०१ पञ्चम-चिति-शेष-स्तोम-भागाख्येष्टकोपधानम्

अग्निर्ऋषिः

( तत्र प्रथमोऽनुवाकः)

मूलम् (संयुक्तम्)

र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षय॑ञ्जिन्व॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्म॑ञ्जि॒न्वान्वि॑तिरसि दि॒वे त्वा॒ दिव॑ञ्जिन्व स॒न्धिर॑स्य॒न्तरि॑क्षाय त्वा॒न्तरि॑क्षञ्जिन्व प्रति॒धिर॑सि पृथि॒व्यै त्वा॑ पृथि॒वीञ्जि॑न्व विष्ट॒म्भो॑ऽसि॒ वृष्ट्यै॑ त्वा॒ वृष्टि॑ञ्जिन्व प्र॒वास्यह्ने॒ त्वाह॑र्जिन्वानु॒वासि॒ रात्रि॑यै त्वा॒ रात्रि॑ञ्जिन्वो॒शिग॑सि [1] वसु॑भ्यस्त्वा॒ वसू॑ञ्जिन्व प्रके॒तो॑ऽसिरु॒द्रेभ्य॑स्त्वारु॒द्राञ्जि॑न्व सुदी॒तिर॑स्यादि॒त्येभ्य॑स्त्वाऽऽदि॒त्याञ्जि॒न्वौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॑न्व॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॑न्व रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जिन्वाभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्र॑ञ्जि॒न्वाधि॑पतिरसि प्रा॒णाय॑ [2] त्वा॒ प्रा॒णञ्जि॑न्व य॒न्तास्य॑पा॒नाय॑ त्वापा॒नञ्जि॑न्व सँ॒सर्पो॑ऽसि॒ चक्षु॑षे त्वा॒ चक्षु॑र्जिन्व वयो॒धा अ॑सि॒ श्रोत्रा॑य त्वा॒ श्रोत्र॑ञ्जिन्व त्रि॒वृद॑सि प्र॒वृद॑सि सव्ँ॒वृद॑सि वि॒वृद॑सि सँरो॒हो॑ऽसि नीरो॒हो॑ऽसि प्ररो॒हो॑ऽस्यनुरो॒हो॑ऽसि वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिरसि ॥

विश्वास-प्रस्तुतिः

र॒श्मिर॑सि क्षया॑य त्वा +++(उपदधामि)+++ ।

मूलम्

र॒श्मिर॑सि क्षया॑य त्वा +++(उपदधामि)+++ ।

सायण-टीका

यस्य निःश्वसिदं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
प्रपाठके तृतीयोऽस्मिंश्चितयः पञ्च वर्णिताः ।
चतुर्थे पञ्चमचितेः शेषः सर्वो विधीयते ॥
तत्र प्रथमानुवाके स्तोमभागा उच्यन्ते ॥
कल्पः—“रश्मिरसि क्षयाय त्वा क्षयं जिन्वेति स्तोमभागाः सप्त सप्त प्रतिदिशमवशिष्ठा मध्ये” इति।
तत्र पूर्वस्यां दिश्युपधेयानामिष्टकानां सप्त मन्त्रानाह— रश्मिरसि क्षयायेति ।
हे इष्टके त्वमादित्यरश्मिरूपाऽस्यतः क्षयाय निवाससिद्ध्यर्थं त्वामुपदधामि ।

विश्वास-प्रस्तुतिः

+++(त्वं)+++ क्षय॑ञ्जिन्व ।

मूलम्

+++(त्वं)+++ क्षय॑ञ्जिन्व ।

सायण-टीका

त्वं चास्माकं क्षयं निवासं जिन्व प्रीणय संपादयेत्यर्थः ।
एवं सर्वं योजनीयम् ।

विश्वास-प्रस्तुतिः

प्रेति॑रसि, धर्मा॑य त्वा +++(उपदधामि)+++ ।

मूलम्

प्रेति॑रसि, धर्मा॑य त्वा +++(उपदधामि)+++ ।

सायण-टीका

प्रकृष्टा गतिर्यस्याः सा प्रेतिः ।

विश्वास-प्रस्तुतिः

+++(त्वं)+++ धर्म॑ञ्जि॒न्व ।

मूलम्

+++(त्वं)+++ धर्म॑ञ्जि॒न्व ।

सायण-टीका

धर्मो विहितकर्मानुष्ठानम् ।

विश्वास-प्रस्तुतिः

अन्वि॑तिरसि, दि॒वे त्वा॑ +++(उपदधामि)+++ ।

मूलम्

अन्वि॑तिरसि, दि॒वे त्वा॑ +++(उपदधामि)+++ ।

सायण-टीका

अनुकूला गतिर्यस्याः साऽन्वितिः ।

विश्वास-प्रस्तुतिः

+++(त्वं)+++ दिव॑ञ्जिन्व ।

मूलम्

+++(त्वं)+++ दिव॑ञ्जिन्व ।

सायण-टीका

द्यौः स्वर्गः ।

विश्वास-प्रस्तुतिः

स॒न्धिर॑सि, अ॒न्तरि॑क्षाय त्वा +++(उपदधामि)+++ ।

मूलम्

स॒न्धिर॑सि, अ॒न्तरि॑क्षाय त्वा +++(उपदधामि)+++ ।

सायण-टीका

द्यावापृथिव्योर्मध्यवर्ती देशः संधिः ।

विश्वास-प्रस्तुतिः

+++(त्वं)+++ अ॒न्तरि॑क्षञ्जिन्व ।

मूलम्

+++(त्वं)+++ अ॒न्तरि॑क्षञ्जिन्व ।

सायण-टीका

अन्तरिक्षं गन्धर्वादिलोकभागोऽन्तरिक्षम् ।

विश्वास-प्रस्तुतिः

प्र॒ति॒धिर॑सि, पृथि॒व्यै त्वा॑ +++(उपदधामि)+++ ।
+++(त्वं)+++ पृथि॒वीञ्जि॑न्व ।

मूलम्

प्र॒ति॒धिर॑सि, पृथि॒व्यै त्वा॑ +++(उपदधामि)+++ ।
+++(त्वं)+++ पृथि॒वीञ्जि॑न्व ।

सायण-टीका

प्रतिधिशब्देन भूलोकभाग उपलक्ष्यते ।

विश्वास-प्रस्तुतिः

वि॒ष्ट॒म्भो॑ऽसि , वृष्ट्यै॑ त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ वृष्टि॑ञ्जिन्व ।

मूलम्

वि॒ष्ट॒म्भो॑ऽसि , वृष्ट्यै॑ त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ वृष्टि॑ञ्जिन्व ।

सायण-टीका

विशेषेण स्तभ्यते। जलमत्र घार्यत इति विष्टम्भो मेघः ।

विश्वास-प्रस्तुतिः

प्र॒वाऽसि , अह्ने॑ त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ अह॑र्जिन्व ।

मूलम्

प्र॒वाऽसि , अह्ने॑ त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ अह॑र्जिन्व ।

सायण-टीका

प्रथमं वाति गच्छति प्रवर्तत इति प्रबोषःकालः । उषा हि सूर्योदयात्पूर्वं प्रवर्तते । अतोऽहसिद्ध्यर्थं त्वामुपदघामि ।

विश्वास-प्रस्तुतिः

अ॒नु॒वाऽसि॑, रात्रि॑यै त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ रात्रि॑ञ्जिन्व ।

मूलम्

अ॒नु॒वाऽसि॑, रात्रि॑यै त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ रात्रि॑ञ्जिन्व ।

सायण-टीका

अथ दक्षिणस्यां दिश्युपधेयानामिष्टकानां सप्त मन्त्रानाह— अनुवाऽसि रात्रिया इति ।
अनु सूर्यास्तमयात्पश्चाद्वाति चरति प्रयाती २०४४ त्यनुवा सायंसंध्या ।

विश्वास-प्रस्तुतिः

उ॒शिग॑सि, वसु॑भ्यस्त्वा +++(उपदधामि)+++ ।

मूलम्

उ॒शिग॑सि, वसु॑भ्यस्त्वा +++(उपदधामि)+++ ।

सायण-टीका

उशिग्वसुभिः काम्यमानाऽसि । अतो वसूभ्यो वसूनां प्रीत्यर्थं त्वामुपदधामि ।

विश्वास-प्रस्तुतिः

+++(त्वं)+++ वसू॑ञ्जिन्व ।

मूलम्

+++(त्वं)+++ वसू॑ञ्जिन्व ।

सायण-टीका

त्वं च वसूञ्जिन्वं प्रीणय । एवमुत्तरत्र योज्बम् ।

विश्वास-प्रस्तुतिः

प्र॒के॒तो॑ऽसि,रु॒द्रेभ्य॑स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ रु॒द्राञ्जि॑न्व ।

मूलम्

प्र॒के॒तो॑ऽसि,रु॒द्रेभ्य॑स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ रु॒द्राञ्जि॑न्व ।

सायण-टीका

प्रकृष्टः केनो यः ( स ) प्रकेतः । रुद्राणां यः प्रकेतस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

सु॒दी॒तिर॑सि, आ॒दि॒त्येभ्य॑स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ आ॒दि॒त्याञ्जि॒न्व ।

मूलम्

सु॒दी॒तिर॑सि, आ॒दि॒त्येभ्य॑स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ आ॒दि॒त्याञ्जि॒न्व ।

सायण-टीका

शोभना दीतिः र्दीप्तिः सुदीतिः सा त्वमसि ।

विश्वास-प्रस्तुतिः

ओजो॑ऽसि पि॒तृभ्य॑स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ पि॒तॄञ्जि॑न्व ।

मूलम्

ओजो॑ऽसि पि॒तृभ्य॑स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ पि॒तॄञ्जि॑न्व ।

सायण-टीका

ओजो बलं पितॄणां यद्बलमनुग्रहसमर्थं तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

तन्तु॑रसि, प्र॒जाभ्य॑स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ प्र॒जा जि॑न्व ।

मूलम्

तन्तु॑रसि, प्र॒जाभ्य॑स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ प्र॒जा जि॑न्व ।

सायण-टीका

तन्तु पुत्रपौत्रादिसातर्त्यम् ।

विश्वास-प्रस्तुतिः

पृ॒त॒ना॒षाड॑सि , प॒शुभ्य॑स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ प॒शूञ्जि॑न्व ।

मूलम्

पृ॒त॒ना॒षाड॑सि , प॒शुभ्य॑स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ प॒शूञ्जि॑न्व ।

सायण-टीका

स्वकीयान्गवादिपशूनपहर्तुमागता या परकीयसेना सा पृतना तां सहतेऽभिभवतीति पृतनाषाड् ।

विश्वास-प्रस्तुतिः

रे॒वद॑सि, ओष॑धीभ्य॒स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ ओष॑धीर्जिन्व । ।

मूलम्

रे॒वद॑सि, ओष॑धीभ्य॒स्त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ ओष॑धीर्जिन्व । ।

सायण-टीका

अथ पश्चिमायां दिश्युपधेयानामिष्टकानां सप्त मन्त्रानाह— रेवदस्योषघीभ्य इति । रा अस्यास्तीति रेवत् । ओषधिसाध्यं यद्धनं जीवनं तद्रूपा त्वगसि ।

विश्वास-प्रस्तुतिः

अ॒भि॒जिद॑सि, यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ इन्द्र॑ञ्जि॒न्व ।

मूलम्

अ॒भि॒जिद॑सि, यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ इन्द्र॑ञ्जि॒न्व ।

सायण-टीका

जयसि शत्रूनभिभवसीत्यभिजित् । पाषाणसदृशो वाञ्चा ग्रावा, युक्तो हस्ते स्वीकृतो ग्रावा यस्यासौ युक्तग्रावा । इन्द्रश्चक्षुरदीन्द्रियाण्यधिष्ठाय पालयिता ।

विश्वास-प्रस्तुतिः

अधि॑पतिरसि, प्रा॒णाय॑ त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ प्रा॒णञ्जि॑न्व ।

मूलम्

अधि॑पतिरसि, प्रा॒णाय॑ त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ प्रा॒णञ्जि॑न्व ।

सायण-टीका

यः श्वासरूपो वायुः सोऽधिपतिस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

य॒न्ताऽसि॑ । अ॒पा॒नाय॑ त्वा+++(उपदधामि)+++ ।
+++(त्वं)+++ अ॒पा॒नञ्जि॑न्व ।

मूलम्

य॒न्ताऽसि॑ । अ॒पा॒नाय॑ त्वा+++(उपदधामि)+++ ।
+++(त्वं)+++ अ॒पा॒नञ्जि॑न्व ।

सायण-टीका

वहिर्निर्गतस्य श्वासस्य पुनरप्यन्तःप्रवेशाय नियामको यो वायुविशेषः , स यन्ता, तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

