विस्तारः (द्रष्टुं नोद्यम्)
१ आस्तारपङ्क्तिः, २,११-१२ अनुष्टुप्, १-६ जगती,
७-९ त्रिष्टुप्,१० यवमध्या महाबृहती ।
अग्निर्ऋषिः
सायण-टीका
(अथ चतुर्थाष्टके पञ्चमप्रपाठके दशमोऽनुवाकः)।
द्वितीयमारभ्य नवमान्तेष्वनुवाकेषु विविधानि यजूंष्य् उभयतो-नमस्काराण्य्
अन्यतरतो-नमस्काराणि चोक्तानि।
अथ दशमेऽनुवाक ऋग्-रूपा मन्त्रा उच्यन्यते।
तत्र प्रथमामृचमाह— द्रापे अन्धसस्पत इति।
विश्वास-प्रस्तुतिः ...{Loading}...
+++(सोमवद्)+++ द्रापे॒ अन्ध॑सस्-पते॒
दरि॑द्र॒न् नील॑लोहित ।
ए॒षाम् पुरु॑षाणाम्, ए॒षाम् प॑शू॒नाम्
मा भेर् मा ऽरो॒+++(←गतौ)+++ मो ए॑षा॒ङ् किञ्च॒न+अम॑मत्+++(←रुग्णम् अभूत्)+++ ।
सर्वाष् टीकाः ...{Loading}...
Keith
O chaser, lord of the Soma plants,
O waster, red and blue,
Frighten not nor injure
(Any) of these people, of these cattle;
Be not one of these injured.
मूलम्
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित ।
ए॒षाम्पुरु॑षाणामे॒षाम्प॑शू॒नाम्मा भेर्मारो॒ मो ए॑षा॒ङ्किञ्च॒नाम॑मत् ।
सायण-टीका
द्रापयति कुत्सितां गतिं प्रापयतीति द्रापिः।
पापिनो नरकप्रदानेन क्लेशयतीत्यर्थः।
अन्धोऽन्नं तस्य पतिः पालकः भक्तानामन्नं पालयतीत्यर्थः।
दरिद्रद् अकिंचनः स्षयं विरक्तः केवल इत्यर्थः।
“एकमेवाद्वितीयं ब्रह्म नेह नानाऽस्ति किंचन” इति श्रुतेः।
कण्ठे नीलोऽन्यत्र लोहित इति नीललोहितः।
एतैः शब्दै संबोध्यमान हे रुद्रैषामस्मदीयानां पुरुषाणां पुत्रापौत्रादीनामेषामस्मदीयानां पशूनां गोमहिष्यादीनां च समूहं
मा भेर् माभीषय।
एषामुक्तानां सर्वेषां मध्ये किंचनैकमपि वस्तु माऽरो मा गच्छतु।
भा विनश्यत्वित्यर्थः।
मो आममन् मैव रुग्णम् अभूत्।
विश्वास-प्रस्तुतिः ...{Loading}...
या ते॑ रुद्र शि॒वा त॒नूश्
शि॒वा वि॒श्वाह॑+++(←अहो)+++-भेषजी ।
शि॒वा रु॒द्रस्य॑ भेष॒जी
तया॑ नो मृड जी॒वसे॑ ।
सर्वाष् टीकाः ...{Loading}...
Keith
That auspicious form of thine, O Rudra,
Auspicious and ever healing,
Auspicious and healing (form of) Rudra,
With that show mercy on us for life.
मूलम्
या ते॑ रुद्र शि॒वा त॒नूश्शि॒वा वि॒श्वाह॑भेषजी ।
शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।
सायण-टीका
अथ द्वितीयामाह— या ते रुद्रेति।
हे रुद्र ते त्वदीया शिवा शान्ता तन्र्या विद्यते तया तन्वा नोऽस्माञ्जीवसे जीवयितुं मृड सुखय।
कथं तन्वा, शिवत्वं, तदुच्यतेय स्मादेवं विश्वाहमेषजी सर्वेष्वहःसु रोगदारिद्यादेरौषधवाद्विनाशहेतुस्तस्माच्छिवा। २१३६ किंच, यस्माद्रुद्रस्य तादात्म्यप्राप्तये भेषज्यौषधरूपा ज्ञानप्रदानेन जन्ममरणादिदुःखं निवारयति तस्मादप्येषा शिवा ।
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒माँ रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑
क्ष॒यद्-वी॑राय॒+++(←बहुव्रीहिः)+++ प्र भ॑रामहे म॒तिम् ।
यथा॑ न॒श् शम् अस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒
विश्व॑म् पु॒ष्टङ् ग्रा॒मे॑ अस्मि॒न्न् अना॑तुरम् ।
सर्वाष् टीकाः ...{Loading}...
