+5 रुद्र-होम-मन्त्राः

चतुर्थाष्टके पञ्चमः प्रपाठकः प्रथमोऽनुवाकः होमविधिनिरूपणम्

सायण-टीका

(चतुर्थाष्टके पञ्चमप्रपाठके प्रथमोऽनुवाकः)

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥

हष्टकाचितयः सर्वाश्चतुर्थे हि समापिताः।
रुद्राध्याये पञ्चमे तु चित्यग्नौ होम उच्यते॥

कर्मप्रकरणे पाठात्कर्माङ्गत्वमपीष्यते।
ज्ञानहेतुत्वमप्यस्य सर्वोपनिषदीरितम्॥

किं जप्येनामृतत्वं नो ब्रूहीत्युक्तो मुनिर्जगौ।
शतरुद्रीयकेणेति जावाला आमनन्ति हि॥

स्मृत्यागमपुराणेषु रुद्राध्यायप्रशंसनम्।
बह्मस्ति तद्विस्तरेण रुद्रकल्पेऽभिधास्यते॥

इह कर्माङ्गता यादृग्वर्णिता ब्राह्मणेन ताम्।
बोद्धुं शब्दार्थमात्रस्य विबृतिः क्रियते स्फुटा॥