त्रिष्टुप् ।
६ जगती
१२-१३ अनुष्टुप्, विश्वेदेवा ऋषयः ।
अग्निर्ऋषिः
चतुर्थकाण्डे षष्ठप्रपाठके षष्ठोऽनुवाकः
विश्वास-प्रस्तुतिः
जी॒मूत॑स्येव भवति॒ प्रती॑कय्ँ॒यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ ।
अना॑विद्धया त॒नुवा॑ जय॒ त्वँ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ।
मूलम्
जी॒मूत॑स्येव भवति॒ प्रती॑कय्ँ॒यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ ।
अना॑विद्धया त॒नुवा॑ जय॒ त्वँ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ।
सायण-टीका
(अथ चतुर्थकाण्डे षष्ठप्रपाठके षष्ठोऽनुवाकः)।
पञ्चमेऽनुवाके चित्यारोहणादयो प्रारुतहोमान्ता अङ्गविशेषा उक्ताः।
२२०१ अथ षष्ठेऽश्वमेधकर्तू रथसज्जीकरणभावीनि कवचस्वीकारादीन्यङ्गान्युच्यन्ते।
तस्य चाग्निप्रकरणे संबन्धाभावादित उत्कृष्याश्वमेधप्रकरणे संबन्धो द्रष्टष्यः।
अध्ययनार्थमेव केवलमत्र मन्त्रपाठः ।
कल्पः–“जीमूतस्येति कवचमध्यूहते” इति।
पाठस्तु– जीभूतस्येवेति ।
यद्यदां वर्मी कवचयुक्तो राजा समदां शत्रूणामुपस्थे समीपे याति, अनेन सह मात्सर्येण माद्यन्तीति समदः शत्रवः तदा जीमूतस्य मेवस्य प्रतीकं मुखमिव भवति ।
सैन्यद्वयं युद्धार्थं यदा मिलति तदानीं वर्षितुं यतस्तत आगताः प्रौढा मेघा यथाऽन्तरिक्षं सर्वमावृण्वन्त्येवं भूमिं सर्वां व्याप्तं भवतीत्यर्थः ।
तस्मिन्काले हे राजन्ननाविद्ध्या परकीयप्रहाररहितया तनुवा स्वशरीरेण युक्तो भूत्वा विजयं प्राप्नुहि ।
वर्मणः कवचस्य तादृशो महिमा त्वां पिपर्तु पालयतु ।
विश्वास-प्रस्तुतिः
धन्व॑ना॒ गा धन्व॑ना॒जिञ्ज॑येम॒ धन्व॑ना ती॒व्रास्स॒मदो॑ जयेम ।
धनु॒श्शत्रो॑रपका॒मङ्कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ।
मूलम्
धन्व॑ना॒ गा धन्व॑ना॒जिञ्ज॑येम॒ धन्व॑ना ती॒व्रास्स॒मदो॑ जयेम ।
धनु॒श्शत्रो॑रपका॒मङ्कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ।
सायण-टीका
कल्पः —
“धन्वना गा इति धनुः” इति ।
पाठस्तु– धन्वना इति ।
वयं धन्वना धनुवा गा जयेम परकीयान्गवादीनाहराम तथा धन्वनाऽऽजिं युद्धं जयेम ।
तथा घनुषा तीव्राः शूरभटोपेताः समदो मदसहिताः परकीयसेना जयेम ।
इदं धनुः शत्रोरस्मदीयवैरिणोऽपकामं कृणोति कामेभ्योऽपनयोऽपकामस्तं कृणोतु।
किं बहुना, सर्वा अदि प्रदिश उत्कृष्टान्सर्वदिग्वर्तिशत्रूञ्जयेम।
विश्वास-प्रस्तुतिः
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्ण॑म्प्रि॒यँ सखा॑यम्परिषस्वजा॒ना ।
योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॑न्न् [27] ज्या इ॒यँ सम॑ने पा॒रय॑न्ती ।
मूलम्
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्ण॑म्प्रि॒यँ सखा॑यम्परिषस्वजा॒ना ।
योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॑न्न् [27] ज्या इ॒यँ सम॑ने पा॒रय॑न्ती ।
सायण-टीका
कल्पः — “वक्ष्यन्तीवेति ज्यामभिमृशति” इति।
पाठस्तु– वक्ष्यन्तीवेदा इति ।
इयं ज्या घनुष्यारोपिता मौर्वी वक्ष्यन्तीव किंचि द्रहस्यं वाक्यं वदिष्यन्तवि कर्णं [र्णमा] गनीगन्ति कर्णसमीपमागच्छति ।
तत्रं दृष्टान्तः प्रियं सखायं परिषस्वजाना प्रीतियुक्तं सखिसमानं विश्रम्भव्यवहारयोग्यं भर्तीरमालिङ्गन्ती योषेव शिङ्क्तेऽव्यक्तं शब्दं करोति ।
सा यथा स्वकीयं योगक्षेमं शनैः कथयति तद्वदियमपि ज्या शब्दयतीत्यर्थः ।
कीदृशी ज्या अधि धन्वन्धनुष उपरि वितता विशेषेण प्रसारिता, समने युद्धे पारयन्ती युद्धसमाप्तिं गमयन्ती ।
२२०२ ।
विश्वास-प्रस्तुतिः
ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रम्बि॑भृतामु॒पस्थे॑ ।
अप॒ शत्रू॑न् विध्यताँ सव्ँविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ।
मूलम्
ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रम्बि॑भृतामु॒पस्थे॑ ।
अप॒ शत्रू॑न् विध्यताँ सव्ँविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ।
सायण-टीका
कल्पः — “ते आचरन्ती इति धनोरार्त्नी संमृशति” इति।
पाठस्तु ते आचरन्तीति ।
ते धनुषः कोट्यौ विस्फुरन्ती विस्फुरन्त्यौ पुनः पुनः प्रवर्तमाने सत्यौ संविदाने परस्परमैकमत्यं गते अमित्रानत्यन्तविरो॑धिनः शत्रूनपविघ्यताम् ।
कीदृशे कोट्यौ, समने युद्धे योषेवाऽऽचरन्ती तद्वन्मधुशब्देन हि बोधयन्त्यौ ।