Keith
This prayer we offer up to the impetuous Rudra, With plaited hair, destroyer of men,
That health be for our bipeds and quadrupeds,
And that all in this village be prosperous [1] and free from ill.
मूलम्
इ॒माँ रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तिम् ।
यथा॑ न॒श्शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्व॑म्पु॒ष्टङ्ग्रा॒मे॑ अ॒स्मिन्न् [21] अना॑तुरम् ।
सायण-टीका
अथ तृतीयामाह— इमाँ रुद्रायेति।
यथा येन प्रकारेण नोऽस्मदीयाय द्विपदे पुत्रपौत्रादिरूपाया मनुष्याय चतुष्पदे गोमहिष्यादिरूपाय पशवे च शमसत्सुखं स्यात्।
किंचस्मिन्ग्रामे विश्वं सर्वं प्राणिजातं पुष्टं सुखपूर्णमनातुरमुपद्रवरहितं च यथा भवति तथा मयं रुद्राय रुद्रार्थ इमां मतिं पूजाध्यानादिविषयां बुद्धिं प्रभरामहे प्रकर्षेण पोषयामः।
कीदृशाय रुद्राय, तवसे बलयुक्तायास्मदषेक्षितं कर्तुं समर्थायेत्यर्थः।
कपर्दिने जटाबन्धयुक्ताय तापसवेषायेत्यर्थः क्षयद्वीराय क्षीयमाणप्रतिपक्षपुरुषायान्यथाभानरूपपापविनाशहेतव इत्यर्थः।
विश्वास-प्रस्तुतिः ...{Loading}...
मृ॒डा नो॑ रु॒द्रोत नो॒ मय॑स् कृधि
क्ष॒यद्-वी॑राय॒ नम॑सा विधेम ते ।
यच् छञ् च॒ योश् च॒ मनु॑र् आय॒जे पि॒ता
तद् अ॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ।
सर्वाष् टीकाः ...{Loading}...
Keith
Be merciful to us, O Rudra, and give us delight; With honour let us worship thee, destroyer of men;
The health and wealth which father Manu won by sacrifice,
May we attain that, O Rudra, under thy leadership.
मूलम्
मृ॒डा नो॑ रु॒द्रोत नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।
यच्छञ्च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ।
सायण-टीका
अथ चतुर्थमाह– मृडा नो रुद्रोतेति।
हे रुद्र नोऽस्मान्मृडयेह लोके सुखय।
उतापि च नोऽस्माकं परलोकेऽपि मयः सुखं कृधि कुरु।
क्षयद्वीराय क्षपितास्मदीयपापाय ते तुभ्यं नमसा नमस्कारेण विधेम परिचरेम।
पिता पालको मनुः प्रजापतिः शं च सुखं च योश्च दुःखपृथग्भावं च यदायजे यत्किंचित्संपादितवांस्तत्सर्वं वयं हे रुद्र तव प्रणीतौ प्रणये स्नेहातिशये सत्यश्याम प्राप्नुयाम।
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो॑ म॒हान्त॑म् उ॒त मा नो॑ अर्भ॒कम्
मा न॒ उक्ष॑न्तम्+++(=प्रोक्षन्तं → युवानम्)+++ उ॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीᳶ पि॒तर॒म् मोत मा॒तर॑म्
प्रि॒या मा न॑स् त॒नुवो रुद्र री॒रि॒षः॒ ।
सर्वाष् टीकाः ...{Loading}...
Keith
Neither our great, nor our small,
Our waxing or what has waxed,
Do thou slay, nor father nor mother;
Injure not, O Rudra, our dear bodies [2].
