गायत्री
३-७, ११-१४ १९, २३-२५ त्रिष्टुप्
२०-२१ विराट्
विश्वेदेवा ऋषयः
चतुर्थकाण्डे तृतीयप्रपाठके त्रयोदशोऽनुवाकः
विश्वास-प्रस्तुतिः
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ ।
समि॑द्धश्शु॒क्र आहु॑तः ॥
मूलम्
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ ।
समि॑द्धश्शु॒क्र आहु॑तः ॥
सायण-टीका
द्वादशे ऽनुवाके ऽसपत्ना विराजश् चोक्ताः।
अथ त्रयोदशस्यान्त्यानुवाकत्वात् तत्र याज्या-अनुवाक्या उच्यन्ते।
चातुर्मास्येषु साकमेधाख्ये तृतीये पर्वण्य् अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालं निर्वपति साकँ सूर्येणोद्यतेत्यादि-हवींष्य् आम्नातानि।
तत्र प्रथमस्याज्य-भागस्य पुरो-अनुवाक्याम् आह— [[P2034]] “अग्निर्वृत्राणीति”।
अयम् अग्निर् अस्यानुगृह्णात्व् इति शेषः।
कीदृशो ऽग्निः, वृत्राणि जङ्घनत् कर्म-अनुष्ठान-निवारकाणि पापान्य् अतिशयेन हतवान्, विपन्यया विशिष्टया ऽस्मत्-कृतया स्तुत्या द्रविणस्युर् अस्मद्-अर्थं द्रविणेच्छुः, समिद्धः सम्यक्-प्रज्वालितः, शुक्रः शोचमानः, आहुत आ समन्ताद् अस्माभिर् आकारितः, अनेनाज्येनाहुतो वा।
विश्वास-प्रस्तुतिः
त्वँ सो॑मासि॒ सत्प॑ति॒स्त्वँ राजो॒त वृ॑त्र॒हा ।
त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑ ॥
मूलम्
त्वँ सो॑मासि॒ सत्प॑ति॒स्त्वँ राजो॒त वृ॑त्र॒हा ।
त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑ ॥
सायण-टीका
अथ द्वितीयस्याऽऽज्यभागस्य पुरोनुवाक्याम् आह— “त्वं सोमासीति”।
हे सोम त्वं सतां सम्यग्-अनुष्ठितानां कर्मणां पतिर् असि।
किंच त्वं राजा दीप्तिमान्।
अपि च त्वं वृत्रहा पाप-घाती।
किंच त्वं भद्रः फल-प्रदत्वेन मङ्गलः क्रतुर् असि।
तस्य क्रतोर् निष्पादकत्वात्।
यद्यप्य् एतन्-मन्त्रद्वयं [[चोद कप्राप्तं|चोदक-प्राप्तं]], तथाप्य् अमावास्या-विकृतित्व-युक्तां वृधन्वत्योः प्राप्तिं वारयितुं पुनः पाठः।
विश्वास-प्रस्तुतिः
भ॒द्रा ते॑ अग्ने स्वनीक स॒न्दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ ।
न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒नुवि॒ रेप॒ आ धुः॑ ॥
मूलम्
भ॒द्रा ते॑ अग्ने स्वनीक स॒न्दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ ।
न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒नुवि॒ रेप॒ आ धुः॑ ॥
सायण-टीका
अथ प्रधानस्याग्नेर् अनीकवतो हविषः पुरोनुवाक्याम् आह— “भद्रा ते अग्न इति”।
शोभनम् अनीकं सैन्यं यस्यासौ स्वनीकः, तादृश हे ऽग्ने ते त्वदीयानि चरित्राणि भद्रा भद्राणि मङ्गलानि।
कथं भद्रत्वम् इति तदुच्यते— त्वं संदृक् सम्यग्यजमानादीन्पश्यसि, यजमानादिभिर् वा सम्यग् दृश्यते।
तथा त्वं घोरस्योग्रस्य सतः सर्वदा विद्यमानस्य विषुणस्य बहुल-ज्वाल-रूपेण विष्वग्-व्यासस्य चारुश् चरण-हेतुः, अस्मद्-अनिष्ट-निवारकस्य निरन्तरस्य ज्वाला-समूहस्य प्रवर्तक इत्यर्थः।
यत् ते तत्र शोचिः प्रकाशनं कदाचिदपि तमसा न वरन्त नाऽऽव्रियते।
ध्वस्मानो ध्वंस-हेतवो राक्षसास् तनुवि शरीरे त्वदीये रेपः प्रहार-रूपं पापं नाऽऽधुर्नैव संपादितवन्तः।
विश्वास-प्रस्तुतिः
भ॒द्रन्ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य । [29]
रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितन्दृ॒श आ रू॒पे अन्न॑म् ।
मूलम्
भ॒द्रन्ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य । [29]
रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितन्दृ॒श आ रू॒पे अन्न॑म् ।
सायण-टीका
अथ तत्रैव याज्याम् आह— “भद्रं ते अग्न इति”।
सहो बलम् अस्यास्तीति सहसी, तादृश हे ऽग्ने सूर्यस्य ते सूर्य-सदृशस्य तव भद्रं कल्याणम् अनीकं ज्वाला-रूपं सैन्यम् उपाक उपान्तिके समीपे आरोचते सर्वतो दीप्यते।
तादृशं ज्वाला-रूपं त्वदीयम् अनीकं नक्तयाचिन् नक्तम् अपि गाढान्धकारावृतायां रात्राव् अपि ददृशे विस्पष्टं दृश्यते प्राणिभिः।