पुनः कीदृशे, उपस्थे बिभृतां माता पुत्रमिब तद्वद्धितकारिण्यावित्यर्थः।
विश्वास-प्रस्तुतिः
ब॒ह्वी॒नाम्पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ ।
इ॒षु॒धिस्सङ्का॒ᳶ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ।
मूलम्
ब॒ह्वी॒नाम्पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ ।
इ॒षु॒धिस्सङ्का॒ᳶ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ।
सायण-टीका
कल्पः — “वह्वीनां पिता बहुरस्य पुत्र इति पृष्ट इषुधिं निनह्यति” त इति।
पाठस्तु– वह्वीनां पितेति।
अयमिषुधिर्बाणाधारः समनाऽवगत्य समने युद्धे प्राप्य चिश्चा कृणोति बाणाकर्षणवेलायामव्यक्तं ध्वनिं करोति ।
तस्य ध्वनेरनुकरणं चिश्चेति ।
कीदृश इषुधिः, बहुवीनामिषूणां पालकः ।
अत एवास्य षितृस्थानीयस्य पुत्रस्थानीय इषुसंघो बहुविधः ।
सोऽयमिषुधिः पृष्ठे निनद्धः पृष्टभागे नितरां बद्धः प्रसूतो धानुष्केण प्रेरितो बाणाकर्षणे सङ्काः सम्यक्प्राप्ताः सर्वा अपि पृतना जयति ।
विश्वास-प्रस्तुतिः
रथे॒ तिष्ठ॑न्नयति वा॒जिनᳶ॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः ।
अ॒भीशू॑नाम्महि॒मान॑म् [28] प॒ना॒य॒त॒ मनᳶ॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ।
मूलम्
रथे॒ तिष्ठ॑न्नयति वा॒जिनᳶ॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः ।
अ॒भीशू॑नाम्महि॒मान॑म् [28] प॒ना॒य॒त॒ मनᳶ॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ।
सायण-टीका
कल्पः — “रथे तिष्ठन्नयति वाजिन इति सारथिमभिमन्त्रयते” इति।
पाठस्तु– रथे तिष्ठन्निति।
सुषारथिः सुशिक्षितोऽयं सारथिः स्वयं रथे तिष्ठन्यत्र यत्र कामयते गन्तुं तत्र तत्र पुरः पुरस्ताद्वाजिनोऽश्वान्नयति प्रेरयति ।
हे ऋत्विग्यजमाना अभिशूनामश्वधारणहेतूनां रश्मीनां महिमानं पनायत वाचा स्तुर्ति कुरुत।
अत एव स्तुतिप्रकार उच्यते रश्मय एते प्रग्रहां सारथेर्मनोऽनुसृत्य पश्चाद्यच्छन्ति नियता भवन्ति, सारथेर्यथा मनोवृत्तिः पुरस्तात्प्रवर्तते तेनैव प्रकारेण पश्चादश्वानां नियमं कुर्वन्तीत्यर्थः।
विश्वास-प्रस्तुतिः
ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिस्स॒ह वा॒जय॑न्तः ।
अ॒व॒क्राम॑न्त॒ᳶ प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ।
मूलम्
ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिस्स॒ह वा॒जय॑न्तः ।
अ॒व॒क्राम॑न्त॒ᳶ प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ।
सायण-टीका
कल्पः — “ तीव्रान्घोषान्कृण्वते वृषषाणय इत्यश्वान” इति।
पाठस्तु– तीव्रान्घोषानिति।
एतेऽश्वास्तीव्रानत्युच्चान्घोषान्ह्रेषाशब्दान्कृण्वते कुर्वते।
कीदृशा अश्वाः, वृषपाणयः, सेचनवाचिना वृषशब्देन शक्तिरुपलक्ष्यते ।
पाणिशब्दः पादलक्षकः ।
गन्तुं शक्ताः पादा येषां ते वृषपाणयः ।
रथेभिः सह वाजयन्तो रथैः सह शीघ्रं गच्छतः ।
प्रपदैः पादाग्रैः खरैरमित्रान्वैरिणोऽवक्रा मन्तः ।
तादृशा अश्वा अनपव्ययन्तः प्रत्यापत्तिमकुर्वन्तो भीतिरहिता इत्यर्थः । २२०३ शूत्रून्क्षिणन्ति हिंसन्ति ।
विश्वास-प्रस्तुतिः
र॒थ॒वाह॑नँ ह॒विर॑स्य॒ नाम॒ यत्रायु॑ध॒न्निहि॑तमस्य॒ वर्म॑ ।
तत्रा॒ रथ॒मुप॑ श॒ग्मँ स॑देम वि॒श्वाहा॑ व॒यँ सु॑मन॒स्यमा॑नाः ।
मूलम्
र॒थ॒वाह॑नँ ह॒विर॑स्य॒ नाम॒ यत्रायु॑ध॒न्निहि॑तमस्य॒ वर्म॑ ।
तत्रा॒ रथ॒मुप॑ श॒ग्मँ स॑देम वि॒श्वाहा॑ व॒यँ सु॑मन॒स्यमा॑नाः ।
सायण-टीका
कल्पः — “रथवाहनँ हविरस्य नामेति रथवाहने रथयत्माधाय” इति।
यद्यपीदमत्याधानं रथस्य प्रत्याधानादूर्ध्वभावि तथाऽप्यध्ययनसंप्रदायादयं मन्त्रोऽत्र षठितः।
तत्पाठस्तु– रथवाहनमिति ।
यत्र यस्मिन्नल्पे शकटेऽस्य यजमानस्यऽऽयुध घनूरदिकं वर्म कवचं चेत्येवमादिकं निहितं स्थापितं, य(अ)स्य शकटस्य रथवाहनमिति नामधेयं, प्रत्यागत्य रथोऽस्मिञ्शकटे स्थाप्यत इति तच्छकटं रथवाहनं, तस्य हविर्वदुपकारकत्वाद्धविष्ट्वं, तत्र तस्मिन्रथवाहने शकटे विश्वाहा सर्वेष्वपि दिनेषु सुमनस्यपानाः सौमनस्यं प्राप्ता वयं शग्मं सुखगमनहेतुं रथमुपसदेमोपेत्य स्थाप याम।
सायणोक्त-विनियोगः
कल्पः — “स्वादुषँसदः पितरो वयोधा इति तिसृभिः पितॄनुषतिष्ठते” इति।
तत्र प्रथमामाह– स्वादुषँ सद इति।
४६ स्वादुषं सदः ...{Loading}...
स्वा॒दु॒-षँ॒सदः॑ पि॒तरो॑ वयो॒-धाः
कृ॑च्छ्रे॒-श्रितः॒ शक्ती॑वन्तो गभी॒राः।
चि॒त्रसे॑ना॒ ऽइषु॑-बला॒ ऽअमृ॑ध्राः+++(=अयोध्याः)+++
स॒तो+++(ऽधिक)+++-वी॑रा ऽउ॒रवो॑ व्रात-सा॒हाः ॥४६ ॥
४६ स्वादुषं सदः ...{Loading}...
पदपाठः - दयानन्दादि
स्वा॒दु॒षँ॒सदः॑। स्वा॒दु॒सँ॒सद इति॑ स्वादुऽसँ॒सदः॑। पि॒तरः॑। व॒यो॒धा इति॑ वयः॒ऽधाः। कृ॒च्छ्रे॒श्रित॒ इति॑ कृच्छ्रे॒ऽश्रितः॑। शक्ती॑वन्तः॒। शक्ति॑वन्त॒ इति॒ शक्ति॑ऽवन्तः। ग॒भी॒राः। चि॒त्रसे॑ना॒ इति॑ चि॒त्रऽसे॑नाः। इषु॑बला॒ इतीषु॑ऽबलाः। अमृ॑ध्राः। स॒तोवी॑रा॒ इति॑ स॒तःऽवी॑राः। उ॒रवः॑। व्रा॒त॒सा॒हाः। व्रा॒त॒स॒हा इति॑ व्रातऽस॒हाः। ४६।
महीधरः
म० रथगोपान् स्तौति । ईदृशा नरा अस्माकं रथगोप्तारो भवन्त्विति शेषः । कीदृशाः । स्वादुसंसदः स्वादु सुखं यथा तथा संसीदन्ति ते स्वादुसंसदः । पितरः पान्ति ते पितरः रक्षितारः । वयोधाः वयोऽन्नमायुर्वा दधति धारयन्ति वयोधाः । कृच्छ्रेश्रितः इत्येकं पदम् । कृच्छ्रे कष्टे श्रीयन्ते सेव्यन्ते कृच्छ्रेश्रितः । कर्मणि क्विप् अलुक् सप्तम्याः । दुःखे सति आश्रयणयोग्याः दुःखनाशकत्वात् । यद्वा सप्तमी द्वितीयार्थे । कृच्छ्रं श्रयन्ति कृच्छ्रेश्रिताः दुःखं प्राप्यापि स्वामिसेवनपराः । शक्तीवन्तः शक्तिः सामर्थ्यमायुधं वा अस्ति येषां ते । अश्वरश्मिमतीत्येत्यादिप्रातिशाख्यसूत्रेण शक्तिशब्दस्य दीर्घः । गभीराः गम्भीरबला गम्भीरप्रज्ञाश्च । चित्रसेनाः चित्रा नानाविधा सेना येषां ते । इषुबलाः इषुभिर्बाणैर्बलं येषां ते अमृध्राः मृध्रा मृदवो न भवन्त्यमृध्राः कठिनाङ्गा उग्रशासना वा । सतोवीराः इत्येकं पदम् । सतोऽश्वमेधयाजिनो वीराः शूराः । यद्वा सतो विद्यमानस्य बलस्य वीराः प्रेरकाः विविधमीरयन्तीति वीराः षष्ठ्या अलुक् । उरवः विशालाः । पृथुजघनोरस्का इत्यर्थः । व्रातसाहाः व्रातान् शूरसमूहान् सहन्तेऽभिभवन्ति ते | व्रातसहाः पचाद्यच् ‘अभिमातिपृतना’ ( प्राति. ३ । ६। २७ ) इत्यादिना सूत्रेण सहतेरुपधादीर्घः ॥ ४६ ॥
सप्तचत्वारिंशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- त्रिष्टुप्
- धैवतः
मूलम्
स्वा॒दु॒षँ॒सद॑ᳶ पि॒तरो॑ वयो॒धाᳵ कृ॑च्छ्रे॒श्रित॒श्शक्ती॑वन्तो गभी॒राः ।
चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्रास्स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ।
सायणटीका
ये पितरो ऽस्मदीयाः सन्ति त एतैर् विशेषणैर् विशिष्टाः।
कानि विशेषणानीति तान्य् उच्यन्ते
स्वादुषसंदो ऽस्माभिः समर्पिते स्वादुन्य् अन्ने सम्यक् सीदन्ति तेन तृप्ता इत्यर्थः।
वयोध अस्मदीयस्य वयस आयुषः स्थापयितारः।
कृच्छ्रे व्यसने प्राप्ते सति रक्षार्थं श्रीयन्ते प्राणिभिः सेव्यन्त इति कृच्छ्रेश्रितः।
शक्तीवन्तः शक्तियुक्ताः।
गभीरा अगाधबुद्धयः।
चित्रा विविधा हस्त्यश्वादिरूपा सेना येषां त चित्रसेनाः
इषुभिर् योद्धुमतिप्रबला इषुबलाः।
अमृध्राः परैर् योद्धुमशक्याः ।
सन्विद्यमानो लोके प्रसिद्धो यः शूरस् तस्माद् अप्य् अतिशूराः - सतो-वीराः।
उरवो विस्तीर्णा धनसेनादिसमृद्धाः।
व्रातं परकीयभटानां संघातं सहन्तेऽभिभवन्तीति व्रातसाहाः।
