विस्तारः (द्रष्टुं नोद्यम्)
- १-१५ अनुष्टुप्, ३ विषमपदा बृहती, ७ आस्तारपङ्क्तिः, ८ षट्पदा जगती । अग्निर्ऋषिः
(रुद्राध्यायः)
सायणोक्त-विनियोगः
२११२ कल्पः—“शतरुद्रीयं जुहोति जतिलयवाग्वा वा गवीधुकयवाग्वा वा जर्तिलगवीधुकसक्तुभिर्वा कुशयवसर्पिषाऽजाक्षीरेण मृगीक्षीरेण वाऽर्कपर्णेनोदङ्तिष्ठ न्नुत्तरस्य पक्षस्य उत्तरामपस्यां स्रक्त्यां विकर्ण्यां स्वयमातृण्णायामनुपरिचारं (क्रामं) वा नमस्ते रुद्र मन्यव इत्येताननुवाकांस्त्रेधा विभज्यापि वा प्रथमादुपक्रम्य नमस्तक्षभ्य इति जानुदघ्ने धारयमाणो रथकारेभ्य इत्युपक्रम्य नमः स्वायुधायेति नाभिदघ्ने शेषेण प्रागवसानेभ्य आस्यदघ्ने हुत्वा सहस्राणि सहस्रश इति दशावदानानि हुत्वाऽन्वारोहाञ्जुहोति नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदघ्ने धारयमाणे नमो रुद्रेभ्यो येऽन्तरिक्ष इति नाभिदघ्ने नमो रुद्रेभ्यो ये दिवीत्यास्यदघ्ने हुत्वैतानेव यजमानं वाचयित्वैतानेव विपरीतान्प्रत्यवरोहान्हुत्वा संचरे पशूनामर्कपर्णमुदस्यति यं द्विष्यात्तस्य संचर इति” इति।
तत्र प्रथमानुवाके प्रथमामृचमाह— नमस्ते रुद्रेति।
विश्वास-प्रस्तुतिः
नम॑स् ते रुद्र म॒न्यव॑
उ॒तो त॒ इष॑वे॒ नमः॑ ।
नम॑स्ते अस्तु॒ धन्व॑ने
बा॒हुभ्या्॑ अु॒त ते॒ नमः॑ ।
Keith
Homage to thy wrath, O Rudra,
To thine arrow homage also;
Homage to thy bow,
And homage to thine arms.
मूलम्
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ।
सायण-टीका
हे रुद्र ते त्वदीयो यो मन्युः कोपस्तस्मै नमोऽस्तु।
स मन्युरस्मद्वैरिष्वेव प्रसरतु नत्वस्मासु।
उत्तापि च ते तवेषवे नमः।
त्वदीयाय बाणाय नमोऽस्तु।
तथा ते धन्वने त्वदीयाय धनुषे नमोऽस्तु।
उतापि च ते बाहुभ्यां त्वदीयाभ्यां धनुर्बाणोपेताभ्यां हस्ताभ्यां नमोऽस्तु।
एतत्सर्वान्वौरिष्वेव प्रवर्ततां न तु मयीत्यभिप्रायः।
विश्वास-प्रस्तुतिः
या त॒ इषु॑श् शि॒वत॑मा
शि॒वम् ब॒भूव॑ ते॒ धनुः॑ ।
शि॒वा श॑र॒व्या॑+++(=इषुधिः)+++ या तव॒
तया॑ नो रुद्र मृडय ।
Keith
With thy most kindly arrow,
And kindly bow,
With thy kindly missile,
Be gentle to us, O Rudra.
मूलम्
या त॒ इषु॑श्शि॒वत॑मा शि॒वम्ब॒भूव॑ ते॒ धनुः॑ ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ।
सायण-टीका
द्वितीयामृचमाह— या त इषुरिति।
हे रुद्र ते त्वदीया येयमिषुः शिवतमा शान्ततमा बभूव तथा ते त्वदीयं यद्धनुः शिवं शान्तं बभूव, तथा या च तव शरव्या तवेषुधिस् तया शान्तयेष्वा तेन च शान्तेन धनुषा तया च शान्तया शरव्यया नो ऽस्मान्मृडय सुखय।
भक्तेषु प्रवृत्त्यभावात्तेषां शान्तत्वम्।
विश्वास-प्रस्तुतिः
या ते॑ रुद्र शि॒वा त॒नूर्
अघो॒रा ऽपा॑प-काशिनी ।
तया॑ नस् त॒नुवा॒ शन्त॑मया॒
गिरि॑-शन्त+++(←शम्)+++ +अ॒भि चा॑कशीहि ।
Keith
That body of thine, O Rudra, which is kindly,
Not dread, with auspicious look,
With that body, most potent to heal,
O haunter of the mountains, do thou look on us.
