०५ चित्याम् अग्नि-स्थापनादि-मारुत-होमान्तम्

विस्तारः (द्रष्टुं नोद्यम्)

१, ५ -७ त्रिष्टुप् ।
२,४ अनुष्टुप्,
३ पुरस्ताद् बृहती
११ विराट्
१५-१९ अभिकृतिः ।
अग्निर्ऋषिः चतुर्थकाण्डे षष्ठप्रपाठके पञ्चमोऽनुवाकः

सायणोक्त-विनियोगः

(अथ चतुर्थाष्टके षष्ठप्रपाठके पञ्चमोऽनुवाकः)।
चतुर्थेनुवाकेऽग्निप्रणयनाङ्गमप्रतिरथसूक्तमुक्तम्।

अथ पञ्चमेऽग्निस्थापनमुच्यते।
कल्पः — “प्राचीमनु प्रदिशमिति पञ्चभिरग्निमधिरुह्य” इति।
तत्र प्रथमामाह— प्राचीमनु प्रदिशमिति।
अग्न इदानीमानीत हे वह्ने प्राचीं (प्र) दिशं प्रागाख्यां प्रकृष्टां दिशं विद्वांस्त्वमनुप्रेहि, अनुक्रमेण प्रकर्षो यथा भवति तथा गच्छ।
त्वमग्नेरिष्टकानिष्पादितस्य चितिरूपस्य वह्नेरिहास्मिन्कर्मणि पुरो अग्निर्भव पूर्वभागवर्ती वह्निर्भव।
यद्वा पुरोगन्ता मुख्योऽग्निर्भवेत्यर्थः विश्वा आशाः सर्वा अपि दिशो दीद्यानाः प्रकाशयन्विमाहि त्वमपि विशेषेण प्रकाशस्व।
ततो नोऽस्मदीयाय द्विपदे चतुष्पदे चोर्जमन्नं धेहि संप्रादय।

  • अथ गमनमन्त्राः - प्राचीमिति त्रिष्टुभौ । विक्रमस्वेति च गायत्री ।
६६ प्राचीमनु प्रदिशम् ...{Loading}...

प्राची॒म् अनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान्
अ॒ग्नेर् अ॑ग्ने पु॒रो अ॑ग्निर् भवे॒ह
विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्य्
ऊर्ज॑न् नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।

६६ प्राचीमनु प्रदिशम् ...{Loading}...
पदपाठः - दयानन्दादि

प्राची॑म्। अनु॑। प्र॒दिश॒मिति॑ प्र॒ऽदिश॑म्। प्र। इ॒हि॒। वि॒द्वा॒न्। अ॒ग्नेः। अ॒ग्ने॒। पु॒रोऽअ॑ग्नि॒रिति॑ पु॒रःऽअ॑ग्निः। भ॒व॒। इ॒ह। विश्वाः॑। आशाः॑। दीद्या॑नः। वि। भा॒हि॒। ऊर्ज्ज॑म्। नः॒। धे॒हि॒। द्वि॒ऽपदे॑। चतु॑ष्पदे॑। चतुः॑पद॒ इति॒ चतुः॑ऽपदे। ६६।

महीधरः

म० आग्नेयी पिपीलिकमध्या बृहती आद्यतृतीयौ त्रयोदशार्णौ द्वितीयोऽष्टकः सा पिपीलिकमध्या बृहती ‘त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या’ इति वचनात् अत्राद्यस्त्रयोदशः द्वितीयो नवकः तृतीयश्चतुर्दशक इति षट्त्रिंशदक्षरत्वाद् बृहती ‘त्रिपादणिष्ठमध्या पिपीलिकमध्या’ इति वचनात्पिपीलिकमध्या च । यजमान आह अहं पृथिव्या उत् उद्गतः सन् अन्तरिक्षमारुहमारूढोऽस्मि । तस्मादन्तरिक्षादुद्गतो दिवमारुहं द्युलोकमारूढोऽस्मि । दिवो द्युलोकस्य यो नाको दुःखरहितः प्रदेशः तस्य पृष्ठादुपरिभागात् स्वः ज्योतिः स्वर्गलोकस्थं ज्योतिरादित्यमण्डलमहमगां गतोऽस्मि प्राप्स्यामीत्यर्थः । ‘इणो गा लुङि’ (पा० २।४ । ४५ ) इति गादेशः ॥ ६७ ॥
सत्रस्य ऋद्धिः साम
अष्टषष्टी।

अधिमन्त्रम् (VC)
  • अग्निर्देवता
  • विधृतिर्ऋषिः
  • निचृदार्षी त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय के अगले मन्त्र में कहा है ॥

सायण-टीका

प्रथमा - प्राचीमिति । अग्निकाण्डे व्याख्याता । प्राचीं प्रदिशं प्रधानदिशं अनुप्रेहि अनुक्रमेण विद्वान् स्वाधिकारज्ञः । हे अग्ने! अग्नेस्तवायतनस्याहवनीयस्य पुरः अग्निः पुरस्तात् गन्ता भव इह अस्माकं कर्मणि विश्वा आशाः सर्वा दिशः दीद्यानः दीपयन् विभाहि विविधं भाहि दीप्यस्व । तथा कुर्वंश्च त्वं नः अस्माकं सम्बन्धिने द्विपदे चतुष्पदे च ऊर्जं धेहि देहीति ॥

Keith

Along the eastern quarter do thou advance, wise one;
Be thou, O Agni, of Agni the harbinger here;
Illumine with thy radiance all the regions;
Confer strength on our bipeds and quadrupeds.

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) शत्रुओं के जलानेहारे सभापति ! तू (प्राचीम्) पूर्व (प्रदिशम्) दिशा की ओर को (अनु, प्र, इहि) अनुकूलता से प्राप्त हो, (इह) इस राज्यकर्म में (अग्नेः) आग्नेय अस्त्र आदि के योग से (पुरोऽअग्निः) अग्नि के तुल्य अग्रगामी (विद्वान्) कार्य्य के जाननेवाले विद्वान् (भव) होओ (विश्वाः) समस्त (आशाः) दिशाओं को (दीद्यानः) निरन्तर प्रकाशित करते हुए सूर्य्य के समान (नः) हम लोगों के (द्विपदे) मनुष्यादि और (चतुष्पदे) गौ आदि पशुओं के लिये (ऊर्ज्जम्) अन्नादि पदार्थ को (धेहि) धारण कर तथा विद्या, विनय और पराक्रम से अभय का (वि, भाहि) प्रकाश कर ॥६६ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो पूर्ण ब्रह्मचर्य्य से समस्त विद्याओं का अभ्यास कर युद्धविद्याओं को जान सब दिशाओं में स्तुति को प्राप्त होते हैं, वे मनुष्यों और पशुओं के खाने योग्य पदार्थों की उन्नति और रक्षा का विधान कर आनन्दयुक्त होते हैं ॥६६ ॥

दयानन्द-सरस्वती (सं) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (सं) - पदार्थः

पदार्थान्वयभाषाः - हे अग्ने सभेश ! त्वं प्राचीं प्रदिशमनुप्रेहि, त्वमिहाग्नेः पुरो अग्निरिव विद्वान् भव। विश्वा आशा दीद्यानः सन् नोऽस्माकं द्विपदे चतुष्पदे ऊर्जं धेहि, विद्याविनयपराक्रमैरभयं विभाहि ॥६६ ॥

दयानन्द-सरस्वती (सं) - भावार्थः

भावार्थभाषाः - ये पूर्णेन ब्रह्मचर्येण सर्वा विद्या अभ्यस्य युद्धविद्यां विदित्वा सर्वासु दिक्षु स्तूयन्ते, ते मनुष्याणां पश्वादीनां च भक्ष्यभोज्यमुन्नीय रक्षां विधायानन्दिता भवन्तु ॥६६ ॥

सविता जोशी ← दयानन्दः (म) - भावार्थः

भावार्थभाषाः - जे पूर्ण ब्रह्मचर्य पालन करतात व सर्व विद्यांचा अभ्यास करून युद्धविद्या जाणतात ते सर्वांच्या प्रशंसेस पात्र ठरतात असे लोक, माणसे व पशूंच्या खाण्याच्या पदार्थांची वृद्धी करून त्यांचे रक्षण करतात व आनंदात राहतात.