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे युद्ध करने हारे वीर पुरुषो ! तुम लोग जो (स्वादुषंसदः) भोजन के योग्य अन्नादि पदार्थों को सम्यक् सेवनेवाले (वयोधाः) अधिक अवस्था युक्त (कृच्छ्रेश्रितः) उत्तम कार्यों की सिद्धि के लिए कष्ट सेवते हुए (शक्तीवन्तः) सामर्थ्यवाले (गभीराः) महाशय (चित्रसेनाः) आश्चर्य गुण युक्त सेनावाले (इषुबलाः) शस्त्र-अस्त्रों के सहित जिनकी सेना (अमृध्राः) दृढ़ शरीरवाले (उरवः) बड़े-बड़े जिन के जङ्घा और छाती (व्रातसाहाः) वीरों के समूहों को सहनेवाले (सतोवीराः) विद्यमान सेना के बीच युद्धविद्या की शिक्षा को प्राप्त और (पितरः) पालन करनेहारे राजपुरुष हों, उन का आश्रय ले युद्ध करो ॥४६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - उन्हीं का सदा विजय, राज्य, श्री, प्रतिष्ठा, बड़ी अवस्था, बल और विद्या होती है, जो अपने अधिष्ठाता, आप्त, सत्यवादी सज्जनों की शिक्षा में स्थित होते हैं ॥४६ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे योद्धारो वीरा ! यूयं ये स्वादुषंसदो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराश्चित्रसेना इषुबला अमृध्रा उरवो व्रातसाहाः सतोवीराः पितरः स्युस्तानाश्रित्य युद्धं कुरुत ॥४६ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - तेषामेव सदा विजयो राज्यश्रीः प्रतिष्ठा दीर्घमायुर्बलं विद्याश्च भवन्ति, ये स्वाधिष्ठातॄणामाप्तानां शासने तिष्ठन्ति ॥४६ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - जे वीरपुरुष, अधिष्ठाते, आप्त, सत्यवादी सज्जनाकडून शिक्षण घेतात त्यांचा नेहमी विजय होतो व त्यांना राज्य, श्री, प्रतिष्ठा, मानसन्मान, बल आणि विद्या प्राप्त होते.
सायणोक्त-विनियोगः
अथ द्वितीयामाह– ब्राह्मणास इति ।
४७ ब्राह्मणासः पितरः ...{Loading}...
ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः
शि॒वे नो॒ द्यावा॑-पृथि॒वी ऽअ॑ने॒हसा॑।
पू॒षा नः॑ पातु दुरि॒ताद् ऋ॑ता-वृधो॒
रक्षा॒ माकि॑र् नो ऽअ॒घशँ॑स ऽईशत ॥४७ ॥
४७ ब्राह्मणासः पितरः ...{Loading}...
पदपाठः - दयानन्दादि
ब्रा॒ह्म॑णासः। पित॑रः। सोम्यासः॑। शि॒वेऽइति॑ शि॒वे। नः॒। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। अ॒ने॒हसा॑। पू॒षा। नः॒। पा॒तु॒। दु॒रि॒तादिति॑ दुःऽइ॒तात् ऋ॒ता॒वृ॒धः॒। ऋ॒त॒वृध॒ इत्यृ॑तऽवृधः। रक्ष॑। माकिः॑। न॒। अ॒घशँ॑स॒ इत्य॒घऽशँ॑सः। ई॒श॒त॒। ४७।
महीधरः
म० जगती लिङ्गोक्तदेवता । ब्राह्मणासः ब्राह्मणाः नोऽस्मान् पान्तु रक्षन्तु । पात्वित्यस्यार्थवशाद्वचनव्यत्ययः कार्यः । पितरः च पान्तु । कीदृशाः । सोम्यासः सोम्याः सोमसंपादिनः सोमपानयोग्या वेत्युभयोर्विशेषणम् । द्यावापृथिवी द्यावाभूमी नः पाताम् । कीदृश्यौ । शिवे कल्याणकारिण्यौ । अनेहसा अनेहसौ | नास्ति एहोऽपराधो ययोस्ते अपराधनिवर्तिके । किंच पूषा सूर्यो नोऽस्मान्दुरितात्पातु । एवं परोक्षेणोक्त्वा प्रत्यक्षमाह । हे ऋतावृधः, ऋतं सत्यं यज्ञं वा वर्धयन्ति ऋतवृधः देवाः । | संहितायामृतस्य दीर्घः । रक्ष रक्षतास्मान् वचनव्यत्ययः । माकिः मा कश्चन अघशंसः पापी नोऽस्माकमीशत ऐश्वर्यं मा करोतु । वयं दुष्टवशा मा भूमेत्यर्थः । अघं पापं शंसति वक्ति प्रकाशयति वाघशंसः दुष्टः । ईशतेति वचनव्यत्ययः॥४७॥
