०५ नमो भवाय

अग्निर्ऋषिः

मूलम् (संयुक्तम्)

नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑श्श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒ नम॑ᳵ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नम॑स्सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒ नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च सव्ँ॒वृध्व॑ने च [11]नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒श्शीघ्रि॑याय च॒ शीभ्या॑य च॒ नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒ नम॑स्स्रोत॒स्या॑य च॒ द्वीप्या॑य च ॥ [12]

मूलम् (संयुक्तम्)

नमो॑ भ॒वाय॑ च रु॒द्राय॑ च ।

विश्वास-प्रस्तुतिः

नमो॑ भ॒वाय॑ च

मूलम्

नमो॑ भ॒वाय॑ च

सायण-टीका

२१२४ (अथ चतुर्थकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः)।
चतुर्थेऽनुवाक उभयतोनमस्काराणि यजूंषि समापितानि । अथ पञ्चममारभ्य नववान्तेष्वनुवाके नमस्कारोपक्रमाण्येव यजूंष्याम्नायन्ते।
तत्र पञ्चमानुवाके प्रथमं यजुरारभ्य पञ्चदश यजूंष्याह— नमो भवाय चेति।
भवन्ति प्राणिनोऽस्मादिति भवः।

विश्वास-प्रस्तुतिः

रु॒द्राय॑ च +++(नमः)+++।

मूलम्

रु॒द्राय॑ च +++(नमः)+++।

सायण-टीका

रुद्रोदनहेतुभूतं दुःखं द्रावयतीति रुद्रः।

मूलम् (संयुक्तम्)

नम॑श्श॒र्वाय॑ च पशु॒पत॑ये च ।

विश्वास-प्रस्तुतिः

नम॑श्श॒र्वाय॑ च।

मूलम्

नम॑श्श॒र्वाय॑ च।

सायण-टीका

शृणाति हिनस्ति पापमिति शर्वः।

विश्वास-प्रस्तुतिः

प॒शु॒पत॑ये च +++(नमः)+++

मूलम्

प॒शु॒पत॑ये च +++(नमः)+++

सायण-टीका

पशुसमानानज्ञा २१२५ निनः पुरुषान्पालयतीति पशुपतिः।

मूलम् (संयुक्तम्)

नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।

विश्वास-प्रस्तुतिः

नमो॒ नील॑ग्रीवाय च

मूलम्

नमो॒ नील॑ग्रीवाय च

सायण-टीका

कालकूटधारणेन नीलवर्णो ग्रीवैकदेशो यस्यासौ नीलग्रीवः।

विश्वास-प्रस्तुतिः

शि॒ति॒कण्ठा॑य च +++(नमः)+++।

मूलम्

शि॒ति॒कण्ठा॑य च +++(नमः)+++।

सायण-टीका

शितिः श्वेतवर्णोऽवशिष्टः कण्ठप्रदेशो यस्यासौ शितिकण्ठः।

मूलम् (संयुक्तम्)

नम॑ᳵ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च ।

विश्वास-प्रस्तुतिः

नम॑ᳵ कप॒र्दिने॑ च

मूलम्

नम॑ᳵ कप॒र्दिने॑ च

सायण-टीका

कपर्दो जटाजूटो यस्यास्तीति कपर्दी।

विश्वास-प्रस्तुतिः

व्यु॑प्तकेशाय च +++(नमः)+++।

मूलम्

व्यु॑प्तकेशाय च +++(नमः)+++।

सायण-टीका

मुण्डितकेशो व्युप्ककेशः।
पाशुपतादिवेषेण कपर्दित्वम्।
यत्यादिवेषेण मुण्डितकेशत्वम्।

मूलम् (संयुक्तम्)

नम॑स्सहस्रा॒क्षाय॑ च श॒तध॑न्वने च ।

विश्वास-प्रस्तुतिः

नम॑स्सहस्रा॒क्षाय॑ च ..

मूलम्

नम॑स्सहस्रा॒क्षाय॑ च ..

सायण-टीका

इन्द्रवेषेण सहस्राक्षत्बम्।

विश्वास-प्रस्तुतिः

श॒तध॑न्वने च +++(नमः)+++।

मूलम्

श॒तध॑न्वने च +++(नमः)+++।

सायण-टीका

सहस्रभुजावतारित्वेन शतसंख्याकैर्धनुर्निरुपेतत्वम्।

विश्वास-प्रस्तुतिः

नमो॑ गिरि॒शाय च

मूलम्

नमो॑ गिरि॒शाय च

सायण-टीका

गिरौ कैलासे शेते तिष्ठतीति गिरिशः।

विश्वास-प्रस्तुतिः

शि॒पि॒वि॒ष्टाय॑ च +++(नमः)+++।

मूलम्

शि॒पि॒वि॒ष्टाय॑ च +++(नमः)+++।

सायण-टीका

विष्णुमूर्तिधारी शिपिविष्टः।
“विष्णुः शिपिविष्टः” इति श्रुतेः।

मूलम् (संयुक्तम्)

नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च +++(नमः)+++।

विश्वास-प्रस्तुतिः

नमो॑ मी॒ढुष्ट॑माय॒ च

मूलम्

नमो॑ मी॒ढुष्ट॑माय॒ च

सायण-टीका

मेघरूपेणात्यन्तं वर्षयिता भीढुष्टमः।

विश्वास-प्रस्तुतिः

इषु॑मते च +++(नमः)+++।

मूलम्

इषु॑मते च +++(नमः)+++।

सायण-टीका

बाणधारक इषुमान्।

विश्वास-प्रस्तुतिः

नमो॑ ह्र॒स्वाय॑ च

मूलम्

नमो॑ ह्र॒स्वाय॑ च

सायण-टीका

शरीरेऽल्पप्रमाणत्वं ह्रस्वत्वम्।

विश्वास-प्रस्तुतिः

वा॒म॒नाय॑ च +++(नमः)+++।

मूलम्

वा॒म॒नाय॑ च +++(नमः)+++।

सायण-टीका

अङ्गुल्याद्यवयवयसंकोचाद्वामनत्वम्।

मूलम् (संयुक्तम्)

नमो॑ बृह॒ते च॒ वर्षी॑यसे च ।

विश्वास-प्रस्तुतिः

नमो॑ बृह॒ते च

मूलम्

नमो॑ बृह॒ते च

सायण-टीका

आकारेण प्रौढो बृहन्।

विश्वास-प्रस्तुतिः

वर्षी॑यसे च +++(नमः)+++।

मूलम्

वर्षी॑यसे च +++(नमः)+++।

सायण-टीका

गुणैः सगृद्धो वर्षीयान्।

मूलम् (संयुक्तम्)

नमो॑ वृ॒द्धाय॑ च सव्ँ॒वृध्व॑ने च ।

विश्वास-प्रस्तुतिः

नमो॑ वृ॒द्धाय॑ च

मूलम्

नमो॑ वृ॒द्धाय॑ च

सायण-टीका

वयसाऽधिको वृद्धः।

विश्वास-प्रस्तुतिः

सव्ँ॒वृध्व॑ने च +++(नमः)+++।

मूलम्

सव्ँ॒वृध्व॑ने च +++(नमः)+++।

सायण-टीका

सन्यक्स्तृतिभिर्वर्धितः संवृध्वा।

मूलम् (संयुक्तम्)

नमो॒ अग्रि॑याय च प्रथ॒माय॑ च ।

विश्वास-प्रस्तुतिः

नमो॒ अग्रि॑याय च

मूलम्

नमो॒ अग्रि॑याय च

सायण-टीका

जगदुत्पत्तेः पूर्वमवस्थितोऽग्रियः।

विश्वास-प्रस्तुतिः

प्र॒थ॒माय॑ च +++(नमः)+++।

मूलम्

प्र॒थ॒माय॑ च +++(नमः)+++।

सायण-टीका

सभायां मुख्यः प्रथमः।

मूलम् (संयुक्तम्)

नम॑ आ॒शवे॑ चाजि॒राय॑ च ।

विश्वास-प्रस्तुतिः

नम॑ आ॒शवे॑ च

मूलम्

नम॑ आ॒शवे॑ च

सायण-टीका

आशर्व्यापी।

विश्वास-प्रस्तुतिः

अ॒जि॒राय॑ च +++(नमः)+++।

मूलम्

अ॒जि॒राय॑ च +++(नमः)+++।

सायण-टीका

अजिरो गमनकुशलः।

मूलम् (संयुक्तम्)

नम॒श्शीघ्रि॑याय च॒ शीभ्या॑य च ।

विश्वास-प्रस्तुतिः

नम॒श्शीघ्रि॑याय च

मूलम्

नम॒श्शीघ्रि॑याय च

सायण-टीका

शीघ्रियः शीघ्रगामी।

विश्वास-प्रस्तुतिः

शीभ्या॑य च +++(नमः)+++।

मूलम्

शीभ्या॑य च +++(नमः)+++।

सायण-टीका

शीमशब्द उदकप्रवाहवाची, तत्रोवस्थितः शीभ्यः।

मूलम् (संयुक्तम्)

नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च ।

विश्वास-प्रस्तुतिः

नम॑ ऊ॒र्म्या॑य च

मूलम्

नम॑ ऊ॒र्म्या॑य च

सायण-टीका

ऊर्मौ तरङ्गे स्थित ऊर्म्यः।

विश्वास-प्रस्तुतिः

अ॒व॒स्व॒न्या॑य च +++(नमः)+++।

मूलम्

अ॒व॒स्व॒न्या॑य च +++(नमः)+++।

सायण-टीका

अवस्वने ध्वनिरहिते स्थिरजलेऽवस्थितोऽवस्वन्यः।

मूलम् (संयुक्तम्)

नम॑स्स्रोत॒स्या॑य च॒ द्वीप्या॑य च ॥

विश्वास-प्रस्तुतिः

नम॑स्स्रोत॒स्या॑य च

मूलम्

नम॑स्स्रोत॒स्या॑य च

सायण-टीका

स्त्रोतसि प्रवाहे स्थितः स्रो तस्यः।

विश्वास-प्रस्तुतिः

द्वीप्या॑य च +++(नमः)+++।

मूलम्

द्वीप्या॑य च +++(नमः)+++।

सायण-टीका

द्वीपे वारिमध्यवर्तिभूमौ स्थितो द्वीप्य।
अत्रैकैकस्मिन्यजुषि चतुर्थ्यन्ताभ्यां पदाभ्यां नमःशब्दं पृथगन्वेतुं समुच्चयार्थौ चकारौ पठितौ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ चतुर्थकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः