विश्वास-टिप्पनी
निषङ्गिणी।
सायण-टीका
द्वितीयानुवाक उभयतोनमस्काराणि कानिचिद्यजूंष्य् उक्तानि ।
अथावरणि तथाविधान्येव तृतीयेऽस्पष्टार्थानि द्वादश यजूंष्य् उच्यन्ते ।
विश्वास-प्रस्तुतिः
नमः॒ सह॑मानाय निव्या॒धिन॑
आव्या॒धिनी॑नां॒ पत॑ये॒ नमः॑
मूलम्
नमः॒ सह॑मानाय निव्या॒धिन॑
आव्या॒धिनी॑नां॒ पत॑ये॒ नमः॑
भट्टभास्कर-टीका
तत्र प्रथमं यजुराह- नमः सहमानायेति । सहमानो विरोधिनोऽभिभवन् । नितरां विरोधिनो
विध्यतीति निव्याधी, तादृशाय रुद्राय नमः ।
आ समन्ताद्दिष्यन्तीत्य् आव्याधिन्यः शूराः सेनास्तासां पालकाय नमः ।
विश्वास-प्रस्तुतिः
नमः॑ ककु॒भाय॑+++(=महते)+++ निष॒ङ्गिणे॑
स्ते॒नानां॒ पत॑ये॒ नमः॑
मूलम्
नमः॑ ककु॒भाय॑ निष॒ङ्गिणे॑
स्ते॒नानां॒ पत॑ये॒ नमः॑
सायण-टीका
अथ द्वितीयं यजुराह-
नमः ककृभायेति।
ककुभाय ककुभ-सदृशाय प्रधानभूतायेत्यर्थः।
निषङ्गी खष्ट्गहस्तस्तस्मै नमः।
स्तेना गुप्तचोरास्तेषां पालकाय नमः।
रुद्रो हि लीलया नट इव तत्तद्वेषं धत्ते।
यद्वा तस्य सर्वजगदात्मकत्वाद्ये यत्र यथा वर्तन्ते तत्र तथारूपेण रुद्रो वर्तत इति रुद्रस्य सार्वात्म्यमनुसंधातुं मन्त्रेरेवमुच्यते।
स्तेनादिशरीरेषु रुद्रो द्वेधा वर्तते जीवरूपेणेश्वररूपेण च।
तत्र च यज्जीवरूपं तत्स्तेनादिशब्दानां वाच्योऽर्थः।
स एव शास्त्रेषु निन्द्यः।
यत्त्वीश्वररूपं तत्स्ते नादिशब्दैरुपलक्ष्यते।
तदनुसंधानं तु पापक्षय-हेतुत्वेन परमपुरुषार्थ इति लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुज्यन्त इति द्रष्टव्बम्।
उपलक्षकवाच्यार्थद्वारेण लक्ष्यार्थो मुग्धैरपि सहसा सम्यग्बोद्धुं शक्यते।
यथा शाखाग्रे चन्द्र इत्यत्र।
तस्माल्लक्ष्यार्थस्यैव विवक्षायामपि सुखावबोधद्वारत्वेन मुख्यार्थवाचकाः शब्दाः प्रयोक्तव्याः
विश्वास-प्रस्तुतिः
नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒
तस्क॑राणां॒ पत॑ये॒ नमः॑
मूलम्
नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमः॑
सायण-टीका
अथ तृतीयं यजुराह— नमो निषङ्गिण इति।
धनुषि संधातुं हस्ते घृतो बाणो निषर्ङ्गः।
पृष्ठे वद्धो बाणाधार इषुधिः तदुभययुक्ताय नमः।
तस्काराः प्रकटचोरास्तेषां पालकाय नमः।
[[2119]]
विश्वास-प्रस्तुतिः
नमो॑ वञ्च॑ते परि॒वञ्च॑ते
स्तायू॒नां+++(←स्तै वेष्टने)+++ पत॑ये॒ नमः॑
मूलम्
नमो॑ वञ्च॑ते परि॒वञ्च॑ते
स्तायू॒नां पत॑ये॒ नमः॑
भट्टभास्कर-टीका
अथ चतुर्थं यजुराह— नमो वञ्चत इति।
स्वामिन आप्तो भूत्वा तदीय-क्रय-विक्रयादि-व्यवहारेषु
यत्र क्वापि यत्-किंचित्-तद्द्रव्यापह्नवो वञ्चनम्।
सर्वेष्वपि व्यवहरिष्वपह्नवः परिवञ्चनं, तदुभयरूपाय नमः।
गुप्तचोरा द्विविधाः-
दूराद् आगत्य रात्राव् अज्ञाताः सन्तः
कपाटोद्घाटनेन ये द्रव्यापहर्तारस्ते स्तेनाः।
स्वकीया एव भूत्वा
रात्राव् अह्नि वाऽन्यैर् अज्ञाताः सन्तो
ऽपहर्तारो ये ते स्तायव।
तेषां स्तायूनां पालकाय नमः।
विश्वास-प्रस्तुतिः
नमो॑ निचे॒रवे॑+++(←चर्)+++ परिच॒रायार॑ण्यानां॒ पतये॒ नमः॑
मूलम्
नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पतये॒ नमः॑
सायण-टीका
अथ पञ्चमं यजुराह— नमो निचेरव इति।
स्वामिगृह एव कदाऽपहरिष्यामीत्यनया बुद्ध्या
सावधानो निरन्तरं चरणशीलो
निचेरुः परित आपणवीथिप्रवाटिकादावपहारबुद्ध्या चरणशीलः परिचरस्तदुभयरूपाय नमः।
मार्गे गन्तुर्द्रव्यापहारेण बाधितृ निरन्तरमरण्ये वर्तमानाश्चोरा अरण्यास्तेषां पालकायनमः।
विश्वास-प्रस्तुतिः
नम॑ सृका॒विभ्यो॒+++(←सृक=बाणः)+++ जिघाँ॑सद्भ्यो
मुष्ण॒तां पत॑ये॒ नमः॑
मूलम्
नम॑ सृका॒विभ्यो॒ जिघाँ॑सद्भ्यो
मुष्ण॒तां पत॑ये॒ नमः॑
सायण-टीका
अथ षष्ठं यजुराह— २१२१
नमः सृकाविभ्य इति।
सृकशब्दो वज्रवाची।