किम् अर्थं रात्रौ तज्-ज्वाला-दर्शनम् इति तद् उच्यते? - रुशद् धिंसकं सर्पादिकं दृशे मार्गे द्रष्टुं, तथा रात्रौ भोजन-वेलायां रूपे पुरतो निरूपिते पात्रे ऽरूक्षितं रूक्षोपलक्षितम् अक्षिकाद्युपद्रव-रहितम् अन्नम् आदृशे सर्वतो द्रष्टुम्।
विश्वास-प्रस्तुतिः
ैसैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठस्स्व॒स्ति ।
अद॑ब्धो गो॒पा उ॒त नᳶ॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ।
मूलम्
ैसैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठस्स्व॒स्ति ।
अद॑ब्धो गो॒पा उ॒त नᳶ॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ।
सायण-टीका
अथ तत्रैव विकल्पितां याज्याम् आह— “सैनानीकेनेति”।
हे ऽग्ने स त्वं द्युमद् दीप्यमानम् उतापि च रेवब्दहुधनयुक्तं गृह-क्षेत्रादिकं दीदिहि प्रकाशय।
[[P2035]]
कीदृशस् त्वम्।
एनानीकेन सुविदत्र एनेन ज्वाला-समूहेन सुष्ठु वेदिता, अस्मे देवान् यष्टास्मद्-अर्थं देवान् उद्दिश्य याग-निष्पादकः, स्वस्ति विघ्न-राहित्यं यथा भवति तथा यजिष्ठो ऽतिशयेन कृत्स्न-याग-समाप्ति-कारी, अदब्धः केनाप्य् अहिंसितो गोपा यज्ञस्य गोप्ता, उतापि च नो ऽस्माकं परस्पा अतिशयेन पालयिता।
विश्वास-प्रस्तुतिः
स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव ।
यत्सी॒महि॑ दिविजात॒ प्रश॑स्त॒न्तद॒स्मासु॒ द्रवि॑णन्धेहि चि॒त्रम् ।
मूलम्
स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव ।
यत्सी॒महि॑ दिविजात॒ प्रश॑स्त॒न्तद॒स्मासु॒ द्रवि॑णन्धेहि चि॒त्रम् ।
सायण-टीका
अथ स्विष्ट-कृतः पुरो ऽनुवाक्याम् आह— “स्वस्ति नो दिव इति”।
हे ऽग्ने नो ऽस्मभ्यं स्वस्ति निर्-विघ्नं विश्वायुः संपूर्णमायुर् धेहि संपादय।
किम् अर्थम्? यजथाय यागानुष्ठानार्थम्।
कुत्र? दिवो द्युलोके पृथिव्यां भूलोके।
हे देव यदा द्युलोके भूलोके वा तिष्ठामस् तदा सर्वदा संपूर्णमायुः प्रयच्छेत्य् अर्थः।
हे दिवि-जात स्वर्गतम् उत्पन्नाग्ने यद् द्रविणं सीमहि वयं सेवेम तद् द्रविणम् अस्यासु धेहि संपादय।
कीदृशं द्रविणम्? प्रशस्तं विद्यमान-श्रैष्ठ्यं चित्रं मणि-मुक्तादि-नानाजात्य्-उपेतम्।
विश्वास-प्रस्तुतिः
यथा॑ होत॒र्मनु॑षः [30] दे॒वता॑ता य॒ज्ञेभि॑स्सूनो सहसो॒ यजा॑सि ।
ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥
मूलम्
यथा॑ होत॒र्मनु॑षः [30] दे॒वता॑ता य॒ज्ञेभि॑स्सूनो सहसो॒ यजा॑सि ।
ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥
सायण-टीका
तत्रैव याज्याम् आह— “यथा होतरिति”।
सहसो मन्थन-रूपस्य बलस्य सूनुः पुत्रो ऽग्निः। स च देवानाम् आह्वाता। हे सहसः सूनो होतरग्ने यथा मनुषो मनुष्यान् अनुग्रहेण पालयसि, देवताता देवान् अपि यज्ञैर् यजासि पूजयसि। ताति-प्रत्ययस्य स्वार्थे विहितत्वाद् देवा एव देवतातयः।
देवताता देवतातीन्। इतर-यजमान-पालनं तदीय-देव-यजनं च दृष्टान्तः। दार्ष्टान्तिकं तु स्वकीय-देव-यजनम् उच्यते। एवा एवम् एव हे ऽग्ने नो ऽस्माकम् अद्यास्मिन् कर्मणि देवान् यक्षि त्वं यज।
कीदृशस् त्वं, समना तैर् देवैः सह समान-मनस्कः। यद् वा समानस् तैर् देवैस् तुल्य इत्य् अर्थः।
उशन् कामयमान आस्था-युक्त इत्य् अर्थः। कीदृशान् देवान्, समानांस् त्वया तुल्यान् उशतः कामयमानांस् त्वयि प्रीति-युक्तान् इत्य् अर्थः।
विश्वास-प्रस्तुतिः
अ॒ग्निमी॑डे पु॒रोहि॑तय्ँ य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रँ रत्न॒धात॑मम् ॥
मूलम्
अ॒ग्निमी॑डे पु॒रोहि॑तय्ँ य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रँ रत्न॒धात॑मम् ॥
सायण-टीका
अथ मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुम् इत्य् अत्र प्रथमाज्य-भागस्याऽनुवाक्याम् आह— “अग्निमीड इति”।
इमम् अग्निम् अहम् ईडे स्तौमि।
कीदृशं, पुरोहितं पुरो-देशे आहवनीये स्थापितं, यज्ञस्याऽनुष्ठीयमानस्य कर्मण ऋत्विजम् ऋत्विक्त्व-निष्पादकं, [[P2036]] देवं द्योतमानं, होतारं देवानाम् आह्वातारं, रत्नधातमम् अतिशयेन रत्नानां मणि-मुक्ता-प्रभृतीनां संपादकम्।
विश्वास-प्रस्तुतिः
वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।
वृषा॒ धर्मा॑णि दधिषे ॥
मूलम्
वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।
वृषा॒ धर्मा॑णि दधिषे ॥
सायण-टीका
अथ द्वितीयाज्यभागस्य पुरोनुवाक्याम् आह— “वृषा सोमेति”। हे सोम त्वं वृषा कामानां वर्षयिता द्युमान् दीप्तिमांश् चासि। हे देव यस्मात् त्वं वृषा वर्षयिता तस्मात् त्वं वृष-व्रतो वर्ष-निमित्तं कर्म यस्यासौ वृष-व्रतः। किंच यस्मात् त्वं वृषा वर्षयिता तस्माद् धर्माणि पुण्यानि दधिषे धारयसि।
विश्वास-प्रस्तुतिः
सान्त॑पना इ॒दँ ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन ।
यु॒ष्माको॒ती रि॑शादसः ॥
मूलम्
सान्त॑पना इ॒दँ ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन ।
यु॒ष्माको॒ती रि॑शादसः ॥
सायण-टीका
अथ प्रधानस्य हविषः पुरोनुवाक्याम् आह— “सांतपना इति”। सम्यक् तप्यन्ते शत्रव एभिर् इति सांतपनाः।
तादृशो हे मरुतो ऽस्माभिर् दीयमानं यद् इदं हविर् अस्ति तज् जुषुष्टन सेवध्वम्। किम् अर्थं? युष्माकोती युष्माकम् ऊतये क्षुद्-बाधातो रक्षणाय। कीदृशा मरुतः? रिशादसो रिषन्ति हिंसन्तीति रिशाः, तान् अदन्ति भक्षयन्ति विनाशयन्तीति रिशादसः।
विश्वास-प्रस्तुतिः
यो नो॒ मर्तो॑ वसवो दुर्हृणा॒युस्ति॒रस्स॒त्यानि॑ मरुतः [31] जिघाँ॑सात् ।
द्रु॒हᳶ पाश॒म्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ।
मूलम्
यो नो॒ मर्तो॑ वसवो दुर्हृणा॒युस्ति॒रस्स॒त्यानि॑ मरुतः [31] जिघाँ॑सात् ।
द्रु॒हᳶ पाश॒म्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ।
सायण-टीका
अथ तत्रैव याज्याम् आह— “यो नो मर्त इति”।
वसवो वास-हेतवो हे मरुतो यो मर्तो मनुष्यो दुर्हृणायुर् दुष्ट-क्रोधो ऽत्यन्तं पाप-बुद्धिः सन् सत्यानि तिरो ऽस्मान् प्रति कृतान्, सर्वथा नानिष्टं करिष्यामीत्य् एवंरूपाञ् शपथान् तिरस्कृत्य नो ऽस्मान् जिघांसाद् धन्तुम् इच्छेत्, स द्रुहो द्रोही पाशं भवदीयं बन्धन-रज्जुं प्रतिमुचीष्ट प्रतिमुञ्चतु। स्व-गले बध्नात्व् इत्य् अर्थः। ते द्रोहिणं तपिष्ठेन तपसात्यधिकेन संतापेन हन्तन मारयत।
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रीणा॑ म॒रुत॑स्स्व॒र्का उ॑रु॒क्षया॒स्सग॑णा॒ मानु॑षेषु ।
ते॑ऽस्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वँह॑सस्सान्तप॒ना म॑दि॒रा मा॑दयि॒ष्णवः॑ ।
मूलम्
सव्ँ॒व॒त्स॒रीणा॑ म॒रुत॑स्स्व॒र्का उ॑रु॒क्षया॒स्सग॑णा॒ मानु॑षेषु ।
ते॑ऽस्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वँह॑सस्सान्तप॒ना म॑दि॒रा मा॑दयि॒ष्णवः॑ ।
सायण-टीका
तत्रैव विकल्पितां याज्याम् आह— “संवत्सरीणा इति”।
हे मरुतः, सन्ति ते पाशान् स्वकीय-बन्धन-रज्जूर् अस्मद् अस्मत्तो ऽपनीय मानुषेषु विरोधि-जनेषु प्रमुञ्चन्तु गले बध्नन्तु। कीदृशान् पाशान्? अंहसः पापिष्ठान् अत्यन्त-निर्बन्ध-हेतून् इत्य् अर्थः।
कीदृशो मरुतः? संवत्सरीणाः सकृद्-यागेनाऽऽराधिताः संवत्सर-पर्यन्तं रक्षकाः, स्वर्काः सुष्ठ्व् अर्चनीयाः, उरु-क्षया विस्तीर्ण-गृहाः, स-गणाः सप्तभिर् गणैः सहिताः। “सप्त गणा वै मरुतः” इति श्रुत्यन्तरात्।
सांतपनाः सम्यक्-शत्रूणां ताप-कारिणः, मदिराः स्वयं हृष्टाः, मादयिष्णवो ऽस्मान् अपि हर्षयन्तः।
विश्वास-प्रस्तुतिः
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः ।
मूलम्
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः ।
सायण-टीका
अथ तत्रैव स्विष्ट-कृतः पुरोनुवाक्याम् आह— “पिप्रीहि देवान् इति”। हे यविष्ठ युवतम अग्ने, उशतः कामयमानान् देवान् पिप्रीहि, अतिशयेन प्रीणय। हे ऋतुपते सूर्यात्मना काल-परिपालक त्वम् ऋतून् काल-विशेषान् [[P2037]] विद्वान् जानन् वर्तसे।
तस्माद् इहोचिते काले यज।
देवेषु भवा ये दैव्या ऋत्विजः सन्ति, “अग्निर् होता। अश्विनाऽध्वर्यू। त्वष्टाऽग्नीत्” इत्यादिनाऽऽम्नातास् तैर् देवैः सह, त्वम् अस्य यजमानस्य संबन्धिनां होतॄणाम् ऋत्विजां मध्ये आयजिष्ठः सर्वतो यष्टृतमो ऽसि।
विश्वास-प्रस्तुतिः
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होत॒ᳶ पाव॑क [32] शो॒चे॒ वेष्ट्वँ हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ।
मूलम्
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होत॒ᳶ पाव॑क [32] शो॒चे॒ वेष्ट्वँ हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ।
सायण-टीका
तत्रैव याज्याम् आह— “अग्ने यद् अद्येति”।
हे स्विष्टकृद् अग्ने, विशः प्रविष्टस्यानुष्ठितस्याध्वरस्य संबन्धि यद् धविर् अस्ति तद् अद्य वेरशान भक्षय। होतर्होम-कर्तः पावक शोधक शोचे दीप्यमान, तान्य् एतान्य् अग्नि-विशेषणानि। हि यस्मात् त्वं यज्वा यागस्य कर्ता, तस्माद् ऋता ऋते ऽस्मदीय-यज्ञे महिम्ना यजासि। देवान् प्रीणयसि। यद् यस्मात् कारणाद् विभूर् विशिष्टो भवति, तत् तस्मात् कारणाद्धे यविष्ठ युवतमाद्य ते तव या हव्या यानि हव्यानि अस्माभिर् दीयन्ते तानि स्वी कुरु।
यद्यप्य् एतन्-मन्त्र-द्वयं दार्शिक-हौत्र-काण्डे समाम्नातत्वाच् चोदकाद् एव प्राप्तं, तथापि विस्पष्टार्थं पुनर्-वचनम् इति द्रष्टव्यम्।
विश्वास-प्रस्तुतिः
अ॒ग्निना॑ र॒यिम॑श्ञव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
य॒शसव्ँ॑वी॒रव॑त्तमम् ॥
मूलम्
अ॒ग्निना॑ र॒यिम॑श्ञव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
य॒शसव्ँ॑वी॒रव॑त्तमम् ॥
सायण-टीका
अथ “मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्” इत्य् अत्र प्रथमस्याज्यभागस्य पुरोनुवाक्याम् आह— “अग्निना रयिम् इति”।
अनेनाग्निना रयिं धनम् अश्नवत् सर्वो जनः प्राप्नोति।
न केवलं धनस्य स्वरूप-मात्रं, किंतु दिने दिने तस्य धनस्य पुष्टिम् एव प्राप्नोति न तु ह्रासम्।
कीदृशं पोषं? यशसं कीर्ति-करं, वीरवत्तमं, वीरा अस्मदीयाः पुत्रा अन्येति वीरवान् अतिशयेन तथा-विधम्।
विश्वास-प्रस्तुतिः
ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः ।
सु॒मि॒त्रस्सो॑म नो भव ।
मूलम्
ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः ।
सु॒मि॒त्रस्सो॑म नो भव ।
सायण-टीका
अथ द्वितीयस्याऽऽज्यभागस्य पुरोनुवाक्याम् आह— “गयस्फान इति”।
हे सोम नो ऽस्मान् प्रत्युच्यमान-विशेषण-विशिष्टो भव।
कानि तानि विशेषणानीति तान्य् उच्यन्ते— गयस्फानो गृहाणां वर्धयिता। अमीवहा रोगाणां हन्ता। वसुविद् धनस्य लम्भयिता। पुष्टि-वर्धनो गवादिषु पुष्टेर् वर्धयिता। सुमित्रः शोभनं यजमान-रूपं मित्रं यस्यासौ सुमित्रः।
विश्वास-प्रस्तुतिः
गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन ।
प्र॒मु॒ञ्चन्तो॑ नो॒ अँह॑सः ।
मूलम्
गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन ।
प्र॒मु॒ञ्चन्तो॑ नो॒ अँह॑सः ।
सायण-टीका
अथ प्रधानस्य पुरोनुवाक्याम् आह— “गृहमेधास इति”।
गृहे क्रियमाणो मेधो यज्ञो येषां ते गृहमेधासः।
तादृशा हे मरुत आगतेह कर्मण्य् आगच्छत। माऽपभूतन कदाचिद् अपि माऽपगच्छत। किं कुर्वन्तः? अंहसः पापान् नोऽस्मान्नोऽस्मान् प्रमुञ्चन्तः प्रकर्षेण वियोजयन्तः।
विश्वास-प्रस्तुतिः
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् ।
महो॑भिः [33] च॒र्ष॒णी॒नाम् ।
मूलम्
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् ।
महो॑भिः [33] च॒र्ष॒णी॒नाम् ।
सायण-टीका
तत्रैव याज्याम् आह— “पूर्वीभिर् हीति”। [[P2038]] हे मरुतो वयं यजमानाः पूर्वीभिर् अनादि-काल-प्रवृत्ताभिर् महोभिर् व्रीह्यादि-संपूर्णतया महनीयाभिः शरद्भिः संवत्सरैश् चर्षणीनां मनुष्याणाम् ऋत्विजां मध्ये स्थित्वा हि यस्माद् ददाशिम हविर् दद्मस् तस्माद् यूयम् इहाऽऽगच्छत।
विश्वास-प्रस्तुतिः
प्र बु॒ध्निया॑ ईरते वो॒ महाँ॑सि॒ प्र णामा॑नि प्रयज्यवस्तिरध्वम् ।
स॒ह॒स्रिय॒न्दम्य॑म्भा॒गमे॒तङ्गृ॑हमे॒धीय॑म्मरुतो जुषध्वम् ।
मूलम्
प्र बु॒ध्निया॑ ईरते वो॒ महाँ॑सि॒ प्र णामा॑नि प्रयज्यवस्तिरध्वम् ।
स॒ह॒स्रिय॒न्दम्य॑म्भा॒गमे॒तङ्गृ॑हमे॒धीय॑म्मरुतो जुषध्वम् ।
सायण-टीका
तत्रैव विकल्पिताम् अन्यां याज्याम् आह — “प्र बुध्नियेति”।
