०६ नमो ज्येष्ठाय

अग्निर्ऋषिः

मूलम् (संयुक्तम्)

नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमᳶ॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒ नम॑स्सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒ नम॒श्श्लोक्या॑य चावसा॒न्या॑य च॒ नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑श्श्र॒वाय॑ च प्रतिश्र॒वाय॑ च [13] नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नम॒श्शूरा॑य चावभिन्द॒ते च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नम॑श्श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥ [14]

मूलम् (संयुक्तम्)

नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च ।

सायण-टीका

(अथ चतुर्थाष्ठके पञ्चमप्रपाठके षष्ठोऽनुवाकः)।
पञ्चमेऽनुवाके कानिचिदन्यतरतोनमस्काराणि यजूंष्युक्तानि।
अथ षष्ठे तथाविधान्येवान्यानि कानिचिद्यजूंष्युच्यन्ते।
तत्र विद्यमानानि पञ्चदश यजूंष्याह— नमो ज्येष्ठाय इति।

विश्वास-प्रस्तुतिः

नमो॑ ज्ये॒ष्ठाय॑ च

मूलम्

नमो॑ ज्ये॒ष्ठाय॑ च

सायण-टीका

विद्यैश्वर्यादिभिरधिको ज्येष्ठः।

विश्वास-प्रस्तुतिः

क॒नि॒ष्ठाय॑ च +++(नमः)+++।

मूलम्

क॒नि॒ष्ठाय॑ च +++(नमः)+++।

सायण-टीका

तै रहितोऽल्पः कनिष्ठः।

मूलम् (संयुक्तम्)

नमᳶ॑ पूर्व॒जाय॑ चापर॒जाय॑ च

विश्वास-प्रस्तुतिः

नमᳶ॑ पूर्व॒जाय॑ च

मूलम्

नमᳶ॑ पूर्व॒जाय॑ च

सायण-टीका

पूर्वं जगदादौ हिरण्यगर्भरूपेणोत्पन्नः पूर्वजः।

विश्वास-प्रस्तुतिः

अ॒प॒र॒जाय॑ च +++(नमः)+++।

मूलम्

अ॒प॒र॒जाय॑ च +++(नमः)+++।

सायण-टीका

अपरस्मिञ्जगदवसानकाले सहर्तुं कालाग्न्यादिरूपेणोत्पन्नोऽपरजः।

मूलम् (संयुक्तम्)

नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च ।

विश्वास-प्रस्तुतिः

नमो॑ मध्य॒माय॑ च

मूलम्

नमो॑ मध्य॒माय॑ च

सायण-टीका

मध्यकाले देवतिर्यगादिरूपेणोत्पन्नो मध्यमः ।

विश्वास-प्रस्तुतिः

अ॒प॒ग॒ल्भाय॑ च +++(नमः)+++।

मूलम्

अ॒प॒ग॒ल्भाय॑ च +++(नमः)+++।

सायण-टीका

अपगल्मोऽपरूढेन्द्गियो बालः।

मूलम् (संयुक्तम्)

नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च

विश्वास-प्रस्तुतिः

नमो॑ जघ॒न्या॑य च

मूलम्

नमो॑ जघ॒न्या॑य च

सायण-टीका

जघने गवादीनां पश्चाद्भागे वत्सादिरूपेण भवो जघन्यः।

विश्वास-प्रस्तुतिः

बुध्नि॑याय च +++(नमः)+++।

मूलम्

बुध्नि॑याय च +++(नमः)+++।

सायण-टीका

बुघ्ने वृक्षादीनां मूले शाखादिरूपेणोत्पन्नो बुघ्नियः।

मूलम् (संयुक्तम्)

नम॑स्सो॒भ्या॑य च प्रतिस॒र्या॑य च

विश्वास-प्रस्तुतिः

नम॑स्सो॒भ्या॑य च

मूलम्

नम॑स्सो॒भ्या॑य च

सायण-टीका

उभाम्यां पुण्यपापाभ्यां सह वर्तत इति सोमो मनुष्यलोकः।
अत एवाऽऽथर्वणिका आमनन्ति “पुण्येन पुण्यं लोकं जयति पापेन पापमुभाभ्यामेव मनुष्य लोकम्’ इति।
तत्र भवः सोभ्यः।

विश्वास-प्रस्तुतिः

प्र॒ति॒सर्या॑य च +++(नमः)+++।

मूलम्

प्र॒ति॒सर्या॑य च +++(नमः)+++।

सायण-टीका

प्रतिसरो विवाहादौ हस्ते धार्यमाणो रक्षा बन्धस्तमर्हतीति प्रतिसर्यः।

मूलम् (संयुक्तम्)

नमो॒ याम्या॑य च॒ क्षेम्या॑य च

विश्वास-प्रस्तुतिः

नमो॒ याम्या॑य च

मूलम्

नमो॒ याम्या॑य च

सायण-टीका

यमलोके पापिशिक्षकरूपेणोत्पन्नो याम्यः।

विश्वास-प्रस्तुतिः

क्षेम्या॑य च +++(नमः)+++।

मूलम्

क्षेम्या॑य च +++(नमः)+++।

सायण-टीका

क्षेमो
२१२७ मोक्षस्तमर्हतीति क्षेम्यः।

मूलम् (संयुक्तम्)