विश्वास-प्रस्तुतिः ...{Loading}...

क्रम॑ध्वम् अ॒ग्निना॒ नाक॒म्
उख्यँ॒ हस्ते॑षु॒ बिभ्र॑तः
दि॒वᳶ पृ॒ष्ठँ सुव॑र् ग॒त्वा
मि॒श्रा दे॒वेभि॑र् आद्ध्वम्+++(=उपविशत)+++ ।

सर्वाष् टीकाः ...{Loading}...

Keith

Mount ye, with Agni, to the vault,
Bearing him of the pan in your hands;
Having gone to the ridge of the sky, to the heaven,
Do ye eat, mingled with the gods.

मूलम्

क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्यँ॒ हस्ते॑षु॒ बिभ्र॑तः ।
दि॒वᳶ पृ॒ष्ठँ सुव॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राद्ध्वम् ।

सायण-टीका

अथ द्वितीयामाह— क्रमध्वमग्निनेति।
हे ऋत्विग्-यजमाना नाकं स्वर्गसाधनमुख्यमुखायां पूर्वं संपादितमग्निं हस्तेषु बिभ्रतो धारयन्तस् तेनाग्निना सह क्रमध्वम् अग्नेर् उपरि षादान्विक्षिपत।
ततो दिवः पृष्ठमाकाशस्योपरि वर्तमानं सुवर् गत्वा स्वर्गलोकं प्राप्य देवेभिर्मिश्रा देवैरेकीभूताः सन्तः आध्वम् उपविशत।

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒थि॒व्या अ॒हम् उद् अ॒न्तरि॑क्ष॒म् आरु॑हम्
अ॒न्तरि॑क्षा॒द् दिव॒म् आरु॑हम्
दि॒वो नाक॑स्य पृ॒ष्ठात्
सुव॒र् ज्योति॑र् अगाम् [21] अ॒हम् ।

सर्वाष् टीकाः ...{Loading}...

Keith

From earth have I mounted to the atmosphere;
From the atmosphere have I mounted to the sky;
From the ridge of the vault of the sky
Have I attained the heaven, the light [1].

मूलम्

पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् ।
दि॒वो नाक॑स्य पृ॒ष्ठात्सुव॒र्ज्योति॑रगाम् [21] अ॒हम् ।

सायण-टीका

अथ तृतीयामाह— पृथिव्या अहमिति।
अहं यजमानः पृथिव्या उद्वव एतदन्तरिक्षमारुहमारूढोऽस्मि।
तस्मादेवान्तरिक्षादुद्धतो दिवमारुहं द्युलोकमारूढोऽस्मि।
दिवो द्युलोकसंबन्धी नाको दुःखरहितो यः प्रदेशस्तस्य पृष्ठादुपरिष्टात्स्वर्गलोकवासिज्योतिर्मण्डलमादित्यरूपमहमगां प्राप्तोऽस्गि यद्वा प्राप्स्यामि।

विश्वास-प्रस्तुतिः ...{Loading}...

सुव॒र् यन्तो॒ नापे॑क्षन्त॒
द्याँ रो॑हन्ति॒ रोद॑सी ।
य॒ज्ञय्ँ ये वि॒श्वतो॑-धारँ॒
सु-वि॑द्वाँसो वितेनि॒रे

सर्वाष् टीकाः ...{Loading}...

Keith

Going to the heaven, they look not away;
They mount the sky, the two worlds,
They who extended, wisely,
The sacrifice, streaming on every side.

मूलम्

सुव॒र्यन्तो॒ नापे॑क्षन्त॒ आ द्याँ रो॑हन्ति॒ रोद॑सी ।
य॒ज्ञय्ँये वि॒श्वतो॑धारँ॒ सुवि॑द्वाँसो वितेनि॒रे ।

सायण-टीका

अथ चतुर्थीमाह– सुवर्यन्तो नेति।
ये यजमानाः सुविद्वांसः सुष्ठु कमानुष्ठानप्रकारं जानन्तो विश्वतो-धारं सर्वस्य जगतो धारणहेतुं यमाग्निं वितेनिरे विस्तरेणानुतिष्ठन्ति ते यजमाना
द्याम् अन्तरिक्षम् आरोहन्ति
तथा रोदसी द्यावा-पृथिव्याव् आरोहन्ति
ततः सुवर्यन्तः स्वर्गनिवासमादित्यमण्डलं प्राप्नुवन्तो ऽन्यत्किमपि स्थानं नापेक्षन्ते ।

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒ताञ्
चक्षु॑र् दे॒वाना॑म् उ॒त मर्त्या॑नाम् ।
इय॑क्षमाणा॒ भृगु॑भिस् स॒जोषा॒स्
सुव॑र् यन्तु॒ यज॑मानास् स्व॒स्ति ।

सर्वाष् टीकाः ...{Loading}...

Keith

O Agni, advance, first of worshippers,
Eye of gods and mortals;
Pressing on in unison with the Bhrgus,
Let the sacrificers go to heaven, to prosperity.

मूलम्

अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒ताञ्चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
इय॑क्षमाणा॒ भृगु॑भिस्स॒जोषा॒स्सुव॑र्यन्तु॒ यज॑मानास्स्व॒स्ति ।

सायण-टीका

अथ पञ्चमीमाह– अग्ने प्रेहीति।
देवानात्मन इच्छतो देवयन्तो यजमानस्तेषामुपकाराय हेऽग्ने त्वं प्रथमः प्रेहि पुरतो गच्छ।
यतस्त्वं देवानां मनुष्याणां च चक्षुःस्थां नीयः।
लोके हि गच्छतः पुरुषस्य दृष्टिः पुरतो याति।
इयक्षमाणा यष्टुमि २१८९ च्छन्तो यजमाना भृगुभिः सजोषा अनुष्ठानपरैर्भृगुनामकैर्मुनिभिः समानप्रियाः सन्तः स्वस्ति कर्मक्षमा यथा भवन्ति तथा सुवर्यन्तु।

सायणोक्त-विनियोगः

कल्पः — “नक्तोषासाऽग्ने सहस्राक्षेति द्वाभ्यां संहिताभ्यां दध्नः पूर्णामौदुम्वरीं स्वयमातृण्णायां जुहोति” इति।
तत्र प्रथमामाह— नक्तोषासेति।

०२ नक्तोषासा समनसा ...{Loading}...

नक्तो॒षासा॒ स-म॑नसा॒ विरू॑पे
धा॒पये॑ते॒ शिशु॒म् एकँ॑ समी॒ची ।
द्यावा॒-क्षामा॑ रु॒क्मो अ॒न्तर् विभा॑ति
दे॒वा अ॒ग्निन् धा॑रयन् द्रविणो॒-दाः ।

०२ नक्तोषासा समनसा ...{Loading}...
पदपाठः - दयानन्दादि

नक्तो॒षासा॑। नक्तो॒षसेति॒ नक्तो॒षसा॑। सम॑न॒सेति॒ सऽम॑नसा। विरू॑पे॒ इति॒ विऽरू॑पे। धा॒पये॑ते॒ऽइति॑ धा॒पये॑ते। शिशु॑म्। एक॑म्। स॒मी॒ची इति॑ सम्ऽई॒ची। द्यावा॒क्षामा॑। रु॒क्मः। अ॒न्तः। वि। भा॒ति॒। दे॒वाः। अ॒ग्निम्। धा॒र॒य॒न्। द्र॒वि॒णो॒दा इति॑ द्रविणः॒ऽदाः। २।