हे मरुतो बुध्नियाः, बुध्ने मूले भवानि बुध्नियानि। अनादि-काल-प्रवृत्तानीत्य् अर्थः। वो महांसि युष्माकं तेजांसि प्रेरते, प्रकर्षेण गच्छन्ति, प्रवृत्तानीत्य् अर्थः। प्रयज्यवः प्रकृष्ट-याग-युक्ता यूयं नामानि ‘गृहमेधिनो मरुतः’ इत्यादीनि भवदीय-नामधेयानि प्रतिरध्वं, प्रकर्षेण लोके ख्यापयत। सहस्रियं सहस्रसमार्हं गृहमेधीयं, गृहमेधिनो युष्मान् उद्दिश्य दीयमानम् एतं भागं पुरोडाश-रूपं जुषध्वं सेवध्वम्।
विश्वास-प्रस्तुतिः
उप॒ यमेति॑ युव॒तिस्सु॒दक्ष॑न्दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ ।
उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ।
मूलम्
उप॒ यमेति॑ युव॒तिस्सु॒दक्ष॑न्दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ ।
उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ।
सायण-टीका
अथ तत्रैव स्विष्ट-कृतः पुरोनुवाक्याम् आह— “उप यमेतीति”।
युवतिर् मन्त्रेण मिश्री-भूता हविष्मती संपूर्ण-हविर्-युक्ता घृताची घृतपुष्टेयम् आहुतिर् दोषा रात्रौ वस्तोर् दिवसे च सुदक्षं कुशलं यं स्विष्टकृतम् अग्निम् उपैति प्राप्नोति।
एनं स्विष्टकृतम् अग्निम् अरमतिः कदाचिद् अप्य् उपरति-रहितो वसूयुर् धनम् इच्छन् यजमानः स्वा स्वकीयेन हविषोपैति प्राप्नोति सेवत इत्य् अर्थः।
विश्वास-प्रस्तुतिः
इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ ।
प्रति॑ न ईँ सुर॒भीणि॑ वियन्तु ।
मूलम्
इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ ।
प्रति॑ न ईँ सुर॒भीणि॑ वियन्तु ।
सायण-टीका
अथ तत्रैव याज्याम् आह— “इमो अग्न इति”।
हे ऽग्ने, इमो इमानि वीततमान्यतिशयेन कान्तानि हव्या हवींषि देवतातिम् अच्छ देवान् अभिप्राप्तुम् अजस्रो ऽनुपरतो वक्षि वह। नो ऽस्मत्-संबन्धीनि सुरभीणि सुगन्धीनि हवींषि प्रतीं प्रत्येकम् एव वियन्तु देवा भक्षयतु।
विश्वास-प्रस्तुतिः
क्री॒डव्ँव॒श्शर्धो॒ मारु॑तमन॒र्वाणँ॑ रथे॒शुभ॑म् ।
[34] कण्वा॑ अ॒भि प्र गा॑यत ।
मूलम्
क्री॒डव्ँव॒श्शर्धो॒ मारु॑तमन॒र्वाणँ॑ रथे॒शुभ॑म् ।
[34] कण्वा॑ अ॒भि प्र गा॑यत ।
सायण-टीका
अथ “मरुद्भ्यः क्रीडिभ्यः पुरोडाशँ सप्तकपालं निर्वपति साकं सूर्येणोद्यता” इत्यस्य हविषः पुरोनुवाक्याम् आह— “क्रीडं वः शर्ध इति”।
हे कण्वाः, कण्व-प्रभृतयो वेदाचार्याः, शर्धो बलम् अभिप्रगायताभितो वैदिकैः स्तोत्रैः प्रकर्षेण गानं कुरुत।
कीदृशं बलं? वः क्रीडं युष्माकं क्रीडा-कारणं, मारुतं मरुतां संबन्धि, अनर्वाणं भ्रातृव्यैर् अतिरस्कृतम्। भ्रातृव्यो वा अर्वेति श्रुत्यन्तरात्। रथेशुभ रथप्रेरणे समर्थम्।
विश्वास-प्रस्तुतिः
अत्या॑सो॒ न ये म॒रुत॒स्स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः॑ ।
ते ह॑र्म्ये॒ष्ठाश्शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒डिनᳶ॑ पयो॒धाः ।
मूलम्
अत्या॑सो॒ न ये म॒रुत॒स्स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः॑ ।
ते ह॑र्म्ये॒ष्ठाश्शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒डिनᳶ॑ पयो॒धाः ।
सायण-टीका
तत्रैव याज्याम् आह— “अत्यासो न य इति”। [[P2039]] हे मरुतः शुभयन्त शोभयन्ते स्वरुचा स्व-संचारेण सर्वं जगद् अलं कुर्वन्तीत्य् अर्थः।
ते ऽस्मान् अनुगृह्णन्त्व् इति शेषः।
कीदृशा मरुतः? अत्यासो न सतत-गमन-शीला अश्वादय इव, स्वञ्चः शोभन-गतयः, यज्ञदृशो न मर्या याग-दर्शनार्थिनो मर्त्या इवौत्सुक्येनात्र समागता इति शेषः।
हर्म्येष्ठाः शिशवो न शुभ्राः प्रासादम् आरूढा राज-बालका इव पर्वतेषु शुभ्राः संचरन्तीति शेषः।
वत्सासो न प्रक्रीडिनः। यथाऽत्यन्त-बाल-वत्साः शीघ्रम् इतस् ततः पलायमानाः प्रकर्षेण क्रीडन्ति तथा तत्र तत्र संचरन्तः क्रीडापराः पयोधा मेघान् उत्पाद्य तेषु जल-धारिणः।
विश्वास-प्रस्तुतिः
प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे ।
ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयस्स्व॒यम्म॑हि॒त्वम्प॑नयन्त॒ धूत॑यः ।
मूलम्
प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे ।
ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयस्स्व॒यम्म॑हि॒त्वम्प॑नयन्त॒ धूत॑यः ।
सायण-टीका