मूलम्
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कम्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीᳶ पि॒तर॒म्मोत मा॒तर॑म्प्रि॒या मा न॑स्त॒नुवः॑ [22] रु॒द्र॒ री॒रि॒षः॒ ।
सायण-टीका
अथ पञ्चमीमाह— मा नो महान्तभिति।
हे रुद्र नोऽस्मदीयं महान्तं स्थविरं पुरुषं मा रीरिषो मा हिंसीः।
उतापि च नोऽस्मदीयमर्भकं बालं मा रीरिषः।
किंच नोऽस्मदीयम् उक्षन्तं सेचन-समर्थं युवानं पुरुषं मा रीरिषः।
उतापि च नोऽस्मदीयमुक्षितं गर्भस्थं पुरुषं मा रीरिषः।
नोऽस्मदीयं पितरं मा वधीः।
उतापि च मातरं मा वधीः।
नोऽस्मदीयाः प्रियाश्च तनुवः शरीराणि मा रीरिषः
विश्वास-प्रस्तुतिः ...{Loading}...
मा न॑स् तो॒के+++(=अपत्यमात्रे)+++ तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान् मा नो॑ रुद्र भामि॒तो+++(=क्रुद्धः)+++ व॑धीर्
ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।
सर्वाष् टीकाः ...{Loading}...
Keith
Harm us not in our children, our descendants, our life; Harm us not in our cattle, in our horses;
Smite not in anger our heroes, O Rudra;
With oblations lot us serve thee with honour.
मूलम्
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।
सायण-टीका
अथ षष्ठीमाह— मा नस्तोक इति।
हे रुद्र नोऽस्मदीये तोकेऽपत्यमात्रे तनये विशेषतः पुत्रे मा रीरिषो हिंसां मा कुरु।
नोऽस्मदीय आयुषि मा रीरिषः नोऽस्मदीयेषु गोषु मा रीरिषः।
नोऽस्मदीयेष्वश्वेषु मा रीरिषः।
भामितः क्रुद्धः सन्नोऽस्मदीयान्वीरान्भृत्यान्मा वधीः।
वयं हविष्मन्तो हविर्युक्तास्ते तुभ्यं नमसा नमस्कारेण विधेम परिचरेम।
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒रात्+++(=दूरं)+++ ते॑ गो॒-घ्न+++(य्)+++ उ॒त पू॑रुष॒-घ्ने +++(घोर-शरीरे)+++
क्ष॒यद्-वी॑राय सु॒म्नम् अ॒स्मे+++(=अस्मत्-कृते)+++ ते॑ अस्तु ।
रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्य्
अधा॑ च न॒श् शर्म॑ यच्छ द्वि॒-बर्हाः॑+++(=दृढ)+++ ।
सर्वाष् टीकाः ...{Loading}...
Keith
From afar to thee, slayer of cows, and slayer of men,
Destroyer of heroes, be goodwill for us;
Guard us and accord us aid
And grant us protection in abundance.
मूलम्
आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु ।
रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च न॒श्शर्म॑ यच्छ द्वि॒बर्हाः॑ ।
सायण-टीका
अथ सप्तमीमाह– २१३७ आरत्ते गोघ्न इति।
गोघ्ने गोघ्नस्य पुरुषघ्ने पुत्रपौत्रादिषुरुषघ्नस्य
क्षयद्वीराय क्षपितभृत्यस्य ते तवोग्ररूपम्
आराद् अस्तु दूरे तिष्ठतु।
यत्तु सुम्नं त्वदीयं सुखकरं रूपं तदस्ये अस्मास्वस्तु।
घोराऽन्या शिवाऽन्येति यच्छरीरद्वयमुक्तं तयोर्द्वयोर्मध्ये यद्घोरं शरीरं तददूरे गच्छतु।
शिवं शरीरमत्राऽऽगच्छात्वित्यर्थः।
किंच नोऽस्मान्रक्ष सर्वतः पालय।
किंच हे देवाधिब्रूह्यस्मानितरेभ्यो यजमानेन्योऽधिकान्देवेषु ब्रूहि।
अध चापि च द्विबर्हा द्वयोर्लोकयोर्वर्धयिता त्वं शर्म यच्छसुखं देहि।
११ स्तुहि श्रुतं ...{Loading}...