सँ॒सर्पो॑ऽसि , चक्षु॑षे त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ चक्षु॑र्जिन्व ।

मूलम्

सँ॒सर्पो॑ऽसि , चक्षु॑षे त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ चक्षु॑र्जिन्व ।

सायण-टीका

सम्यक्सर्पयति बलेन प्रवर्तयति मां चयनधनप्रस्या [ स्वीक ] रणायसंसर्पो दृष्टिः ।

विश्वास-प्रस्तुतिः

व॒यो॒धा अ॑सि । श्रोत्रा॑य त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ श्रोत्र॑ञ्जिन्व ।

मूलम्

व॒यो॒धा अ॑सि । श्रोत्रा॑य त्वा +++(उपदधामि)+++ ।
+++(त्वं)+++ श्रोत्र॑ञ्जिन्व ।

सायण-टीका

वयः पक्षी तद्वद्धावतीति वयोधाः । पक्षी तत्र तत्र गत्वा स्व कार्यं साधयति तथा श्रोत्रेन्द्रियशक्तिस्तत्तच्छनब्दं प्राप्य निश्चिनोति, उच्छक्तिरूपत्वमासे ।

विश्वास-प्रस्तुतिः

त्रि॒वृद॑सि ।

मूलम्

त्रि॒वृद॑सि ।

सायण-टीका

तिस्र आवृतोऽवयवविशेषा यस्य मिथुनीभावस्य सोऽपं त्रिबृत्पुमान्यो षित्साङ्गश्चो त्यवयवत्रयं, तथाविधमिथुनीभावरूपा त्वमसि।

विश्वास-प्रस्तुतिः

प्र॒वृद॑सि।

मूलम्

प्र॒वृद॑सि।

सायण-टीका

अथोदीच्यां दिश्युपधेयानामिष्टकानां सप्त मन्त्रानाह— प्रवृदसि संवृदिति । स्त्रीपुरुषयोः संसर्गानन्तरभाविनी या प्रवृत्तिः सा प्रवृत्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

सव्ँ॒वृद॑सि ।

मूलम्

सव्ँ॒वृद॑सि ।

सायण-टीका

प्रवृत्त्यनन्त्रभावी यः सभ्यग्व्यापारः सोऽयं संवृत्तद्रुपा त्वमसि ।

विश्वास-प्रस्तुतिः

वि॒वृद॑सि ।

मूलम्

वि॒वृद॑सि ।

सायण-टीका

तद्व्यापारदूर्ध्वं या विवृत्तिः सा विवृत्तद्रूपा स्वमसि ।

विश्वास-प्रस्तुतिः

सँ॒रो॒हो॑ऽसि ।

मूलम्

सँ॒रो॒हो॑ऽसि ।

सायण-टीका

संभोगादूर्ध्वं २०४५ वीणस्य क्षेत्रे यः समारोपः सोऽयं संरोहस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

नी॒रो॒हो॑ऽसि ।

मूलम्

नी॒रो॒हो॑ऽसि ।

सायण-टीका

क्षेत्रे प्रक्षिप्तस्य वीजस्य निःशेषेण गर्भाशयव्याप्तिर्निरोहस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

प्र॒रो॒हो॑ऽसि ।

मूलम्

प्र॒रो॒हो॑ऽसि ।

सायण-टीका

गर्भशथे व्याप्तस्य वीजस्य शरीराकारः परिणामाः प्ररोहस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

अ॒नु॒रो॒हो॑ऽसि

मूलम्

अ॒नु॒रो॒हो॑ऽसि

सायण-टीका

तस्य च षरिणतस्य शरीरस्यानुकूलः पुत्रादिरूपेण प्रादुर्भावोऽनुरोहस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

व॒सु॒को॑ऽसि ।

मूलम्

व॒सु॒को॑ऽसि ।

सायण-टीका

अथ मध्यदेश उपधेयानामिष्टकानां त्रीन्मन्त्रानाह— वसुकोऽसीति ।

विश्वास-प्रस्तुतिः

वेष॑श्रिरसि ।

मूलम्

वेष॑श्रिरसि ।

सायण-टीका

वसु धनमस्यास्तीति वसुको धनी पुत्रस्तद्रूपा त्वमसिवेषो व्याप्तं घनं, वेषं श्रयते सेवत इति वेषश्रिः । माप्तस्याभिवृद्धिकारीत्यर्थः । तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

वस्य॑ष्टिरसि ॥

मूलम्

वस्य॑ष्टिरसि ॥

सायण-टीका

वसुनोऽभिवृद्धस्य धनस्याष्टिर्भोजनं यस्यासौ वस्याष्टिः । धनं संपाद्य तदभिवृद्धिं च कृत्वा तयाऽभिवृद्ध्या जीवतीत्यर्थः । तद्रूपा त्वमसि ।

एतैर्मन्त्रैः साध्यमुपधानं विधत्ते— “यज्ञेन वै प्रजापतिः प्रजा असृजत ताः स्तोमभागैरेवासृजत यत्स्तोमभाग उपदधाति प्रजा एव तद्यजमानः सृजते” (सं. का. ५ प्र. ३ अ. ५) इति।

+++(“यज्ञेन वै प्रजापतिः प्रजा असृजत (सं. का. ५ प्र. ३ अ. ५) )+++प्रजापतिर्यदा यज्ञेन प्रजा असृजत तदानीं यज्ञमध्यवर्तिनः स्तोमभागमन्त्रा एवं सृष्टिहेतव आसन् । +++(ताः स्तोमभागैरेवासृजत(सं. का. ५ प्र. ३ अ. ५) )+++ त्रिवृदादिस्तोमयुक्तानि यानि बहिष्पवमानादिस्तोत्राणि तानि भजन्त इति रश्मिरित्यादयो मन्त्राः स्तोमभागाः । ब्रह्मा तत्स्तोत्राण्यभ्यनुजानन् रश्मिरित्यादिकमेकैकं मन्त्रमुच्चार्याम्यनुजानाति । एतच्चास्माभिः पूर्वमृषयो वा इन्द्रमित्यनुवाके स्पष्टमुक्तम् । अतो रश्मिरित्यादयः स्तोमभागाः एतैर्मन्त्रै रुपेधया इष्टका अपि स्तोमभागाः । +++( प्रजा एव तद्यजमानः सृजते(सं. का. ५ प्र. ३ अ. ५) ”)+++ तदुपधानेन यजमानः प्रजाः सृजत एव । ता एताः स्तोमभागाख्या इष्टका यज्ञतेजस्त्वेन यज्ञप्रतिष्ठात्वेन च क्रमेण प्रशंसति— “बृहस्पतिर्वा एतद्यज्ञस्य तेजः समभरद्यत्स्तोमभागा यत्स्तोमभागा उपदधाति सतेजसमेवाग्निं चिनुते बृहस्पतिर्वा एतां यज्ञस्य प्रतिष्ठामपश्यद्यत्स्तोमभागा २०४६ यत्स्तोमभागा उपदधाति यज्ञस्य प्रतिष्ठित्य” [सं. का. ५ प्र. ३ अ. ५] इति।
सामान्येन विहितं पुनर्विशेषाकारेण विर्धत्ते— “सप्तसप्तोप दधाति सवीर्यत्वाय तिस्त्रो यध्ये प्रतिष्टित्यै” (सं. का. ५ प्र. ३ अ. ५) इति।
एकैकस्यां दिशि सप्तसप्तोपधानेन सवीर्यत्वं दार्ढ्यं भवति । मध्ये तिसृणामुपधानेन प्रतिष्ठा स्थैर्यं भवति ।
प्रजापतिः स्तोमभागैरेवासृजतेति सामान्यत उक्तं, तेषु कैः स्तोमभागैः कि मसृजतेत्येकैकमिष्टकामन्त्रं विभजते— “रश्मिरित्येवाऽदित्यमसृजत प्रेतिरिति धर्ममत्वितिरिति दिवँ संधिरित्यन्तरिक्षं प्रतिधिरिति पृथिवीं विष्टम्भ इति वृष्टिं प्रवेत्यहृरनुवेति रात्रिमुशिगिति वसून्प्रकेत इति रुद्रान्त्सुदीतिरित्यादित्यानोज इति पितॄँ स्तन्तुरिति प्रजाः पृतनाषाडिति पशून्रेवदित्योषधीः” (सं. का. ५ प्र. ३ अ. ६) इति।
तत्र रश्मिरित्यादयो मन्त्रास्तत्सृज्यपदार्थसंबन्धित्वेन पूर्वं व्याख्याताः । अतस्तेन मन्त्रेण तत्तत्पदार्थमसृजतेत्युपपन्नम् । एवं पञ्चदशभिर्मन्त्रैः सृष्टिरभिहिता ।
अथ सृष्टस्य जगतो रक्षाहेतुभूतं षोडशं मन्त्रं दर्शयति— “अभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वेत्येव दक्षिणतो वज्रं पर्यौहदभिजित्या” (सं. का. ५ प्र. ३ अ. ६) इति।
अस्मिन्मन्त्रे वज्र एव संबोध्यते । हे वज्र त्वमभिजिज्जयहेतुर्युक्तग्रावा स्थापितपाषाण इव दृढश्चास्यत इन्द्रप्रीत्यर्थं त्वां पर्यूहामि तेनेन्द्रं प्रीणयेति मन्त्रार्थः। प्रजापतिरेतं मन्त्रमुच्चारयन्दक्षिणहस्तेन सृष्टस्य जगतो रक्षणाय वज्रं प्रेरितवांस्तेन बाधकविनाशे सति सृष्ट्या अभिजयोऽभूत्।
२०४७ याः सृष्टा प्रजा वज्रेणं रक्षितास्तासु शरीरूपासु प्रजासु मन्त्रचतुष्टये नन्द्रियस्थापनं दर्शयति— “ताः प्रजा अपप्राणा असृजत तास्वधिपतिरसीत्येव प्राणमदधाद्यन्तेत्यपानँ सँ सर्प इति चक्षुर्वयोधा इति श्रोत्रम्” (सं. का. ५ प्र. ३ अ. ६) इति।
एवमिन्द्रिययुक्तैः शरीरैर्व्यवहरन्तीषु प्रजासु मन्त्रचतुष्टयेन मिथुनीभावसंपत्तिं दर्शयति—
“ताः प्रजाः प्राणतीरमानतीः पश्यन्तीः शृण्वतीर्न मिथुनी अभवन्तासु त्रिवृदसीत्येव यिथुनमदधात्” [सं. का. ५ प्र. ३ अ. ६] इति।