महीधरः

म० ‘परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति’ (का० १६ । ५। ३) । वर्तुलाभ्यामुखाधारणसाधनरूपाभ्यामिण्ड्वाभ्यामुखां गृह्णातीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् कुत्सदृष्टा । अर्धमुखाग्रहणे विनियुक्तम् । नक्तोषासा नक्तं च उषाश्च नक्तोषसौ । विभक्तेराकारः संहितायां दीर्घः । नक्तं रात्रिः उषा अहः । नक्तोषसौ रात्रिदिवसौ एकमग्निं धापयेते पाययेते सायंप्रातरग्निहोत्रादिकर्मभिः तर्पयेते इत्यर्थः । तत्र लुप्तोपमानम् । शिशुं बालं मातापितराविव । ‘धेट् पाने’ ‘हेतुमति च’ (पा० ३। १ । २६) इति णिच् ‘आदेच उपदेशेऽशिति’ (पा० ६ । १ । ४५) इति आकारे ‘अर्तिह्री’ (पा० ७।३ । ३६ ) इत्यादिना पुक् । कीदृश्यौ नक्तोषसौ। समनसा समनसौ समानं मनो ययोस्ते एकमनस्के परमैकमत्ययुक्ते इत्यर्थः । विरूपे विलक्षणं रूपं ययोस्ते विरूपे । कृष्णा रात्रिः शुक्लमहः । समीची सम्यगञ्चतस्ते समीच्यः सम्यगञ्चने समन्विते संश्लिष्टे वा । पूर्वसवर्णो विभक्तेः । ये इत्थंभूते रात्र्यहनी ताभ्यामिण्ड्वारूपाभ्यामुखां गृह्णामीति शेषः । ‘हरति द्यावाक्षामेति’ (का० १६ । ५ । ४) । आहवनीयोपरिस्थामुखामेवमिण्ड्वाभ्यामादाय द्यावेति पादेनासन्दीं प्रति तां हरतीति सूत्रार्थः । द्यावाक्षामा द्यौश्च क्षामा पृथिवी च द्यावाक्षामा । दिवो द्यावादेशः विभक्तेर्लोपः । द्यावापृथिव्योरन्तर्मध्ये अन्तरिक्षे च यो रुक्मः रोचमानोऽग्निर्विभाति प्रकाशते तं हरामीति शेषः । ‘आहवनीयस्य पुरस्तादुद्गात्रासन्दीवदासन्द्यां चतुरस्राङ्ग्यां शिक्यवत्यामादधाति देवा अग्निमिति’ (का० १६।५।५)। आहवनीयात्पूर्वदिशि भूमौ स्थापितायामासन्द्यामुखां निदधाति देवा इति पादेन । उद्गात्रासन्दीवदिति प्रादेशमात्रपाद्यामौदुम्बर्यामरत्निमात्राङ्ग्यां मुञ्जरज्ज्वा व्युतायामिति लभ्यते । तथा चतुरस्राङ्ग्यां चतुरस्राणि चतुष्कोणानि अङ्गानीषोपलपादरूपाणि यस्यास्तस्यां सशिक्यायां चेति सूत्रार्थः । देवाः दीव्यन्ति व्यवहरन्तीति देवाः प्राणा यजमानस्य एतमग्निं धारयन् अधारयन् । अडभाव आर्षः । कीदृशा देवाः । द्रविणोदाः यागद्वारेण द्रविणं धनरूपं फलं ददति प्रयच्छन्ति ते । तमहं धारयामीति शेषः । ‘अग्निं धारयन् द्रविणोदा इत्याह प्राणा वे देवा द्रविणोदाः’ इति तैत्तिरीयश्रुतेर्देवशब्देन प्राणा उच्यन्ते ॥ २॥
तृतीया ।

अधिमन्त्रम् (VC)
  • अग्निर्देवता
  • कुत्स ऋषिः
  • आर्षी त्रिष्टुप्
  • धैवतः
सायण-टीका

नक्तं चोषाश्च नक्तोषासा रात्रिदिवसावित्यर्थः।
समनसा परस्परमैकमत्ययुक्ते विरूपे रात्रिः कृष्णा दिवसः शुक्ल इत्येवं विलक्षणरूपे समीची समीच्यावनुकुले सत्यावेकं शिशुमग्निरूपं धापयेते यजमानकर्तृकमग्नि २१९० धारणं संपादयतः द्यावा द्युलोके क्षामा ( म ) क्षितावन्तस्तदुभयमध्यवर्तिन्यन्त रिक्षे रुक्मो रोचमानोऽयमग्निर्विभाति विशेषेण प्रकाशते।
दीव्यन्ति व्यवहरन्तीति देवाः प्राणास्ते च द्रविणोदा यागद्वारेण धनरूपं फलं प्रयच्छति तादृशा यजमानस्य प्राणा अग्निमेतं धारयन्धृतवन्तः।

Keith

Night and the dawn, one-minded, but of various form,
United suckle one child;
The radiant one shineth between sky and earth;
The gods, granters of wealth, support Agni.

दयानन्द-सरस्वती (हि) - विषयः

फिर भी वही विषय अगले मन्त्र में कहा है ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जिस (अग्निम्) बिजुली को (द्रविणोदाः) बलदाता (देवाः) दिव्य प्राण (धारयन्) धारण करें, जो (रुक्मः) रुचिकारक होके (अन्तः) अन्तःकरण में (विभाति) प्रकाशित होता है, जो (समनसा) एक विचार से विदित (विरूपे) अन्धकार और प्रकाश से विरुद्ध रूपयुक्त (समीची) सब प्रकार सब को प्राप्त होनेवाली (द्यावाक्षामा) प्रकाश और भूमि तथा (नक्तोषासा) रात्रि और दिन जैसे (एकम्) एक (शिशुम्) बालक को दो माताएँ (धापयेते) दूध पिलाती हैं, वैसे उसको तुम लोग जानो ॥२ ॥


पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जैसे (समनसा) एक से विज्ञानयुक्त (समीची) एकता चाहती हुई (विरूपे) अलग-अलग रूपवाली धाय और माता दोनों (एकम्) एक (शिशुम्) बालक को दुग्ध पिलाती हैं, वैसे (नक्तोषासा) रात्रि और प्रातःकाल की वेला जगत् को (धापयेते) दुग्ध सा पिलाती हैं अर्थात् अति आनन्द देती हैं वा जैसे (रुक्मः) प्रकाशमान अग्नि (द्यावाक्षामा, अन्तः) ब्रह्माण्ड के बीच में (वि, भाति) विशेष करके प्रकाश करता है, उस (अग्निम्) अग्नि को (द्रविणोदाः) द्रव्य के देनेवाले (देवाः) शास्त्र पढ़े हुए जन (धारयन्) धारण करते हैं, वैसे वर्त्ताव वर्त्तो ॥७० ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे जननी माता और धायी बालक को दूध पिलाती हैं, वैसे ही दिन और रात्रि सब की रक्षा करते हैं, और जो बिजुली के रूप से सर्वत्र व्यापक है, वह अग्नि सूर्य आदि का कारण है, इस बात का तुम सब निश्चय करो ॥२ ॥


भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जैसे संसार में रात्रि और प्रातःसमय की वेला अलग रूपों से वर्त्तमान और जैसे बिजुली अग्नि सर्व पदार्थों में व्याप्त वा जैसे प्रकाश और भूमि अतिसहनशील हैं, वैसे अत्यन्त विवेचना करने और शुभगुणों में व्यापक होनेवाले होकर पुत्र के तुल्य संसार को पालें ॥७० ॥

दयानन्द-सरस्वती (सं) - विषयः

पुनस्तमेव विषयमाह ॥


पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह ॥

दयानन्द-सरस्वती (सं) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्याः ! यमग्निं द्रविणोदा देवा धारयन्, यो रुक्मः सन्नन्तर्विभाति यः समनसा विरूपे समीची द्यावाक्षामा नक्तोषासा यथैकं शिशुं द्वे मातरौ धापयेते, तथा वर्त्तमानं तं विजानन्तु ॥२ ॥


पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यथा समनसा समीची विरूपे मातृधात्र्यौ वैकं शिशुमिव नक्तोषासा जगद्धापयेते, यथा वा द्यावाक्षामान्तो रुक्मो विभाति, द्रविणोदा देवा तमग्निं धारयँस्तथा वर्त्तध्वम् ॥७० ॥

दयानन्द-सरस्वती (सं) - भावार्थः

भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा जननी धात्री च बालकं पालयतस्तथाहोरात्रौ सर्वान् पालयतः। यश्च विद्युद्रूपेणाभिव्याप्तोऽस्ति, सोऽग्निः सूर्य्यादेः कारणमस्तीति सर्वे निश्चिन्वन्तु ॥२ ॥


भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्जगति यथा रात्र्युषसौ विरुद्धै रूपैर्वर्त्तेते, यथा च विद्युत् सर्वपदार्थेषु व्याप्ता, यथा वा द्यावाभूमी अतिसहनशीले वर्त्तेते, तद्वत् विवेचकैः शुभगुणेषु व्यापकैर्भूत्वा पुत्रवज्जगत्पालनीयम् ॥७० ॥

सविता जोशी ← दयानन्दः (म) - भावार्थः

भावार्थभाषाः - या मंत्रात वाचकलुप्तोमालंकार आहे. ज्याप्रमाणे माता व दाई बालकांना दूध पाजतात त्याप्रमाणे दिवस व रात्र हे सर्वांचे रक्षणकर्ते असतात. सर्वत्र विद्युतरूपाने व्यापक असा अग्नी हा सूर्याचे कारण आहे, ही गोष्ट निश्चितपणे सर्वांनी जाणावी.


भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. या सृष्टीत रात्र व दिवस वेगवेगळ्या रूपांत विद्यमान आहेत व जसे विद्युत सर्व पदार्थांत व्याप्त असते किंवा जशी भूमी व प्रकाश अति सहनशील असतात तसे माणसांनी विचारपूर्वक अत्यंत शुभगुणयुक्त बनून पुत्राप्रमाणे जगाचे पालन करावे.

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॑ सहस्राक्ष, शतमूर्धञ्
छ॒तन्ते॑ प्रा॒णास्, स॒हस्र॑म् अपा॒नाः ।
त्वँ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒
तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ।

सर्वाष् टीकाः ...{Loading}...

Keith

O Agni, of a thousand eyes [2], of a hundred heads,
A hundred are thy expirations, a thousand thine inspirations;
Thou art lord of wealth a thousandfold;
To thee as such let us pay homage for strength, hail!

मूलम्

अग्ने॑ सहस्राक्ष [22] श॒त॒मू॒र्ध॒ञ्छ॒तन्ते॑ प्रा॒णास्स॒हस्र॑मपा॒नाः ।
त्वँ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ।

सायण-टीका

अथ द्वितीयामाह— अग्ने सहस्राक्षेति।
शतसहस्त्रशब्दा अपरिमिता (तत्वा) भिप्रायेण।
विश्वश्चक्षुरित्यादिमन्त्रोक्तमूर्तिरूपत्वेनायमग्निरत्र स्तूयते।
तस्मादक्षिमूर्धप्राणापाना हेऽग्ने तव बहबः तथा त्वं साहस्रस्य बहुसहस्रसमूहषरिमितस्य रायो धनस्येशिषे प्रभुर्भवसि।
तस्मै ते तादृशाय तुभ्यं वाजायान्नसिद्ध्यर्थं विधेम परिचरेमहविषा स्वाहेदं हविः स्वाहुतमस्तु।

मूलम् (संयुक्तम्)

सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न्पृथि॒व्याँ सी॑द पृ॒ष्ठे पृ॑थि॒व्यास्सी॑द भा॒साऽन्तरि॑क्ष॒मा पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृँ॑ह ।

सायणोक्त-विनियोगः

कल्पः —
“सुपर्णोऽसि गरुत्मानिति तिसृभिः स्वयम् आतृण्णायाम् अग्निं प्रतिष्ठाप्य” इति।
तत्र प्रथममाह— सुपर्णोऽसीति।

विश्वास-प्रस्तुतिः - यजुः

सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न् , पृथि॒व्याँ सी॑द, पृ॒ष्ठे पृ॑थि॒व्यास् सी॑द

Keith

Thou art the winged bird, sit on the earth; sit on the ridge of earth;

मूलम्

सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न् , पृथि॒व्याँ सी॑द, पृ॒ष्ठे पृ॑थि॒व्यास्सी॑द

सायण-टीका

हेऽग्ने त्वं सुपर्णः पक्ष्याकारो गरुत्मान्गरुडसमानोऽसि।
अतोऽस्यां चितिरूपायां पृथिव्यां सीदोपविश।
तत्रापि पृथिव्याः पृष्ठ उपविश।

विश्वास-प्रस्तुतिः - यजुः

भा॒सा ऽन्तरि॑क्ष॒म् आ पृ॑ण , तेज॑सा॒ दिश॒ उद्दृँ॑ह
ज्योति॑षा॒ दिव॒म् उत्त॑भान

Keith

with thy blaze fill the atmosphere,
with thy light establish the sky,
with thy brilliance make firm the quarters.

मूलम्

भा॒साऽन्तरि॑क्ष॒मा पृ॑ण ,
तेज॑सा॒ दिश॒ उद्दृँ॑ह ।
ज्योति॑षा॒ दिव॒मुत्त॑भान

सायण-टीका

अथ द्विदीयामाह— मासाऽन्तरिक्षमिति।
भासा स्वकीयेन प्रकाशेनान्तरिक्षमापृण सर्वत।
पूरय।
ज्योतिषा स्वकीयेन सामर्थ्येन दिवं द्युलोकमुत्तभानोर्ध्वं स्तम्भितं कुरु।
तथा तेजसा स्वकीयेन सामर्थ्थेन दिशः प्राच्यादिका उद्दृंहोत्कर्षेण दृढी कुरु।

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒जुह्वा॑नस्+++(=हूयमानः)+++ सु॒-प्रती॑कᳶ पु॒रस्ता॒द्
अग्ने॒ स्वाय्ँ योनि॒म् आ सी॑द सा॒ध्या+++(→ साधु॒या माध्यन्दिने)+++ ।
अ॒स्मिन्त् स॒ध-स्थे॒, अध्य् उत्त॑रस्मि॒न्
विश्वे॑ देवाः॒! यज॑मानश् च सीदत

सर्वाष् टीकाः ...{Loading}...

Keith

Receiving offering, fair of face, O Agni;
Sit down in front in thine own birthplace, in due order;
In this higher place,
O All-gods [3], do ye sit with the sacrificer.

मूलम्

आ॒जुह्वा॑नस्सु॒प्रती॑कᳶ पु॒रस्ता॒दग्ने॒ स्वाय्ँयोनि॒मा सी॑द सा॒ध्या ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवाः [23] यज॑मानश्च सीदत ।

सायण-टीका

अथ तृतीयामाह— आजुह्वानः सुप्रतीक इति।
हे ऽग्ने त्वम् आजुह्वान आभिमुख्येन हूयमानः सुप्रतीकः सुमुखः सन्
पुरस्तात् पूर्वस्यां दिशि साध्या साध्वीं समीचीनां
स्वां योनिं स्वकीयं स्थानमासीदाऽऽगत्य प्राप्नुहि।
हे विश्वे देवा यूयं यजमानश् चास्मिन् पुरोवर्तिनि सधस्थेऽग्निना सह स्थातुं योग्येऽध्युत्तरस्मिन्नधिकमुत्कृष्टे स्थाने सीदतोपविशत।

सायणोक्त-विनियोगः

कल्पः — “प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं समिधमादधाति” इति।

०३ प्रेद्धो अग्ने ...{Loading}...

प्रे᳓द्धो अग्ने दीदिहि पुरो᳓ नो᳓
ऽजस्रया सूर्म्या᳙+++(=ज्वलल्-लोह-स्थूणया)+++ यविष्ठ ।
त्वाँ᳓ श᳓श्वन्त उ᳓प यन्ति वा᳓जाः ।

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वसिष्ठः
  • छन्दः - विराट्
Thomson & Solcum

प्र᳓इद्धो अग्ने दीदिहि पुरो᳓ नो
अ᳓जस्रया सुऊर्मि᳓या यविष्ठ
तुवां᳓ श᳓श्वन्त उ᳓प यन्ति वा᳓जाः

मूलम् - तैत्तिरीयम्

प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ ।
त्वाँ शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः॑ ।

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M


Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

dīdihi ← √dī- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRF, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

préddhaḥ ← √idh- 1 (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

purás ← purás (invariable)

ájasrayā ← ájasra- (nominal stem)
{case:INS, gender:F, number:SG}

sūrmyā̀ ← sūrmī́- (nominal stem)
{case:INS, gender:F, number:SG}

yaviṣṭha ← yáviṣṭha- (nominal stem)
{case:VOC, gender:M, number:SG}

śáśvantaḥ ← śáśvant- (nominal stem)
{case:NOM, gender:M, number:PL}

tvā́m ← tvám (pronoun)
{case:ACC, number:SG}

úpa ← úpa (invariable)

vā́jāḥ ← vā́ja- (nominal stem)
{case:NOM, gender:M, number:PL}

yanti ← √i- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

पद-पाठः

प्रऽइ॑द्धः । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । अज॑स्रया । सू॒र्म्या॑ । य॒वि॒ष्ठ॒ ।
त्वाम् । शश्व॑न्तः । उप॑ । य॒न्ति॒ । वाजाः॑ ॥

Hellwig Grammar
  • preddhopreddhaḥprendh√indh
  • [verb noun], nominative, singular
  • “kindle.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • dīdihidīdī
  • [verb], singular, Present imperative
  • “shine; glitter.”

  • puropuras
  • [adverb]
  • “ahead; puras [word]; easterly; eastward; east; earlier.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • ‘jasrayāajasrayāajasra
  • [noun], instrumental, singular, feminine
  • “ceaseless; ageless; incessant.”

  • sūrmyāsūrmi
  • [noun], instrumental, singular, feminine

  • yaviṣṭha
  • [noun], vocative, singular, masculine
  • “youngest.”

  • tvāṃtvāmtvad
  • [noun], accusative, singular
  • “you.”

  • śaśvantaśaśvantaḥśaśvat
  • [noun], nominative, plural, masculine
  • “all(a).”

  • upa
  • [adverb]
  • “towards; on; next.”

  • yantii
  • [verb], plural, Present indikative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • vājāḥvāja
  • [noun], nominative, plural, masculine
  • “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”

सायण-भाष्यम्

यविष्ठ युवतम हे अग्ने प्रेद्धः प्रकर्षेण समिद्धस्त्वम् अजस्रया अशरणशीलया सूर्म्या ज्वालया नः अस्मदर्थं पुरः पुरस्तात् आहवनीयायतने दीदिहि दीप्यस्व । त्वां शश्वन्तः बहवः वाजाः अन्नानि हवींषि उप यन्ति उपगच्छन्ति ।


पाठस्तु– प्रेद्धो अग्न इति।
हेग्ने प्रेद्धः पूर्वमपि प्रकर्षेण दीप्तस्त्वं पुरो नोऽस्माकं पुरोदेशेऽजस्त्रया निरन्तरवर्तिन्या सूर्म्या सूर्मिसमानया ज्वालया दीदिहि पुनरपि दीप्यस्व।
ज्वलन्ती लोहमयी स्थूणा सूर्मी
हे यविष्ठ युवतमाग्ने त्वां शश्वन्तो
२१९२ निरन्तर-भाविनो वाजा अन्नान्य् उपयन्ति सामीप्येन प्राप्नुवन्ति ।

Wilson

English translation:

“Well-kindled, youthful Agni, shine before us with undecaying radiance; to you abundant sacrificialviands proceed.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

With undecaying radiance: ajasrayā sūrmyā: surmi = samitkāṣṭham, kindled wood; or itmay mean a metal stake or post, red hot; therefore, figurately, it denotes a flame

Jamison Brereton

When you are kindled forth, Agni, shine in front for us with your inexhaustible shaft of light, o youngest one.
Prizes of victory ever go toward you.

Keith

Enkindled, O Agni, shine before us,
O most youthful, with unfailing beam;
Ever upon thee strength awaiteth.

Griffith

Shine thou before us, Agni, well-enkindled, with flame, Most Youthful God, that never fadeth.
To thee come all our sacrificial viands.

Geldner

Entzündet leuchte uns voran, Agni, mit unverlöschlicher Feuersäule, du Jüngster. Zu dir kommen die vielen Ehrengaben.

Grassmann

Entflammt, o Agni, strahle uns vor Augen mit deinem Licht, das nie verlischt, o jüngster; Zu dir hin eilen stete Opferspeisen.

Elizarenkova

Зажженный, о Агни, свети нам вперед
Неугасимым огненным столпом, о самый юный!
Награды непрерывно приближаются к тебе.

अधिमन्त्रम् (VC)
  • अग्निः
  • वसिष्ठः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसको कैसे प्रकट करे, इस विषयको अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (यविष्ठ) अत्यन्त जवान (अग्ने) अग्नि के तुल्य प्रकाशित बुद्धिवाले विद्वान् ! जो (प्रेद्धः) अच्छे प्रकार जलता हुआ अग्नि (अजस्रया) निरन्तर प्रवृत्त क्रिया से (सूर्म्या) अच्छे छिद्र सहित शरीरादि मूर्त्ति वा कला से (नः) हम को और (त्वाम्) तुम को प्राप्त है जिस को (शश्वन्तः) प्रवाह से नित्य आदि पृथिव्यादि (वाजाः) प्राप्त होने योग्य पदार्थ (उप, यन्ति) समीप प्राप्त होते हैं उसको (पुरः) पहिले वा सामने विद्या और क्रिया से (दीदिहि) प्रदीप्त कर ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे विद्वानो ! जो अग्नि अनादिस्वरूप प्रकृति के अवयवों में विद्युद्रूप से व्याप्त है, जिसकी विद्या से बहुत से व्यवहार सिद्ध होते हैं, उसको निरन्तर प्रकाशित कर धनधान्यादि ऐश्वर्य्य को प्राप्त होओ ॥३॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे यविष्ठाग्ने यः प्रेद्धोऽग्निरजस्रया सूर्म्या नोऽस्माँस्त्वां च प्राप्तोऽस्ति यं शश्वन्तो वाजा उप यन्ति तं पुरो विद्याक्रियाभ्यां दीदिहि ॥३॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तं कथं जनयेदित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (प्रेद्धः) प्रकर्षेणेद्धः प्रदीप्तः (अग्नेः) पावक इव प्रकाशितप्रज्ञ (दीदिहि) प्रदीपय (पुरः) पुरस्तात् (नः) अस्मान् (अजस्रया) निरन्तरया क्रियया (सूर्म्या) सच्छिद्रया मूर्त्त्या कलया वा (यविष्ठ) अतिशयेन युवन् (त्वाम्) (शश्वन्तः) अनादिभूताः प्रवाहेण नित्याः पृथिव्यादयः (उप) (यन्ति) (वाजाः) प्राप्तव्याः पदार्थाः ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे विद्वांसो ! योऽग्निरनादिभूतेषु प्रकृत्यवयवेषु विद्युद्रूपेण व्याप्तोऽस्ति यस्य विद्यया बहवोः व्यवहाराः सिध्यन्ति तं सततं प्रकाश्य धनधान्यादिकमैश्वर्यं प्राप्नुत ॥३॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे विद्वानांनो ! जो अग्नी अनादी स्वरूपाने प्रकृतीच्या अवयवात विद्युतरूपाने व्याप्त आहे, ज्याच्या विद्येमुळे पुष्कळ व्यवहार सिद्ध होतात त्याला निरंतर प्रकाशित करून धनधान्य इत्यादी ऐश्वर्य प्राप्त करा. ॥ ३ ॥

सायणोक्त-विनियोगः

कल्पः — “विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीम्” इति।
समिधमादधातीत्यनुवर्तते।

०३ विधेम ते ...{Loading}...

विधे᳓म ते परमे᳓ ज᳓न्मन्न् अग्ने
विधे᳓म स्तो᳓मैर् अ᳓वरे सध᳓-स्थे ।
य᳓स्माद् यो᳓नेर् उदा᳓रिथा+++(←ऋ गतौ)+++ य᳓जे तं᳓
प्र᳓ त्वे᳓ हवीं᳓षि जुहुरे स᳓मिद्धे

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

विधे᳓म ते परमे᳓ ज᳓न्मन् अग्ने
विधे᳓म स्तो᳓मैर् अ᳓वरे सध᳓स्थे
य᳓स्माद् यो᳓नेर् उदा᳓रिथा य᳓जे त᳓म्
प्र᳓ त्वे᳓ हवीं᳓षि जुहुरे स᳓मिद्धे

Vedaweb annotation

Strata
Normal


Pāda-label
genre M
genre M
genre M
genre M


Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

jánman ← jánman- (nominal stem)
{case:LOC, gender:N, number:SG}

paramé ← paramá- (nominal stem)
{case:LOC, gender:N, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

vidhéma ← √vidh- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}

ávare ← ávara- (nominal stem)
{case:LOC, gender:N, number:SG}

sadhásthe ← sadhástha- (nominal stem)
{case:LOC, gender:N, number:SG}

stómaiḥ ← stóma- (nominal stem)
{case:INS, gender:M, number:PL}

vidhéma ← √vidh- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}

tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}

udā́ritha ← √r̥- 1 (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:ACT}

yáje ← √yaj- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}

yásmāt ← yá- (pronoun)
{case:ABL, gender:M, number:SG}

yóneḥ ← yóni- (nominal stem)
{case:ABL, gender:M, number:SG}

havī́ṁṣi ← havís- (nominal stem)
{case:NOM, gender:N, number:PL}

juhure ← √hu- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}

prá ← prá (invariable)

sámiddhe ← √idh- 1 (root)
{case:LOC, gender:M, number:SG, non-finite:PPP}

tvé ← tvám (pronoun)
{case:LOC, number:SG}

पद-पाठः

वि॒धेम॑ । ते॒ । प॒र॒मे । जन्म॑न् । अ॒ग्ने॒ । वि॒धेम॑ । स्तोमैः॑ । अव॑रे । स॒धऽस्थे॑ ।
यस्मा॑त् । योनेः॑ । उ॒त्ऽआरि॑थ । यजे॑ । तम् । प्र । त्वे इति॑ । ह॒वींषि॑ । जु॒हु॒रे॒ । सम्ऽइ॑द्धे ॥

Hellwig Grammar
  • vidhemavidh
  • [verb], plural, Present optative
  • “worship; offer.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • parameparama
  • [noun], locative, singular, neuter
  • “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”

  • janmannjanman
  • [noun], locative, singular, neuter
  • “birth; reincarnation; lineage; origin; race; metempsychosis; parentage; descent; appearance; age; birthplace; beginning; being.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • vidhemavidh
  • [verb], plural, Present optative
  • “worship; offer.”

  • stomairstomaiḥstoma
  • [noun], instrumental, plural, masculine
  • “hymn; Stoma; stoma [word].”

  • avareavara
  • [noun], locative, singular, neuter
  • “worst; avara [word]; lower; nearer; base; short; low; abject; later(a); worse; antecedent.”

  • sadhasthesadhastha
  • [noun], locative, singular, neuter
  • “dwelling; location; home.”

  • yasmādyasmātyad
  • [noun], ablative, singular, masculine
  • “who; which; yat [pronoun].”

  • yoneryoneḥyoni
  • [noun], ablative, singular, masculine
  • “vagina; vulva; uterus; beginning; origin; reincarnation; birthplace; family; production; cause; race; grain; raw material; birth; kind; caste; kinship; bed.”

  • udārithāudārithaudṛch√ṛch
  • [verb], singular, Perfect indicative

  • yajeyaj
  • [verb], singular, Present indikative
  • “sacrifice; worship; worship.”

  • tamtad
  • [noun], accusative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • tvetvad
  • [noun], locative, singular
  • “you.”

  • havīṃṣihavis
  • [noun], accusative, plural, neuter
  • “Havya; offering; ghee; havis [word].”

  • juhurehu
  • [verb], plural, Perfect indicative
  • “sacrifice; offer; pour; worship.”

  • samiddhesamindh√indh
  • [verb noun], locative, singular
  • “kindle; blaze.”

सायण-भाष्यम्

हेअग्ने परमेउत्कृष्टेजन्मन् जायतेप्रादुर्भवत्यस्मिन्नितिजन्मस्थानन्द्यौः तस्मिन्द्युलोकेवस्थिताय- तेतुभ्यंविधेम स्तुतिभिःपरिचरेम अवरेद्युलोकादधस्तनेसधस्थेन्तरिक्षेस्थितायतुभ्यंस्तोमैः स्तोत्रै- र्विधेम परिचरेम यद्यस्माद्योनेः प्रुथिवीरूपातस्थानात्त्वम् उदास्थि उद्गतोसि प्रादुर्भूतोसि तम्पृथिवी- प्रदेशंयजेपूजयामि तत्रहिसमिद्धेसमिद्भिःसमिध्यमानेत्वेत्वयि हवींषिपुरोडाशादीनि प्रजुहुरेअध्व- र्य्वादयः प्रजुह्वति जुहोतोर्लिटिरूपम् ॥ ३ ॥


पाठस्तु— विधेम त इति।
हेऽग्ने ते तव परमे जन्मनि विधेम वयं ज्ञानेन परिचरेम।
सधस्थे ऽस्माभिः सह स्थातुं योग्येऽपरे निकृष्टे भूलोकवर्तिनि जन्मनि स्तोमैः स्तोत्रैर्विधेम परिचरेम।
यस्माद् योनेर् इष्टकचितिरूपात् स्थानाद् उदारिथ त्वमुद्रत आविर्भूतोऽसि तां योनिं यजे पूजयामि।
समिद्धे सभ्यक्प्रज्वलिते त्वयि हवींषि प्रजुहुर ऋत्विजः प्रकर्षेण जुह्वाति।

Wilson

English translation:

“We adore you, Agni, in your loftiest birth-(plural ce), and with hymns in thine inferior station; I worship that seat whence you have issued; the priests have offered you, when kindled oblations.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

In your loftiest birth-plural ce: Agni is worshipped in heaven as the Sun; in the firmament as lightning; and as the sacrificial fire kindled on the altar; Yajurveda 17.75

Jamison Brereton

We would do honor to you, Agni, in your highest birth; we would do honor with praises in your seat below.
The womb from which you arose, I sacrifice to that. The oblations have been poured forth into you, when kindled.

Keith

I Let us pay homage to thee in thy highest birth, O Agni;
Let us pay homage with praises in thy lower abode;
The place of birth whence thou didst come, to that I offer;
In thee when kindled they offered the oblations.

Griffith

May we adore thee in thy loftiest birthplace, and, with our praises, in thy lower station.
The place whence thou issued forth I worship: to thee well kindled have they paid oblations.

Oldenberg

May we worship thee at thy highest birth (-place), O Agni; may we worship thee with praises in thy lower abode. I honour the womb from which thou hast sprung. When thou hast been kindled, they have offered offerings in thee.

Geldner

Wir wollen dir dienen an deinem höchsten Geburtsort, o Agni; wir wollen dir mit Lobliedern dienen an deinem unteren Aufenthaltsort. Aus welchem Schoße du entsprungen bist, den verehre ich. In dir, wurden von jeher die Opferspenden geopfert.

Grassmann

Wir huld’gen, Agni, dir in höchster Heimath, mit Liedern dir im untersten Bereiche; Aus welchem Schoosse du entsprangst, den ehr’ ich; dir, dem entflammten, wurden Tränk’ ergossen.

Elizarenkova

Мы хотим служить тебе на (твоем) высшем месте рождения,
Мы хотим служить (тебе) хвалами на (твоем) низшем месте пребывания.
Из какого лона ты возник – его я почитаю.
В тебе, зажженном, (всегда) свершались жертвенные возлияния.