स्तुहि᳓ श्रुत᳓ङ् +++(रथ-)+++गर्त-स᳓दय्ँ यु᳓वानम्
मृग᳓न् न᳓ भीम᳓म्, उपहत्नु᳓म् उग्र᳓म् ।
मृडा᳓ जरित्रे᳓+++(=गायकाय)+++ रुद्र स्त᳓वानो+++(=स्तुतो)+++
अन्य᳓न् ते अस्म᳓न् नि᳓ वपन्तु से᳓नाः ।
011 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - रुद्रः
- ऋषिः - गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
स्तुहि᳓ श्रुतं᳓ गर्तस᳓दं यु᳓वानम्
मृगं᳓ न᳓ भीम᳓म् उपहत्नु᳓म् उग्र᳓म्
मॄळा᳓+ जरित्रे᳓ रुदर+ स्त᳓वानो
अन्यं᳓ ते अस्म᳓न् नि᳓ वपन्तु से᳓नाः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
gartasádam ← gartasád- (nominal stem)
{case:ACC, gender:M, number:SG}
śrutám ← √śru- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
stuhí ← √stu- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
yúvānam ← yúvan- (nominal stem)
{case:ACC, gender:M, number:SG}
bhīmám ← bhīmá- (nominal stem)
{case:ACC, gender:M, number:SG}
mr̥gám ← mr̥gá- (nominal stem)
{case:ACC, gender:M, number:SG}
ná ← ná (invariable)
ugrám ← ugrá- (nominal stem)
{case:ACC, gender:M, number:SG}
upahatnúm ← upahatnú- (nominal stem)
{case:ACC, gender:M, number:SG}
jaritré ← jaritár- (nominal stem)
{case:DAT, gender:M, number:SG}
mr̥ḷá ← √mr̥ḍ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
rudra ← rudrá- (nominal stem)
{case:VOC, gender:M, number:SG}
stávānaḥ ← √stu- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
anyám ← anyá- (nominal stem)
{case:ACC, gender:M, number:SG}
asmát ← ahám (pronoun)
{case:ABL, number:PL}
ní ← ní (invariable)
sénāḥ ← sénā- (nominal stem)
{case:NOM, gender:F, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
vapantu ← √vap- 2 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् ।
मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥
Hellwig Grammar
- stuhi ← stu
- [verb], singular, Present imperative
- “laud; praise; declare; stu.”
- śrutaṃ ← śrutam ← śru
- [verb noun], accusative, singular
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- gartasadaṃ ← garta
- [noun], masculine
- gartasadaṃ ← sadam ← sad
- [noun], accusative, singular, masculine
- “seated.”
- yuvānam ← yuvan
- [noun], accusative, singular, masculine
- “young; youthful.”
- mṛgaṃ ← mṛgam ← mṛga
- [noun], accusative, singular, masculine
- “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”
- na
- [adverb]
- “not; like; no; na [word].”
- bhīmam ← bhīma
- [noun], accusative, singular, masculine
- “awful; amazing; terrific; enormous; bhīma [word]; fearful.”
- upahatnum ← upahatnu
- [noun], accusative, singular, masculine
- “hurtful.”
- ugram ← ugra
- [noun], accusative, singular, masculine
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- mṛḍā ← mṛḍ
- [verb], singular, Present imperative
- “pardon.”
- jaritre ← jaritṛ
- [noun], dative, singular, masculine
- “singer.”
- rudra
- [noun], vocative, singular, masculine
- “Shiva; Rudra; eleven; rudra [word]; eleventh.”
- stavāno ← stavānaḥ ← stu
- [verb noun], nominative, singular
- “laud; praise; declare; stu.”
- ’nyaṃ ← anyam ← anya
- [noun], accusative, singular, masculine
- “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”
- te ← tvad
- [noun], genitive, singular
- “you.”
- asman ← asmat ← mad
- [noun], ablative, plural
- “I; mine.”
- ni
- [adverb]
- “back; down.”
- vapantu ← vap
- [verb], plural, Present imperative
- “sow; bestrew; strew; scatter.”
- senāḥ ← senā
- [noun], nominative, plural, feminine
- “army; senā [word]; armament.”
