०९ अवशिष्टस्तोमीयोपधानम्

अग्निर्ऋषिः

चतुर्थकाण्डे तृतीयप्रपाठके नवममोऽनुवाकः

मूलम् (संयुक्तम्)

अ॒ग्नेर्भा॒गो॑ऽसि दी॒क्षाया॒ आधि॑पत्य॒म्ब्रह्म॑ स्पृ॒तन्त्रि॒वृत्स्तोम॒ इन्द्र॑स्य भा॒गो॑ऽसि॒ विष्णो॒राधि॑पत्यङ्क्ष॒त्रँ स्पृ॒तम्प॑ञ्चद॒शस्स्तोमो॑ नृ॒चक्ष॑साम्भा॒गो॑ऽसि धा॒तुराधि॑पत्यञ्ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒शस्स्तोमो॑ मि॒त्रस्य॑ भा॒गो॑ऽसि॒ वरु॑ण॒स्याधि॑पत्यन्दि॒वो वृ॒ष्टिर्वाताः॑ स्पृ॒ता ए॑कविँ॒शस्स्तोमोऽदि॑त्यै भा॒गो॑ऽसि पू॒ष्ण आधि॑पत्य॒मोज॑स्स्पृ॒तन्त्रि॑ण॒वस्स्तोमो॒ वसू॑नाम्भा॒गो॑ऽसि [16] रु॒द्राणा॒माधि॑पत्य॒ञ्चतु॑ष्पात्स्पृ॒तञ्च॑तुर्विँ॒शस्स्तोम॑ आदि॒त्याना॑म्भा॒गो॑ऽसि म॒रुता॒माधि॑पत्य॒ङ्गर्भाः॑ स्पृ॒ताᳶ प॑ञ्चविँ॒शस्स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि॒ बृह॒स्पते॒राधि॑पत्यँ स॒मीची॒र्दिश॑स्स्पृ॒ताश्च॑तुष्टो॒मस्स्तोमो॒ यावा॑नाम्भा॒गो॑ऽस्यया॑वाना॒माधि॑पत्यम्प्र॒जास्स्पृ॒ताश्च॑तुश्चत्वारिँ॒शस्स्तोम॑ ऋभू॒णाम्भा॒गो॑ऽसि॒ विश्वे॑षान्दे॒वाना॒माधि॑पत्यम्भू॒तन्निशा॑न्तँ स्पृ॒तन्त्र॑यस्त्रिँ॒शस्स्तोमः॑ ॥ [17]

विश्वास-प्रस्तुतिः

अ॒ग्नेर्भा॒गो॑ऽसि ,
दी॒क्षाया॒ आधि॑पत्यम् +++(असि)+++,
ब्रह्म॑ स्पृ॒तम् +++(असि)+++,
त्रि॒वृत्स्तोमः +++(असि)+++,

मूलम्

अ॒ग्नेर्भा॒गो॑ऽसि ,
दी॒क्षाया॒ आधि॑पत्यम् +++(असि)+++,
ब्रह्म॑ स्पृ॒तम् +++(असि)+++,
त्रि॒वृत्स्तोमः +++(असि)+++,

सायण-टीका

( अथ चतुर्थाष्टके तृतीयप्रपाठके नवममोऽनुवाकः ) अष्टमेऽनुवाके काश्चिदक्ष्णयास्तोमीयास्र्या इष्टका उक्ताः।
अथ नवमेऽवं शिष्टास्ता उच्यन्ते ।
तासामवशिष्टानामिष्टकानां मन्त्रेषु प्रथमं मन्त्रमाह— अग्नेर्भागोऽसीति ।
हे इष्टके योऽयमग्नेर्भागो हविर्लक्षणः, यच्च दीक्षादेवताया आधिपत्यं स्वामित्वं स्पृतं ब्रह्म देवानां प्रीतिकरं मन्त्रजातं ब्राह्मणजा तिर्वा, योऽपि त्रिवृदाख्यः स्तोमविशेषस्तत्सर्वं त्वमसि ।

विश्वास-प्रस्तुतिः

इन्द्र॑स्य भा॒गो॑ऽसि,
विष्णो॒राधि॑पत्यम् +++(असि)+++,
क्ष॒त्रँ स्पृ॒तम्+++(असि)+++,
प॒ञ्च॒द॒शस्स्तोमः॑ +++(असि)+++,