अधिमन्त्रम् (VC)
  • अग्निः
  • गृत्समदः शौनकः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् ! हम लोग (स्तोमैः) स्तुतियों से (ते) आपके (परमे) उत्तम और (अवरे) अनुत्तम जन्म के निमित्त (विधेम) विचारें (यस्मात्) जिस (योनेः) कारण से आप (उदारिथ) प्राप्त होते हो उस (सधस्थे) साथ के स्थान में हम लोग (विधेम) उत्तम व्यवहार का विधान करें जैसे (त्वे) उस (समिद्धे) प्रदीप्त अग्नि में (हवींषि) होमने अर्थात् देने योग्य पदार्थों को विद्वान् जन (जुहुरे) होमते वैसे मैं (तम्) उसका (प्रयजे) पदार्थों से सङ्ग करुँ ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो शुभ कर्मों को करते हैं वे श्रेष्ठ जन्म को प्राप्त होते हैं। जो अधर्म का आचरण करते हैं, वे नीच जन्म को प्राप्त होते हैं। जैसे विद्वान् जन जलते हुए अग्नि में सुगन्ध्यादि द्रव्य का होम कर संसार का उपकार करते हैं, वैसे वे सबसे उपकार को वर्त्तमान जन्म में वा जन्मान्तर में प्राप्त होते हैं ॥३॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अग्ने वयं स्तोमैस्ते परमेऽवरे च जन्मन् विधेम यस्माद्योनेस्त्वमुदारिथ तस्मिन् सधस्थे विधेम यथा त्वे समिद्धेऽग्नौ हवींषि विद्वांसो जुहुरे तथा तमहं प्रयजे ॥३॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (विधेम) विचरेम (ते) तव (परमे) प्रकृष्टे (जन्मन्) जन्मनि (अग्ने) विद्वन् (विधेम) (स्तौमैः) स्तुतिभिः (अवरे) अर्वाचीने (सधस्थे) सहस्थाने (यस्मात्) (योनेः) कारणात् (उदारिथ) प्राप्नोषि। अत्रान्येषामपीति दीर्घः। (यजे) सङ्गच्छेय (तम्) (प्र) (त्वे) त्वस्मिन् (हवींषि) होतुं दातुमर्हाणि (जुहुरे) जुह्वति (समिद्धे) प्रदीप्ते ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये शुभानि कर्माणि कुर्वन्ति ते श्रेष्ठं जन्माप्नुवन्ति येऽधर्ममाचरन्ति ते नीचं जन्माश्नुवते यथा विद्वांसः प्रदीप्तेऽग्नौ सुगन्ध्यादिकं द्रव्यं हुत्वा जगदुपकुर्वन्ति तथा ते सर्वैरुपकृता जन्मनि जन्मान्तरे वा भवन्ति ॥३॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे शुभ कर्म करतात त्यांना श्रेष्ठ जन्म मिळतो. जे अधर्माचरण करतात त्यांना नीच जन्म प्राप्त होतो. विद्वान लोक प्रज्वलित अग्नीत सुगंधी पदार्थ टाकून जगावर उपकार करतात तसे ते सर्वांकडून या जन्मी किंवा जन्मजन्मान्तरी उपकृत होतात. ॥ ३ ॥

सायणोक्त-विनियोगः

कल्पः — “ताँ सवितुर्वरेण्यस्य चित्रामिति शमीमयीम्” इति।

विश्वास-प्रस्तुतिः ...{Loading}...

ताँ स॑वि॒तुर् वरे॑ण्यस्य चि॒त्राम्
ऽहव्ँ वृ॑णे सुम॒तिव्ँ वि॒श्व-ज॑न्याम् ।
याम॑स्य॒ कण्वो॒ अदु॑ह॒त् प्रपी॑नाँ
स॒हस्र॑धाराम् पय॑सा म॒हीङ् गाम् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

ताँ स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाहव्ँवृ॑णे सुम॒तिव्ँवि॒श्वज॑न्याम् ।
याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नाँ स॒हस्र॑धाराम् [24] पय॑सा म॒हीङ्गाम् ।

सायण-टीका

पाठस्तु– ता सवितुरिति।
पुरा कदाचित्कण्वाख्यो महर्षिर् अस्याग्नेर् यां सुमतिम् अनुग्रहकारिणीं बुद्धिम् अदुहद् ऊदुग्धवान्।
चत्र दृष्टान्तः—प्रपीनां प्रभूतः पीनः स्तनसंघो यस्याः सा प्रपीना तां सहस्रसंख्याकाः क्षीरधारा यस्याः सा सहस्रधारा तां महीं पयसा क्षीरेण संपूर्णां गां धेनुं यथा लौकिका दुहन्ति तद्वत्।
अयमग्नेः
२१९३ सुमतेरुपदर्शितबुद्धेः स्वामीष्टं फलं प्राप्तवान्।
वरेण्यस्य सर्वैर्वरणीयस्य सवितुः प्रेरकस्याग्नेः संबन्धिनीं तां कण्वेन दुग्धां सुमतिमहमावृणे सर्वतः प्रार्थये।
कीदृशीं सुमतिं, चित्रां स्वापेक्षितबहुविधफलप्रदानसमर्थामित्यर्थः।
विश्वं जन्यमुत्पाद्यं यस्याः सा विश्वजन्या तां जगदुत्पादनसमर्थामित्यर्थः।

सायणोक्त-विनियोगः

कल्पः — “द्वादशगृहीतेन स्त्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्णा इति सप्तवत्या पूर्णाहुतिं जुहोति” इति।

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्त ते॑ अग्ने स॒मिध॑स्, स॒प्त जि॒ह्वास्
स॒प्त [11] ऋष॑यस्, स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्राः॑, सप्त॒धा त्वा॑ यजन्ति,
स॒प्त योनी॒र् आ पृ॑णस्वा घृ॒तेन॑

सर्वाष् टीकाः ...{Loading}...

Keith

Seven are thy kindling-sticks, O Agni, seven thy tongues;
Seven seers [2], seven dear abodes,
Seven priesthoods sevenfold sacrifice to thee;
Seven birthplaces with ghee do thou fill.

मूलम्

स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वास्स॒प्त [11] ऋष॑यस्स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥

भट्टभास्कर-टीका

हे अग्ने तव प्रियाणि सप्त धामानि स्थानानि भूरादयो लोकाः । ‘सुपां सुलुक्’ इति धाम्नो जसो लुक् । तेषु सप्तसु धामसु तव सप्त समिधः सम्यगिद्धास्तनवः । सप्त जिह्वा ज्याला याभिस्सप्तसु रसनास्वदनाय स्वादयसि सप्त ऋषयः दर्शयित्र्यः प्रकाशशक्तयः । यद्वा - सप्तर्षयो मन्त्राः सप्त धिष्ण्यविषयाः । सप्त होत्राः होत्रादयो वषट्-कर्तारः । ते त्वामेकं सप्तधा यजन्ति । स त्वं तथेष्टः सप्त योनीः स्थानानि भूरादीनि सप्त कारणानि घृतेनाज्येन उदकेन वा फलभूतेन आपृणस्व आप्रीणय । पृण प्रीणने ॥

सायण-टीका

पाठस्तु— २१९४ सप्त ते अग्न इति।
हेऽग्ने तव समिधः सप्तसंख्या अश्वत्थोदुम्बर-पलाश-शमी-विकङ्कताशनिहत-वृक्ष–पुष्कर-पर्ण-रूपाः।
अत एव सूत्रकार आधानप्रकरणे सप्त संभारान्समन्त्रकाननुक्रम्येति वानस्पत्या इत्युपसंजहार।
ज्वालारूपा जिह वाश्च सप्त।
तथा चाऽऽथर्वणिका आमनन्ति—
“काली कराली च मनेजवा च सुलोहिता या च सुधूभ्रवर्णा।
स्फुलिङ्किनी विश्वरुची च देवी लेलायमना इति सप्त जिह्वाः” इति।
ऋषयो मन्त्राः।
ते च यथेत्क्तसमित्संपादनार्थाः सप्तसंख्याकाः
“अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः” इत्बादयः समाम्नाताः।
प्रियाणि धामः स्थानानि, आहवनीयगार्हपत्यदक्षिणग्निसभ्यावसथ्यप्राजहिताग्नीघ्रीयाख्यानि सोमयाने वह्रिधारंकाणि सप्तसंख्याकानि।
होत्रा होतृप्रमुखा वषट्कर्तारो होता प्रशास्ता ब्राह्मणच्छंसी पोता नेष्टाऽऽग्नीघ्रोऽच्छावकश्चेति सप्तसंख्याकाः।
त्वां यजमानाः सप्तधा यजन्ति। अग्निष्टोमोऽत्यग्निष्टेम उक्थ्यः षोडश्यतिरात्रोऽप्नोर्यामो वाजपेयश्चेति सप्त प्रकाराः।
तादृशस्त्वं सप्त योनीराहवनीयादि ( द्युत्पति ) स्थानानि घृतेन सर्वतः पूरय।