सायण-भाष्यम्
हेस्तोतः श्रुतंविश्रुतम्प्रख्यातंरुद्रंस्तुहि कीदृशं गर्तसदं गर्तोरथस्तत्रसीदन्तंयुवानन्नित्यतरुणं भृगं- नभीमं मृगंसिंहमिवभयङ्करं उपहन्तुं उपहन्तारं शत्रूणांउग्रमुद्गूर्णं हेरुद्र त्वंस्तवानः अस्माभिः स्तू- यमानः सन् जरित्रेस्तोत्रेमह्यम्मृळसुखय तेत्वदीयाः सेनाः अस्मदन्यं अस्मद्भतिरिक्तं पुरुषन्निवपन्तु निघ्नन्तु ॥ ११ ॥
सायण-टीका
अथाष्टमीमाह— स्तुहि श्रुतमिति हे मदीयंवचः श्रुतं प्रसिद्धं रुद्रं स्तुहि।
कीदृशम् गर्तसदं गर्तसदृशे हृदयपुण्डरीके सर्वदा तिष्ठन्तम्।
‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’ इति स्मृतेः।
युवानं नित्यतरुणम्।
उपहत्नुमुग्रं प्रलयकाले सर्वं जगत्संहर्तुमुग्ररूपिणम्। तत्र दृष्ठान्तः भीमं मृगं न भयंकरं सिंहमिव।
यथा गजविदारणायोग्रः सिंहो भवति तद्वत्।
हे रुद्र स्तवानोऽस्मद्वचसा स्तूयमानो जरित्रे जरणशीले दिने दिने क्षीयमाणेऽस्मच्छरीरे मृड सुखं कुरु।
ते त्वदीयाः सेना अस्मदन्यं वैरिणं निवपन्तु विनाशयन्तु
Wilson
English translation:
“Glorify the renowned Rudra, riding in his car, ever youthful, destructive, fierce like a formidable wild beast; Rudra, propitiated by praise, grant happiness to him who praises (you), and let your hosts destroy him who is our adversary.”
Jamison Brereton
Praise the famed youth, sitting upon the high seat, the mighty one, pouncing like a terrifying wild beast.
Being praised, have mercy on the singer, Rudra. Let your weapons cast down another than us.
Keith
Praise [3] the famous youth, mounted on the chariot seat, Dread and destructive like a fierce wild beast;
Being praised, O Rudra, be merciful to the singer; Let thy missiles smite down another than us.
Griffith
Praise him the chariot-borne, the young, the famous, fierce, slaying like a dread beast of the forest.
O Rudra, praised, be gracious to the singer. let thy hosts spare us and smite down another.
Macdonell
Praise him the famed, who sits upon the car-seat The young, the fierce, like a dread beast, a slayer. When praised, be gracious, Rudra, to the singer Let thy darts pass us and lay low another.
Geldner
Preise den berühmten, auf dem Hochsitz thronenden Jüngling, der wie ein wildes Tier aufspießt den Gewaltigen ! Gepriesen habe mit dem Sänger Erbarmen o Rudra ! Einen anderem als uns sollen deine Heerscharen niederwerfen!
Grassmann
Sing’ dem berühmten, jungen Wagenkämpfer, der kräftig angreift, wie ein grimmer Löwe; Sei hold dem Sänger, Rudra, du gelobter; dein Pfeil vernichte andere als wir sind.
Elizarenkova
Славь знаменитого, сидящего на троне юношу,
Страшного, как нападающий зверь, грозного!
Прославленный, о Рудра, будь милостив к певцу!
Другого, а не нас, пусть повергнут долу твои рати!