मूलम्

इन्द्र॑स्य भा॒गो॑ऽसि,
विष्णो॒राधि॑पत्यम् +++(असि)+++,
क्ष॒त्रँ स्पृ॒तम्+++(असि)+++,
प॒ञ्च॒द॒शस्स्तोमः॑ +++(असि)+++,

सायण-टीका

अथ द्वितीयं मन्त्रमाह— इन्द्रस्य भागोऽमीति ।
हे इष्टके योऽयमिन्द्रस्य भागो हविर्विशेषः यच्च विष्णोः परमेश्वरस्याऽऽधिपत्यं, यदपि स्पृतं प्रीतिहेतुः क्षत्त्रं बलं क्षत्त्रियजातिवां, योऽपि पञ्चदशाख्यः स्तोमस्तत्सर्वं त्वमसि ।

विश्वास-प्रस्तुतिः

नृ॒चक्ष॑साम्भा॒गो॑ऽसि ,
धा॒तुराधि॑पत्यम् +++(असि)+++,
ज॒नित्रँ॑ स्पृ॒तम् +++(असि)+++,
स॒प्त॒द॒शस्स्तोमः॑ +++(असि)+++,

मूलम्

नृ॒चक्ष॑साम्भा॒गो॑ऽसि ,
धा॒तुराधि॑पत्यम् +++(असि)+++,
ज॒नित्रँ॑ स्पृ॒तम् +++(असि)+++,
स॒प्त॒द॒शस्स्तोमः॑ +++(असि)+++,

सायण-टीका

अथ तृतीयं मन्त्रमाह— नृचक्षसामिति ।
ये मनुष्याः सन्तश्चक्षते वेदं व्यक्तमुच्चारयग्ति ते नृचक्षस ऋत्विगादयस्तेषां भागो दक्षिणारूपो गवादिः।
धातुः प्रजापतेर्यदाधिपत्यं, यच्च स्पृतं प्रीतिकरं जनित्रं, यो हि(ऽपि) सप्तदशाख्यः स्तोमविशेषस्तत्सर्वं त्वमसि ।

विश्वास-प्रस्तुतिः

मि॒त्रस्य॑ भा॒गो॑ऽसि
वरु॑ण॒स्याधि॑पत्यम् +++(असि)+++,
दि॒वो वृ॒ष्टिः +++(असि)+++,
वाताः॑ स्पृ॒ताः +++(असि)+++,
ए॒क॒विँ॒शस्स्तोमः॑ +++(असि)+++,

मूलम्

मि॒त्रस्य॑ भा॒गो॑ऽसि
वरु॑ण॒स्याधि॑पत्यम् +++(असि)+++,
दि॒वो वृ॒ष्टिः +++(असि)+++,
वाताः॑ स्पृ॒ताः +++(असि)+++,
ए॒क॒विँ॒शस्स्तोमः॑ +++(असि)+++,

सायण-टीका

अथ चतुर्थं मन्त्रमाह— मित्रस्य भागोऽसीति ।
स्पृताः प्रीतिहेतवो वाता वायवो दिवः सकाशादागता वष्टिश्च ।

विश्वास-प्रस्तुतिः

अदि॑त्यै भा॒गो॑ऽसि,
पू॒ष्ण आधि॑पत्यम् +++(असि)+++,
ओज॑स्स्पृ॒तम् +++(असि)+++,
त्रि॒ण॒वस्स्तोमः॑ +++(असि)+++,

मूलम्

अदि॑त्यै भा॒गो॑ऽसि,
पू॒ष्ण आधि॑पत्यम् +++(असि)+++,
ओज॑स्स्पृ॒तम् +++(असि)+++,
त्रि॒ण॒वस्स्तोमः॑ +++(असि)+++,

सायण-टीका

अथ पञ्चमं यन्त्रमाह— अदित्यै भागोऽसीति ।
ओजो बलमष्टमधातुर्वा ।

विश्वास-प्रस्तुतिः

वसू॑नाम्भा॒गो॑ऽसि ,
रु॒द्राणा॒माधि॑पत्यम् +++(असि)+++,
चतु॑ष्पात्स्पृ॒तम् +++(असि)+++,
च॒तु॒र्विँ॒शस्स्तोमः॑ +++(असि)+++,

मूलम्

वसू॑नाम्भा॒गो॑ऽसि ,
रु॒द्राणा॒माधि॑पत्यम् +++(असि)+++,
चतु॑ष्पात्स्पृ॒तम् +++(असि)+++,
च॒तु॒र्विँ॒शस्स्तोमः॑ +++(असि)+++,