सायणोक्त-विनियोगः

कल्पः —

“उपांशु मारुतान् सर्वहुताञ् जुहोतीदृङ्चान्यादृङ्चेति।
सप्तभिर् गणैर् आसीनो
हस्तेन गणेन गणम् अनुद्रुत्य
मारुताञ् जुहोति।
मध्येऽरण्येऽनुवाक्येन गणेन जुहोतीत्येके।
मारुतैः सर्वतो वैश्वानरं परिचिनोतीत्येके स्वतर्वाँश्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च साकी चोर्जिषी चेत्येष षष्ठ आम्नातो मितासश्च संमितासश्च न इति सर्वत्रानुषजति”

इति।

विश्वास-प्रस्तुतिः - यजुः
  • ई॒दृङ् चा॑न्या॒दृङ् चै॑ता॒दृङ् च॑ प्रति॒दृङ् च॑ मि॒तश् च॒ सम्मि॑तश् च॒ सभ॑राः +++(मरुतामेको गणः)+++…
  • शु॒क्र-ज्यो॑तिश् च चि॒त्र-ज्यो॑तिश् च स॒त्य-ज्यो॑तिश् च॒ ज्योति॑ष्माँश् च स॒त्यश् च॑र्त॒पाश् चात्यँ॑हाः +++(मरुतामेको गणः)+++
  • ऋ॒त॒जिच् च॑ सत्य॒जिच् च॑ सेन॒जिच् च॑ सु॒षेण॒श् चान्त्य॑-मित्रश् च दू॒रे-अ॑मित्रश् च ग॒णः +++(इति मरुतामेको गणः)+++…
  • ऋ॒तश् च॑ स॒त्यश् च॑ ध्रु॒वश् च॑ ध॒रुण॑श् च ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः +++(इति मरुतामेको गणः)+++…
  • ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु+++(=सुष्ठु)+++ ण॑स् स॒दृक्षा॑स॒ᳶ प्रति॑सदृक्षास॒ +++(इति मरुतामेको गणः)+++ आ+इ॒त॒न॒
  • मि॒तास॑श् च॒
  • सम्मि॑तासश् च +++(इति मरुतां गण-द्वयम्)+++

ऊ॒तये॒ सभ॑रसो मरुतः!

मूलम्

ई॒दृङ्चा॑न्या॒दृङ्चै॑ता॒दृङ्च॑ प्रति॒दृङ्च॑ मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः ।
शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माँश्च स॒त्यश्च॑र्त॒पाश्चात्यँ॑हाः ।[25]
ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॒श्चान्त्य॑मित्रश्च दू॒रेअ॑मित्रश्च ग॒णः ।
ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः ।
ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु ण॑स्स॒दृक्षा॑स॒ᳶ प्रति॑सदृक्षास॒ एत॑न ।
मि॒तास॑श्च॒ सम्मि॑तासश्च न ऊ॒तये॒ सभ॑रसो मरुतो …

सायण-टीका

पाठस्तु– ईदृङ्चान्यादृङिति। अत्र हि मरुतां गणाः पञ्चाऽऽम्नाताः। ईदृङित्यादीनि सप्त नामानि तैरभिधेयानां मरुतामेको गणः। चकाराः परस्परं समुच्चयार्थाः। तथा शुक्रज्योतिरित्यादीनि सप्त नामानि तैरभिधेयानां मरुतां गणो द्वितीयः।

ऋतजिदित्यादिगणस्तृतीयः।

ऋतश्चेत्यादिश्चतुर्थः।

ईदृक्षास इत्यादीनि चत्वारि नामधेयानि, सोऽयं पञ्चमो गणः।
हे गणपञ्चकस्था मरुत एतेन समुच्चयेन वर्तन्ते [ माना ] यूयं सर्व समुच्चित्य सुष्ठु नोऽस्मान् प्रत्यायच्छत।

मूलम् (संयुक्तम्)

मि॒तास॑श्च॒ सम्मि॑तासश्च न ऊ॒तये॒ सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्निन्द्र॒न्दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानो॒ यथेन्द्र॒न्दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मान ए॒वमि॒मय्ँयज॑मान॒न्दैवी॑श्च॒ विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो भवन्तु ॥ [26]

विश्वास-प्रस्तुतिः - यजुः

य॒ज्ञे अ॒स्मिन्न्
इन्द्र॒न् दैवी॒र् विशो॑ म॒रुतो ऽनु॑वर्त्मानः
यथेन्द्र॒न् दैवी॒र् विशो॑
म॒रुतो ऽनु॑वर्त्मान,
ए॒वम् इ॒मय्ँ यज॑मान॒न्
दैवी॑श् च॒ विशो॒ मानु॑षी॒श् चानु॑वर्त्मानो भवन्तु

मूलम्

य॒ज्ञे अ॒स्मिन्निन्द्र॒न्दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानो॒ यथेन्द्र॒न्दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मान ए॒वमि॒मय्ँयज॑मान॒न्दैवी॑श्च॒ विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो भवन्तु ॥

सायण-टीका

२१९६ मितासश्च गणचतुष्टयेन सप्तसंख्यया प्रमिताः।
संमितासश्च पञ्चमगणे चतुःसंख्याया संक्षिप्य प्रमिताः ।
ऊतये नोऽस्माकं रक्षणाय सभरसो भरेणाऽऽदरेण वर्तन्त इति सभरसः।
तादृशा हे मरुतोऽस्मिन्यज्ञ एतनाऽऽगच्छत।
दैवीर्विशो देवसंबन्धिन्यः प्रजारूपाः।
एते मरुत इन्द्रमनुवर्त्मान
इन्द्रं स्वामिनम् अनुसृत्य तदनुसारेण यथा वर्तन्ते मरुत
एवं दैव्यो मानुष्यश्च सर्वाः प्रजा
इमं यजमानमनुसृत्य वर्तमाना भवन्तु।
एतैर्मन्त्रैः साध्या मारुतहोमा उपरि विधास्यते।

सायणोक्त-विनियोगः

अत्र विनियोगसंग्रहः– प्राचीति पञ्चभिः साग्निरारोहेन्निर्मितां चितम् ।
पूर्णामौदुम्बरीं दध्ना जुहोत्येते ऋचौ तदा ॥
याज्यानुवाक्ये नक्तेति सुपर्णोऽस्यादिभिस्त्रिभिः ।
स्वयमातृण्णकायां तमुख्याग्निं स्थापयेत्ततः ॥
प्रेद्ध औदुम्बरीं दध्याद्विधे वैकङ्कतीं तथा ।
शमीमयीं तु तां सेति सप्ताऽऽज्यं हूयते स्रुचा ॥
मारुतेषु तु यागेषु प्रोक्ताः पञ्च मरुद्गणाः ।
ईदृङ्चेत्यादयः शेषो मितासश्चेत्युदीरितः ॥
अनुवाके पञ्चमेऽस्मिन्नुक्ता एकोनविंशतिः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठकेऽ पञ्चमोऽनुवाकः ॥ ५ ॥
२१९८ [अश्वमेधकर्तू रथसज्जीकरणभाविकषचस्वीकाराद्यङ्गाभिधानम्]