विस्तारः (द्रष्टुं नोद्यम्)
अग्निर्ऋषिः
सायण-टीका
(अथ चतुर्थाष्टके पञ्चमप्रपाठके सप्तमोऽनुवाकः)।
षष्ठेऽनुवाकि यान्य् अन्यतरतोनमस्काराणि यजूंष्युक्तानि
तेभ्योऽन्यानि कानिचिद् यजूंषि सप्तमेऽभिधीयन्ते।
तत्र विद्यमानानि षोडश यजूंष्याह— नमो दुन्दुभ्यायेति।
मूलम् (संयुक्तम्)
नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑स्स्वायु॒धाय॑ च सु॒धन्व॑ने च॒ नम॒स्स्रुत्या॑य च॒ पथ्या॑य च॒ नम॑ᳵ का॒ट्या॑य च नी॒प्या॑य च॒ नम॒स्सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च [15] नम॒ᳵ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒ नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒ नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥ [16]
विश्वास-प्रस्तुतिः
नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य +++(शब्दाय)+++ च ।
मूलम्
नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च ।
सायण-टीका
दुन्दुभौ भेर्यां भवः शब्दो दुन्दुभ्यः।
आहन्यते ताड्यतेऽनेत्याहननं दुन्दुभ्याघातार्थो दण्डस्तत्र ताडनरूपेणोत्पन्न आहनन्यः।
विश्वास-प्रस्तुतिः
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च ।
मूलम्
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च ।
सायण-टीका
घृष्णुर्युद्धे पलायनरहितः।
प्रमृशः परसैन्यवृत्तान्तपरामर्षकः।
विश्वास-प्रस्तुतिः
नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च ।
मूलम्
नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च ।
सायण-टीका
दूतस्तद्वृत्तान्तज्ञापनकुशलः।
प्रहितः स्वामिना प्रेषितः पुरुषः।
विश्वास-प्रस्तुतिः
नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च ।
मूलम्
नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च ।
सायण-टीका
निषङ्गी खड्गयुक्तः।
इषुधि मान्बाणाधारयुक्तः।
विश्वास-प्रस्तुतिः
नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च ।
मूलम्
नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च ।
सायण-टीका
तीक्ष्णा इषवो यस्यासौ तीक्ष्णेषुः।
बहून्यायुधानि यस्य सन्तीत्यायुधी।
विश्वास-प्रस्तुतिः
नम॑स्स्वायु॒धाय॑ च सु॒धन्व॑ने च
मूलम्
नम॑स्स्वायु॒धाय॑ च सु॒धन्व॑ने च
सायण-टीका
शोभनमायुधं त्रिशूलरूपं यस्यासौ स्वायुधः।
शोभनं धन्वपिनाकरूपं यस्यासौ सुधन्वा।
विश्वास-प्रस्तुतिः
नम॒स्स्रुत्या॑य च॒ पथ्या॑य च ।
मूलम्
नम॒स्स्रुत्या॑य च॒ पथ्या॑य च ।
सायण-टीका
स्रुतिः पादसंचारमात्रयोग्यः क्षुद्रमार्गस्तमर्हतीति स्रुत्यः।
पन्या रथाश्वादिसंचारक्षमः प्रौढो मार्गस्तमर्हतीति पथ्यः।
विश्वास-प्रस्तुतिः
नम॑ᳵ का॒ऽट्या॑य च नी॒प्या॑य+++(←नीपः = जलपातस्थलम्)+++ च ।
मूलम्
नम॑ᳵ का॒ट्या॑य च नी॒प्या॑य च ।
सायण-टीका
कुत्सितम् अटति जलमत्रेति काटोऽल्पप्रवाहयोग्यः कुल्याप्रदेशस्तत्र जलरूपेण भवः काट्यः।
यस्मिंन्प्रदेशे पर्वताग्राज् जलं न्यग्भावेन पतति स प्रदेशो नीपस्तत्र जलरूपेणावस्थितो नीप्यः
विश्वास-प्रस्तुतिः
नम॒स् सूद्या॑य+++(←सूदः=कर्दम-प्रदेशः)+++ च सर॒स्या॑य च +++(जलाय)+++ ।
मूलम्
नम॒स् सूद्या॑य च सर॒स्या॑य च।
सायण-टीका
सूदः कर्दमप्रदेशस्तत्रत्यजलरूपः सूद्यः।
सरः प्रसिद्धं, तत्रत्य जलरूपः सरस्यः।
विश्वास-प्रस्तुतिः
नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ +++(←अल्पसरो वेशन्तः)+++ च +++(जलाय)+++
मूलम्
नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च
सायण-टीका
नदीगतजलरूपो नाद्यः।
अल्पसरो वेशन्तस् तत्रत्यजलरूपो वैशन्तः।
विश्वास-प्रस्तुतिः
नम॒ᳵ कूप्या॑य चाव॒ट्या॑य च ।
मूलम्
नम॒ᳵ कूप्या॑य चाव॒ट्या॑य च ।
सायण-टीका
कूपस्थजलरूपः कूप्यः।
अवटस्थजलरूपोऽवट्यः।
विश्वास-प्रस्तुतिः
नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।
मूलम्
नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।
सायण-टीका
वर्षजलरूपो वर्ष्यः।
वर्षनिरपेक्षजलरूपोऽवर्ष्यः।
विश्वास-प्रस्तुतिः
नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च ।
मूलम्
नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च ।
सायण-टीका
मेघेषु स्थितो मेघ्यः ।
विद्युता सह चरतीति विद्युत्यः।
विश्वास-प्रस्तुतिः
नम॑ ई॒ध्रिया॑य+++(←इध्)+++ चात॒प्या॑य च ।
मूलम्
नम॑ ई॒ध्रिया॑य चात॒प्या॑य च ।
सायण-टीका
ईध्रं निर्मलत्वेन दीप्यमानं शरदभ्रं तत्र भव ईध्रियः।
आतपेन सह दृष्ट आतप्यः।
विश्वास-प्रस्तुतिः
नमो॒ वात्या॑य च॒ रेष्मि॑याय+++(←रिष्)+++ च
मूलम्
नमो॒ वात्या॑य च॒ रेष्मि॑याय च
सायण-टीका
वातेन सह वृष्टो वात्यः।
रिष्यन्ति विनश्यन्ति भूतान्यत्रेति रेष्मः प्रलयकालस्तत्र भवः शर्करापाषाणादिसहितो वृष्टिजलविशेषो रेष्मियः।
विश्वास-प्रस्तुतिः
नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ।
मूलम्
नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ।
सायण-टीका
वस्तु धनं(न)गवाश्वदिपदार्थरूपं तत्र तत्कार्यरूपेण वा स्थितो वास्तव्यः।
गृहनिर्माणार्था भूमिर्वास्तु तत्पालको वास्तुपः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः॥ ७ ॥