सायण-टीका

अथ षष्ठं मन्त्रमाह— २००८ वसूनां भागोऽसीति ।
चतुष्पाद्गवाश्वादिः ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्याना॑म्भा॒गो॑ऽसि,
म॒रुता॒माधि॑पत्यम्+++(असि)+++,
गर्भाः॑ स्पृ॒ताः+++(असि)+++,
प॒ञ्च॒विँ॒शस्स्तोमः॑ +++(असि)+++,

मूलम्

आ॒दि॒त्याना॑म्भा॒गो॑ऽसि,
म॒रुता॒माधि॑पत्यम्+++(असि)+++,
गर्भाः॑ स्पृ॒ताः+++(असि)+++,
प॒ञ्च॒विँ॒शस्स्तोमः॑ +++(असि)+++,

सायण-टीका

अथ सप्तमं मन्त्रमाह— आदित्यानां भागोऽसीति ।
गर्भा द्विपदां चतुष्पदां चोदरगताः।

विश्वास-प्रस्तुतिः

दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि ,
बृह॒स्पते॒राधि॑पत्यम् ++(असि)+++,
स॒मीची॒र्दिश॑स्स्पृ॒ताः +++(असि)+++,
च॒तु॒ष्टो॒मस्स्तोमः॑+++(असि)+++,

मूलम्

दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि ,
बृह॒स्पते॒राधि॑पत्यम् ++(असि)+++,
स॒मीची॒र्दिश॑स्स्पृ॒ताः +++(असि)+++,
च॒तु॒ष्टो॒मस्स्तोमः॑+++(असि)+++,

सायण-टीका

अथाष्टमं मन्त्रमाह— देवस्य सवितुरिति ।
यासु दिक्ष्ववस्थिताः प्राणिनोऽनुकूलास्ता दिशः समीच्यस्ता एव स्पृताः ।

विश्वास-प्रस्तुतिः

यावा॑नाम्भा॒गो॑ऽसि ,
अया॑वाना॒माधि॑पत्यम् +++(असि)+++,
प्र॒जास्स्पृ॒ताः +++(असि)+++,
च॒तु॒श्च॒त्वा॒रिँ॒शस्स्तोम॑ः +++(असि)+++,

मूलम्

यावा॑नाम्भा॒गो॑ऽसि ,
अया॑वाना॒माधि॑पत्यम् +++(असि)+++,
प्र॒जास्स्पृ॒ताः +++(असि)+++,
च॒तु॒श्च॒त्वा॒रिँ॒शस्स्तोम॑ः +++(असि)+++,

सायण-टीका

अथ नवमं मन्त्रमाहः— यावानां मागोऽसीति ।
यतो मिश्री भवतः शुक्लकृष्णपक्षावत्रेति यावामासाः।
अतथाविधत्वादयावा अर्धमासः ।

विश्वास-प्रस्तुतिः

ऋ॒भू॒णाम्भा॒गो॑ऽसि,
विश्वे॑षान्दे॒वाना॒माधि॑पत्यम् +++(असि)+++,
भू॒तन्निशा॑न्तँ स्पृ॒तम् +++(असि)+++,
त्र॒य॒स्त्रिँ॒शस्स्तोमः॑ ।॑ +++(असि)+++॥ [17]

मूलम्

ऋ॒भू॒णाम्भा॒गो॑ऽसि,
विश्वे॑षान्दे॒वाना॒माधि॑पत्यम् +++(असि)+++,
भू॒तन्निशा॑न्तँ स्पृ॒तम् +++(असि)+++,
त्र॒य॒स्त्रिँ॒शस्स्तोमः॑ ।॑ +++(असि)+++॥ [17]

सायण-टीका

अथ दशमं मन्त्रमाह— ऋभूणां भागोऽसीति ।
ऋभुशब्दो देवसामान्यवाची ।
गणविशेषो विश्वे देवाः ।
भूतं निष्पन्नं, निशान्तं गृहम् ।

विश्वास-प्रस्तुतिः

अ॒ग्नेर्भा॒गो॑ऽसि,
दी॒क्षाया॒ आधि॑पत्यम् +++(असि)+++,
ब्रह्म॑ स्पृ॒तम् +++(असि)+++,
त्रि॒वृत्स्तोमः॑ +++(असि)+++,

मूलम्

अ॒ग्नेर्भा॒गो॑ऽसि,
दी॒क्षाया॒ आधि॑पत्यम् +++(असि)+++,
ब्रह्म॑ स्पृ॒तम् +++(असि)+++,
त्रि॒वृत्स्तोमः॑ +++(असि)+++,

सायण-टीका

एतैर्मन्त्रैरुपधेयास्वक्ष्णयास्तोमीयास्विष्टकासु मन्त्रविशेषेषु देशविशेषु च सहोपधानं विधीयते ।
तत्र प्रथमं मन्त्रं विनियुङ्क्ते— “अग्नेर्भागोऽसीति पुरस्तादुप दधाति यज्ञमुखं वा अग्निर्यज्ञमुखं दीक्षा यज्ञ मुखं ब्रह्म यज्ञमुखं त्रिवृद्यज्ञमुखमेव पुरस्ताद्वि यातयति” [सं॰ का॰ ५ प्र॰ ३ अ॰ ४] इति।
प्रथममाहितेऽग्नौ पश्चाद्यज्ञस्य प्रवृत्तरेग्निर्युज्ञमुखम् ।
सोमयागस्य दीक्षोपक्रमत्वाद्दीक्षाया यज्ञमुखत्त्वम् ।
यज्ञस्य ऋत्विग्वरणपूर्वकत्वादार्त्विज्यस्य च ब्राह्मणध र्मत्वाद्ब्राह्मणजातिर्यज्ञमुखम् ।
स्तोत्राणां मध्ये प्रथमस्तोत्रस्य बहिष्पवमानस्य त्रिवृत्स्तोमेन निष्पाद्यमानत्वात्त्रिवृतो यज्ञमुखत्वम् ।
अनेन मन्त्रेणोपधाने तत्सर्वं यज्ञमुखं पुरस्तात्प्रसारयति ।

विश्वास-प्रस्तुतिः

नृ॒चक्ष॑साम्भा॒गो॑ऽसि,
धा॒तुराधि॑पत्यञ् +++(असि)+++, ज॒नित्रँ॑ स्पृ॒तम् +++(असि)+++, स॒प्त॒द॒शस्स्तोमः॑ ।+++(असि)+++,

मूलम्

नृ॒चक्ष॑साम्भा॒गो॑ऽसि,
धा॒तुराधि॑पत्यञ् +++(असि)+++, ज॒नित्रँ॑ स्पृ॒तम् +++(असि)+++, स॒प्त॒द॒शस्स्तोमः॑ ।+++(असि)+++,

सायण-टीका

अथ तृतीयं मन्त्रं विनियुङ्क्ते— “नृचक्षसां भागोऽसीति दक्षिणतः शुश्रुवाँसो वै नृचक्षसोऽन्नं धाता जातायैवास्मा अन्नमति दधाति तस्माज्जातोऽन्नमत्ति जनित्रँ स्पृतँ सप्तदशः स्तोम इत्याहान्नं वै जनित्रमन्नः सप्तदशोऽन्नमेव दक्षिणतो धत्ते तस्माद्दक्षिणेनान्नमद्यते” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
वेदशास्त्रपारं गताः शुश्रुवांसः ।
त एव नृचक्षःशब्देनाभिधीमन्ते ।
चक्षते यर्क्त ब्रुवत इति चक्षसः ।
नरश्च ते चक्षस इति नृचक्षसः ।
यद्वा नृषु मनुष्येषु
२००९ मध्ये चक्षसो व्यक्तं वक्तारः ।
धातुरन्नोत्पादकत्वादन्नत्वम् ।
अतो मन्त्रे धातृशब्दपाठेनोत्पन्नाय यजमानायान्नं संपादयति ।
तस्मिन्मन्त्रे जनित्रमित्याद्युत्तरभागमपि ब्रूयात् ।
जायत इति व्युत्पत्त्या जनित्रशब्दोऽन्नवाची ।
सप्तदशस्तोमस्यान्नकारणत्वादन्नत्वम् ।
एवं सति कृत्स्नमप्यन्नं दक्षिणस्यां दिशि संपादयति । यस्माद्दक्षिणदिशोऽन्नभागित्वं तस्माद्दक्षिणहस्तेनान्नं भुङ्क्ते।

विश्वास-प्रस्तुतिः

मि॒त्रस्य॑ भा॒गो॑ऽसि,
वरु॑ण॒स्याधि॑पत्यम् +++(असि)+++,
दि॒वो वृ॒ष्टिः+++(असि)+++,
वाताः॑ स्पृ॒ता +++(असि)+++,
ए॒क॒विँ॒शस्स्तोमः॑ +++(असि)+++,

