अग्निर्ऋषिः
मूलम् (संयुक्तम्)
नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒ नम॑ᳵ किँशि॒लाय॑ च॒ क्षय॑णाय च॒ नम॑ᳵ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नम॑ᳵ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒ नमो॑ ह्रद॒य्या॑य च निवे॒ष्प्या॑य च॒ नमᳶ॑ पाँस॒व्या॑य च रज॒स्या॑य च॒ नम॒श्शुष्क्या॑य च हरि॒त्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च [19] नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒ नमᳶ॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒ नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आक्खिद॒ते च॑ प्रक्खिद॒ते च॒ नमो॑ वᳵ किरि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यो॒ नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ ॥ [20]
मूलम् (संयुक्तम्)
नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च ।
विश्वास-प्रस्तुतिः
नम॑ इरि॒ण्या॑य च
मूलम्
नम॑ इरि॒ण्या॑य च
सायण-टीका
(अथ चतुर्थकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः)।
अष्टमानुवाके यान्यन्यतरतोनमस्काराणि यजूंष्युक्तानि तेभ्योऽप्यन्यानिकानिचिन्नवमेऽनुवाक उच्यन्ते। तत्र विद्यमानान्येकोनाविंशतिसंख्याकानि यजूंष्याह— नम इरिण्याय इति।
इरिणमूषरं तत्र भव इरिण्यः।
विश्वास-प्रस्तुतिः
प्र॒प॒थ्या॑य च +++(नमः)+++॥
मूलम्
प्र॒प॒थ्या॑य च +++(नमः)+++॥
सायण-टीका
प्रपथो बहुभिः सेवितो मार्गस्तत्र भवः प्रपथ्यः।
मूलम् (संयुक्तम्)
नम॑ᳵ किँशि॒लाय॑ च॒ क्षय॑णाय च ।
विश्वास-प्रस्तुतिः
नम॑ᳵ किँशि॒लाय॑ च
मूलम्
नम॑ᳵ किँशि॒लाय॑ च
सायण-टीका
कुत्सिताः क्षुद्राः शिला यत्र प्रदेशे तादृशः शार्वरिस्तः प्रदेशः किंशिलः।
विश्वास-प्रस्तुतिः
क्षय॑णाय च +++(नमः)+++।
मूलम्
क्षय॑णाय च +++(नमः)+++।
सायण-टीका
क्षयणो निवासयोग्यो देशः।
मूलम् (संयुक्तम्)
नम॑ᳵ कप॒र्दिने॑ च पुल॒स्तये॑ च ।
विश्वास-प्रस्तुतिः
नम॑ᳵ कप॒र्दिने॑ च
मूलम्
नम॑ᳵ कप॒र्दिने॑ च
सायण-टीका
कपर्दी जटाबन्धवान्।
विश्वास-प्रस्तुतिः
पु॒ल॒स्तये॑ च +++(नमः)+++।
मूलम्
पु॒ल॒स्तये॑ च +++(नमः)+++।
सायण-टीका
भक्तानां पुरतस्तिष्ठतीति पुलास्तिः
मूलम् (संयुक्तम्)
नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च ।
विश्वास-प्रस्तुतिः
नमो॒ गोष्ठ्या॑य च
मूलम्
नमो॒ गोष्ठ्या॑य च
सायण-टीका
गवां स्थानं गोष्ठं तत्र भवो गोष्ठ्यः।
विश्वास-प्रस्तुतिः
गृह्या॑य च +++(नमः)+++।
मूलम्
गृह्या॑य च +++(नमः)+++।
सायण-टीका
गृहे भवो गृह्यः।
मूलम् (संयुक्तम्)
नम॒स्तल्प्या॑य च॒ गेह्या॑य च ।
विश्वास-प्रस्तुतिः