अधिमन्त्रम् (VC)
- रुद्रः
- गृत्समदः शौनकः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषयको अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (रुद्र) अन्यायकारियों को रुलानेवाले सेनापति ! आप (मृगम्) सिंह के (न) समान (भीमम्) भयंकर (श्रुतम्) जो सुने हैं उस (गर्त्तसदम्) घर में बैठकर (उपहत्नुम्) और समीप में मारते हुए (उग्रम्) क्रूर (युवानम्) पूर्ण बलवाले पुरुष की (स्तुहि) स्तुति कर और (जरित्रे) स्तुति करनेवाले के लिये (मृळ) सुखी कर (स्तवानः) स्तुति करता हुआ (अन्यम्) और धर्मात्मा की प्रशंसा कर जिससे विद्वान् (अस्मत्) मेरी उत्तेजना से (ते) तेरी (सेनाः) सेना अर्थात् बल को (नि,वपन्तु) विस्तारें ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो राज्य बढ़ाने की इच्छा करें, वे सिंह के समान शत्रुओं में भयंकर और श्रेष्ठों में आनन्द देनेवालों का राजकार्य्य और सेना में सत्कार कर और उनको आज्ञा दे न्याय से निरन्तर राज्य की पालना करे ॥११॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे रुद्र सेनेश त्वं मृगं न भीमं श्रुतं गर्त्तसदमुपहत्नुमुग्रं युवानं स्तुहि जरित्रे मृळ स्तवानः सन्नन्यं प्रशंस यतो विद्वांसोऽस्मत्ते सेना निवपन्तु ॥११॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (स्तुहि) (श्रुतम्) यश्श्रुतवान् तम् (गर्त्तसदम्) यो गर्त्ते गृहे सीदति तम् (युवानम्) पूर्णबलम् (मृगम्) सिंहम् (न) इव (भीमम्) भयङ्करम् (उपहत्नुम्) य उपहन्ति तम् (उग्रम्) क्रूरम् (मृळ) सुखम्। अत्र द्व्यचोऽतस्तिङ इति दीर्घः (जरित्रे) स्तावकाय (रुद्र) अन्यायकारिणां रोदयितः (स्तवानः) स्तुवन् (अन्यम्) धर्मात्मानम् (ते) तव (अस्मत्) अस्माकं सकाशात् (नि) (वपन्तु) विस्तारयन्तु (सेनाः) बलानि ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ये राज्यं वर्द्धितुमिच्छेयुस्ते सिंहवच्छत्रूणां भयंकराञ्छ्रेष्ठानामानन्दप्रदान् राजकार्य्ये सेनायां च सत्कृत्य नियोज्य न्यायेन राज्यं सततं पालयेयुः ॥११॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जे राज्य वाढविण्याची इच्छा करतात त्यांनी शत्रूंबरोबर सिंहासारखे भयंकर रीतीने वागावे व श्रेष्ठांना आनंद देणाऱ्या लोकांचा राजकार्यात व सेनेमध्ये सत्कार करावा व न्यायाने निरंतर राज्याचे पालन करावे. ॥ ११ ॥
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑ णो रु॒द्रस्य॑ हे॒तिर् वृ॑णक्तु॒
परि॑ +++(क्रोध-)+++त्वे॒षस्य॑ दुर्म॒तिर् अ॑घा॒योः +++(वृणक्तु)+++ ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस् +++(धनूंषि)+++ तनुष्व॒
मीढ्व॑स् तो॒काय॒ तन॑याय मृडय ।
सर्वाष् टीकाः ...{Loading}...
Keith
May the missile of Rudra spare us,
May the wrath of the brilliant evil worker (pass over us);
Unstring for the generous donors (thy) strong (bows);
O bounteous one, be merciful to our children and descendants.
मूलम्
परि॑ णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ।
सायण-टीका
अथ नवमीमाह— परि णो रुद्रस्येति।
हन्यतेऽनयेति हेतिरायुधं, रुद्रस्य हेतिर्नोऽस्मान्परिवृणक्तु परितो वर्जितान्करोतु।
कदाचिदपिमा विध्यत्वित्यर्थः।
त्वेषस्य क्रोधोज्ज्वलितस्याघायोरघं पापं प्रहाररूपमिच्छतो रुद्रस्य या दुर्मतिरुग्रबुद्धिः साऽप्य स्मान्पारिवृणक्तु।
स्थिरा विरोधिनाशनाय या दृढा दुर्मतिरस्ति तां मघवद्म्यो हविर्लक्षणान्नयुक्तेभ्यो यजमानेभ्यः सकाशादवतनुष्वावततामपनीतां कुरु।
हे मीढ्वः कामानामभिवर्पक तोकायास्मत्पुत्राय तनयाय तदीयपुत्राय च मृडाय सुखं देहि।
५१ मीढुष्टम शिवतम ...{Loading}...
मीढु॑ष्टम॒ शिव॑तम
शि॒वो न॑स् सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धन् नि॒धाय॒
कृत्तिव्ँ॒ वसा॑न॒ आ च॑र॒
पिना॑कम् बिभ्र॒द् आ ग॑हि ।
५१ मीढुष्टम शिवतम ...{Loading}...