अष्टचत्वारिंशी।
अधिमन्त्रम् (VC)
- धनुर्वेदाऽध्यापका देवताः
- भारद्वाज ऋषिः
- विराड्जगती
- निषादः
मूलम्
ब्राह्म॑णासः [29] पित॑र॒स्सोम्या॑सश्शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।
पू॒षा न॑ᳶ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशँ॑स ईशत ।
सायणटीका
येऽस्मादीयाः पितरस्ते ब्राह्मणासो व्रह्य वेदस्तदर्थपरा ब्राह्मणाः।
अत एवास्मासु सोम्यास सोम्या अनुग्रहपरा इत्यर्थः ।
यथैते पितरस्तथा द्यावापृथिवी उभे अप्यनेहसाऽनेहसि सर्वस्मिन्नपि काले नोऽस्मान्प्रति शिवे शान्ते अनुग्रहपरे भवतामिति शेषः।
तथार्तावृधो यज्ञस्य वर्धयिता पूषा पोषको देवो नोऽस्मान्दुरितात्पातु ।
हे पितृसमूह रक्षास्मान्पालय ।
नोऽस्माक मघशंसः पापशंसनपरा निन्दका माकिरीशत निन्दितुं समर्था मा भूवन् ।
दयानन्द-सरस्वती (हि) - विषयः
किनका सत्कार करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (सोम्यासः) उत्तम आनन्दकारक गुणों के योग्य (ऋतावृधः) सत्य को बढ़ानेवाले (पितरः) रक्षक (ब्राह्मणासः) वेद और ईश्वर के जानने हारे विद्वान् जन (नः) हमारे लिए कल्याण करने हारे और (अनेहसा) कारणरूप से अविनाशी (द्यावापृथिवी) प्रकाश-पृथिवी (शिवे) कल्याणकारी हों, (पूषा) पुष्टि करने हारा परमात्मा (नः) हम को (दुरितात्) दुष्ट अन्याय के आचरण से (पातु) बचावे, जिससे (नः) हम को मारने को (अघशंसः) पाप की प्रशंसा करने हारा चोर (माकिः) न (ईशत) समर्थ हो, उन विद्वानों की तू (रक्ष) रक्षा कर और चोरों को मार ॥४७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो विद्वान् जन तुम को धर्मयुक्त कर्त्तव्य में प्रवृत्त कर, दुष्ट आचरण से पृथक् रखते, दुष्टाचारियों के बल को नष्ट और हमारी पुष्टि करते, वे सदैव सत्कार करने योग्य हैं ॥४७ ॥
दयानन्द-सरस्वती (सं) - विषयः
के सत्कर्त्तव्या इत्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्याः ! ये सोम्यास ऋतावृधः पितरो ब्राह्मणासो विद्वांसो नः कल्याणकरा अनेहसा द्यावापृथिवी च शिवे भवतः। पूषा परमात्मा नो दुरितात् पातु यतो नो हिंसितुमघशंसो माकिरीशत तान् रक्ष स्तेनाञ्जहि ॥४७ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! ये विद्वांसो युष्मान् धर्म्ये कृत्ये प्रवर्त्य दुष्टाचारात् पृथक् रक्षन्ति, दुष्टाचारिणां बलं निरुन्धन्त्यस्माकं पुष्टिञ्च जनयन्ति, ते सदा सत्कर्त्तव्याः ॥४७ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! जे विद्वान लोक तुम्हाला धर्मयुक्त कर्तव्यामध्ये प्रवृत्त करून दुष्ट वर्तनापासून दूर ठेवतात व दुष्ट माणसांचे बळ नष्टा करून सर्व माणसांना बलवान करतात त्यांचा सदैव सत्कार केला पाहिजे.
सायणोक्त-विनियोगः
अथ तृतीयामाह— २२०४ सुपर्णं वस्त इति।
४८ सुपर्णं वस्ते ...{Loading}...
+++(इषोः पुच्छे)+++ सु॒प॒र्णं व॑स्ते+++(=आच्छादयति)+++, मृ॒गो ऽअ॑स्या॒ दन्तो॒
+++(शल्ययोजने)+++ गोभिः॒ सन्न॑द्धा, पतति॒ प्रसू॑ता।
यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒
तत्रा॒स्माभ्य॒म् इष॑वः॒ शर्म॑ यँसन् ॥४८ ॥+++(5)+++
४८ सुपर्णं वस्ते ...{Loading}...
पदपाठः - दयानन्दादि
सु॒प॒र्णमिति॑ सुऽप॒र्णम्। व॒स्ते॒। मृ॒गः। अ॒स्याः॒। दन्तः॑। गोभिः॑। सन्न॒द्धेति सम्ऽन॑द्धा। प॒त॒ति॒। प्रसू॒तेति॒ प्रऽसू॑ता। यत्र॒। नरः॑। सम्। च॒। वि। च॒। द्रव॑न्ति। तत्र॑। अ॒स्मभ्य॑म्। इष॑वः। शर्म॑। यँ॒स॒न्। ४८।
महीधरः
म० द्वाभ्यामिषुं स्तौति । आद्या त्रिष्टुप् अन्त्यानुष्टुप् । या इषुः सुपर्ण पक्षिपिच्छं वस्ते परिधत्ते । ‘वस परिधाने’ शोभनं पर्णं पिच्छं यस्य स सुपर्णः पक्षी तस्य विकारः सौपर्णम् तत्र ‘कृत्स्नवन्निगमा भवन्ति’ (निरु० २ । ५) इति यास्कोक्तेः सुपर्णशब्देन तत्पिच्छं गृह्यते । बाणपुच्छे पिच्छस्यारोप्यमाणत्वात् । किंच अस्या इषोः दन्तः फलं । मृगः मृगयतेऽन्विष्यति रिपून् हन्तुमिति मृगः ‘मृग मार्गणे’ चुरादिरदन्तः पचाद्यच् ‘मृगो मृगयतेः’ (निरु. ९। १९ ) इति यास्कः । शल्यं हि वेध्यं मृगयते । किंच या इषुः गोभिः गोविकारैः स्नायुभिः संनद्धा बद्धा प्रसूता धनुष्मता प्रेरिता सती पतति शत्रुबलं प्रति गच्छति । किंच यत्र नरो योद्धारः संद्रवन्ति च सम्यक् गच्छन्ति विद्रवन्ति च विविधं प्रसरन्ति । चौ समुच्चये । तत्र रणे इषवः बाणाः अस्मभ्यं शर्म सुखं यंसन् यच्छन्तु । ‘यमु उपरमे लेटि तिप इलोपेऽडागमे ‘सिब्बहुलं लेटि’ (पा. ३। १ । ३४ ) इति सिबागमे यंसन्निति रूपम् । सुखं ददतु ॥४८॥
एकोनपञ्चाशी।
अधिमन्त्रम् (VC)
- वीरा देवताः
- भारद्वाज ऋषिः
- त्रिष्टुप्
- धैवतः
मूलम्
सु॒प॒र्णव्ँव॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒स्सन्न॑द्धा पतति॒ प्रसू॑ता ।
यत्रा॒ नर॒स्सञ्च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒श्शर्म॑ यँसन्न् ।
सायणटीका
पितृसंबन्धिनी येयम् इषुः प्रशस्यतेऽस्या इषोः
सुपर्णं पृष्ठे ऽवस्थितं शोभनं पतन्तं भागं
वस्त आच्छादयति।
अथास्या इषोर् दन्तः शल्यं मृग-दन्तवत् तीक्ष्णं,
सेयम् इषुर् गो-संबन्धिभिः संनद्धा दृढं बद्धा।
तादृशेयमिषुः प्रसूता पितृभिः प्रेरिता सती पतति सहसा गच्छति।
कुत्रेति तदुच्यते नरः पुरुषा योद्धारो यत्र यस्मिन्परसैन्ये सं च वि च द्रवन्ति प्रथममुत्सुकाः सन्तः प्राष्नुवन्ति पश्चाद्भीताः सन्तः पलायन्ते च, तत्रेयमिषुः पततीति पूर्वत्रान्वयः।
तादृश्यः पितॄणामिषवोऽस्यभ्यं शर्म यंसन्सुखं यच्छन्तु।
।
दयानन्द-सरस्वती (हि) - विषयः
फिर राजधर्म अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वीर पुरुषो ! (यत्र) जिस सेना में (नरः) नायक लोग हों जो (सुपर्णम्) सुन्दर पूर्ण रक्षा के साधन उस रथादि को (वस्ते) धारण करती और जहाँ (गोभिः) गौओं के सहित (दन्तः) जिस का दमन किया जाता, उस (मृगः) कस्तूरी से शुद्ध करनेवाले मृग के तुल्य (इषवः) बाण आदि शस्त्र विशेष चलते हैं, जो (सन्नद्धा) सम्यक् गोष्ठी बँधी (प्रसूता) प्रेरणा की हुई शत्रुओं में (पतति) गिरती (च) और इधर-उधर (अस्याः) इस सेना के वीर पुरुष (सम्, द्रवन्ति) सम्यक् चलते (च) और (वि) विशेषकर दौड़ते हैं (तत्र) उस सेवा में (अस्मभ्यम्) हमारे लिए आप लोग (शर्म) सुख (यंसन्) देओ ॥४८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे राजपुरुषो ! तुम लोगों को चाहिए कि शत्रुओं से न धमकनेवाली हृष्ट-पुष्ट सेना सिद्ध करो, उसमें सुन्दर परीक्षित योद्धा और अध्यक्ष रक्खो, उन शस्त्र-अस्त्रों के चलाने में कुशल जनों से विजय को प्राप्त होओ ॥४८ ॥
दयानन्द-सरस्वती (सं) - विषयः
पुना राजधर्ममाह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे वीरा ! यत्र सेनायां नरो नायकाः स्युर्या सुपर्णं वस्ते यत्र गोभिस्सह दन्तो मृग इव इषवो धावन्ति, या सन्नद्धा प्रसूता पतति इतस्ततश्चास्य वीराः संद्रवन्ति वि द्रवन्ति च तत्रास्मभ्यं भवन्तः शर्म यंसन् ॥४८ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजपुरुषाः ! युष्माभिः शत्रुभिरप्रधर्षिणी हृष्टा पुष्टा सेना संपादनीया तस्यां सुपरीक्षिता योद्धारोऽध्यक्षाश्च रक्षणीयास्तैः शस्त्रास्त्रप्रक्षेपणेषु कुशलैर्जनैर्विजयः प्राप्तव्यः ॥४८ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे राजपुरुषांनो तुम्ही शत्रूला न घाबरणारी बलवान सेना तयार करा त्या सेनेत प्रशिक्षित योद्धे व अध्यक्ष असावेत. अशा अस्र शस्रात निष्णात असणाऱ्या लोकांकडून विजय प्राप्त करा.