मूलम्
या ते॑ रुद्र शि॒वा त॒नूरघो॒रापा॑पकाशिनी ।
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ।
सायण-टीका
अथ तृतीयामृचमाह— या ते रुद्रेति।
द्वे हि रुद्रस्य तनू।
तथा चापरिष्टाद् आम्नायते “रुद्रो वा एष यदग्निस्तस्यैते तनुवौ घोराऽन्या शिवाऽन्या” इति।
हिंसिका घोराऽनुग्राहिका शिवा।
हे रुद्र ते तव या तनूः शिवाऽस्मास्व् अनुग्रह-कारिण्य्
अत एवाघोरा हंसिका न भवति।
अघोरत्वम् एव स्पष्टी क्रियते - अपापकाशिनी पाप हिंसारूपमनिष्टं
काशयतीति पापकाशिनी, तादृशी न भवतीत्यपापकाशिनी।
गिरौ कैलासे स्थित्वा नित्यं प्राणिभ्यो यः शं सुखं तनोति स गिरिशंतस्तस्य संबोधनं हे गिरिशंत।
तथाविध हे रुद्र शंतमयाऽतिशयेन सुखकारिण्या तया तनुवा ऽभिचाकशीहि मामभिलक्ष्य प्रकाशं करु।
एतादृशीं त्वदीयां तुनं प्रकाश्य मां सुखिनं कुर्वित्यर्थः।
विश्वास-प्रस्तुतिः
याम् इषु॑ङ् गिरिशन्त॒
हस्ते॑ [1] बिभ॒र्ष्य् +++(न्य्-)+++अस्त॑वे ।
शि॒वाङ् गि॑रि-त्र॒! ताङ् कु॑रु॒
मा हिँ॑सी॒ᳶ पुरु॑ष॒ञ् जग॑त् ।
Keith
The arrow which, O haunter of mountains,
In thy hand [1] thou bearest to shoot,
That make thou kindly, O guardian of mountains; Harm not the world of men.
मूलम्
यामिषु॑ङ्गिरिशन्त॒ हस्ते॑ [1] बिभ॒र्ष्यस्त॑वे ।
शि॒वाङ्गि॑रित्र॒ ताङ्कु॑रु॒ मा हिँ॑सी॒ᳶ पुरु॑ष॒ञ्जग॑त् ।
सायण-टीका
अथ चतुर्थीमृचमाह— यमिषुमिति।
हे गिरिशंत यामिषुं बाणम् अस्तवे वैरिषु प्रक्षेप्तुं हस्ते विभार्षि।
कैलासाख्यं गिरिं त्रायते पालयतीति गिरित्रस्तत्संबोधनं हे गिरित्र।
तथाविध हे रुद्र तां हस्ते घृतामिषुं शिवामस्मासु शान्तां कुरु।
पुरुषमस्मदीयं मनुष्यं जगन्मनुष्यव्यतिरिक्तमपि जङ्गमं गवादिकं मा हिंसीः।
विश्वास-प्रस्तुतिः
शि॒वेन॒ वच॑सा त्वा॒
गिरि॒शाच्छा॑ वदामसि ।
यथा॑ न॒स् सर्व॒म् इज् जग॑द्
अय॒क्ष्मँ सु॒मना॒ अस॑त् ।
Keith
With kindly utterance thee
We address, O liver on the mountains,
That all our folk
Be free from sickness and of good cheer.
मूलम्
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि ।
यथा॑ न॒स्सर्व॒मिज्जग॑दय॒क्ष्मँ सु॒मना॒ अस॑त् ।
सायण-टीका
अथ पञ्चमीमाह— शिवेन वचसेति।
गिरौ कौलासे शेते तिष्टतीति गिरिशः।
हे गिरिश त्वामच्छ प्राप्तुं शिवेन मङ्गलेन स्तुतिरूपेण वचसा वदामसि वयं प्रार्थयामहे यथा येन प्रकारेण नोऽस्मददीयं सर्वमिज्जगन्सर्वमपि मनुष्यपश्वादिकं जङ्गप्रजातमयक्ष्मं रोगरहितं सुमना असत्सौमनस्योपेतं भवति तथा कुरु।
विश्वास-प्रस्तुतिः
अध्य॑वोचद् अधिव॒क्ता
प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीँ॑श् च॒ सर्वा॑ञ् ज॒म्भय॒न्त्
सर्वा॑श् च यातुधा॒न्यः॑ ।
Keith
The advocate hath spoken in advocacy,
The first divine leech,
Confounding all the serpents
And all sorceries.