मिथुनीभूतासु प्रजासु मन्त्रचतुष्टयेन प्रजोत्पादनसामर्थ्यं दर्शयति— “ताः प्रजा मिथुनी भवन्तीर्न प्राजायन्त ताः सँ रोहोऽसि नीरोहाऽसीत्येव प्रजानयत्” (सं. का. ५ प्र. ३ अ. ६) इति।
अपत्योपेतानां प्रजानां मन्त्रत्रयेण प्रतिष्ठा भवतीत्येतद्दर्शयति— “ताः प्रजाः प्रजाता न प्रत्यतिष्ठन्ता वसुकोऽसि वेषश्रिरसि वश्यष्टिरसीत्येवैषु लोकेषु प्रत्यस्थापयद्यदाह वसुकोऽसि वेषश्रिरसि वस्यष्टिरसीति प्रजा एव प्रजाता एषु लोकेषु प्रति ष्ठापयति” (सं. का. ५ प्र. ३ अ. ६) इति।
एतद्वेदनं प्रशंसति— “सात्माऽन्तरिँ रोहसि सप्राणोऽमुष्मिल्ँ लोके प्रति तिष्टत्यव्यर्धकः प्राणापानाभ्यां भवति य एवं देद” (सं. का. ५ प्र. ३ अ. ६) इति।
सात्मा सशरीरोऽन्तरिक्षँ गत्वा यज्ञगन्धर्वादिलोकेषु भोगान्भुङ्क्ते, स्वर्गलोकेऽपि प्राणशरीरयुक्त एव प्रतितिष्ठति, प्राणापानाभ्यां कदाचिदपि न वियुक्तो भवति ।
अत्र विनियोगसंग्रहः— इष्टका रश्मिरित्येकत्रिंशस स्तोमभागकाः ॥ इति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥

चतुर्थकाण्डे चतुर्थप्रपाठके द्वितीयोऽनुवाकः