विश्वास-प्रस्तुतिः
ऋजी॑ते॒ परि॑ वृङ्ग्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः ।
सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः [30] शर्म॑ यच्छतु ।
मूलम्
ऋजी॑ते॒ परि॑ वृङ्ग्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः ।
सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः [30] शर्म॑ यच्छतु ।
सायण-टीका
कल्पः — “ऋजीते परि वङ्ग्धि न इत्यात्मानं प्रत्यभिमृश्य” इति।
पाठस्तु— ऋजीते परीति।
ऋजीतिशब्द इषुवाची।
हे ऋजीतेऽस्मान्परिवृङ्ग्धि परितो वर्जितान्कुरु।
नोऽस्माकं तनूरश्मा भवतु पाषाणवद दृढा भवतु।
सोमा नोऽस्मानधिब्रत्रीतु अधिका एते मान्या इति कथयतु।
अदितिः शर्म यच्छतु सुखं यच्छतु।
विश्वास-प्रस्तुतिः
आ ज॑ङ्घन्ति॒ सान्वे॑षाञ्ज॒घनाँ॒ उप॑ जिघ्नते ।
अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ।
मूलम्
आ ज॑ङ्घन्ति॒ सान्वे॑षाञ्ज॒घनाँ॒ उप॑ जिघ्नते ।
अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ।
सायण-टीका
कल्पः — “आ जङ्घन्तीत्यश्वाजनिमादाय” इति।
पाठस्तु– आजङ्घन्तीति।
कशाधारिणः सारथय एषामश्वानां सानु पर्वतसानुसदृशं पार्श्वमाजङ्घन्ति सर्वेतरताडयन्ति।
तथा पृष्ठभागानुपजिघ्नत उपेस्य ताड यन्ति।
तथाविधताडनहेतुभूते हेऽश्वाजनि अश्वप्रेरके कशे प्रचेतसस्ताडनेन प्रकृष्टगमने चित्तयुक्तान्समत्सु युद्धेषु चोदय प्ररेय ।
विश्वास-प्रस्तुतिः
अहि॑रिव भो॒गैᳶ पर्ये॑ति बा॒हुञ्ज्याया॑ हे॒तिम्प॑रि॒बाध॑मानः ।
ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमाँ॑स॒म्परि॑ पातु वि॒श्वतः॑ ।
मूलम्
अहि॑रिव भो॒गैᳶ पर्ये॑ति बा॒हुञ्ज्याया॑ हे॒तिम्प॑रि॒बाध॑मानः ।
ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमाँ॑स॒म्परि॑ पातु वि॒श्वतः॑ ।
सायण-टीका
कल्पः — “अहिरिव भोगौरिति हस्तघ्नमभिमन्त्रयते” इति।
पाठस्तु– अहिरिवेति।
धानुष्कैर्वामहस्तः केनचिद्रूपेण चर्मविशेषेण वेष्ट्यते।
तत्रायं दृष्टान्तः—अहिरिव भोगैः यथा सर्पः स्वकीयशरीरवेष्टनैः पुरुषस्य हस्तं पादं वा वेष्टयति तथाऽयं चर्मविशेषः पुरुषस्य बाहुं पर्येति परितो व्याप्नोति।
कि कुर्बन्, ज्याया आकर्णमाकृष्य सहसा मुक्ता या हेतिस्तां परिबाधमानः परिता निवारयन्।
ज्यायाः प्रहारश्चर्मण्येव लगति न तु बाहौ ।
हस्ते स्थित्वा ज्याघां तेन हन्यमानश्च र्मविशेषो हस्तघ्नः।
सोऽस्मान्विश्वतः सर्वस्मादुपद्रवात्पातु।
तत्र दृष्टान्तः—विश्वा वयुनानि विद्वान्सर्वान्मार्गानभिजानानः पुमान्पुमांसमन्य पुरुषं यथा पालयति तद्वदिति शेषः।
विश्वास-प्रस्तुतिः
वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णस्सु॒वीरः॑ ।
गोभि॒स्सन्न॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ।
मूलम्
वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णस्सु॒वीरः॑ ।
गोभि॒स्सन्न॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ।
सायण-टीका
कल्पः —
‘वनस्पते वीड्वङ्ग इति पञ्चमी रथम्’ इति।
तत्र प्रथमामाह– २२०५ वनस्पते वीड्विति।
हे वनस्पते वनस्पतिनिष्पन्न रथ वीड्वङ्गो हि वृढाङ्ग एव भुयाः।
कीदृशस्त्वम्, अस्मत्सखाऽस्मासु सखिवत्स्निग्धः।
प्रतरणः प्रकृष्टगमनसाधनभूतः।
सुवीरः शोभनैर्वीरैर्भटैरुपेतः।
गोभिः संनद्धोऽसि गवादिचर्मरज्जुभिः सम्यग्बद्धोऽसि वीडयस्वात्यन्यं दृढो भव।
ते तवाऽऽस्थाता जेत्वानि जेतव्यानि परसैन्यानि जयतु।
विश्वास-प्रस्तुतिः
दि॒वᳶ पृ॑थि॒व्याᳶ परि॑ [31] ओज॒ उद्भृ॑तव्ँ॒वन॒स्पति॑भ्य॒ᳶ पर्याभृ॑तँ॒ सहः॑ ।
अ॒पामो॒ज्मान॒म्परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रँ॑ ह॒विषा॒ रथय्ँ॑यज ।
मूलम्
दि॒वᳶ पृ॑थि॒व्याᳶ परि॑ [31] ओज॒ उद्भृ॑तव्ँ॒वन॒स्पति॑भ्य॒ᳶ पर्याभृ॑तँ॒ सहः॑ ।
अ॒पामो॒ज्मान॒म्परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रँ॑ ह॒विषा॒ रथय्ँ॑यज ।
सायण-टीका
अथ द्वितीयामाह– दिवः पृथिव्या इति।
हे यजमान त्वं रथमिमं हविषा बलिकर्मणा यजपूजय।
कीदृशं रथम, दिवः पृथिव्याः पर्योज उद्भृतं द्युलोकात् भूलोकाच्च सर्वतो बलमानीय संपादितं, तथा वनस्पतिभ्योऽपि परितः सहो वलमानीयाऽऽभृतं संपादितम्। तथाऽपामोज्मानमप्संबद्धमोज आनीय निष्पादितं, गोभिर्गवादिविकारैः स्नाषीभिर्श्चमर्मरज्जुभिश्च परित आवृतमिन्द्रस्य वज्रमिव दृढीभूतम्।
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कम्मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ ।