मूलम्
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीँ॑श्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यः॑ ।
सायण-टीका
अथ षष्ठीमाह– अध्यवोचदिति।
यो रुद्रोऽविवक्ताध्धिकोऽयमित्येवं सर्वेषामग्रे मां प्रति वक्तुं क्षमस्तेनोक्ते सति मम सर्वाधिक्यं ततानीमेव सिध्यति।
अतस्तादृशो रुद्रोऽध्यवोचन्मां सर्वाधिकं वदतु।
कीदृशोऽघिवक्ता, प्रथमो देवानां मध्ये मुख्यो दैव्यः सर्वान्देवानर्हति स्वयं देवान्पालयितुं क्षम इत्यर्थः।
भिषगेतस्य ध्यानमात्रेण सर्वरोगोपशमनादयं चिकित्सकः।
किं कुर्वन्, अहींश्च सर्वान्सर्पब्याघ्रादन्सिर्वानपि सर्वाश्च यातुधान्यः सर्वा अपि राक्षसजातीर्जम्भयंन्विनाशयन्।
विश्वास-प्रस्तुतिः
अ॒सौ यस् ता॒म्रो अ॑रु॒ण
उ॒त ब॒भ्रुस् सु॑म॒ङ्गलः॑ ।
ये चे॒माँ रु॒द्रा अ॒भितो॑ दि॒क्षु [2]
श्रि॒तास् स॑हस्र॒शो ऽवै॑षाँ॒ हेड॑ ईमहे ।
Keith
The dusky, the ruddy,
The brown, the auspicious,
And the Rudras which in thousands
Lie around this (earth) in the quarters [2],
Their wrath do we deprecate.
मूलम्
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुस्सु॑म॒ङ्गलः॑ ।
ये चे॒माँ रु॒द्रा अ॒भितो॑ दि॒क्षु [2] श्रि॒तास्स॑हस्र॒शोऽवै॑षाँ॒ हेड॑ ईमहे ।
सायण-टीका
अथ सप्तमीमाह— असौ यस्ताम्र इति।
यो रुद्रोऽसौ मण्डलस्थादित्यरूपः।
स च ताम्र उदयकालेऽत्यन्तरक्तोऽरुण उदयादूर्ध्वमषिद्रक्तः।
उतापि च बभ्रुस्ततोऽप्यूर्ध्वं पिङ्गलः एवमन्येऽपि वर्णास्तत्तत्कालगता उन्नेयाः।
सुमङ्गलो नानावर्णः संस्तदा तदाऽन्धकारादिनिवर्तकत्वादत्यन्तं मङ्गलः।
ये चाऱ्ये रश्मिरूपा रुद्रा इमामभितोऽस्या भूमेः परितो दिक्षु श्रिताः प्राच्यादिदिक्ष्ववस्थिताः।
ते च सह २११४ स्त्रशोऽनेकसहस्रसंख्याका।
एषामादित्यतद्रश्मिरूपाणां सर्वेषां रुद्राणां हेडः क्रोधसदृशं तीक्ष्णत्वमवेमहे भक्तिनमस्कारादिना निवारयामः।
विश्वास-प्रस्तुतिः
अ॒सौ यो॑ऽव॒सर्प॑ति॒
नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैन॑ङ् गो॒पा अ॑दृश॒न्न्
अदृ॑शन्न् उद-हा॒र्यः॑ ।
उ॒तैनव्ँ॒ विश्वा॑ भू॒तानि॒
स दृ॒ष्टो मृ॑डयाति नः ।
Keith
He who creepeth away,
Blue-necked and ruddy,
Him the cowherds have seen,
Have seen the bearers of water
And him all creatures;
May be, seen, be gentle unto us.
