर्गन्तुं शक्यैररेणुभिर्धुलिरहितैः पथिभिराकाशमा– २२११ र्गैजेंहमानं शीघ्रगतियुक्तमत एव पतत्रि पक्षिसदृशम्।
यदा ह्ययमश्वः प्रायेण भूमिस्पर्शं विनाऽऽकाशमार्गे धावति तदानीं पाषाणादिरहितत्वादयं मार्गः सुगामो भूमिस्पर्शबाहुल्याभावाद्धूलिरहितश्च।
तथाविधमार्गेण धावतोऽश्वस्योपरिवर्तिं शिरः सुखेन द्रष्टुं शक्यते, उन्नतदेशवर्तित्वाद्धूल्यावरणाभावाच्चेति।
ईदृशवेगवानश्व इति स्तुतिः।
विश्वास-प्रस्तुतिः
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्य॒ञ्जिगी॑षमाणमि॒ष आ प॒दे गोः ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ।
मूलम्
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्य॒ञ्जिगी॑षमाणमि॒ष आ प॒दे गोः ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ।
सायण-टीका
अथ सप्तमीमृचगाह— अत्रा ते रूपमिति।
हेऽश्व यदा यस्मिन्काले ते तव भोगं घृतमुद्रादिभक्षृणरूपमनु मतों मनुष्यः परिचारक आनड् भोगं प्राप्तवान्।
प्रौढेषु राजगृहादिष्वश्वघासार्थं दत्तैर्घृतमुद्गादिभिः परिचारका अमि जीवन्तीति प्रसिद्धम्।
आदिदीदृशवृत्तान्तादनन्तरमेव ग्रसिष्टोऽतिशयेन ग्रसिदुकामस्त्वमोषधीश्चणकाद्या अजीगः प्रापितोऽसि।
अत्रास्मिन्नवसरे ते तत्र रूपमुत्तमं सर्वोत्कृष्टमित्यपश्यमहं निश्चितवानस्मि।
कीदृशस्य तव, इषोऽन्नानि आ समन्तात्पदे प्राप्तुं गोर्गच्छतः।
कीदुशं रूपम, जिगीषमाणं जेतुमिच्छायुक्तम्।
अयमर्थः प्रौढराजगृहे त्वदीयभोगमनु अश्ववारा नीचाः सर्वेऽपि सम्यग्भुञ्जते।
त्वं च राजाज्ञया केनाप्यनिवारितः संश्चणकादिक्षेत्रेषु स्वेच्छया गच्छसि।
अस्मिन्नवसरे त्वन्मुखेन सर्वाण्यन्नानि प्राप्तुं शक्यन्ते, विजयश्च भविष्यति।
एवं त्वदीयमहिमानं निश्चितवानस्मीति।
विश्वास-प्रस्तुतिः
अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भग॑ᳵ क॒नीना॑म् ।
अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्य॑म् [36] ते॒ ।
मूलम्
अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भग॑ᳵ क॒नीना॑म् ।
अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्य॑म् [36] ते॒ ।
सायण-टीका
अथाष्टमीमृचमाह— अनु त्वेति।
हेऽर्वस्त्वामनु रथः प्रवर्तते।
नहि त्वया विना रथो गन्तुं शक्तः।
मयों मर्त्योऽश्ववारस्त्यामनु जीवति।
तच्च पूर्वमेवोदाहृतम्।
गावोऽपि त्वागनु जीवन्ति, बालस्य तव क्षीरनवनीताद्यर्थं प्रवृद्धस्य तव घृतार्थ च गाः पोषयन्ति।
कनीनां कन्यकानां बालानां दासीनां भमः सौभाग्यं त्वामनु संपद्यते।
अश्वशालापरिचारार्थं हि ता अन्नवस्त्रदानेन त्वत्स्वामिनः पोषयन्ति।
व्रातासो व्राताः सेनारूपा मनुष्यसंघास्तव सख्यमनु त्वदीयं साहाय्यमनु पश्चादीयुर्जयं प्राप्नुवन्ति।
देवाः प्रजापत्यादयस्ते वीर्यं त्वदीयं सामर्थ्यमनुपलक्ष्य ममिरे स्वकीयहविष्ट्वेन प्रमितवन्तः।
ईदृशोऽयमश्व इति स्तुतिः।
विश्वास-प्रस्तुतिः
हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् ।
दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तम्प्रथ॒मो अ॒ध्यति॑ष्ठत् ।
मूलम्
हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् ।
दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तम्प्रथ॒मो अ॒ध्यति॑ष्ठत् ।
सायण-टीका
अथ नवमीमृचमाह— २२१२ हिरण्मशृङ्ग इति।
अयमश्वो हिरण्यशृङ्गो हिरण्यसमानवर्णः शृङ्गस्था नीयो मूर्धप्रदेशो यस्यासो हिरण्यशृङ्गो हिरण्याङ्कित इत्यर्थः।
अयो लोहव दत्यन्तदृढः।
अस्याश्वस्य पादा मनोजवा मनोवृत्तिसदृशेन वेगातिशयेन युक्ताः।
एतेनाश्वेनोच्चैःश्रवसा त्वेनेन्द्रोऽप्यवये निकृष्ट एवाऽऽसीत्।
देवा इत्सर्वे हि देवाः स्वयमत्याश्वस्य संबन्धि हविरद्यं हविर्भक्षणमायन्प्राप्तवन्त एतदीयमेव हविरत्तुं योग्यमिति निश्चितवन्तः।
प्रथम आद्यो यः प्रजापतिरर्वन्तमेनमश्वमध्यतिष्ठदधिष्ठितवान्स्वकीयत्वेन स्वीकृतवान्सोऽप्येतदीयमेव हविरद्यामिति निश्चितवान्।
विश्वास-प्रस्तुतिः
ई॒र्मान्ता॑स॒स्सिलि॑कमध्यमास॒स्सँ शूर॑णासो दि॒व्यासो॒ अत्याः॑ ।
हँ॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ।
मूलम्
ई॒र्मान्ता॑स॒स्सिलि॑कमध्यमास॒स्सँ शूर॑णासो दि॒व्यासो॒ अत्याः॑ ।
हँ॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ।
सायण-टीका
अथ दशमीमृचमाह– ईर्मान्ताम इति।
सर्वेऽप्बश्वा एवंबिधाः।
कीदृशा इति तदुच्यतेईर्गान्तासः नलभानो जघनभागाश्चाश्वस्यान्तौ, तावीर्मौ प्रसृतावुन्नतौ येषां त ईर्मान्तासः।
सिलिकं संकुचितं निम्नं मध्ये पृष्टभागे येषा ते सिलिकमध्यमासः।
यत्र मनुष्या आरोहम्ति स देशो निम्नः।
न तु गजस्यवे पृष्ठभाग उन्नतः।
संसूरणासो युद्धे जयहेतुत्वेन सम्यक्शूराः।
दिव्यासो ग्रामगमनादिरूपव्यवहारनिष्पादकाः।
अत्याः संततगमनशीलाः।
ते च हंसा इव श्रेणिशः संघशो यतन्ते।
यथा हंसाः पङ्क्तिबद्धाः संधीभूयाऽऽकाशे यतन्ते गच्छन्त्येवमश्वा अपि बहवः संहता युद्धाय प्रयतन्ते। यद्यस्मात्कारणदश्वा दिव्यं क्रीडाविजिगीषाद्यार्थमज्मं गमनमाक्षिषुर्व्याप्तवन्तस्तस्मादश्वजातिमात्रस्ययैवं प्रशस्तत्वात्स क्रतुनिष्पादकः प्रकृतोऽश्वः प्रशस्त इति किमु वक्तव्बः।
विश्वास-प्रस्तुतिः
तव॒ शरी॑रम्पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तव्ँवात॑ इव॒ ध्रजी॑मान् ।
तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ।
मूलम्
तव॒ शरी॑रम्पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तव्ँवात॑ इव॒ ध्रजी॑मान् ।
तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ।
सायण-टीका
अथैकादशीमृचमाह– तव शरीरमिति। हेवर्वंस्तव शरीरं षतयिष्णु पतनशीलं शीघ्रगमशीलमित्यर्थः तव चितं वात इव वातसदृशश्च(शं च )। वायुः कीदृशः, घ्रजीमान्वेनवान्। तव शृङ्गाणि शृङ्गस्थानीयानि। उपरि प्रक्षिप्तान्यायुधानि विष्ठिता विशेषेण तत्र तत्र स्थितानि साधितानि। अश्वस्योपरि क्वचिदिषुधिः क्यचित्खड्ग इत्येवं बहून्बायुधानि प्राप्यन्ते। तानि च पुरुषु बहुषु अरण्येषु ग्रामेन्यो बहिर्भूतेषु युद्धप्रदेशेषु जर्भुराणा परसैन्यान्यतिशयेन भरमाणानि चरन्ति प्रवर्तन्ते।
विश्वास-प्रस्तुतिः
उप॑ [37] प्रागा॒च्छस॑नव्ँवा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।
अ॒जᳶ पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ।
मूलम्
उप॑ [37] प्रागा॒च्छस॑नव्ँवा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।
अ॒जᳶ पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ।
सायण-टीका
अत द्वादशीमृचमाह– २२१३ उष प्रागादिति। वाजी क्रतुद्वाराऽन्नहेतुरर्वाऽयमधः शसनमस्प्रिन्क्रतौ विशासनस्थानं प्रत्युपप्रागात्समीपं प्राप्तवान्। किं कूर्वन्, देवद्रीचा मनसा दीध्यानः देवानाञ्चति प्राप्नोतीति देवद्यङ् तादृशेन निरन्तरं देवविषयेण मनसा ध्यानं कुर्वन्। अजः प्रजापतिः पुरो नीयतेऽऽस्मादश्वात्पूर्वमृत्विग्भिर्नीयते, प्रजापतिं पुरतो नीयते। अस्याश्वस्य नाभिर्भाभ्युपलक्षितं शरीरं प्रजाषतिमनु नीयते। अस्याश्यस्य पश्चात्पृष्ठभागे कवयो विद्वांस ऋत्विजो रेभा यन्ति स्तुतिं कुर्वाण गच्छन्ति।
विश्वास-प्रस्तुतिः
उप॒ प्रागा॑त्पर॒मय्ँयत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तर॑म्मा॒तर॑ञ्च ।
अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥ [38]
मूलम्
उप॒ प्रागा॑त्पर॒मय्ँयत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तर॑म्मा॒तर॑ञ्च ।
अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥ [38]
सायण-टीका
अथ त्रयोदशीमृचमाह– उप प्रागादिति। अर्वाञ्शीघ्रगमनवानयमश्वः परममुत्कृष्टं यत्सधस्थं शमितृभिः सह स्थातुं योग्यं यत्त्स्थानमस्ति तदुपप्रागात्तत्समीपं प्राप्तवान्। किमर्थम्, पितरं मातरं चापि प्राप्तुं स्वर्मलोके दिव्यो यः पिता या च माता दिव्या तावुभौ प्राप्तुं देवताजन्मन इत्यर्थः। हेऽश्वाद्यास्मिन्दिने जुष्टतमोऽतिशयेन प्रीतः सन्देवान्गम्याः प्राप्नुहि। अथानन्तरं दाशुषे हविर्दत्तवते यजमानाय वार्याणि वरणी यानि फलानि अयमृत्विक्संघ आशास्ते प्रार्थयति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठके तृतीयोऽनुवाकः ॥ ७॥