तेन स्वशररिमवन्ति रक्षन्तीति सृकाविनः, प्राणिनो हन्तुमिच्छन्तश्चोरा जिघांसन्तस्तदुभयरूपाय नमः।
कृषिकाः सन्तः स्वामिघान्यानामपहर्तारो मुष्णन्तस्तेषां पालकाय नमः।
विश्वास-प्रस्तुतिः
नमो॑ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यः
प्रकृ॒न्तानां॒ पत॑ये॒ नमः॑
मूलम्
नमो॑ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यः
प्रकृ॒न्तानां॒ पत॑ये॒ नमः॑
सायण-टीका
अथ सप्तमं यजुराह— नमोऽसिमद्भ्य इति।
असिमन्तः खड्गधारिणश्चोराः।
ये रात्रौ चरन्तो वीथ्यां निर्गतान्प्राणिनो वाधमानाश्चोरास्ते नक्तं चरन्तः।
तदुभयरूपाय नमः।
हत्वैवापहरन्तः प्रकृन्तास्तेषां पालकाय नमः।
विश्वास-प्रस्तुतिः
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑
कु-लु॒ञ्चानां॒ पत॑ये॒ नमः॑
मूलम्
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑
कु-लु॒ञ्चानां॒ पत॑ये॒ नमः॑
सायण-टीका
अथाष्टमं यजुराह— नम उष्णीषिण इति।
शिरोवेष्टनवानुष्णीषी।
ग्राम्यजनवदुष्णीषेण शिरो वेष्टयित्वा तन्मध्ये प्रविश्य वर्तमानश्चोर उष्णीषी, गिरौ काष्ठादिसंपादकानां वस्त्रादिकम-पहर्तुं चरतीति गिरिचरस्तदुभयरूपाय नमः।
कुं भूमिं गृहक्षेत्रादिरूषां लुञ्चन्त्य् अपहरन्तीति कुलुञ्चास् तेषां पालकाय नमः।
विश्वास-प्रस्तुतिः
नमः॒ इषु॑मद्भ्यो
धन्वा॒विभ्य॑श् च वो॒ नमः॑
मूलम्
नमः॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमः॑
सायण-टीका
अथ नवमं यजुराह– नम इषुमद्भ्य इति।
भीषयितुं हस्ते बाणधारिण इषुमन्तः।
तथा भीषयितुं हस्ते धनुर्धारिणो धन्वाविनः।
तदुभयरूपा हे रुद्रा वो युष्मभ्यं नम इति विशेषणद्वयेन वाक्यं भेत्तुं द्विर्नमस्कारः।
विश्वास-प्रस्तुतिः
नम॑ आतन्वा॒नेभ्यः॑
प्रति॒दधा॑नेभ्यश्च नमः॑
मूलम्
नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च नमः॑
सायण-टीका
अथ दशमं यजुराह— नम आतन्वानेभ्य इति।
धनुषि ज्यामारोपयन्त आतन्वानास्तद्रूपेभ्यो युष्मभ्यं रुद्रेभ्यो नमः।
धनुषि बाणं संदधानाः प्रतिदधानास्तद्रूपेभ्यो बुष्मभ्यं नमः।
विश्वास-प्रस्तुतिः
नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जड्भ्य॑श्च वो॒ नमः॑
मूलम्
नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जड्भ्य॑श्च वो॒ नमः॑
सायण-टीका
अथैकादशं यजुराह— नम आयच्छद्भ्य इति।
ज्याकर्षणं कुर्वन्त आयच्छन्तो वाणं मुञ्चन्तो विसृजन्तः।
शेषं पूर्वद्व्याख्येयम्।
विश्वास-प्रस्तुतिः
नमोऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमः॑
मूलम्
नमोऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमः॑
सायण-टीका
अथ द्वादशं यजुराह— नमोऽस्यद्भ्य इति।
मुक्तस्य बाणस्य लक्ष्यपर्यन्तं नमनमसनं तरय कर्ता-रोऽस्यन्तः।
लक्ष्यसमीपं गतस्य बाणस्य लक्ष्ये प्रवेशो वेधस्तस्य कर्तारो विध्यन्तः।
विश्वास-प्रस्तुतिः
नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमः॑
मूलम्
नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमः॑
सायण-टीका
अथ त्रयोदशयजुरारभ्य सप्तदशयजुःपर्यन्तानि स्पष्टार्थानि यजूंष्याह-नम आसीनेभ्य इति।
विश्वास-प्रस्तुतिः
नमः॒ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमः॑
मूलम्
नमः॒ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमः॑
विश्वास-प्रस्तुतिः
नम॒स् तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑
मूलम्
नम॒स् तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑
विश्वास-प्रस्तुतिः
नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमः॑
मूलम्
नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमः॑
विश्वास-प्रस्तुतिः
नमो॒ अश्वे॒भ्योऽश्वपतिभ्यश्च वो॒ नमः॑ [ २ ] ।।
मूलम्
नमो॒ अश्वे॒भ्योऽश्वपतिभ्यश्च वो॒ नमः॑ [ २ ] ।।