मूलम्
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैन॑ङ्गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑ ।
उ॒तैनव्ँ॒विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ।
सायण-टीका
अथाष्टमीमाह— असौ योऽयेति।
यो रुद्रो नीलग्रीवः कालकूटविषधारणेन नीलवर्णा ग्रीवा यस्यासौ नीलग्रीवः।
स एव विलोहितो विशेषेण लोहितवर्णः सन्नसौ मण्डलवर्ती भूत्वाऽवसर्पत्युदयास्तमयौ संपादयितुं प्रवर्तते।
तस्य च रुद्रस्य मण्डलवर्तिस्वरूपधारणे प्रयोजनमुच्यतेउतापि च गोपा वेदशास्त्रसंस्काररहिता गोपाला अप्येनं मण्डलवर्तिनमादित्यरूपिणं रुद्रमदृशन्पश्यति।
उदहार्य उदकानां हारिण्यो योषितोऽप्येनसदृशन्पश्यन्ति।
उतापि चैनमादित्यरूपिणं रुद्रं विश्वा भूतानि गोमहिष्यादयः सर्वेऽपि प्राणिनः पश्यन्ति।
सर्वेषां दर्शनार्थमेव हि रुद्रस्याऽऽदित्यमूर्तिधारणम्।
कैलासादिवर्ति रुद्रस्य रूपं तु वेदशास्त्राभिज्ञैरेव दृश्यते नान्यैः।
तादृशो रुद्रो दृष्टः सन्नोऽस्मान्मृडयाति सुखिनः करोत्वित्यर्थः।
विश्वास-प्रस्तुतिः
नमो॑ अस्तु॒ नील॑ग्रीवाय
सहस्रा॒क्षाय॑ मी॒ढुषे॑ ।
अथो॒ ये अ॑स्य॒ +++(भृत्यरूपाः)+++ सत्वा॑नो॒
ऽहन् तेभ्यो॑ ऽकर॒न् नमः॑ ।
Keith
Homage to the blue-necked,
Thousand-eyed one, the bountiful
And to those that are his warriors
I have paid my homage.
मूलम्
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहन्तेभ्यो॑ऽकर॒न्नमः॑ ।
सायण-टीका
अथ नवमीमाह— नमो अस्त्विति।
यः पूर्वोक्तरीत्या नीलग्रीवः स एवेन्द्रमूर्तिधारणेन सहस्राक्षः।
स पुनः पर्जन्य-मूर्ति-धारणेन मीढूवान् सेचको वृष्टिकर्तेत्यर्थः।
तादृशाय रुद्राय नमोऽस्तु।
अथो अपि च ये केचिदस्य रुद्रस्य सत्त्वानो भृत्यरूपाः प्राणिनस्तेभ्यः सर्वेभ्योऽहं नमोऽकरं नमस्करोति।
विश्वास-प्रस्तुतिः
प्र मु॑ञ्च॒ धन्व॑न॒स् त्वम्
उ॒भयो॒र् आर्त्नि॑यो॒र्+++(=कोट्योर्)+++ ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ [3]
परा॒ ता भ॑गवो वप ।
Keith
Unfasten from the two notches
Of thy bow the bowstring,
And cast thou down
The arrows in thy hand [3].
मूलम्
प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑वः [3] परा॒ ता भ॑गवो वप ।
सायण-टीका
अथ दशमीमाह— प्र मुञ्चेति।
हे भगवो भगवन् पूजावन् महद्-ऐश्वर्य-संपन्न रुद्र
त्वं धन्वनस् त्वदीयस्य धनुष
उभयोर् आर्त्नियोः कोट्योर् अवस्थितां ज्यां मौर्वीं प्रमुञ्चावरोपय।
याश्व ते हस्त इषवो वर्तन्ते ता अपि परावप परित्यज।
विश्वास-प्रस्तुतिः
अ॒व॒तत्य॒ धनु॒स् त्वँ
सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ +++(बाण-)+++श॒ल्याना॒म् मुखा॑
शि॒वो न॑स् सु॒मना॑ भव ।
Keith
Unstringing thy bow,
Do thou of a thousand eyes and a hundred quivers,
Destroying the points of thine arrows,
Be gentle and kindly to us.
मूलम्
अ॒व॒तत्य॒ धनु॒स्त्वँ सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्याना॒म्मुखा॑ शि॒वो न॑स्सु॒मना॑ भव ।
सायण-टीका
अथैकादशीमाह— अवतत्येति।
इन्द्ररूपेण सहस्रसंख्याकान्यक्षीणि यस्यासौ सहश्राक्षः।
शतसंख्याका इषुधयो बाणस्थापनकोशा यस्यासौ शतेषुधिः।
तादृश हे रुद्र धनुरवतत्यावरोषितज्याकं कृत्वा शल्यानां मुखा मुकानिषुगतलोहानामग्राणि नि शीर्येषुधिषु न्यग्भावेन शीर्णानि कृत्वा नोऽस्मान्प्रति सुमना अनुग्रहयुक्तः सञ्शिवः शान्तो भव।
विश्वास-प्रस्तुतिः
वि-ज्य॒न् धनु॑ᳵ कप॒र्दिनो॒
विश॑ल्यो॒ बाण॑वाँ+++(=इषुधिर्)+++ उ॒त ।
अने॑शन्न्+++(←नश्)+++ अ॒स्येष॑व
आ॒भुर् अ॑स्य निष॒ङ्गथिः॑+++(=निषङ्ग-धिः इति माध्यन्दिनो वरः)+++ ।
Keith
Unstrung is the bow of him of the braided hair
And arrowless his quiver;
His arrows have departed,
Empty is his quiver.
मूलम्
विज्य॒न्धनु॑ᳵ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ उ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ ।
सायण-टीका
अथ द्वादशीमाह— विज्यं धनुरिति।
कपर्दो जटाजूटः सोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनुर् विज्यं विगतज्याकमस्तु।
उतापि च बाणा अस्मिंस्तिष्ठन्तीति बाणवान् इषुधिः।
स च विशल्यो ऽस्तु।
इषुगतानां शल्यानां तदुदरे गोपितत्वेन बहिर् आविर्भूत-शल्य-रहितोऽस्तु।
अस्य रुद्रस्येषवो बाणा इषुधौ प्रक्षिप्ता
अनैशन् वेद्धुम् असमर्था भवन्तु
अस्य रुद्रस्य।
निषङ्गथिर् बाणाधार आभुर् अस्त्व् अषित् प्रभुरस्तु।
कुड्यनिखातशङ्कावासाञ्जितत्वेन वाणान्धारयितुमेव प्रभवतु।
न तु बाणाकर्षण-योग्य इत्यर्थः।
अथवा निषङ्गथिः खड्गाकर्षण-समर्थः।
विश्वास-प्रस्तुतिः
या ते॑ हे॒तिर् मी॑ढुष्टम॒
हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒स्मान् वि॒श्वत॒स् त्वम्
अ॑यक्ष॒मया॒ परि॑ भुज ।
Keith
O most bountiful one, the missile
That is in thy hand, thy bow,
With it on all sides do thou guard us,
Free from sickness.
मूलम्
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒स्मान्वि॒श्वत॒स्त्वम॑यक्ष॒मया॒ परि॑ ब्भुज ।
सायण-टीका
अश्च त्रयोदशीमाह— या ते हेतिरिति।
हे मीढुष्टमातिशयेन कामभिवर्पक या ते हेतिस्तव संबन्धि खड्गादिरूपं यदायुधं, यदपि ते तव हस्ते धनुर्वभूव, अयक्ष्मयाऽनुपद्रवकारिण्या तया हेत्या तथाविधेन धनुषा च त्वमस्मीन्विश्वतः परिभुज सर्वतः परिपालय।
विश्वास-प्रस्तुतिः
नम॑स् ते अ॒स्त्व् आयु॑धाय॒+ अना॑तताय धृ॒ष्णवे॑ ।
उ॒भाभ्या॑म् उ॒त ते॒ नमो॑ बा॒हुभ्या॒न् तव॒ धन्व॑ने ।
Keith
Homage to thy weapon,
Unstrung, dread;
And homage to thy two hands,
To thy bow.
मूलम्
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे॑ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्या॒न्तव॒ धन्व॑ने ।
सायण-टीका
अथ चतुर्दशीमाह— नमस्ते अस्त्विति।
हे रुद्र ते त्वदीयायाऽऽयुधाय वाणरूपाय नमोऽस्तु।
कीदृशायाऽऽयुधाय, अनातताय धनुषि संधानाभावादमसारिताय, धृष्णवे स्वरूपेण प्रहतुं प्रगल्भाय।
किंच ते त्वदीयाभ्यामुभाभ्यां बाहुभ्यां नमोऽस्तु।
तथा तव त्वदीयाय धन्वने नमोऽस्तु।
विश्वास-प्रस्तुतिः
परि॑ ते॒ धन्व॑नो हे॒तिर्
अ॒स्मान् वृ॑णक्तु वि॒श्वतः॑ ।
अथो॒ य इ॑षु॒धिस् तवा॒रे
अ॒स्मत्+ नि धे॑हि॒ तम् ॥ [4]
Keith
May the missile from thy bow
Avoid us on every side,
And do thou lay far from us
This quiver that is thine.
मूलम्
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ॥ [4]
सायण-टीका
अथ पञ्चदशीमाह— परि ते धन्वन इति।
हे रुद्र ते त्वदीयस्य धन्वनो हेतिर्बाणशल्यरूपाऽस्मान्विश्वतः सर्वतः परिवृणक्तु वर्जितान्करोतु, मा बाधतामित्यर्थः।
अथो अपि च यस्तवेषुधिस्तमस्मदारेऽस्मत्तो दुरे निधेहि स्थापय॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके प्रथमोऽनुवाकः ॥ १॥
चतुर्थकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः