१२ पञ्चमचितौ असपत्नाद्येष्टकोपधानम्

१-२ त्रिष्टुप् । अग्निर्ऋषिः

चतुर्थकाण्डे तृतीयप्रपाठके द्वादशोऽनुवाकः

विश्वास-प्रस्तुतिः

अग्ने॑ जा॒तान्प्र णु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।
अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒न्तव॑ स्याँ॒ शर्म॑न्त्रि॒वरू॑थ उ॒द्भित् ।

मूलम्

अग्ने॑ जा॒तान्प्र णु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।
अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒न्तव॑ स्याँ॒ शर्म॑न्त्रि॒वरू॑थ उ॒द्भित् ।

सायण-टीका

( अथ चतुर्थकाण्डे तृतीयप्रपाठके द्वादशोऽनुवाकः )।
एकादशेऽनुवाके व्युष्ट्याख्या इष्टका उक्ताः ।
तावता चतुर्थचितिः समाप्ता ।
अथ द्वादशे पञ्चम्यां चितावसपत्नाद्या इष्टका उच्यन्ते ।
कल्पः—“श्वोभूते पौर्वाह्णिकीभ्यां पचर्य पञ्चमीं चितिं चिनोत्यग्ने जातान्प्रणुदा नः सपत्नानिति पुरस्तादुपदधाति” इति ।
पाठस्तु— अग्ने जातान्प्रेति ।
हेऽग्ने नोऽस्माकं जातान्सपत्नान्ये पूर्वमुत्पन्नाः शत्रव स्तान्प्रणुद प्रकर्षेण नाशय ।
हे जातवेदो ये पूर्वमनुत्पन्ना इतः परमुत्पत्तिप्रसक्तियु क्तास्तानजाताञ्छत्रून्प्रति नुदस्वोत्पत्तिप्रतिबन्धेन निराकुरु ।
सुमनाः सानुग्रह चित्तस्त्वमहेढन्नकुध्यं स्त्रिवरुथः प्राग्वंशसदोहविर्धानरूपगृहत्रयोपेत उद्भिदनुष्ठेयकर्मोत्पादकः सन्नस्मे दीदिहि अस्मान्प्रकाशय ।
तव प्रसादाच्छमंन्स्यां सुखवा न्भवेयम् ।
एतन्मन्त्रसाध्यमुपधानं विधत्ते— “अग्ने जातान्प्र णुदा नः सपत्नानिति पुरस्तादुप दधाति जातानेव भ्रातृ व्यान्प्र णुदते” [सं. का. ५ प्र. ३ अ. ५] इति।

विश्वास-प्रस्तुतिः

सह॑सा जा॒तान्प्र णु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।
अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यँ स्या॑म॒ प्र णु॑दा नस्स॒पत्ना॑न् ।

मूलम्

सह॑सा जा॒तान्प्र णु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।
अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यँ स्या॑म॒ प्र णु॑दा नस्स॒पत्ना॑न् ।

सायण-टीका

कल्पः—“सहसा जातानिति पश्चात्” इति।
पाठस्तु— २०२७ सहसा जातान्प्रेति ।
सहसा बलेन जातानिति पूर्ववत् ।
सुमनस्यमानः सौमनस्यं प्राप्तः सजोऽस्मानधिब्रूहि ।
वयमपि त्वदानुग्रहादधिकाः स्याम ।
नोऽस्मदीयान्सपत्नाञ्छत्रून्प्रणुद ।
एतन्मन्त्रसाध्यमुपधानं विधत्ते— “सहसा जातानिति पश्चाज्जनिष्यमाणानेव प्रति नुदते” (सं. का. ५ प्र. ३ अ. ५) इति।
“पश्चादुपदधानीत्यनुवर्तते ।
पूर्वमन्त्र उत्पन्नविनाशनप्राधान्यमिह तूत्पत्स्यमानप्रतिबन्धप्राधान्यम् ।
अनेनाभिपायेणोभयत्रैवकारप्रयोगः ।

विश्वास-प्रस्तुतिः

च॒तु॒श्च॒त्वा॒रिँ॒शस्स्तोमः॑ +++(असि)+++,
वर्चो॒ द्रवि॑णम् +++(असि)+++

मूलम्

च॒तु॒श्च॒त्वा॒रिँ॒शस्स्तोमः॑ +++(असि)+++,
वर्चो॒ द्रवि॑णम् +++(असि)+++

सायण-टीका

कल्पः—“चतुश्चत्वारिँशः स्तोम इति दक्षिणतः” इति।
पाठस्तु— चतुश्चत्वाँ श इति ।
योऽयं स्तोमश्चतुश्चत्वारिंशदावृत्त्या संपन्नो यच्च वर्चो बलरूपं धनं हे इष्टके तदुभयरूपा त्वमसि ।
इमं गन्त्रं विनियुङ्क्ते “चतुश्चत्वारिँशः स्तोम इति दक्षिणतो ब्रह्मवर्चसं वै चतुश्चत्वारिँशो ब्रह्मवर्चसमेव दक्षिणतो धत्ते तस्माद्दक्षिणोऽर्धो ब्रह्मवर्चसितरः” (सं. का. ५ प्र. ३ अ. ५) इति।
ब्राह्मणानामेवाऽऽर्त्विज्यात्तैर्निष्पाद्यस्य स्तोमस्य ब्रह्मवर्चसरूपत्वम् ।

विश्वास-प्रस्तुतिः

षो॒ड॒शस्स्तोमः॑ +++(असि)+++, ओजो॒ द्रवि॑णम् +++(असि)+++

मूलम्

षो॒ड॒शस्स्तोमः॑ +++(असि)+++, ओजो॒ द्रवि॑णम् +++(असि)+++

सायण-टीका

कल्पः—“षोडशः स्तोम इत्युत्तरतः” इति।
पाठस्तु— षोडश इति ।
षोडशभिरावृत्तिभिर्निष्पाद्यः षोडशः ।
यस्तादृशः स्तोमो यच्चाष्टगधातुरूपं धनं हे इष्ठके तदुभयरूपा त्वमसि ।
एतं मन्त्रं विनियुङ्क्ते— “षोडशः स्तोम इत्युत्तरत ओजो वै षोडश ओज एवोत्तरसो धत्ते तस्मादुत्तरतोभिप्रयायी जयति” [सं. का. ५ प्र. ३ अ. ५] इति।
षोडशस्तोमस्यौजोवृद्धिहेतुत्वादोजस्त्वम् अथेष्टकाद्वयं सह प्रशंसति— “वज्रो व चतुश्चत्वारिँशो वज्रः षोडशो यदेते इष्टके उपदधाति जाताँ श्चैव जनिष्यप्राणाँश्च भ्रातृव्यान्प्रणुद्य वज्रमनु प्र हरति स्तृत्यै” (सं. का. ५ प्र. ३ अ. ५) इति।
स्तोमयोरनिष्टनिवारकत्वेन वज्रत्वं, प्रणोदनमस्मात्स्थानान्निःसारणं ततो वज्रस्यानुप्रहारः स्तृत्यै हिंसयै संपद्यते ।

विश्वास-प्रस्तुतिः

पृ॒थि॒व्याᳶ पुरी॑षमसि [26] अप्सो॒ नाम॑ ।

मूलम्

पृ॒थि॒व्याᳶ पुरी॑षमसि [26] अप्सो॒ नाम॑ ।

सायण-टीका

२०२८ कल्पः—“इष्टकायां पुरीषमध्यू(ध्यु)रू पृथिव्याः पुरीषमसीति मष्येऽम्नेः पुरीषवतीम्” इति ।
पाठस्तु— पृथिव्या पुरीषमिति ।
द्दे इष्टकास्वरूष त्वं पृथिव्यातिरूपायाः पुरीषं पूरकमसि ।
प्साति भक्षयति विनाशयतीति प्सः ।
न प्सातीत्यप्सः ।
हे इष्टके त्वमप्सो नामासि ।
एतन्मन्त्रसाध्यमुपधानं विधत्ते— “पुरीषवतीं मध्य उप दधाति पुरीषं वै मध्यमात्मनः सात्मानमेवाग्निं चिनुते” (सं. का. ५ प्र. ३ अ. ५) इति।
पुरीषमध्यू (ध्यु) ह्य तस्योपर्युपधीयमानत्वात्पुरीषवती ।
पुरीषं वा आत्मनो गवादिशरीरस्य मध्यमुदरमध्ये वर्तमानत्वात् ।
अतः पुरीषवत्त्वेन सात्मानं शरीरसहितमेवाग्निं चिनुते ।
एतद्वेदनं प्रशंसति— “सात्माऽमुष्मिल्ँ लोके भवति य एवं वेद” (सं. का. ५ प्र. ३ अ. ५) इति।
नामकरणपूर्वकमुक्तमिष्टकापञ्चकं प्रशंसति— “एता वा असपत्ना नामेष्टका यस्यैता उपधीयन्ते नास्य सपत्नो भवति” (सं. का. ५ प्र. ३ अ. ५) इति।
सपत्नानां शत्रूणां विनाशकत्वादसपत्ना इत्येतासामिष्टकानां नामधेयम्।

विश्वास-प्रस्तुतिः

एव॒श्छन्दो॒ वरि॑व॒श्छन्द॑श्श॒म्भूश्छन्दᳶ॑ परि॒भूश्छन्द॑ आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्द॒स्सिन्धु॒श्छन्द॑स्समु॒द्रञ्छन्द॑स्सलि॒लञ्छन्द॑स्सय्ँ॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्त॒रञ्छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्द॑स्स॒ष्टुप्छन्दो॑ऽनु॒ष्टुप्छन्द॑ᳵ क॒कुच्छन्द॑स्त्रिक॒कुच्छन्द॑ᳵ का॒व्यञ्छन्दो॑ऽङ्कु॒पञ्छन्दः॑ [27]
प॒दप॑ङ्क्ति॒श्छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः॑ क्षु॒रो भृज्वा॒ञ्छन्दᳶ॑ प्र॒च्छच्छन्दᳶ॑ प॒क्षश्छन्द॒ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॑ विशा॒लञ्छन्दो॒ विष्प॑र्धा॒श्छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णञ्छन्द॑स्त॒न्द्रञ्छन्दो॑ऽङ्का॒ङ्कञ्छन्दः॑ ॥ [28]

एव॒श्छन्दः॑ +++( असि)+++ ।
वरि॑व॒श्छन्दः॑ +++( असि)+++ ।
श॒म्भूश्छन्दः॑ +++( असि)+++ ।
परि॒भूश्छन्दः॑ +++( असि)+++ ।
आ॒च्छच्छन्दः॑ +++( असि)+++ ।
मन॒श्छन्दः॑ +++( असि)+++ ।
व्यच॒श्छन्दः॑ +++( असि)+++ ।
सिन्धु॒श्छन्दः॑ +++( असि)+++ ।
स॒मु॒द्रञ्छन्दः॑ +++( असि)+++ ।
स॒लि॒लञ्छन्दः॑ +++( असि)+++ ।
सय्ँ॒यच्छन्दः॑ +++( असि)+++ ।
वि॒यच्छन्दः॑ +++( असि)+++ ।
बृ॒हच्छन्दः॑ +++( असि)+++ ।
र॒थ॒न्त॒रञ्छन्दः॑ +++( असि)+++ ।
नि॒का॒यश्छन्दः॑ +++( असि)+++ ।
वि॒व॒धश्छन्दः॑
+++( असि)+++ ।
गिर॒श्छन्दः॑ +++( असि)+++ ।
भ्रज॒श्छन्द॑ः +++( असि)+++ ।
स॒ष्टुप्छन्दः +++( असि)+++ ।
अ॒नु॒ष्टुप्छन्दः॑ +++( असि)+++ ।
क॒कुच्छन्दः॑ +++( असि)+++ ।
त्रि॒क॒कुच्छन्दः॑ +++( असि)+++ ।
का॒व्यञ्छन्दः॑ +++( असि)+++ ।
अ॒ङ्कु॒पञ्छन्दः॑ [27] +++( असि)+++ ।
प॒दप॑ङ्क्ति॒श्छन्दः॑ +++( असि)+++ ।
अ॒क्षर॑पङ्क्ति॒श्छन्दः॑ +++( असि)+++ ।
वि॒ष्टा॒रप॑ङ्क्ति॒श्छन्दः॑ +++( असि)+++ ।
क्षु॒रो भृज्वा॒ञ्छन्द॑ः +++( असि)+++ ।
प्र॒च्छच्छन्दः॑ +++( असि)+++ ।
प॒क्षश्छन्दः॑ +++( असि)+++ ।
एव॒श्छन्दः॑ +++( असि)+++ ।
वरि॑व॒श्छन्दः +++( असि)+++ ।
वय॒श्छन्दः॑ +++( असि)+++ । व॒य॒स्कृच्छन्दः॑ +++( असि)+++ । वि॒शा॒लञ्छन्दः॑ +++( असि)+++ । विष्प॑र्धा॒श्छन्दः॑ +++( असि)+++ । छ॒दिश्छन्दः॑ +++( असि)+++ ।
दू॒रो॒ह॒णञ्छन्दः॑ +++( असि)+++ ।
त॒न्द्रञ्छन्दः॑ +++( असि)+++ ।
अ॒ङ्का॒ङ्कञ्छन्दः॑ +++( असि)+++ ।

मूलम्

एव॒श्छन्दो॒ वरि॑व॒श्छन्द॑श्श॒म्भूश्छन्दᳶ॑ परि॒भूश्छन्द॑ आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्द॒स्सिन्धु॒श्छन्द॑स्समु॒द्रञ्छन्द॑स्सलि॒लञ्छन्द॑स्सय्ँ॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्त॒रञ्छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्द॑स्स॒ष्टुप्छन्दो॑ऽनु॒ष्टुप्छन्द॑ᳵ क॒कुच्छन्द॑स्त्रिक॒कुच्छन्द॑ᳵ का॒व्यञ्छन्दो॑ऽङ्कु॒पञ्छन्दः॑ [27]
प॒दप॑ङ्क्ति॒श्छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः॑ क्षु॒रो भृज्वा॒ञ्छन्दᳶ॑ प्र॒च्छच्छन्दᳶ॑ प॒क्षश्छन्द॒ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॑ विशा॒लञ्छन्दो॒ विष्प॑र्धा॒श्छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णञ्छन्द॑स्त॒न्द्रञ्छन्दो॑ऽङ्का॒ङ्कञ्छन्दः॑ ॥ [28]

एव॒श्छन्दः॑ +++( असि)+++ ।
वरि॑व॒श्छन्दः॑ +++( असि)+++ ।
श॒म्भूश्छन्दः॑ +++( असि)+++ ।
परि॒भूश्छन्दः॑ +++( असि)+++ ।
आ॒च्छच्छन्दः॑ +++( असि)+++ ।
मन॒श्छन्दः॑ +++( असि)+++ ।
व्यच॒श्छन्दः॑ +++( असि)+++ ।
सिन्धु॒श्छन्दः॑ +++( असि)+++ ।
स॒मु॒द्रञ्छन्दः॑ +++( असि)+++ ।
स॒लि॒लञ्छन्दः॑ +++( असि)+++ ।
सय्ँ॒यच्छन्दः॑ +++( असि)+++ ।
वि॒यच्छन्दः॑ +++( असि)+++ ।
बृ॒हच्छन्दः॑ +++( असि)+++ ।
र॒थ॒न्त॒रञ्छन्दः॑ +++( असि)+++ ।
नि॒का॒यश्छन्दः॑ +++( असि)+++ ।
वि॒व॒धश्छन्दः॑
+++( असि)+++ ।
गिर॒श्छन्दः॑ +++( असि)+++ ।
भ्रज॒श्छन्द॑ः +++( असि)+++ ।
स॒ष्टुप्छन्दः +++( असि)+++ ।
अ॒नु॒ष्टुप्छन्दः॑ +++( असि)+++ ।
क॒कुच्छन्दः॑ +++( असि)+++ ।
त्रि॒क॒कुच्छन्दः॑ +++( असि)+++ ।
का॒व्यञ्छन्दः॑ +++( असि)+++ ।
अ॒ङ्कु॒पञ्छन्दः॑ [27] +++( असि)+++ ।
प॒दप॑ङ्क्ति॒श्छन्दः॑ +++( असि)+++ ।
अ॒क्षर॑पङ्क्ति॒श्छन्दः॑ +++( असि)+++ ।
वि॒ष्टा॒रप॑ङ्क्ति॒श्छन्दः॑ +++( असि)+++ ।
क्षु॒रो भृज्वा॒ञ्छन्द॑ः +++( असि)+++ ।
प्र॒च्छच्छन्दः॑ +++( असि)+++ ।
प॒क्षश्छन्दः॑ +++( असि)+++ ।
एव॒श्छन्दः॑ +++( असि)+++ ।
वरि॑व॒श्छन्दः +++( असि)+++ ।
वय॒श्छन्दः॑ +++( असि)+++ । व॒य॒स्कृच्छन्दः॑ +++( असि)+++ । वि॒शा॒लञ्छन्दः॑ +++( असि)+++ । विष्प॑र्धा॒श्छन्दः॑ +++( असि)+++ । छ॒दिश्छन्दः॑ +++( असि)+++ ।
दू॒रो॒ह॒णञ्छन्दः॑ +++( असि)+++ ।
त॒न्द्रञ्छन्दः॑ +++( असि)+++ ।
अ॒ङ्का॒ङ्कञ्छन्दः॑ +++( असि)+++ ।

सायण-टीका

कल्पः— “एवश्छन्दो वरिवश्छन्द इति चत्वारिंशतं विराजो दशदश प्रति दिशमक्ष्णया” इति ।
पाठस्तु— एवश्छन्दो वरिव इति ।
ऐवो वरिव इत्याद्याः शब्दाः सर्वर्गलोकवर्तिनां छन्दोविशेषाणां नामधेयानि ।
हे इष्टके त्वमेवश्छन्दो यत्तद्रूपाऽसि ।
एवं सर्वत्रोहनीयम् । एतन्मन्त्रसाध्यमुषधानं विधत्ते— “पशुर्वा एष यदग्निर्विराज उत्तमायां चित्यामुप दधाति विराजमेवोत्तमां षशुषु दधाति तस्मात्पशुमानुत्तमां वाचं वदति” [सं. का. ५ प्र. ३ अ. ५] इति।
पशुप्राप्तेहेतुत्वादग्नेः पशुत्वम् ।
अतः मशुषूत्तमां विराजं क्षीरदध्यदिरूपमन्नं
२०२९ स्थापयितुमस्मिन्प शुरूपेऽग्नावुत्तमायां पञ्चम्यां चितौ विराडाख्या इष्टका उपदध्यात् ।
विराड्रूपत्वं तु वक्ष्यमाणदशसंख्यया संपद्यते ।
यस्मात्पशुरूपेऽग्नावन्नरूपं विराजमुपदधाति तस्माल्लोकेऽपि बहुपशुयुक्तः पुरुषः समागतानतिथीन्प्रत्युत्तमां वाचं वदतिश्रान्ता यूयं मद्गृहे समागच्छत भुज्यतामिति ।
सेयमुत्तमा वाक् । एकैकस्यां दिशीष्टकासंख्यां विधत्ते— “दशदशोप दधाति सवीर्यत्वाय” [सं. का. ५ प्र. ३ अ. ५] इति ।
सवीर्यत्वं दार्ढ्योपेतत्वं, तच्च वहुभिरिष्टकाभिः संपद्यते ।
सन्यक्पङ्क्तिरूपत्वं वारयितुं वक्रत्वं विधत्ते— “अक्ष्णयोषा दधाति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै” [सं. का. ५ प्र. ३ अ. ५] इति।
उक्ता विराजः प्रशंसति— “यानि वै छन्दाँसि सुवर्ग्याण्बासन्तैर्देवाः सुवर्गं लोकमायन्तेनर्षयोऽश्राभ्यन्ते तपोऽप्यन्त तानि तपसाऽपश्यन्तेभ्य एता इष्टका निरमिमतैवश्छन्दो वरिवश्छन्द इति ता उपादधत ताभिर्वै ते सुवर्गं लोकमायन्यदेता इष्टका उपदधाति यान्येव छन्दाँसि सुवर्ग्याणि तैरेव यजमानः सुवर्गं लोकमेति” (सं. का. ५ प्र. ३ अ. ५) इति।
स्वर्गगर्हन्तीति सुवर्ग्याणि । तादृशानि यान्याम्नातानि छन्दांसि स्वर्गलोकेस्थितानि तैच्स्रन्दोभिर्देवाः स्वर्गं प्राप्ताः । तत्पाठस्तेषां स्वर्गप्राप्तिसाधानम् ।
ऋषयश्च तेन स्वर्गप्राप्तिनिमित्तेनाश्राम्यन्नुपायमन्विष्यालभमानाः खिन्ना आसन् ।
ते पुनर्विचार्य स्वर्गप्राप्त्यर्थं तपः कृतवन्तः ।
ततोऽनुष्ठितेन तपसा तानि च्छन्दांसि स्वर्गसाधनान्यपश्यन् ।
तेभ्यश्छन्दोभ्य एता विराडाख्या इष्टका निर्मितवन्तः । निर्माय चैवश्छन्दो वरिवश्छन्द इति मन्त्रैस्ता विराज उपादधत ।
ततस्ताभिरिष्टकाभिस्त ऋषयः स्वर्गं प्राप्ताः ।
अतो यजमानोऽपि तदुपधानेन सुवर्ग्यैस्तैश्छन्दोभिः स्वर्गं प्राप्नोत्येव ।

अत्र विनियोगसंग्रहः—
पञ्चम्यां तु चितावग्ने ह्यसपत्नास्तु पञ्च च ।
एवश्चत्दारिंशदुक्ता विराजो दिक्षुं वक्रगाः ॥ इति ॥
२०३० इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