सायण-टीका
(अथ चतुर्थकाण्डे पञ्चमप्रपाठकेऽष्टमोऽनुवाकः)।
सप्तमोऽनुवाके यान्यन्यतरतोनमस्काराणि यजूंष्युक्तानि तेभ्योऽन्यानि कानिचिदन्यतरतोनमस्काराण्यष्टमेऽनुवाके कथ्यन्ते।
तत्र विद्यमानानि सप्तदश यजूंष्याह—
नम॒स्सोमा॑य च रु॒द्राय॑ च॒
नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒
नम॑श्श॒ङ्गाय॑ च पशु॒पत॑ये च॒
नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒
नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒
नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः॒
नम॑स्ता॒राय॒
नम॑श्श॒म्भवे॑ च मयो॒भवे॑ च॒
नम॑श्शङ्क॒राय॑ च मयस्क॒राय॑ च॒
नम॑श्शि॒वाय॑ च शि॒वत॑राय च [17]
नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒
नमᳶ॑ पा॒र्या॑य चावा॒र्या॑य च॒
नमᳶ॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒
नम॑ आता॒र्या॑य चाला॒द्या॑य च॒
नम॒श्शष्प्या॑य च॒ फेन्या॑य च॒
नम॑स्सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥ [18]
नमः सोमाय चेति। उमया सह वर्तत इति सोमः। रुद्रोद्रनहेतुर्दुःखं तद्ब्रावयति विनाशयतीति रुद्रः। आदित्यरूपेणोदयकालेऽत्यन्तं रक्तस्ताम्नः। उदयादूर्ध्वमपिद्रक्तोऽरुणः। शं सुखं गमयति प्रापयतीति शंगः पशूनां पालयिता पशुपतिः। विरोधिनो नाशयितुं क्रोधयुक्त उग्रः। दर्शनमात्रेण विरोधिनां भयहेतुर्भीमः। अग्रे पुरतो वधोऽस्येत्यग्रेवधः। एवं दूरेवधः। पुरतो दूरे वा वर्तमानं विरोधिनमना-यासेनैव हन्तीत्यर्थः। लोकेऽपि यो यत्र विरोधिनं हन्ति तत्र तद्रूपेणायमेव हन्ता। अत एवेश्वरेणार्जुनं प्रत्युक्तम्—
‘मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्, इति।
संहारकालेऽतिशयेन च सर्वेषां हन्ता हनीयान्। हरितवर्णानि केशसदृशानि षर्णानि येषां ते हरिकेशास्तथाविधा ये वृक्षाः कल्पतरुप्रभृतयस्तद्रूपोऽयं रुद्र इत्यर्थः। तारः प्रणवप्रतिपाद्यः। शं सुखं भावयत्युत्पादयतीति शंभुः। मयः सुखं भावयतीति मयोभूः। एकं विषयसुखमपरं मोक्षसुखमिति तयोर्विवेकः । पित्रादिरूपेण शं लौकिक-सुखं करोतीति शंकरः। आचार्यशास्त्रादिरूपेण मोक्षसुखं करोतीति मयस्करः। साक्षात्सुखकारित्वमेताभ्यां पदाभ्यामुक्तमतेन्मुखेन कारयितृत्वं पूर्वाभ्यां पदाभ्यामिति विवेकः। शिव कल्याणरूपः स्वयं निष्कल्मष इत्यर्थः। अतिशयेन शिवः शिवतरः स्वभक्तानपि निष्कल्मषान्करोती त्यर्थः। तीर्थे प्रयागादौ संनिहितस्तीर्थ्यः। कूले नदीतीरे प्रतिष्ठापितलिङ्गरूपेणावतिष्ठत इति कूल्यः। पारे संसारसमुद्रस्य परतीरे मुमुक्षुभिर्ध्येयत्वेनावति-
[[2131]]
ष्ठत इत्यवार्यः। प्रकृष्टेन मन्त्रजपादिरूपेण पापतरणहेतुः प्रतरणः। तत्त्वज्ञानरूपेण कृत्स्नसंसारोत्तरणहेतुरुत्तरणः। संभवत्यपि संसारोत्तरणहेतौ तत्त्वज्ञाने तदुपेक्ष्य काम्य-कर्मानुष्ठानेन संसारे पुनरागमनमातारस्तमर्हतीत्यातार्यः, काम्यफलप्रद इत्यर्थः। अलं संपूर्णं यथा भवति तथा कर्मफलमत्तीत्यलादो जीवः “तयोरन्यः पिप्पलं स्वाद्वत्ति” इति श्रुतेः। तस्य प्रेरकत्वेन तत्संबन्धित्वा दालद्यः। शष्पं वालतृणं गङ्गातीरादावुत्पन्नं कुशा-ङ्करादि तदर्हतीति शष्प्यः। नदमिध्यगतं फेनमर्हतीति फेन्यः। सिकतामर्हतीति सिकत्यः। प्रवाहमर्हतीति प्रवाह्यः। य पुरुषः श्रद्धालुः सन्स्नानादितत्परो निरन्तरं गङ्गादितीरे वर्तते तद्रूप इति शष्प्यादिशब्दानां चतुर्णां तात्पर्यर्थः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चम-
प्रपाठकेऽष्टमोऽनुवाकः ।। ८।।