मूलम्

मि॒त्रस्य॑ भा॒गो॑ऽसि,
वरु॑ण॒स्याधि॑पत्यम् +++(असि)+++,
दि॒वो वृ॒ष्टिः+++(असि)+++,
वाताः॑ स्पृ॒ता +++(असि)+++,
ए॒क॒विँ॒शस्स्तोमः॑ +++(असि)+++,

सायण-टीका

अथ चतुर्थं मन्त्रं विनियुङ्क्ते— “मित्रस्य भागोऽसीति पश्चात्प्राणो वै मित्रोऽपानो वरुणः प्राणपानावेवास्मिन्दधाति दिवो वृष्टिर्वाताः स्पृता एकविँश स्तोम इत्याह प्रतिष्ठा वा एकविँशः प्रतिष्ठित्यै” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
मित्रावरुणयोः प्राणपानाभिमानित्वात्तद्रूपत्वम् । तस्य मन्त्रस्योत्तरभागे सर्वस्तोमप्रतिष्ठारूपस्यैकविंशस्याभिघानं प्रतिष्ठित्यै संपद्यते ।

विश्वास-प्रस्तुतिः

इन्द्र॑स्य भा॒गो॑ऽसि ,
विष्णो॒राधि॑पत्यम् +++(असि)+++,
क्ष॒त्रँ स्पृ॒तम् +++(असि)+++,
प॒ञ्च॒द॒शस्स्तोमः॑ +++(असि)+++,

मूलम्

इन्द्र॑स्य भा॒गो॑ऽसि ,
विष्णो॒राधि॑पत्यम् +++(असि)+++,
क्ष॒त्रँ स्पृ॒तम् +++(असि)+++,
प॒ञ्च॒द॒शस्स्तोमः॑ +++(असि)+++,

सायण-टीका

द्वितीयं मन्त्रं विनियुङ्क्ते— “इन्द्रस्य भागोऽसीत्युत्तरत ओजो वा इन्द्र ओजो विष्णुरोजः क्षत्त्रमोजः पञ्चदश ओज एवोत्तरतो धत्ते तस्मादुत्तरतोभिप्रयायी जयति” [सं॰ का॰ ५ प्र॰ ३ अ॰ ४] इति।
इन्द्रादीनां बलवत्त्वादोजोरूपत्वम् । ततः सर्वमप्योज उदीच्यां दिशि स्थापितं भवति । ओजोयुक्तत्वादेवोत्तरदिग्गामी तीर्थयात्रादिषुण्येन स्वर्गं जयति ।

विश्वास-प्रस्तुतिः

वसू॑नाम्भा॒गो॑ऽसि ,
रु॒द्राणा॒माधि॑पत्यम् +++(असि)+++,
चतु॑ष्पात्स्पृ॒तम् +++(असि)+++,
च॒तु॒र्विँ॒शस्स्तोमः॑ +++(असि)+++,

मूलम्

वसू॑नाम्भा॒गो॑ऽसि ,
रु॒द्राणा॒माधि॑पत्यम् +++(असि)+++,
चतु॑ष्पात्स्पृ॒तम् +++(असि)+++,
च॒तु॒र्विँ॒शस्स्तोमः॑ +++(असि)+++,

सायण-टीका

अथ षष्ठं मन्त्रं विनियुङ्क्ते— “वसूनां भागोऽसीति पुरस्तादुप दधाति यज्ञमुखं वै वसवो यज्ञमुखः रुद्रा यज्ञमुखं चतुर्विँशो यज्ञमुखमेव पुरस्ताद्वि यातयति” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
वसूनां प्रातःसवनाभिमानित्वाद्यज्ञमुखत्वम् । प्रातःसवनाभिमानित्वं च च्छन्दोगा आमनन्ति—“ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातःसवनम्” इति । रुतं शब्दं मन्त्ररूपं द्रावयन्ति प्रवर्तयन्तीति रुद्राः । तथा सति रुद्रप्रवर्तितमन्त्रपूर्वकत्वाद्यज्ञस्य रुद्राणां यज्ञमुखत्वोपचारः । चतुर्विशचतुश्चत्वारिंशाष्टाचत्वार्विशरूपेषु च्छन्दोमेषु प्रथमत्वाच्चतुर्विंशस्य यज्ञमुखत्वम्।