नम॒स्तल्प्या॑य च
मूलम्
नम॒स्तल्प्या॑य च
सायण-टीका
तल्पे खट्वायां शयानस्तल्प्यः।
विश्वास-प्रस्तुतिः
गेह्या॑य च +++(नमः)+++।
मूलम्
गेह्या॑य च +++(नमः)+++।
सायण-टीका
गेहे प्रासादे भवो गेह्यः ।
मूलम् (संयुक्तम्)
नम॑ᳵ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च ।
विश्वास-प्रस्तुतिः
नम॑ᳵ का॒ट्या॑य च
मूलम्
नम॑ᳵ का॒ट्या॑य च
सायण-टीका
कुत्सितमटति कण्टकलतादिपूर्णतया दुष्प्रदेशत्वं प्राप्नोतीति दुर्गमोऽरण्यविशेषः काटस्तत्र भवः काट्यः।
विश्वास-प्रस्तुतिः
ग॒ह्व॒रे॒ष्ठाय॑ च +++(नमः)+++।
मूलम्
ग॒ह्व॒रे॒ष्ठाय॑ च +++(नमः)+++।
सायण-टीका
गह्वरे विषमे गिरिगुहादौ तिष्ठतीति गह्वरेष्ठः ।
मूलम् (संयुक्तम्)
नमो॑ ह्रद॒य्या॑य च निवे॒ष्प्या॑य च ।
विश्वास-प्रस्तुतिः
नमो॑ ह्रद॒य्या॑य च
मूलम्
नमो॑ ह्रद॒य्या॑य च
सायण-टीका
हृदेष्वगाधजलेषु भवो हृदय्यः।
गह्वरे विषमे गिरिगुहादौ तिष्ठतीति गह्वरेष्ठः।
विश्वास-प्रस्तुतिः
नि॒वे॒ष्प्या॑य च +++(नमः)+++ ।
मूलम्
नि॒वे॒ष्प्या॑य च +++(नमः)+++ ।
सायण-टीका
हृदेष्वगाधजलेषु भवो हृदय्यः।
निवेष्पं नीहारजलं तत्र भवो निवेष्प्यः।
मूलम् (संयुक्तम्)
नमᳶ॑ पाँस॒व्या॑य च रज॒स्या॑य च ।
विश्वास-प्रस्तुतिः
नमᳶ॑ पाँस॒व्या॑य च ।
मूलम्
नमᳶ॑ पाँस॒व्या॑य च ।
सायण-टीका
पांसुषुपरमाणुष्ववस्थितः पांसव्यः।
विश्वास-प्रस्तुतिः
र॒ज॒स्या॑य च +++(नमः)+++ ।
मूलम्
र॒ज॒स्या॑य च +++(नमः)+++ ।
सायण-टीका
रजसि विस्पष्टायां धूल्यामवस्थितो रजस्यः।
मूलम् (संयुक्तम्)
नम॒श्शुष्क्या॑य च हरि॒त्या॑य च ।
विश्वास-प्रस्तुतिः
नम॒श्शुष्क्या॑य च
मूलम्
नम॒श्शुष्क्या॑य च
सायण-टीका
शुष्केषु काष्ठेषु भवः शुष्क्यः ।
विश्वास-प्रस्तुतिः
ह॒रि॒त्या॑य च +++(नमः)+++
मूलम्
ह॒रि॒त्या॑य च +++(नमः)+++
सायण-टीका
हरितमार्द्रं तत्र भवो हरित्यः।
मूलम् (संयुक्तम्)
नमो॒ लोप्या॑य चोल॒प्या॑य च
विश्वास-प्रस्तुतिः
नमो॒ लोप्या॑य च
मूलम्
नमो॒ लोप्या॑य च
सायण-टीका
लुप्यते तृणादिकमस्मिन्नति लोपः कठिणप्रदेशस्तत्र भवो लोप्यः।
विश्वास-प्रस्तुतिः
उ॒ल॒प्या॑य च +++(नमः)+++।
मूलम्
उ॒ल॒प्या॑य च +++(नमः)+++।
सायण-टीका
उलपा बल्वजतृणादयस्तत्र भव उलप्यः।
मूलम् (संयुक्तम्)
नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च
विश्वास-प्रस्तुतिः
नम॑ ऊ॒र्व्या॑य च
मूलम्
नम॑ ऊ॒र्व्या॑य च
सायण-टीका
ऊर्व्यां पृथिव्यां भव ऊर्व्यः।
विश्वास-प्रस्तुतिः
सू॒र्म्या॑य च +++(नमः)+++।
मूलम्
सू॒र्म्या॑य च +++(नमः)+++।
सायण-टीका
शोभना ऊर्मयो यस्यां नद्यां सेयं सूर्मिस्तत्र भवः सूर्म्यः।
मूलम् (संयुक्तम्)
नमᳶ॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च ।
विश्वास-प्रस्तुतिः
नमᳶ॑ प॒र्ण्या॑य च ।
मूलम्
नमᳶ॑ प॒र्ण्या॑य च ।
सायण-टीका
पर्णेषु पत्रेषु भवः पर्ण्यः।
विश्वास-प्रस्तुतिः
प॒र्ण॒श॒द्या॑य च +++(नमः)+++
मूलम्
प॒र्ण॒श॒द्या॑य च +++(नमः)+++
सायण-टीका
शुष्काणां पर्णानां
२१३३ संघातः पर्णशदस्तत्र भवः पर्णशद्यः।
मूलम् (संयुक्तम्)
नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च ।
विश्वास-प्रस्तुतिः
नमो॑ऽपगु॒रमा॑णाय च।
मूलम्
नमो॑ऽपगु॒रमा॑णाय च।
सायण-टीका
अपगुरमाण उद्यतायुधः।
विश्वास-प्रस्तुतिः
अ॒भि॒घ्न॒ते च॑ +++(नमः)+++।
मूलम्
अ॒भि॒घ्न॒ते च॑ +++(नमः)+++।
सायण-टीका
अभिध्नन्प्रहरन्।
मूलम् (संयुक्तम्)
नम॑ आक्खिद॒ते च॑ प्रक्खिद॒ते च ।
विश्वास-प्रस्तुतिः
नम॑ आक्खिद॒ते च॑
मूलम्
नम॑ आक्खिद॒ते च॑
सायण-टीका
आक्खिदन्नीषत्खेदयन्।
विश्वास-प्रस्तुतिः
प्र॒क्खि॒द॒ते च॑ +++(नमः)+++।
मूलम्
प्र॒क्खि॒द॒ते च॑ +++(नमः)+++।
सायण-टीका
प्रक्खिदन्नत्यन्तं खेदयन्।
विश्वास-प्रस्तुतिः
नमो॑ वᳵ किरि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यः ।
मूलम्
नमो॑ वᳵ किरि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यः ।
सायण-टीका
किरन्ति भक्तेभ्यो धनानिति किरिका उदारा रुद्रावताराः ते च देवानां हृदयभूताः सर्वदेवप्रिय त्वात्तादृशेभ्यो वो युष्मभ्यं नमः।
विश्वास-प्रस्तुतिः
नमो॑ विक्षीण॒केभ्यः॑ ।
मूलम्
नमो॑ विक्षीण॒केभ्यः॑ ।
सायण-टीका
क्षीणकेभ्यो विपरीता विक्षीणिकाः कदाचिदपि क्षयरहिता इत्यर्थः।
विश्वास-प्रस्तुतिः
नमो॑ विचिन्व॒त्केभ्यः॑ ।
मूलम्
नमो॑ विचिन्व॒त्केभ्यः॑ ।
सायण-टीका
विचिन्वन्त्वपेक्षितमर्थं संपादयन्तीति विचिन्वत्काः।
विश्वास-प्रस्तुतिः
नम॑ आनिर्ह॒तेभ्यः॑ ।
मूलम्
नम॑ आनिर्ह॒तेभ्यः॑ ।
सायण-टीका
आसमन्तान्निःशेषेण हतं पापं यैस्त आनिर्हताः।
विश्वास-प्रस्तुतिः
नम॑ आमीव॒त्केभ्यः॑ ॥
मूलम्
नम॑ आमीव॒त्केभ्यः॑ ॥
सायण-टीका
आ समन्तान्मविन्ति स्थूलीभावं प्राप्नुवन्तीत्यामीवत्काः।
अत्र विक्षीणकविचिन्यत्कानिर्हतामीवत्केषु देवानाँ।
हृदयेभ्य इत्यनुषज्जते।
पञ्चमानुवाकमारभ्य नवमान्तेष्वनुवाकेष्वन्यरतोनमस्काराणि बहूनि यजूंष्यभिहितानि।
तैः सर्वैः परमेश्वरस्य सार्वात्म्यं प्रतिपादयितुमेकैकेन यजुषा स्थावरं जङ्गमं चैककं रूपमभिहितम्।
अनुवाकभेदस्तु क्रतोर्बहिः प्रयोगे मन्त्रभेदाभिप्रायेण द्रष्टव्यः।
एकैकाऽनुवाक एकैको मन्त्रः।
तत्र तस्य पुरश्चरणादिप्रकारस्तु रुद्रकल्पेऽभिधास्यते॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९॥
चतुर्थाष्टके पञ्चमप्रपाठके दशमोऽनुवाकः