अग्निर्ऋषिः
चतुर्थकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः
मूलम् (संयुक्तम्)
एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत्प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒ताना॒म्पति॒रधि॑पतिरासीत्स॒प्तभि॑रस्तुवत सप्त॒र्षयो॑ऽसृज्यन्त धा॒ताधि॑पतिरासीन्न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीदेकाद॒शभि॑रस्तुवत॒र्तवो॑ऽसृज्यन्तार्त॒वोऽधि॑पतिरासीत्त्रयोद॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त सव्ँवत्स॒रोऽधि॑पतिः [18]
आ॒सी॒त्प॒ञ्च॒द॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीत्सप्तद॒शभि॑रस्तुवत प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीन्नवद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विँशत्यास्तुव॒तैक॑शफाᳶ प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त्त्रयो॑विँशत्यास्तुवत क्षु॒द्राᳶ प॒शवो॑ऽसृज्यन्त पू॒षाधि॑पतिरासी॒त्पञ्च॑विँशत्यास्तुवतार॒ण्याᳶ प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्स॒प्तविँ॑शत्यास्तुवत॒ द्यावा॑पृथि॒वी वि [19]
ऐ॒ताव्ँ॒वस॑वो रु॒द्रा आ॑दि॒त्या अनु॒ व्या॑य॒न्तेषा॒माधि॑पत्यमासी॒न्नव॑विँशत्यास्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒देक॑त्रिँशतास्तुवत प्र॒जा अ॑सृज्यन्त॒ यावा॑ना॒ञ्चाया॑वाना॒ञ्चाधि॑पत्यमासी॒त्त्रय॑स्त्रिँशतास्तुवत भू॒तान्य॑शाम्यन्प्र॒जाप॑तिᳶ परमे॒ष्ठ्यधि॑पतिरासीत् ॥
[20]
विश्वास-प्रस्तुतिः
एक॑यास्तुवत
।
मूलम्
एक॑यास्तुवत
।
सायण-टीका
(अथ चतुर्थकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः) ।
नवमेऽनुवाकेऽवशिष्टा अक्ष्णयास्तोमीया उक्ताः।
अथ दशमे सृष्टिशब्दाभिधेया इष्टका उच्यन्ते ।
कल्पः— “एकयाऽस्तुवतेति सप्तदश सृष्टीः” इति।
पाठस्तु— एकयाऽस्तुवतेति ।
पूर्वे महर्षयः कदाचिद्यागकाल एकया स्तोत्रिययर्चा स्तुतिमकुर्वन् ।
विश्वास-प्रस्तुतिः
प्र॒जा अ॑धीयन्त ।
मूलम्
प्र॒जा अ॑धीयन्त ।
सायण-टीका
तत्तत्सामर्थ्यात्प्रजा अधीयन्त
तैर्महर्षिभिरुदपाद्यन्त ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒रधि॑पतिरासीत्
।
मूलम्
प्र॒जाप॑ति॒रधि॑पतिरासीत्
।
सायण-टीका
तदानीं प्रजापतिस्तासां प्रजानामधिपतिरासीत् ।
विश्वास-प्रस्तुतिः
ति॒सृभि॑रस्तुवत ।
मूलम्
ति॒सृभि॑रस्तुवत ।
सायण-टीका
अथ कदाचित्तिसृभिः स्तोत्रियाभिरस्तुवत्।
विश्वास-प्रस्तुतिः
ब्रह्मा॑सृज्यत ।
मूलम्
ब्रह्मा॑सृज्यत ।
सायण-टीका
तत्सामर्थ्याद्ब्रह्म ब्राह्मणजातिस्तैरसृज्यत ।
विश्वास-प्रस्तुतिः
ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत्
।
मूलम्
ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत्
।
सायण-टीका
ब्रह्मणस्पतिरिति प्रसिद्धो यो देवः सोऽयं ब्राह्मणजातेरधिपतिरासीत् एवं सर्वत्र योज्यम् ।
विश्वास-प्रस्तुतिः
प॒ञ्चभि॑रस्तुवत ।
भू॒तान्य॑सृज्यन्त ।
भू॒ताना॒म्पति॒रधि॑पतिरासीत् ।
मूलम्
प॒ञ्चभि॑रस्तुवत ।
भू॒तान्य॑सृज्यन्त ।
भू॒ताना॒म्पति॒रधि॑पतिरासीत् ।
सायण-टीका
भूतानां पतिः कश्चिद्देय विशेषः ।
अत एवान्यत्राऽऽम्नातम्—“भूतानां पतये स्वाहा” इति ।
सोऽयमत्र तिप तभूनिंराधपतिः स्वाम्यासीत् ।
विश्वास-प्रस्तुतिः
स॒प्तभि॑रस्तुवत ।
सप्त॒र्षयो॑ऽसृज्यन्त
।
धा॒ताऽधि॑पतिरासीत् ।
मूलम्
स॒प्तभि॑रस्तुवत ।
सप्त॒र्षयो॑ऽसृज्यन्त
।
धा॒ताऽधि॑पतिरासीत् ।
सायण-टीका
धाता जगत्स्त्रष्टा ।
विश्वास-प्रस्तुतिः
न॒वभि॑रस्तुवत ।
पि॒तरो॑ऽसृज्यन्त ।
अदि॑ति॒रधि॑पत्न्यासीत्
।
मूलम्
न॒वभि॑रस्तुवत ।
पि॒तरो॑ऽसृज्यन्त ।
अदि॑ति॒रधि॑पत्न्यासीत्
।
सायण-टीका
अदितिर्भूमिः ।
विश्वास-प्रस्तुतिः
ए॒का॒द॒शभि॑रस्तुवत ।
ऋ॒तवो॑ऽसृज्यन्त
।
आ॒र्त॒वोऽधि॑पतिरासीत्
।
मूलम्
ए॒का॒द॒शभि॑रस्तुवत ।
ऋ॒तवो॑ऽसृज्यन्त
।
आ॒र्त॒वोऽधि॑पतिरासीत्
।
सायण-टीका
आर्तव २०१५ ऋतुपालकः कश्चिद्देवविशेषः ।
विश्वास-प्रस्तुतिः
त्र॒यो॒द॒शभि॑रस्तुवत ।
मासा॑ असृज्यन्त ।
मूलम्
त्र॒यो॒द॒शभि॑रस्तुवत ।
मासा॑ असृज्यन्त ।
मूलम् (संयुक्तम्)
सव्ँ॒व॒त्स॒रोऽधि॑पतिः [18] आ॒सीत्
।
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रोऽधि॑पतिरासीत्
।
प॒ञ्च॒द॒शभि॑रस्तुवत
।
क्ष॒त्रम॑सृज्यत
।
इन्द्रोऽधि॑पतिरासीत्
।
मूलम्
सव्ँ॒व॒त्स॒रोऽधि॑पतिरासीत्
।
प॒ञ्च॒द॒शभि॑रस्तुवत
।
क्ष॒त्रम॑सृज्यत
।
इन्द्रोऽधि॑पतिरासीत्
।
सायण-टीका
क्षत्त्रं क्षात्त्रियजातिः।
विश्वास-प्रस्तुतिः
स॒प्त॒दशभि॑रस्तुवत ।
प॒शवो॑ऽसृज्यन्त
।
बृह॒स्पति॒रधि॑पतिरासीत्
।
न॒व॒द॒शभि॑रस्तुवत ।
शूद्रा॒र्याव॑सृज्येताम्
।
मूलम्
स॒प्त॒दशभि॑रस्तुवत ।
प॒शवो॑ऽसृज्यन्त
।
बृह॒स्पति॒रधि॑पतिरासीत्
।
न॒व॒द॒शभि॑रस्तुवत ।
शूद्रा॒र्याव॑सृज्येताम्
।
सायण-टीका
शूद्रार्यौ शूद्रो वैश्यश्चेति जातिद्वयम् ।
विश्वास-प्रस्तुतिः
अ॒हो॒रा॒त्रे अधि॑पत्नी आस्ताम् ।
मूलम्
अ॒हो॒रा॒त्रे अधि॑पत्नी आस्ताम् ।
सायण-टीका
अहर्देवता रात्रिदेवता चेत्येते जातिद्वयस्याधिपत्नी स्वामिरूपे आस्ताम् ।
विश्वास-प्रस्तुतिः
एक॑विँशत्याऽस्तुवत
।
एक॑शफाᳶ प॒शवो॑ऽसृज्यन्त ।
वरु॒णोऽधि॑पतिरासीत् ।
त्रयो॑विँशत्याऽस्तुवत ।
क्षु॒द्राᳶ प॒शवो॑ऽसृज्यन्त ।
पू॒षाधि॑पतिरासीत् ।
पञ्च॑विँशत्याऽस्तुवत ।
आर॒ण्याᳶ प॒शवो॑ऽसृज्यन्त ।
वा॒युरधि॑पतिरासीत् ।
्स॒प्तविँ॑शत्याऽस्तुवत ।
मूलम्
एक॑विँशत्याऽस्तुवत
।
एक॑शफाᳶ प॒शवो॑ऽसृज्यन्त ।
वरु॒णोऽधि॑पतिरासीत् ।
त्रयो॑विँशत्याऽस्तुवत ।
क्षु॒द्राᳶ प॒शवो॑ऽसृज्यन्त ।
पू॒षाधि॑पतिरासीत् ।
पञ्च॑विँशत्याऽस्तुवत ।
आर॒ण्याᳶ प॒शवो॑ऽसृज्यन्त ।
वा॒युरधि॑पतिरासीत् ।
्स॒प्तविँ॑शत्याऽस्तुवत ।
मूलम् (संयुक्तम्)
द्यावा॑पृथि॒वी वि [19] ऐ॒ताम् ।
विश्वास-प्रस्तुतिः
द्यावा॑पृथि॒वी व्यै॑ताम् ।
मूलम्
द्यावा॑पृथि॒वी व्यै॑ताम् ।
सायण-टीका
सप्तविंशतिस्तोत्रसामर्थ्यात्पूर्वमेकीभूते द्यावापृथिव्यौ परस्परं वियुक्ते अतामभु ।
विश्वास-प्रस्तुतिः
वस॑वो रु॒द्रा आ॑दि॒त्या अनु॒ व्या॑यन् ।
मूलम्
वस॑वो रु॒द्रा आ॑दि॒त्या अनु॒ व्या॑यन् ।
सायण-टीका
तयोर्वियोमेन वस्वादयस्त्रयो गणाः परस्परं वियुक्ता अभवन् ।
विश्वास-प्रस्तुतिः
तेषा॒माधि॑पत्यमासीत् ।
मूलम्
तेषा॒माधि॑पत्यमासीत् ।
सायण-टीका
तेषां वस्वादीनां द्यावापृथिव्यौ प्रत्याधिपत्यमासीत् ।
विश्वास-प्रस्तुतिः
नव॑विँशत्यााऽस्तुवत ।
वन॒स्पत॑योऽसृज्यन्त ।
सोमोऽधि॑पतिरासीत् ।
एक॑त्रिँशताऽस्तुवत ।
प्र॒जा अ॑सृज्यन्त ।
यावा॑ना॒ञ्चाया॑वाना॒ञ्चाधि॑पत्यमासीत् ।
मूलम्
नव॑विँशत्यााऽस्तुवत ।
वन॒स्पत॑योऽसृज्यन्त ।
सोमोऽधि॑पतिरासीत् ।
एक॑त्रिँशताऽस्तुवत ।
प्र॒जा अ॑सृज्यन्त ।
यावा॑ना॒ञ्चाया॑वाना॒ञ्चाधि॑पत्यमासीत् ।
सायण-टीका
यावा मासदेवता अथवा अर्धमासदेवताः । उभयविधदेवतानां प्रजाः प्रति आधिपत्यमासीत् ।
विश्वास-प्रस्तुतिः
त्रय॑स्त्रिँशताऽस्तुवत ।
भू॒तान्य॑शाम्यन् ।
मूलम्
त्रय॑स्त्रिँशताऽस्तुवत ।
भू॒तान्य॑शाम्यन् ।
सायण-टीका
भूतान्यशाम्यन्, प्राणीनः शान्तानुपद्रवरहितानकुर्वत ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ परमे॒ष्ठ्यधि॑पतिरासीत् ॥
[20]
मूलम्
प्र॒जाप॑तिᳶ परमे॒ष्ठ्यधि॑पतिरासीत् ॥
[20]
सायण-टीका
परमे सत्यलोके तिष्ठतीति परमेष्ठी । तादृशः प्रजापतिः स्वाम्यभूत् ।
एतैर्मन्त्रैः साध्यमुपधानं विधत्ते— “सृष्टीरुप दधाति यथासृष्टमेवाव रुन्धे” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
सृजतिधातुयुक्तैर्मन्त्रैरुपधेया इष्टकाः सृष्टयः ।
तासामुपधाने सति यद्वस्तु यथा सृष्टं तत्तथैव प्राप्नोति ।
अत्र विनियोगसंग्रहः— एक सप्तदशाऽऽदध्यादिष्टकाः सृष्टिसंज्ञिताः ॥
अत्र मीमांसा।
प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्—
सृष्टीरुपधातीति ये मन्त्राः सृष्टिलिङ्गकाः ।
विधेयास्ते गुणत्वेन वादो वाऽत्र गुणे विधिः ॥
आख्यातेनाभिसंबन्धादविध्यन्तरयोगत् ।
लिङ्गप्रकरणप्राप्तेर्मन्त्राणां विध्यसंभवातः ॥
ताननूद्येष्टकाधानं विदध्यात्स्तोष्णते यतः ।
यथासृष्टेत्यनेनातः सृष्टीरित्यर्थवादगीः ॥
एकयाऽस्तुवतेत्यादौ मन्त्रसंघे क्वचिन्नहि ।
सृष्टिशब्दस्तथाऽप्युक्तिः सृष्टिशब्देन भूमतः ॥
ेअग्निचयने श्रूयते– “सृष्टिरुपदधाति” इति ।
सृष्टिशब्दोपेता मन्त्राः
२०१६ यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय इत्युच्यन्ते ।
सृष्टिमानासा मुपदधानो मन्त्र इति विगृह्य “तद्वानासामुपधानः” इत्यादिव्याकरणसूत्रसिद्धप्रक्रियया तन्नित्पादनात् ।
सृष्टिशब्दोपेताश्चोपधानमन्त्रा एकयाऽस्तुवेत्यस्मिन्ननुवाके समाम्नाताः।
ब्रह्मासृज्यत भूएन्यसृज्यन्तेत्यादिना सृजतिधातोस्तेषु मन्त्रेषु प्रयुक्तत्वात् ।
ते च मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते ।
कुतः उपदधातीत्यनेनाऽऽश्यातेनाभिसंबन्धात् ।
न चार्थवादत्मस्य संभवति ।
विध्यन्तरेण सहैकवाक्यत्वाभावादिति प्राप्ते ब्रूमः अग्निचयनप्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयनसंबन्धोऽवगम्यते ।
विशेषसंबन्धस्तु सृजतिलिङ्गादवग न्तव्यः ।
तथा सति प्राप्तत्वान्न ते मन्त्रा अत्र विघीयन्ते, किंतु तान्मन्त्राननूद्येष्टकोपघानं विधीयते ।
सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्यर्थः ।
“यथासृष्टमेवावरुन्बे” इति हि वक्ष्यमाणोऽर्थवादः ।
यदि विधिवाक्ये मन्त्राणा मनुवादकः सृष्टिशब्दो न स्यात्, तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोर्वैयघिकरण्यभ्रमः स्यात।
तस्मान्मन्त्रानुवादी सष्टिशब्दो न गुणविधायकः, किंत्वर्थवादः ।
ननु प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः ।
‘एकयाऽस्तुवत प्रजा अधीयन्त’ इति पाठात् ।
वाढं, तथाऽपि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजतिघातुप्रयोगाद्भूमरूपं सादृश्यमस्ति ।
यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र यथा सृष्टिभूमां तथाऽत्रापि भूमगुणयोगेन सृष्ट्यसृष्टिसंघे सृष्टिशब्द प्रयोगः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः ॥
१० ॥