सेमान्नो॑ ह॒व्यदा॑तिञ्जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ।
मूलम्
इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कम्मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ ।
सेमान्नो॑ ह॒व्यदा॑तिञ्जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ।
सायण-टीका
[अथ] तृतीयामाह– इन्द्रस्य वज्र इति। यथेन्द्रस्य वज्रोऽत्यन्तं दृढः, यथा च मरुतामनीकं सैन्यं बहुभिर्मटैरुपेतं, यथा मित्रस्य गर्भोऽत्यन्तं सुरक्षितः, यथा वरुणस्य नाभिः केनापि तिरस्कर्तुमशक्यस्तथाविधैर्गुणैरुपेत हे देव रथ नोऽस्मदीयामिमां हव्यदातिं हविर्दानं जुषाणो हव्याऽस्मद्दत्तानि हव्यानि प्रति गृभाय प्रत्येकं गृहाण।
विश्वास-प्रस्तुतिः
उप॑ श्वासय पृथि॒वीमु॒त द्याम्पु॑रु॒त्रा ते॑ मनुताव्ँ॒विष्ठि॑त॒ञ्जग॑त् ।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒रात् [32] दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ।
मूलम्
उप॑ श्वासय पृथि॒वीमु॒त द्याम्पु॑रु॒त्रा ते॑ मनुताव्ँ॒विष्ठि॑त॒ञ्जग॑त् ।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒रात् [32] दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ।
सायण-टीका
(अथ) चतुर्थीमाह– उप श्वासयेति। रथसमीपवर्तिदुन्दुभिरपि, एवंमहिमा किमुत रथ इति विवक्षया दुन्दुभिः प्रशस्यते। हे दुन्दुभे पृथिवीमुपश्वासय त्वदीयेन शब्देन पूरय। उतापि च द्यां द्युलोकमप्युपश्वासय। पुरुत्रा पुरुषु द्युलोकभूलोकादिस्थानेषु विष्ठितं विशेषेण स्थितं सर्वं जगत्ते तव शब्दं मनुतां जानातु। स त्वमिन्द्रेणान्यैर्देवश्चै सूजः समानप्रीतिः सञ्शत्रूनस्मदीयान्दूराद्दवीयो दूरादप्यत्यन्तं दूरदेशं प्रत्यपसेधापसारय।
विश्वास-प्रस्तुतिः
आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ नि ष्ट॑निहि दुरि॒ता बाध॑मानः ।
अप॑ प्रोथ दुन्दुभे दु॒च्छुनाँ॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ।
मूलम्
आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ नि ष्ट॑निहि दुरि॒ता बाध॑मानः ।
अप॑ प्रोथ दुन्दुभे दु॒च्छुनाँ॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ।
सायण-टीका
[अथ] पञ्चमीमाह– आ क्रन्दयेति। हे दुन्दुभे बलं परकीयसैन्यं प्रत्याक्रन्दयाऽऽक्रोशं कुरु। अमुं जह्यमुं प्रहरेत्यत्यन्तभीतिहेतुं शब्दं कुरु। नोऽस्माकप्रोजो बलमाधा आधेहि सम्यक्संपादय। दुरिता बाधमानोऽस्मदीयानि दुरितानि विनाशयन्निष्टनिहि गर्जनसमानमस्मदुत्साहहेतुं शब्दं कुरु। दुच्छुनान्दुष्टचित्तान्पुरुषानितोऽस्मादपप्रो २२०६ थापसारय। त्वमिन्द्रस्य मुष्टिरसि वज्रधारमकुष्टिसमानोस्यतो वडियस्व दृढी भव। ईद्रृशैर्द्रुन्द्रुभिध्वनिभिः सहितोऽयं रथः प्रवर्तत इति तात्पर्यार्थः॥
विश्वास-प्रस्तुतिः
आमूर॑ज प्र॒त्याव॑र्तये॒माᳵ के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति ।
समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥ [33]
मूलम्
आमूर॑ज प्र॒त्याव॑र्तये॒माᳵ के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति ।
समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥ [33]
सायण-टीका
कल्पः — “आऽमूरजेति दुन्दुभिं संह्रादयन्ति” इति। पाठस्तु– आऽमूरजेति। हे इन्द्रामूःपरकीयसेनाः समन्तादज प्रेरय पलायिताः कुरु। इमा अस्मदीयाः सेनाः प्रत्यावर्तयाक्षताः सत्यो यथा प्रत्यावृत्ता भवन्ति तथा कुरु। अय दुन्दुभिः केतुमज्ज्ञानवदस्मदीयो जयो यथा सर्वैर्ज्ञायते तथा वावदीति भृशं ध्वनिं करोति। अश्वपर्णा अश्वपत्रा अश्ववाहनयुक्ता इत्यर्थः। तादृशा नो नरोऽस्मदीयाः पुरुषाः संचरन्ति सम्यग्विश्रम्भेण चरन्तु। अस्माकं संबन्धिनो ये रथिनो मुख्यपुरुषास्ते जयन्तु। अत्र विनियोगसंग्रह—
अथाश्वमेधे जीमूत कवचं प्रतिमुञ्चति।
धन्वना धनुरादत्ते वक्ष्यन्ती ज्यामभिस्पृशेत्॥
ते संमृशेद्धनुष्कोट्यौ बह्वीतीषुधिबन्धनम्।
रथेति सारथिं तीव्रानश्वानप्यभिमन्त्रयेत्॥
रथ काले रथः रथाप्यो भजेत्स्वादुत्रयात्पितॄन्।
ऋज्यात्मानमनिस्पृश्य ह्या जङ्घेत्याहरेत्कशाम्॥
हस्तं (स्तघ्नं) मन्त्रयतेऽहीति (येच्वाही, रथंतु वनपञ्चभिः।
दुन्दुभिं वादयेदाऽमूरत्र मन्त्रास्तु विंशतिः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे दीय तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठके षष्ठोऽनुवाकः ॥ ६॥