अग्निर्ऋषिः
सायण-टीका
[अथ चतुर्थकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः]
प्रथमानुवाके भगवतो रुद्रस्य या प्रधानभूता तनुस्
तां बहुधा प्रसाद्य
तस्य ये लीला-विग्रहा जगन्-निर्वाह-हेतवस्
तेऽष्टभिरनुवाकैः प्रसाद्यन्ते।
तेष्वनुवाकेषु सर्वाण्यपि यजूंषि।
तानि च द्विविधानि, उभयतो-नमस्कारण्य् अन्यतरतो-नमस्काराणि च ।
तत्र त्रिष्व् अनुवाकेषु नमस्कारादिकं नमस्कारान्तम् एकैकं यजुः।
इतरेषु पञ्चस्व् अनुवाकेषु नमस्कारादिकम् एकैकं यजुः।
तत्र द्वितीयेऽनुवाके त्रयोदश यजूंषि।
तत्र प्रथमं यजुराह— नमो हिरण्येति।
मूलम् (संयुक्तम्)
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शाञ्च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यᳶ पशू॒नाम्पत॑ये॒ नमो॒ नम॑स्स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नाम्पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑ना॒म्पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टाना॒म्पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑ता॒म्पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णा॒म्पत॑ये॒ नमो॒ नम॑स्सू॒तायाह॑न्त्याय॒ वना॑ना॒म्पत॑ये॒ नमो॒ नमः॑ [5]
रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणा॒म्पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णा॒म्पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीना॒म्पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नाम्पत॑ये॒ नमो॒ नम॑ᳵ कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्व॑ना॒म्पत॑ये॒ नमः॑ ॥ [6]
विश्वास-प्रस्तुतिः
नमो॒ हिर॑ण्य-बाहवे सेना॒न्ये॑
दि॒शाञ्च॒ पत॑ये॒ नमः॑ ।
Keith
Homage to the golden-armed leader of hosts, and to the lord of the quarters homage!
मूलम्
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑
दि॒शाञ्च॒ पत॑ये॒ नमः॑ ।
सायण-टीका
हिरण्यनिर्मितान्याभरणानि बाह्वोर्यस्यासौ हिरश्णबाहुः।
स च संग्रामेषु सेनां नयतीति सेनानीः तादृशमूर्तिधरो यो रुद्रस्तस्मै नमोऽस्तु।
यश्च दिशां पालको रुद्रस्तस्मै नमोऽस्तु।
विश्वास-प्रस्तुतिः
नमो॑ वृ॒क्षेभ्यो॒ हरि॑-केशेभ्यᳶ
पशू॒नाम् पत॑ये॒ नमः॑ ।
Keith
Homage to the trees with green tresses, to the lord of cattle homage!
मूलम्
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यᳶ पशू॒नाम्पत॑ये॒ नमः॑ ।
सायण-टीका
अथ द्वितीयं यजुराह— नमो वृक्षेभ्य इति।
हरितवर्णाः केशाः पर्णरूपा येषां वृक्षाणां ते हरिकेशास्तादृशेभ्यो वृक्षेभ्यो वृक्षाकाररुद्रमूर्तिभ्यो नमोऽस्तु।
यो रुद्रः पशूनां पालकस्तरमै नमोऽस्तु।
विश्वास-प्रस्तुतिः
नम॑स् स॒स्पिञ्+++(=बालतृण)+++-ज॑राय॒ त्विषी॑मते
पथी॒नाम् पत॑ये॒ नमः॑ ।
Keith
Homage to the one who is yellowish-red like young grass, to the radiant, to the lord of paths homage!
मूलम्
नम॑स् स॒स्पिञ्ज॑राय॒ त्विषी॑मते
पथी॒नाम् पत॑ये॒ नमः॑ ।
सायण-टीका
अत तृतीयं यजुराह— नमः सस्षिञ्जरायेति।
सस्पिं-शब्दो बालतृणवाची।
पीतरक्तसंकीर्णवर्णवाची पिञ्जरः।
बालतृणवीत्पञ्जरः सस्पिञ्जरः।
पृपोदरादित्वात्साधुः।
स च त्विषीमान् दीप्तिमान्।
तथाविधरूद्रमूर्तये नमोऽस्तु।
पथीनां शास्त्रोक्तदक्षिणोत्तरतृतीयमार्गाणां पतिः पालको यो रुद्रस्तस्मै रुद्राय नमोस्तु।
विश्वास-प्रस्तुतिः
नमो॑ बभ्लु॒+++(=बभ्रु)+++-शाय॑ विव्या॒धिने
ऽन्ना॑ना॒म् पत॑ये॒ नमः॑ ।
Keith
Homage to the brown one, to the piercer, to the lord of food homage!
मूलम्
नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑ना॒म्पत॑ये॒ नमः॑ ।
सायण-टीका
अथ चतुर्थ यजुराह— नमो बभ्लुशायेति।
बिभूर्ति रुद्रमिति बभ्रुर्वृषभः।
स एव बभ्लुः।
रलयोर्भेदाभावः।
तस्मिञ्शेते प्तिष्ठतीति बभ्लुशः।
स च विद्वेषिणो विशेषेण विध्यतीति विव्याधी।
तथाविधाय विव्याधिने नमोऽस्तु।
यश्चान्नानां पालको रुद्रस्तस्मै नमोऽस्तु।
विश्वास-प्रस्तुतिः
नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टाना॒म् पत॑ये॒ नमः
Keith
Homage to the green-haired, wearer of the cord, to the lord of prosperity homage!
मूलम्
नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टाना॒म्पत॑ये॒ नमः
सायण-टीका
अथ पञ्चमं यजुराह— नमो हरिकेशायेति।
नीलमूर्वजाय पलितरहितायोपवीतिने मङ्गलार्थं यज्ञोपवीतधारिणे रुद्राय नमोऽस्तु।
पुष्टानां परिपूर्णगुणानां पुरुषाणां पतये स्वामिने नमोऽस्तु।
विश्वास-प्रस्तुतिः
नमो॑ भ॒वस्य॑ हे॒त्यै
जग॑ता॒म् पत॑ये॒ नमः॑ ।
Keith
Homage to the dart of Bhava, to the lord of the moving world homage!
मूलम्
नमो॑ भ॒वस्य॑ हे॒त्यै जग॑ता॒म्पत॑ये॒ नमः॑ ।
सायण-टीका
अथ +++(अत्र टीकाभागः न लब्धः??)+++
विश्वास-प्रस्तुतिः
नमो॑ रु॒द्राया॑तत+++(धनुर्)++++अ॒विने॒ क्षेत्रा॑णा॒म्पत॑ये॒ नमः
Keith
Homage to Rudra, with bent bow, to the lord of fields homage!
मूलम्
नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णा॒म्पत॑ये॒ नमः
सायण-टीका
अथ षष्ठं यजुराह— नमो रुद्रायेति।
आततेन विस्तारितेन धनुषाऽवति रक्षतीत्याततावी, तस्यै रुद्राय नमोऽस्तु।
क्षेत्राणां पालको यो रुद्रस्तस्मै नमोऽस्तु।
विश्वास-प्रस्तुतिः
नम॑स् सू॒तायाह॑न्त्याय॒
वना॑ना॒म्पत॑ये॒ नमः॑ ।
Keith
Homage to the minstrel, the inviolate, to the lord of the woods homage!
मूलम्
नम॑स्सू॒तायाह॑न्त्याय॒ वना॑ना॒म्पत॑ये॒ नमः॑ ।
सायण-टीका
अथाष्टमं यजुराह— नमः सूतायेति।
सूतः सारथिः।
अहन्त्यो वैरिभिर्हन्तुमशक्यः।
तादृशाय रुद्राय नमोऽस्तु।
यो वनानां पालकस्तस्मै रुद्राय नमोऽस्तु।
मूलम् (संयुक्तम्)
नमः॑ [5] रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणा॒म्पत॑ये॒ नमः॑ ।
विश्वास-प्रस्तुतिः
नमो॒ रोहि॑ताय स्थ॒पत॑ये
वृ॒क्षाणा॒म्पत॑ये॒ नमः॑ ।
Keith
Homage [1] to the ruddy one, the ruler, to the lord of woods homage!