विश्वास-प्रस्तुतिः

आ॒दि॒त्याना॑म्भा॒गो॑ऽसि ,
म॒रुता॒माधि॑पत्यम् +++(असि)+++,
गर्भाः॑ स्पृ॒ताः+++(असि)+++,
प॒ञ्च॒विँ॒शस्स्तोमः॑ +++(असि)+++,

मूलम्

आ॒दि॒त्याना॑म्भा॒गो॑ऽसि ,
म॒रुता॒माधि॑पत्यम् +++(असि)+++,
गर्भाः॑ स्पृ॒ताः+++(असि)+++,
प॒ञ्च॒विँ॒शस्स्तोमः॑ +++(असि)+++,

सायण-टीका

२०१० अथ सप्तमं मन्त्रं विनियुङ्क्ते— “आदित्यानां भागोऽसीति दक्षिणतोऽन्नं वा आदित्या अन्नं मरुतोऽन्नं गर्भा अन्नं पञ्चविँशोऽन्नमेव दक्षिणतो धत्ते तस्माद्दक्षिणेनान्नमद्यते” [सं॰ का॰ ५ प्र॰ ३ अ॰ ४] इति।
‘आदित्याज्जायते वृष्टिर्वृष्टेरत्न्नंततः प्रजाः’ इत्यन्नहेतुत्वादादित्यानाम न्नत्वम् । मरुतां वैश्यरूपत्वेनान्नसंपादकत्वादन्नत्वम् । गर्भाणामन्नकार्यत्वादन्नत्वम् । पञ्चविंशस्तोमस्य शास्त्रसिद्धान्नहेतुत्वाद्न्नत्वम् ।

विश्वास-प्रस्तुतिः

अदि॑त्यै भा॒गो॑ऽसि ,

पू॒ष्ण आधि॑पत्यम् +++(असि)+++,
ओज॑स्स्पृ॒तम् +++(असि)+++, त्रि॒ण॒वस्स्तोमः॑ +++(असि)+++,

मूलम्

अदि॑त्यै भा॒गो॑ऽसि ,

पू॒ष्ण आधि॑पत्यम् +++(असि)+++,
ओज॑स्स्पृ॒तम् +++(असि)+++, त्रि॒ण॒वस्स्तोमः॑ +++(असि)+++,

सायण-टीका

अथ पञ्चमं मन्त्रं विनियुङ्क्ते— “अदित्यै भागोऽसीति पश्चात्प्रतिष्ठा वा अदितिः प्रतिष्ठा पूषा प्रतिष्ठा त्रिणवः प्रतिष्ठित्यै” (सं॰ का॰ ५ प्र॰ ३ अ. ४) इति।
अदितिर्भूमिः । सा च निवासहेतुत्वात्प्रतिष्ठा । पूष्णः पोपकत्वेन प्रतिष्ठा त्वम् त्रिणवस्तोमस्य शास्त्रसिद्धं प्रतिष्ठात्वम् ।

विश्वास-प्रस्तुतिः

दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि ,
बृह॒स्पते॒राधि॑पत्यम् +++(असि)+++,
स॒मीची॒र्दिश॑स्स्पृ॒ताः +++(असि)+++, च॒तु॒ष्टो॒मस्स्तोमः॑ +++(असि)+++,

मूलम्

दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि ,
बृह॒स्पते॒राधि॑पत्यम् +++(असि)+++,
स॒मीची॒र्दिश॑स्स्पृ॒ताः +++(असि)+++, च॒तु॒ष्टो॒मस्स्तोमः॑ +++(असि)+++,

सायण-टीका

अथाष्टमं मन्त्रं विनियुङ्क्ते— “देवस्य सवितुर्भागोऽसीत्युत्तरतो ब्रह्म वै देवः सविता ब्रह्म बृहस्पतिर्ब्रह्म चतुष्टोमो ब्रह्मवर्चसमेवोत्तरतो धत्ते तस्मादुत्तरोऽर्धो ब्रह्मवर्चसितरः सावित्रवती भवति प्रसूत्यै तस्माद्ब्राह्मणानामुदीची सनिः प्रसूता” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
प्रातःसंध्यादौ ब्राह्मणेरुपास्यमानत्वात्सवितुर्ब्रह्मत्वम् । बृहस्पतेर्ब्राह्मणजात्यभिमानित्वाद्ब्रह्मत्वम् । तच्च “ब्रह्म वै देवानां बृहस्पतिः” इति श्रुत्यन्तरादवगम्यते । चतुष्टोमस्य शास्त्रासिद्धं ब्रह्मत्वम् । सवितृप्रतिपादको मन्त्रः सावित्रस्तेन मन्त्रेणोपहितेष्टका सावित्रवती । अतः सा प्रसवाय संपद्यते । यस्माद्ब्रह्मरूपसवितृप्रतिपादकमन्त्रसाध्येष्टकोत्तरस्यां दिश्युपहिता तस्माद्ब्राह्मणानामुदीची सनिः प्रसूनोत्तरस्यां दिशि यज्ञभिक्षादिरूपा याच्ञा शास्त्रोणाभ्यनुज्ञाता। विन्ध्यस्योत्तरभागे हि पुण्यभूमौ शुद्धा ब्राह्मणा वर्तन्ते, तस्मात्तत्र प्रतिग्रहः प्रशस्तः । २०११ पूर्वानुवाकाम्नातौ सप्तदशाष्टादशमन्त्रावितः पूर्वं न विनियुक्तौ।

विश्वास-प्रस्तुतिः

ध॒र्त्रश्च॑तुष्टो॒मः ॥

मूलम्

ध॒र्त्रश्च॑तुष्टो॒मः ॥

सायण-टीका

तत्राष्टादशंमन्त्रमिदानीं विनियुङ्क्ते— “धर्त्रश्चतुष्टोम इति पुरस्तादुप दधाति यज्ञमुखं वै धर्त्रो यज्ञमुखं चतुष्टोमो यज्ञमुखमेव पुरस्ताद्वि यातयति” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
धर्त्रो धारयिताऽग्निष्टोमः स च सोमयागानां प्रथमभावित्वाद्यज्ञमुखम् । चतुष्टोमः (* षष्टिस्तोमस्तृतीयः ) । तस्य यज्ञमुखभूतत्रिवृदात्मकत्वाद्यज्ञमुखत्वम्।

विश्वास-प्रस्तुतिः

यावा॑नाम्भा॒गो॑ऽसि ,
अया॑वाना॒माधि॑पत्यम् +++(असि)+++,
प्र॒जास्स्पृ॒ताः +++(असि)+++,
च॒तु॒श्च॒त्वा॒रिँ॒शस्स्तोम॑ः +++(असि)+++,

मूलम्

यावा॑नाम्भा॒गो॑ऽसि ,
अया॑वाना॒माधि॑पत्यम् +++(असि)+++,
प्र॒जास्स्पृ॒ताः +++(असि)+++,
च॒तु॒श्च॒त्वा॒रिँ॒शस्स्तोम॑ः +++(असि)+++,

सायण-टीका

अथ प्रकृतानुवाकगतं नवमं मन्त्रं विनियुङ्क्ते— “यावानां भागोऽसीती दक्षिणतो मासा वै यावा अर्धमासा अयावास्तस्माद्दक्षिणावृत्तो मासा अन्नं वै यावा अन्नं प्रजा अन्नमेव दक्षिणतो धत्ते तस्माद्दक्षिणेनान्नद्यते” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
गोलकस्य प्रादक्षिण्येन संचास्ताऽऽदित्येन निष्पाद्यत्वान्मासानां दक्षिणावृत्वम । यावशब्दवाच्यानां मासानां कालरूपाणामन्नपाकहेतुत्वादन्नत्वम् । प्रजानामन्नभोक्तृत्वादन्नत्वम् ।

विश्वास-प्रस्तुतिः

ऋ॒भू॒णाम्भा॒गो॑ऽसि,
विश्वे॑षान्दे॒वाना॒माधि॑पत्यम् +++(असि)+++,
भू॒तन्निशा॑न्तँ स्पृ॒तम् +++(असि)+++,
त्र॒य॒स्त्रिँ॒शस्स्तोमः॑ ॥ [17]

मूलम्

ऋ॒भू॒णाम्भा॒गो॑ऽसि,
विश्वे॑षान्दे॒वाना॒माधि॑पत्यम् +++(असि)+++,
भू॒तन्निशा॑न्तँ स्पृ॒तम् +++(असि)+++,
त्र॒य॒स्त्रिँ॒शस्स्तोमः॑ ॥ [17]

सायण-टीका

अथ दशमं मन्त्रं विनियुङ्क्ते— “ऋभूणां भागोऽतीति पश्चात्प्रतिष्ठित्यै” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
देवानामनुग्राहकत्वेन प्रतिष्ठाहेतुत्वम् ।

अथ पूर्वानुवाकगतं सप्तदशं मन्त्रं विनियुङ्क्ते— “वितर्तोऽष्टाचत्वारिँश इत्युत्तरतोऽनयोर्लोकयोः सवीर्यत्वाय तस्मादिमौलोकौ समावद्वीर्यौ” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
स्तोमानां मध्येऽष्टाचत्वारिंशः स्तोमः सर्वोत्तमः । ततोऽप्यधिकस्य स्तोमस्याभावात् । मनुष्यलोके दिशां मध्ये विन्ध्यादुत्तरा दिगुत्तमां अत उत्तमद्वयमेलनेन मनुष्यलोको वीर्यवान्संपन्नः । स्वर्गलोकस्य देवाधिष्ठितत्वाद्वीर्यवत्त्वं प्रसिद्धम् । एवं च सत्युभयोर्लोकयोः समानवीर्यत्वं भवति । तस्मादेबं मनुष्यलोकस्य * धनुश्चिह्नान्तर्गतस्थाने भट्टभास्करभाष्यानुसारी “समष्टिस्तोत्रीयः स्तोमः” इति पाठो भवितुं युक्तः।
२०१२ विर्यवत्त्वं संपादितं तस्मादिमौ लोकौ समावद्वीर्यौ । मनुष्यलोकः पुण्यानुष्ठाननिष्पादनेन वीर्यवान्स्वर्गलोकः पुण्यफलनिष्पाननेन वीर्यवानिति समत्वम् । अनुवाकद्वयेन वक्रत्वेनोपहितानामिष्टकानां मध्य एकैकस्यां दिशि या उपहितास्ताः सर्वा दिग्विशेषोपाधिनां संगृह्य प्रशंसति— “यस्य मुख्यवतीः पुरस्तादुषधीयन्ते मुख्य पव भवत्याऽरय मुख्यो जायते यस्यान्नवतीर्दक्षिणतोऽत्यन्नमाऽस्यान्नादो जायते यस्य प्रतिष्ठावतीः पश्चात्प्रत्येव तिष्ठति यस्यौजस्वतीरुत्तरत ओजस्व्येव भवत्याऽस्यौजस्वी जायते” [सं॰ का॰ ५ प्र॰ ३ अ॰ ४] इति।
मुखत्वेन पूर्वोक्तेष्वर्थवादेषु स्तुता इष्टका मुख्यवत्यः । तासां पूर्वस्यां दिश्युपधानेन स्वयं मुख्यो भवति, स्वपुत्रश्च पुख्यो जायते । अन्नत्वेन स्तुता इष्टका अन्नवत्यः । तासां दक्षिणादिश्युपधानेन स्वयं पुत्रश्चान्नबन्तौ संपद्येते । प्रतिष्ठात्वेन स्तुता इष्टकाः प्रतिष्ठावत्यः। तासां पश्चिनदिश्युपधानेन प्रतिष्ठितो भवति। ओजस्त्वेन स्तुता इष्टका ओजस्वत्यः। तासामुत्तरदिश्युपधानेन स्वयं पुत्रश्चौजस्विनौ भवतः । वक्रत्वेन योऽयमुपधानप्रकारोऽभिहितस्तमेतं स्तोत्रशास्त्ररूपत्वेन प्रशंसति— “अर्को वा एष यदग्निस्तस्यतैदेव स्तोत्रमेतच्छस्त्रं यदेवा विधा विधीय तेऽर्क एव तदर्क्यमनु विघीयते” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
योऽग्निरस्ति स एषोऽर्कोऽर्चनीयः । तस्यार्चताङ्गत्वेन स्तोत्रशस्त्रो अपेक्षिते । तथा सति योऽयं वक्रत्वेनोपघानप्रकारोऽभिहितस्तत्रैकेनानुवाकेनोक्तं स्तोत्रमितरेणानुवाकेनोक्तं शस्त्रम् । एवं सत्यर्चनीये वह्नावेवार्चनयोग्यमनुष्ठानां क्रमेण संपादितं भवति । तदनुष्ठानं तद्वेदनं च प्रशंसति— “अत्यन्नमाऽश्यान्नादो जायते यस्यैषा विधा विधीयते य उ चैनामेवं वेद” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
एनां विधाम् ।

अत्र विनियोगसंग्रहः— अग्नेः शिष्टा दशाऽऽदध्यादक्ष्णयास्तोमसंज्ञकाः ।
इति ॥ २०१३ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके नवममोऽनुवाकः ॥ ९ ॥