पदपाठः - दयानन्दादि
मीढु॑ष्टम। मीढु॑स्त॒मेति॒ मीढुः॑ऽतम। शिव॑त॒मेति॒ शिव॑ऽतम। शि॒वः। नः॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। भ॒व॒। प॒र॒मे। वृ॒क्षे। आयु॑धम्। नि॒धायेति॑ नि॒ऽधाय॑। कृत्ति॑म्। वसा॑नः। आ। च॒र॒। पिना॑कम्। बिभ्र॑त्। आ। ग॒हि॒। ५१।
महीधरः
म० इयमेकोना यवमध्या त्रिष्टुप् तृतीय एकादशार्णः चत्वारोऽन्येष्टार्णाः पञ्चपादा । अतिशयेन मीढ्वान् मीढुष्टमः । अत्यन्तं शिवः शिवतमः । हे मीढुष्टम अतिशयेन कामसेक्तः, हे शिवतम अत्यन्तं कल्याणकर्तः, नोऽस्मान् प्रति शिवः शान्तः सुमनाः हृष्टचित्तश्च भव । किंच परमे दूरस्थे उन्नते वा वृक्षे वटादौ आयुधं त्रिशूलादिकं निधाय संस्थाप्य कृत्तिं चर्म वसानः परिदधानः सन् आचर आगच्छ तपश्चरेति वा । आगच्छन्नपि पिनाकं धनुर्बिभ्रत् धारयन्सन् आगहि आगच्छ । ज्याशरहीनं धनुर्मात्रं शोधार्थं धारयन्नागच्छेत्यर्थः ॥ ५१ ॥
द्विपञ्चाशी।
अधिमन्त्रम् (VC)
- रुद्रा देवताः
- परमेष्ठी प्रजापतिर्वा देवा ऋषयः
- निचृदार्षी यवमध्या त्रिष्टुप्
- धैवतः
सायण-टीका
अथ दशमीमाह– मीढुष्ठमेति।
मे मीढुष्ठमातिशयेन सेचक कामानामभिवर्षक, हे शिवतमातिशयेन शान्तस्वरूप नोऽस्मान्प्रति शिवः शान्तः सुमनाः सौमनस्येन स्नेहेन युक्तश्च भव।
आयुधं त्रिशुलादिकं परमेऽत्युन्नते वृक्षे वटाश्वत्थादिरूपे निधाय
२१३८ यथाऽस्माभिर्न दृश्यते तथाऽवस्थाप्य कृत्तिं वसानो व्याघ्रचर्ममात्रं परिदधान आचरास्मदाभिमुख्येनाऽऽगच्छ।
आगच्छन्नपि पिनाकं विभ्रद्भूषणार्थं धनुर्मात्रं हस्ते धारयन्त्राणादिकं परित्यज्याऽऽगह्यागच्छ।
Keith
O most bounteous, most auspicious,
Be auspicious and favourably inclined to us;
Placing down thy weapon on the highest tree,
Clad in thy skin, come,
And approach us bearing the spear [4].
दयानन्द-सरस्वती (हि) - विषयः
सभाध्यक्षादिकों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मीढुष्टम) अत्यन्तपराक्रमयुक्त (शिवतम) अति कल्याणकारी सभा वा सेना के पति ! आप (नः) हमारे लिये (सुमनाः) प्रसन्न चित्त से (शिवः) सुखकारी (भव) हूजिये (आयुधम्) खड्ग, भुशुण्डी और शतघ्नी आदि शस्त्रों का (निधाय) ग्रहण कर (कृत्तिम्) मृगचर्मादि की अङ्गरखी को (वसानः) शरीर में पहिने (पिनाकम्) आत्मा के रक्षक धनुष् वा बखतर आदि को (बिभ्रत्) धारण किये हुए हम लोगों की रक्षा के लिये (आगहि) आइये (परमे) प्रबल (वृक्षे) काटने योग्य शत्रु की सेना में (आचर) अच्छे प्रकार प्राप्त हूजिये ॥५१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभा और सेना के अध्यक्ष आदि लोग अपनी प्रजाओं में मङ्गलाचारी और दुष्टों में अग्नि के तुल्य तेजस्वी दाहक हों, जिससे सब लोग धर्ममार्ग को छोड़ के अधर्म का आचरण कभी न करें ॥५१ ॥
दयानन्द-सरस्वती (सं) - विषयः
सभाध्यक्षादिभिः किं कार्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - हे मीढुष्टम शिवतम सभासेनेश ! त्वं नः सुमनाः शिवो भव। आयुधं निधाय कृत्तिं वसानः पिनाकं बिभ्रत् सन्नस्माकं रक्षणायागहि परमे वृक्ष आचर ॥५१ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - सभासेनेशादयः स्वप्रजासु मङ्गलाचारिणो दुष्टेषु चाग्निरिव दाहकाः स्युर्येन सर्वे धर्मपथं विहायाधर्मं कदापि नाचरेयुः ॥५१ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - सभा व सेनेचे अध्यक्ष इत्यादी आपल्या प्रजेचे कल्याण करणारे असावेत व दुष्टांसाठी अग्नीप्रमाणे तेजस्वी व दाहक असावेत. यामुळे सर्व लोक धार्मिक बनून अधर्माचे आचरण करणार नाहीत.
विश्वास-प्रस्तुतिः ...{Loading}...
विकि॑रि-द॒ विलो॑हित॒
नम॑स् ते अस्तु भगवः ।
यास् ते॑ स॒हस्रँ॑ हे॒तयो॒
ऽन्यम् अ॒स्मन् न्नि व॑पन्तु॒ ताः ।
सर्वाष् टीकाः ...{Loading}...
Keith
O blood-red scatterer,
Homage to thee, O adorable one;
May thy thousand missiles
Smite down another than us.
मूलम्
विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते॑ स॒हस्रँ॑ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ।
सायण-टीका
अथैकादशीमाह— विकिरिदेति।
कीर्यन्ते भक्तानां संनिधौ बहुधा प्रक्षिप्यन्त इति किरावो धनानि तानि ददातीति किरिदः।
विशेषेण किरिदो विकिरिदः।
विलोहितो लौहित्यरहितः श्वेत इत्यर्थः।
अत एव मान्त्रिकाः पञ्चाक्षरध्याने स्मरन्ति— ‘ध्भेयो मुक्तापरागामृतरसकलिताद्रिप्रभः’ इति।
यद्वा विशेषण लोहितो विलोहितः।
अत एवाष्टाक्षरध्याने स्मरति— ‘काञ्चनाभो ध्येयः पद्मासनस्तः’ इति ।
भगवो भगवन्षड्गुणसंपन्न।
भगशब्दस्य पढ्गुणवाचित्वं स्मर्यते—
‘ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ इति।
प्रकारान्तरेण भगवच्छब्दनिर्वचनं च—
‘उत्पत्तिं च विनाशं च भूतानामागतिं गतिम्।
वेत्ति त्रिद्यामविद्यां च स वाच्यो भगवानिति’ ॥ इति ।
यथोक्तविशेषणत्रयविशिष्ट हे रुद्र ते तुभ्यं नमोऽस्तु।
ते तव सहस्र सहस्रसंख्याका हेतयो यान्यायुधानि सन्ति ताः सर्वा अस्मदन्यं विरोधिनं निवयन्तु विनाशयन्तु।
विश्वास-प्रस्तुतिः ...{Loading}...
स॒हस्रा॑णि सहस्र॒धा
बा॑हु॒वोस् तव॑ हे॒तयः॑ ।
तासा॒म् ईशा॑नो भगवᳶ
परा॒चीना॒ मुखा॑ कृधि ॥ [25]
सर्वाष् टीकाः ...{Loading}...
Keith
A thousandfold in thousands
Are the missiles in thine arms;
O adorable one, do thou turn away
The points of those which thou dost rule.
मूलम्
स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ ।
तासा॒मीशा॑नो भगवᳶ परा॒चीना॒ मुखा॑ कृधि ॥ [25]
सायण-टीका
अथ द्वादशीमाह— सहस्राणीति।
हे रुद्र तव बाह्बोर्हस्तयोर्हेतयः सहस्रधा सहस्रप्रकाराः सहस्राणि सहस्रसंख्याका विद्यन्ते।
धनुः खड्गस्रिशूलमित्येवं जातिभेदेन सहस्रप्रकारत्वम्।
एकैस्या जातौ बहवः सहस्रसंख्याकाः हे भगवः षड्गुणोपेत त्वमीशानः समर्थः संस्तासां हेतीनां मुखा मुखानि शल्यानि पराचीना कृघ्यस्गसः पराङ्मुखानि कुरु॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके दशमोऽनुवाकः ॥ १० ॥
चतुर्थाष्टके पञ्चमप्रपाठके एकादशोऽनुवाकः