तत्रैव विकल्पिताम् अन्यां पुरोनुवाक्याम् आह— “प्रैषाम् अज्मेषु विथुरिति”। एषां मरुताम् अज्मेषु गगनेषु भूमिः प्ररेजते प्रकर्षेण रेजते कम्पते। भृशं भूकम्प-जनकानि मरुतां गगनानीत्य् अर्थः। तत्र दृष्टान्तः— विथुरेव यथा भर्तृ-रहिता योषित् पालकाभावाद् अत्यन्तं कम्पते तद्वत्। यद् ध ये हि मरुतो यामेषु जलस्य नियामकेषु मेघेषु युञ्जते जलं योजयन्ति, ते मरुतो महित्वं स्वकीय-महिमानं स्वयं पनयन्त स्वयम् एव व्याहरन्ति स्तुवन्ति वा। कीदृशास् ते? क्रीडयः क्रीडापराः, धुनयः कम्प-युक्ताः सर्वदा चलन्त इत्य् अर्थः। भ्राजदृष्टयो भ्राजो दीप्तिर् विद्युद्-रूपा दृष्टिर् येषां ते भ्राजदृष्टयः। धूतयः शत्रूणां कम्प-हेतवः।
विश्वास-प्रस्तुतिः
उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वय्ँय॒यिव्ँवय॑ इव मरुत॒ᳵ केन॑ [35] चि॒त्प॒था ।
श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ।
मूलम्
उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वय्ँय॒यिव्ँवय॑ इव मरुत॒ᳵ केन॑ [35] चि॒त्प॒था ।
श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ।
सायण-टीका
तत्रैव विकल्पितां याज्याम् आह— “उपह्वरेषु यद् इति”।
हे मरुतो यद् यदा वय इव पक्षिण इव यूयं केनचिच् चित् पथा केनापि मार्गेणोपह्वरेषूपेत्य हर्तव्येषु ताडनीयेषु मेघेषु यमिमचिध्वं गतिं संपादितवन्तः। यदा जल-पूर्ण-मेघम् आस्फालयन्ति भवन्त इत्य् अर्थः। तदानीं कोशा घन-पूर्ण-गृह-सदृशा जल-पूर्णा मेघा वो युष्माकं रथेषूप समीपम् आगतेषु सत्सु श्रोतन्ति जलं स्रावयन्ति।
यूयम् अप्य् अर्चत यजमानाय मधु-वर्णं मधुर-रसोपेतं घृतं घृत-समानम् उदकम् आ समन्ताद् उक्षत सिञ्चत।
विश्वास-प्रस्तुतिः
अ॒ग्निम॑ग्निँ॒ हवी॑मभि॒स्सदा॑ हवन्त वि॒श्पति॑म् ।
ह॒व्य॒वाह॑म्पुरुप्रि॒यम् ।
मूलम्
अ॒ग्निम॑ग्निँ॒ हवी॑मभि॒स्सदा॑ हवन्त वि॒श्पति॑म् ।
ह॒व्य॒वाह॑म्पुरुप्रि॒यम् ।
सायण-टीка
अथ तत्रैव स्विष्ट-कृतः पुरोनुवाक्याम् आह— “अग्निम् अग्निम् इति”।
अग्निम् अग्निं तत्-तद्-याग-गत-स्विष्टकृतं हवीमभिर् आह्वान-परैः सदा हवन्त सर्वदा यजमाना आह्वयन्ति।
कीदृशम् अग्निं? विश्पतिं प्रजानां पालकं, हव्य-वाहं देवान् प्रति हविषो वोढारं, पुरु-प्रियं पुरूणां बहूनां यजमानानां प्रीति-हेतुम्।
विश्वास-प्रस्तुतिः
तँ हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒वङ्घृ॑त॒श्चुता॑ ।
अ॒ग्निँ ह॒व्याय॒ वोढ॑वे ।
मूलम्
तँ हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒वङ्घृ॑त॒श्चुता॑ ।
अ॒ग्निँ ह॒व्याय॒ वोढ॑वे ।
सायण-टीका
तत्रैव याज्याम् आह— [[P2040]] “तँ हि शश्वन्त इति”।
शश्वन्तो निरन्तरम् अनुतिष्ठन्त ऋत्विजो घृत-श्चुता घृतं क्षरता(न्त्या) स्रुचा युक्तास् तम् अग्निं देवम् ईडते स्तुवते।
किम् अर्थं? हव्याय वोढवे हविर् वोढुम्।
विश्वास-प्रस्तुतिः
इन्द्रा॑ग्नी रोच॒ना दि॒वः ..
मूलम्
इन्द्रा॑ग्नी रोच॒ना दि॒वः ..
सायण-टीका
अथ यान्य् अन्यानि त्रीणि हवींष्य् आम्नातानि– “ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम्” इति, तत्रैन्द्राग्नस्य याज्या-पुरोनुवाक्ययोः प्रतीके दर्शयति— “इन्द्राग्नी रोचनेति”।
“इन्द्राग्नी रोचना दिव” इति पुरोनुवाक्या।
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः।
तद् वां चेति प्र वीर्यम्।
- (टीका) दशमे ऽनुवाके पशु-शिरसाम् उपधानम् उक्तम्। अथैकादशे याज्यानुवाक्या उच्यन्ते। चातुर्मास्येषु वरुण-प्रघासाख्यं यद् द्वितीयं पर्व तस्मिन् हवींषि चत्वार्य् आम्नातानि—
“ऐन्द्राग्नम् एकादशकपालं मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम्”
इति। तत्रैन्द्राग्नस्य पुरोनुवाक्याम् आह— “इन्द्राग्नी रोचनेति”। दिवो द्यु-लोकस्य रोचना भासकौ हे इन्द्राग्नी, वाजेषु हविर्-लक्षणेष्व् अन्नेषु परि भूषथः परितः प्राप्नुतो भागम् इति शेषः। तत् तस्मात् कारणाद् वां युवयोर् वीर्यं सामर्थ्यं प्र चेति प्रकर्षेणाज्ञायि लोके सर्वैर् ज्ञातम् इत्य् अर्थः।
विश्वास-प्रस्तुतिः
श्नथ॑द्वृ॒त्रम् ..
मूलम्
श्नथ॑द्वृ॒त्रम् ..
सायण-टीका
“श्नथद् वृत्रम्” इति याज्या। एतच् चोभयम् “इन्द्राग्नी रोचना दिव” इत्य् अनुवाके व्याख्यातम्।
-
पूर्णमन्त्रपाठः
-
[ श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒स्सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ । -
(टीका) तत्रैव याज्याम् आह— “श्नथद् वृत्रम् उतेति”। यो यजमान इन्द्राग्नी सपर्यात् परिचरति। कीदृशाव् इन्द्राग्नी? सहुरी समानाह्वानौ। स यजमानो वृत्रं [[वरिणं|वैरिणं]] श्नथद् विनाशयति। [[उतापि|उत अपि]] [[P1966]] च वाजम् अन्नं सनोति सर्वेभ्यः प्रयच्छति। पुनर् अपि भूरेर् बहुलस्य वसव्यस्येरज्यन्ता, ईश्वरत्वं प्राप्तवन्तौ, सहसा स्वकीयेन बलेन सहस्तमातिशयेन सोढारौ पर-बलस्याभिभविताराव् इत्य् अर्थः। वाजयन्ता वाजम् अन्नम् आत्मन इच्छन्तौ। ]
विश्वास-प्रस्तुतिः
इन्द्रव्ँ॑वो वि॒श्वत॒स्परि ..
मूलम्
इन्द्रव्ँ॑वो वि॒श्वत॒स्परि ..
सायण-टीका
अथैन्द्रस्य याज्यानुवाक्ययोः प्रतीके दर्शयति— इन्द्र वा विश्वत इति । इन्द्रं वो विश्वतस्परीति पुरोनुवाक्या ।
-
पूर्णमन्त्रपाठः
-
[ इन्द्रव्ँ॑वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥‘ऐन्द्रं चरुं निर्वपेत्पशुकामः’ इत्यस्य पुरोनुवाक्या इन्द्रं व इति गायत्री ॥ याजमानब्राह्मणमध्ये याज्याकाण्डं वैश्वदेवम् । हे ऋत्विग्यजमाना वो युष्माकं मम जनेभ्यः पुत्रादिभ्यः सामर्थ्याद्युष्मभ्यमस्मभ्यं च सर्वार्थमिन्द्रं विश्वतस्परि विश्वस्मादुपरि हवामहे आह्वयामः । ‘पञ्चम्याः परावध्यर्थे’ इति सत्वम् । यद्वा विश्वतो जनेभ्य उपरिस्थितमिन्द्रं वो युष्मदर्थं हवामहे । किमर्थम्’ अस्माकमेव केवलोसाधाणोस्तु साधको नान्येषामिति ॥ हे ऋत्विग्यजमानाः वः युष्मदर्थं विश्वेभ्यो जनेभ्य उपरि इन्द्रं हवामहे आह्वयामः अस्माकमेव केवलः स्वाम्यस्त्विति ॥
-
ऐन्द्र उत्तमो भवति’ इत्यस्यैन्द्रस्य पुरोनुवाक्या याज्या च इन्द्रं वो विश्वतस्परीन्द्रं नर इति गायत्रीत्रिष्टुभौ । व्याख्याते चैते । इह तु प्रतीकग्रहणमनयोः । हे ऋत्विग्यजमानाः वो युष्मदर्थं विश्वेभ्यो जनेभ्यः उपरि इन्द्रं हवामहे आह्वयामः । अस्माकमेव केवलः स्वामी भवत्विति ॥
-
अथ याज्याकाण्डं वैश्वदेवमेव । तत्र ‘ऐन्द्रमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः’ इत्यस्य द्विहविष इष्टेरैन्द्रस्य एकादशकपालस्य पुरोनुवाक्या इन्द्रं व इति गायत्री ॥ व्याख्याता चेयम्, ‘इन्द्रं वो विशतस्परि हवामहे’ इत्यत्र । इह त्वस्याः प्रतीकग्रहणम् ।]
विश्वास-प्रस्तुतिः
इन्द्र॒न्नरः॑ ..
मूलम्
इन्द्र॒न्नरः॑ ..
सायण-टीका
इन्द्रं नर इति याज्या । एतच्चोभयमिन्द्रं वो विश्वतस्परि हवामह इत्यनुवाके व्याख्यातम् ।
-
पूर्णमन्त्रपाठः
-
[इन्द्र॒न्नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।
शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ ॥ -
तत्रैव याज्या इन्द्रं नर इति त्रिष्टुप् ॥ नरो मनुष्या इन्द्रं हवन्ते आह्वयन्ति । कीदृशम् ? नेमधिता, नेम इत्यर्धस्य नाम । ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति सर्वेषां भागार्धेन इन्द्रो धीयते धार्यत इति नेमधितः । निष्ठायां ‘सुधितवसुधितनेमधित’ इति धिभावो निपात्यते, ‘सुपां सुलुक्’ इति द्वितीयैकवचनस्याकारः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । कदा पुनरसौ नेमेन धार्यत इत्याह यद्यदा । तेनैव सप्तम्या लुक् । पार्याः परलोके साधवः । छान्दसो ञ्यः । यद्वा दुःखानां पारं समाप्तिः । तत्र सध्वीर्धियः कर्माणि ता यदर्थमिन्द्रमाह्वयन्ति । ता यदा युनजते युञ्जते अनुतिष्ठन्ति तदा नेमधितेति । ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वेन श्नमो ङित्त्वाभावात्, ‘श्नसोरल्लोपः’ इति न प्रवर्तते । अथेन्द्रः प्रत्यक्षमुच्यते शूरः वीरः । नृषाता नृभिर्मनुष्यैः साता सातः सम्भक्तः आश्रितः नृषातः । पूर्ववदाकारः, ‘जनसनखनां सञ्झलोः’ इत्यात्वं, पूर्ववत्पूर्वपदप्रकृतिस्वरत्वं, सुषामादित्वात्षत्वम् । यद्वा नरो मनुष्याः सनितारस्सम्भक्तारः दातारो वा यस्य नृषाता । छान्दसमात्वं, ‘ऋतश्छन्दसि’ इति कबभावः । शवसो बलस्य नेतारो यस्य दातारो यजमाना[यजना]धीनबलत्वात् । यद्वा शवसो बलस्य नृभ्यो दाता । छान्दसमात्वम्, पूर्वपदप्रकृतिस्वरत्वं च । चकानस्तृप्तिशीलः । चक तृप्तौ, भौवादिकः उदात्तेत्, ताच्छीलिकश्चानश्, ‘बहुलं छन्दसि’ इति शपो लुक् । ईदृशस्त्वं नो ऽस्मान् गोमति व्रजे गोजाविमनुष्यादिमति सङ्घाते । यद्वा व्रजे गोष्ठे भूयिष्ठगोभिर्युक्ते आभन आभिमुख्येनास्मान्योजय पशुमन्तं मां कुरु । ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् ॥ द्वितीया यदा पार्याः परलोकसाधनभूताः धियः कर्माणि युनजते युञ्जन्ति तदा मनुष्याः इन्द्रमेवाह्वयन्ति । हविषामर्धेन धार्यमाणं अर्धार्हं ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति । तस्मात् हे इन्द्र शूरः वीरः शवसो बलस्य मनुष्येभ्यः संभक्तौ चकानः दीप्यमानः । इदृशस्त्वं गोमति व्रजे गोसमूहे अस्मानाभज भागिनः कुर्विति ॥
-
तत्रैव याज्या इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । इह तु प्रतीकग्रहणम् । नरो मनुष्याः इन्द्रं हवन्ते आह्वयन्ति कीदृशं ? नेमधिता अर्धेन धार्यमाणं ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति । कदा ? यदा पार्याः दुःखपारप्राप्तिहेतुभूताः धियः कर्माणि प्रज्ञा वा युनजते तदा इन्द्रमाह्वयन्ति । स त्वं शूरो नृषाता नृभिस्सम्भजनीयः शवसः बलाद्धेतोः चकानस्तृप्तिशीलः ईदृशस्त्वमस्मान् गोमति व्रजे गोष्ठे आभज स्थापयेति ॥]
विश्वास-प्रस्तुतिः
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः ..
मूलम्
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः ..
सायण-टीका
अथ वैश्वकर्मणस्य याज्यानुवाक्ययोः प्रतीके दर्शयति— “विश्वकर्मन्न् इति”। तत्र “विश्वकर्मन् हविषा वावृधान” इति पुरोनुवाक्या।
-
पूर्णमन्त्रपाठः
-
[ विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः।
मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माकं॑ म॒ घवा॑ सू॒रि॑रस्तु। -
अथ सप्तमीमृचमाह– विश्वकर्मन्निति। हे विश्वकर्मन्नस्मदीयेने हविषा वावृधानोऽतिशयेन वर्धमानस्तनुवं जुषाणः शरीरं स्वीकुर्वाणः स्वयं यजस्व, अस्मत्तोऽन्ये सपत्ना इह कर्मणि गुह्यन्तु भ्रान्ता भवन्तु। अस्माकं तु मधवाऽन्नयुक्तः सूरिर्विद्वान्पुत्रोऽस्तु। ]
विश्वास-प्रस्तुतिः
विश्व॑कर्मन्ह॒विषा॒ वर्ध॑नेन ..
मूलम्
विश्व॑कर्मन्ह॒विषा॒ वर्ध॑नेन ..
सायण-टीका
“विश्वकर्मन् हविषा वर्धनेन” इति याज्या। एतच् चोभयं “य इमा विश्वा भुवनानि जुह्वद् इत्य् अनुवाके” व्याख्यास्यते।
-
पूर्णमन्त्रपाठः
-
[ विश्व॑कर्मन्ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम्।
तस्मै॒ विशः॒ सम॑नभन्त पू॒र्वीर॒यमुग्रो वि॑ह॒व्यो॑ यथाऽस॑त्।अथाष्टमीमृचमाह– विश्वकर्मन्हविषेति। हे विश्वकर्मन्नस्मदीयेन हविषा त्वं वर्धनेन युक्त इमं यजमानं त्रातारमन्येषां रक्षकमिन्द्रं परमैश्वर्योपेतंमवध्यं केनापि हिंसितुमशक्यमकृणोः कुरु। तस्मै यजमानाय पूर्वीर्विशो वृद्ध्या वितत्यमानाः प्रजाः समनमन्स सम्यङ्नता एतदधीना भवन्तु। अयं यजमान उग्रस्तीव्रशक्तिः सन्केनाप्यपरिभूतो विहव्यो विविधयागयोग्यो यथाऽसद्याथा भवति तथा कुरु। ]
अत्र विनियोगसंग्रहः—
अथ याज्या साकमेधे ह्यनीकवति यागके ।
आज्यभागानुवाक्ये द्वे ह्यग्निव्रृत्रेति वर्णिते ॥
भद्रा तिस्रः प्रधान स्युः स्वस्ति स्विष्टकृति द्वयम् ।
अग्निं सांतपनीयाज्यभागयोर्द्वे प्रधानके ॥
सांततिस्र पिपीह्यग्ने द्वयं स्विष्टकृतीरितम् ।
अग्निंना गृहमेधीये द्वे स्यातामाज्यभागयोः ॥
गृहे प्रधाने तिस्रः स्युरुप स्विष्टकृति द्वयम् ।
क्रीडं चतुष्टयं क्रीडियागे ह्यग्निमिति द्वयम् ॥
संयाज्ये स्तामथेन्द्राग्नी श्नथच्चैम्द्राग्नयागके ।
इन्द्रमिन्द्रं चैन्द्रयागे विश्वदे वैश्वकर्मणे ॥
त्रयर्स्त्रिशदृचः प्रोक्ता अनुवाक इहान्तिमे ॥
२०४१ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयः प्रपाठकः ॥ ३ ॥