नम॑ उर्व॒र्या॑य च॒ खल्या॑य च

विश्वास-प्रस्तुतिः

नम॑ उर्व॒र्या॑य च

मूलम्

नम॑ उर्व॒र्या॑य च

सायण-टीका

उर्वरा सर्वसस्याढ्या भूमिस्तामर्हसि धान्यविशेषरूपेणे त्युर्वर्यः।

विश्वास-प्रस्तुतिः

खल्या॑य च +++(नमः)+++।

मूलम्

खल्या॑य च +++(नमः)+++।

सायण-टीका

खला धान्यविवेचनदेशस्तमर्हसि मेढ्यादिरूदेणेति खेल्यः।

मूलम् (संयुक्तम्)

नम॒श्श्लोक्या॑य चावसा॒न्या॑य च

विश्वास-प्रस्तुतिः

नम॒श्श्लोक्या॑य च

मूलम्

नम॒श्श्लोक्या॑य च

सायण-टीका

श्लोका वैदिकमन्त्रास्तत्प्रतिपाद्यत्वेन तत्र भवः श्लोक्यः।

विश्वास-प्रस्तुतिः

अ॒व॒सा॒न्या॑य च +++(नमः)+++।

मूलम्

अ॒व॒सा॒न्या॑य च +++(नमः)+++।

सायण-टीका

अवसानं वेदान्तस्तत्प्रतिपाद्यत्वेन तत्र भवोऽवसान्यः।

मूलम् (संयुक्तम्)

नमो॒ वन्या॑य च॒ कक्ष्या॑य च

सायण-टीका

नमो॒ वन्या॑य च

सायण-टीका

वने वृक्षादिरूपेण भवो वन्यः।

विश्वास-प्रस्तुतिः

कक्ष्या॑य च +++(नमः)+++।

मूलम्

कक्ष्या॑य च +++(नमः)+++।

सायण-टीका

कक्षे लतादिरूपेण भवः कक्ष्यः।

मूलम् (संयुक्तम्)

नम॑श्श्र॒वाय॑ च प्रतिश्र॒वाय॑ च [13]

विश्वास-प्रस्तुतिः

नम॑श्श्र॒वाय॑ च

मूलम्

नम॑श्श्र॒वाय॑ च

सायण-टीका

श्रूयत इति श्रवः शब्दः।

विश्वास-प्रस्तुतिः

प्र॒ति॒श्र॒वाय॑ च +++(नमः)+++।

मूलम्

प्र॒ति॒श्र॒वाय॑ च +++(नमः)+++।

सायण-टीका

प्रतिश्रवः प्रतिध्वनिः।

मूलम् (संयुक्तम्)

नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च

विश्वास-प्रस्तुतिः

नम॑ आ॒शुषे॑णाय च

मूलम्

नम॑ आ॒शुषे॑णाय च

सायण-टीका

आशुः शीघ्रं गामिनी सेना यस्यासावाशुषेणः।

विश्वास-प्रस्तुतिः

आ॒शुर॑थाय च+++(नमः)+++।

मूलम्

आ॒शुर॑थाय च+++(नमः)+++।

सायण-टीका

आशुः शीघ्रगामी रथो यस्यासावाशुरथः।

मूलम् (संयुक्तम्)

नम॒श्शूरा॑य चावभिन्द॒ते च

विश्वास-प्रस्तुतिः

नम॒श्शूरा॑य च

मूलम्

नम॒श्शूरा॑य च

सायण-टीका

शूरो युद्धे धैर्यवान्।

विश्वास-प्रस्तुतिः

अ॒व॒भि॒न्द॒ते च +++(नमः)+++।

मूलम्

अ॒व॒भि॒न्द॒ते च +++(नमः)+++।

सायण-टीका

अवभिन्दन्वैरिणां प्रहर्ता।

मूलम् (संयुक्तम्)

नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च ।

विश्वास-प्रस्तुतिः

नमो॑ व॒र्मिणे॑ च

मूलम्

नमो॑ व॒र्मिणे॑ च

सायण-टीका

वर्मी कञ्चुकोपेतः।

विश्वास-प्रस्तुतिः

व॒रू॒थिने॑ च +++(नमः)+++।

मूलम्

व॒रू॒थिने॑ च +++(नमः)+++।

सायण-टीका

वरूथी गृहोपेतः।

मूलम् (संयुक्तम्)

नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च ।

विश्वास-प्रस्तुतिः

नमो॑ बि॒ल्मिने॑ च

मूलम्

नमो॑ बि॒ल्मिने॑ च

सायण-टीका

बिल्मं विलेपेतं युद्धे शिरोरक्षकं तदस्यास्तीति बिल्मी।

विश्वास-प्रस्तुतिः

क॒व॒चिने॑ च +++(नमः)+++।

मूलम्

क॒व॒चिने॑ च +++(नमः)+++।

सायण-टीका

कवचः शरीररक्षकः सोऽस्यास्तीति कवची।

मूलम् (संयुक्तम्)

नम॑श्श्रु॒ताय॑ च श्रुतसे॒नाय॑ च

विश्वास-प्रस्तुतिः

नम॑श्श्रु॒ताय॑ च

मूलम्

नम॑श्श्रु॒ताय॑ च

सायण-टीका

श्रुतो वेदेषु प्रसिद्धः।

विश्वास-प्रस्तुतिः

श्रु॒त॒से॒नाय॑ च +++(नमः)+++॥

मूलम्

श्रु॒त॒से॒नाय॑ च +++(नमः)+++॥

सायण-टीका

श्रुता वेदेषु प्रसिद्धा सेना यस्यासै श्रुतसेनः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः ॥ ६॥

चतुर्थाष्टके पञ्चमप्रपाठके सप्तमोऽनुवाकः