मूलम्
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणा॒म्पत॑ये॒ नमः॑ ।
सायण-टीका
अथ नवमं यजुराह— नमो रोहितायेति।
रोहितो लोहितवर्णः।
स्थपतिः प्रभुः।
तस्मै रुद्राय नमोऽस्तु।
वृक्षाणां यः पालकस्तस्मै नमोऽस्तु।
विश्वास-प्रस्तुतिः
नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒
कक्षा॑णा॒म्+++(=गुल्मानाम्)+++ पत॑ये॒ नमः॑ ।
Keith
Homage to the minister, the trader, to the lord of thickets homage!
मूलम्
नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒
कक्षा॑णा॒म् पत॑ये॒ नमः॑ ।
सायण-टीका
अथ दशमं यजुराह— नमो मर्न्त्रिण इति।
राजसभायां मन्त्रालोचनकुशलो मन्त्री।
स च वणिजां स्वामित्वेन वाणिजस् तस्मै नमोऽस्तु।
वनगता गुल्मादयः कक्षास्तेषां पालकाय नमोऽस्तु।
विश्वास-प्रस्तुतिः
नमो॑ भुव॒न्-तये॑+++(←तन्)+++ वारिवस्कृ॒ताय+++(←वरिवस्=अवकाश)+++
+औष॑धीना॒म् पत॑ये॒ नमः॑ ।
Keith
Homage to the extender of the world, the offspring of the maker of room, to the lord of plants homage!
मूलम्
नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीना॒म्पत॑ये॒ नमः॑ ।
सायण-टीका
अथैकादशं यजुराह— नमो भुंवतय इति।
भुवं तनोतीति भूवंतिः।
वरिवा धनं तस्य कर्ता वरिवस्कृत्स एव वारिवस्कृतस्तस्मै नमोऽस्तु।
ओषधीनां ग्राम्यारण्यानां पालकस्तस्मै नमोऽस्तु।
विश्वास-प्रस्तुतिः
नम॑ उ॒च्चैर् घो॑षायाक्र॒न्दय॑ते
पत्ती॒नाम्+++(=पदातीनाम्)+++ पत॑ये॒ नमः॑ ।
Keith
Homage to the loud calling, the screaming,
to the lord of footmen homage!
मूलम्
नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नाम्पत॑ये॒ नमः॑ ।
सायण-टीका
अथ द्वादशं यजुराह – नम उच्चैर्धोषायेति।
युद्धकाल उच्छ्रितो धोषो ध्वनिर्यस्यासावुच्चैर्धोषस्तस्मै।
आक्रन्दयन्वेरिणां रोदयिता तस्मै रुद्राय नमोऽस्तु।
पत्तीनां पादचारिणो योधाः पत्ति शब्दवाच्यास्तेषां पालकाय नमोऽस्तु।
विश्वास-प्रस्तुतिः
नम॑ᳵ कृत्स्न-वी॒ताय॒ धाव॑ते॒
सत्व॑ना॒म्+++(←सत्वन्=योद्धा)+++ पत॑ये॒ नमः॑ ॥
Keith
Homage to the wholly covered, to the running, to the lord of warriors homage!
मूलम्
नम॑ᳵ कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्व॑ना॒म्पत॑ये॒ नमः॑ ॥
सायण-टीका
अथ त्रयोदशं यजुराह— नमः कृत्स्नवीतायेति।
कृत्स्नं सैन्यं वीतं वेष्टितं येनासौ कृत्स्नवीतस्तस्मै।
धावते पलायमानानां परिकीयसैन्यानां पृष्ठतो गच्छन्धार्वस्तस्मै गनोऽस्तु।
सत्त्वानः सात्त्विकाः शरणागतास्तेषां पालकाय नमोऽस्तु॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठकेऽ द्वितीयोऽनुवाकः ॥ २॥
चतुर्थकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः