अग्निर्ऋषिः
मूलम् (संयुक्तम्)
मा छन्दᳶ॑ प्र॒मा छन्दᳶ॑ प्रति॒मा छन्दो॑ऽस्री॒विश्छन्दᳶ॑ प॒ङ्क्तिश्छन्द॑ उ॒ष्णिहा॒ छन्दो॑ बृह॒ती छन्दो॑ऽनु॒ष्टुफ्छन्दो॑ वि॒राट्छन्दो॑ गाय॒त्री छन्द॑स्त्रि॒ष्टुफ्छन्दो॒ जग॑ती॒ छन्दᳶ॑ पृथि॒वी छन्दो॒ऽन्तरि॑क्ष॒ञ्छन्दो॒ द्यौश्छन्द॒स्समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ मन॒श्छन्दो॒ वाक्छन्द॑ᳵ कृ॒षिश्छन्दो॒ हिर॑ण्य॒ञ्छन्दो॒ गौश्छन्दो॒ऽजा छन्दोऽश्व॒श्छन्दः॑ ।
विश्वास-प्रस्तुतिः
+++(त्वं)+++ मा छन्द॑ः +++(असि)+++।
+++(त्वं)+++ प्र॒मा छन्दः॑ +++(असि)+++।
+++(त्वं)+++ प्र॒ति॒मा छन्द॑ः +++(असि)+++।
+++(त्वं)+++ अ॒स्त्री॒विश्छन्दः॑
+++(असि)+++।
+++(त्वं)+++ प॒ङ्क्तिश्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ उ॒ष्णिहा॒ छन्द॑ः +++(असि)+++।
+++(त्वं)+++ बृ॒ह॒ती छन्दः॑
+++(असि)+++।
+++(त्वं)+++ अ॒नु॒ष्टुफ्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ वि॒राट्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ गा॒य॒त्री छन्दः॑ +++(असि)+++।
+++(त्वं)+++ त्रि॒ष्टुफ्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ जग॑ती॒ छन्द॑ः +++(असि)+++।
+++(त्वं)+++ पृ॒थि॒वी छन्दः॑ +++(असि)+++।
+++(त्वं)+++ अन्तरि॑क्ष॒ञ्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ द्यौश्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ समा॒श्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ नक्ष॑त्राणि॒ छन्द॑ः +++(असि)+++।
+++(त्वं)+++ मन॒श्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ वाक्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ कृ॒षिश्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ हिर॑ण्य॒ञ्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ गौश्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ अ॒जा छन्दः॑ +++(असि)+++।
+++(त्वं)+++ अ॒श्व॒श्छन्दः॑ +++(असि)+++।
मूलम्
+++(त्वं)+++ मा छन्द॑ः +++(असि)+++।
+++(त्वं)+++ प्र॒मा छन्दः॑ +++(असि)+++।
+++(त्वं)+++ प्र॒ति॒मा छन्द॑ः +++(असि)+++।
+++(त्वं)+++ अ॒स्त्री॒विश्छन्दः॑
+++(असि)+++।
+++(त्वं)+++ प॒ङ्क्तिश्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ उ॒ष्णिहा॒ छन्द॑ः +++(असि)+++।
+++(त्वं)+++ बृ॒ह॒ती छन्दः॑
+++(असि)+++।
+++(त्वं)+++ अ॒नु॒ष्टुफ्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ वि॒राट्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ गा॒य॒त्री छन्दः॑ +++(असि)+++।
+++(त्वं)+++ त्रि॒ष्टुफ्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ जग॑ती॒ छन्द॑ः +++(असि)+++।
+++(त्वं)+++ पृ॒थि॒वी छन्दः॑ +++(असि)+++।
+++(त्वं)+++ अन्तरि॑क्ष॒ञ्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ द्यौश्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ समा॒श्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ नक्ष॑त्राणि॒ छन्द॑ः +++(असि)+++।
+++(त्वं)+++ मन॒श्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ वाक्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ कृ॒षिश्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ हिर॑ण्य॒ञ्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ गौश्छन्द॑ः +++(असि)+++।
+++(त्वं)+++ अ॒जा छन्दः॑ +++(असि)+++।
+++(त्वं)+++ अ॒श्व॒श्छन्दः॑ +++(असि)+++।
सायण-टीका
[अथ चतुर्थकाण्डे तृतीयप्रपाठके सप्तमोऽनुवाकः]।
षष्ठेऽनुवाके स्वयमातृण्णाद्या इष्टका उक्ताः।
अथ सप्तमे बृहत्याख्या इष्टका उच्यन्ते।
कल्पः—“षट्विंशतं बृहतीर्मा छन्द इति द्वादश दक्षिणतः पृथिवी छन्द इति द्वादश पश्चादग्निर्देवतेति द्वादशोत्तरयः” इति ।
पाठस्तु— मा छन्दः प्रभेति ।
अत्र माप्रमाप्रतिमास्त्रीत्वि[ ब्यादि] शब्दाभिधेयाश्छन्दोविशेषाः केचिद्वेदे प्रसिद्धाः केचिल्लोकेष्वपि प्रसिद्धाः ।
हे इष्टके त्वं मानामकच्छन्दोरूपाऽसि ।
प्रमानामकच्छन्दोरूपाऽसि ।
एवं सर्वत्र योज्यम् ।
अग्न्यादीनां तु देवतात्वं प्रसिद्धम् ।
विश्वास-प्रस्तुतिः
+++(त्वं)+++ अ॒ग्निर्दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ +++(त्वं)+++ वातो॑ दे॒वता॒ +++(असि)+++।
+++(त्वं)+++ सूर्यो॑ दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ च॒न्द्रमा॑ दे॒वता॑+++(असि)+++।
+++(त्वं)+++ वस॑वो दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ रु॒द्रा दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ अ॒ादि॒त्या दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ विश्वे॑ दे॒वा दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ म॒रुतो॑ दे॒वता॒ +++(असि)+++।
+++(त्वं)+++ बृह॒स्पति॑र्दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ इन्द्रो॑ दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ वरु॑णो दे॒वता॑ +++(असि)+++।
मूलम्
+++(त्वं)+++ अ॒ग्निर्दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ +++(त्वं)+++ वातो॑ दे॒वता॒ +++(असि)+++।
+++(त्वं)+++ सूर्यो॑ दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ च॒न्द्रमा॑ दे॒वता॑+++(असि)+++।
+++(त्वं)+++ वस॑वो दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ रु॒द्रा दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ अ॒ादि॒त्या दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ विश्वे॑ दे॒वा दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ म॒रुतो॑ दे॒वता॒ +++(असि)+++।
+++(त्वं)+++ बृह॒स्पति॑र्दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ इन्द्रो॑ दे॒वता॑ +++(असि)+++।
+++(त्वं)+++ वरु॑णो दे॒वता॑ +++(असि)+++।
सायण-टीका
हे इष्टके त्वमग्निदेवतारूपाऽसि ।
एवमुत्तरत्रापियोज्यम् ।
एतैर्मन्त्रैरिष्टकोपधानं विधातुं प्रस्तौति— “छन्दाँ सि पशुष्वाजिमयुस्तान्बृहत्युदजयत्तस्माद्वार्हतः पशव उच्यन्ते” (सं. का. ५ प्र. ३ अ. ३) इति।
पुरा कदाचिद्वायत्र्यादिच्छन्दोदेवताः परस्परं मात्सर्येण कांचिदाजिं मर्यादां प्राप्ताः ।
अहमेवाऽऽदौ पशून्स्वी करिष्यमामिति प्रतिज्ञा मर्यादा ।
तदानीं बृहत्याख्या छन्दोदेवता देवतान्तरण्युल्लङ्ष्य स्वयमेवाजयत् ।
अतस्तदीयनाम्ना पशवो बार्हता इत्येवं प्रसिद्धिं गताः ।
यथा बृहती छन्दसां मध्ये प्रशस्ता, एवं बृहत्याख्या इष्टका अपि प्रशस्ता इति तात्पर्यार्थः । ता इष्टका दिग्विशेषेषु विधत्ते ।
“मा छन्द इति दक्षिणत उप दधाति तस्माद्दक्षिणावृतो मासाः पृथिवी
१९९९ छन्द इति पश्चात्प्रतिष्ठित्या अग्निर्देवतेत्युतरत ओजो वा अग्निरोज एवोत्तरतो धत्ते तस्मादुत्तरतोभिप्रयायी जयति” [सं. का. ५ प्र. ३ अ. २] इति।
माशब्देन मासा उच्यन्ते ।
दक्षिणादिग्विधानेन दक्षिणादिवृतिः, सूर्यस्य गोलकप्रदक्षिणावृत्त्या निष्पाद्यामानत्वाच्चैत्रादिमासा दक्षिणावृताः ।
पश्चिमदिश्युपधेयानामिष्टकानां मन्त्रेष्वादौ पृथिवीशब्दः पठितः ।
पृथिवी च सर्वस्य जगतः प्रतिष्ठा ।
तस्मात्तदुपधानं प्रतिष्ठित्यै भवति ।
उदीच्यां दिश्युपधेयानामिष्टकानां मन्त्रादावग्निशब्दः पठितः ।
अग्निश्च दाहकशक्तियुक्तत्वादोज इत्युच्यते ।
तस्मादोज एवोदीच्यामुपहितं भवति ।
यस्मादुदीच्यामग्न्यादिदेवताशक्तिरूपमोजस्तिष्ठति तस्मादुत्तराभिमुखत्वेन प्रयाणं कुर्वंस्तीर्थयात्रादियन्यपुण्योपेतत्वात्परलोकं जयति । मन्त्रपाठप्राप्तामिष्टकासंख्यां प्रशंसति— “षट्त्रीँशत्सं पद्यन्ते पट्त्रिँ शदक्षरा बृहती वार्हताः पशवो बहत्यैवास्मै पशूनव रुन्धे बृहती छन्दसाँ स्वाराज्यं परीयाया यस्यैता उपधीयन्ते गच्छति स्वाराज्यम्” [सं. का. ५ प्र. ३ अ. २] इति।
घृहत्या जितत्वात्पशूनां बार्हेतत्वं, जेतृत्वादेव बृहत्याः स्वाराज्यमपि ।
मूलम् (संयुक्तम्)
मू॒र्धासि॒ राड्ध्रु॒वासि॑ ध॒रुणा॑ य॒न्त्र्य॑सि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा॒ यन्त्री॒ राड्ध्रु॒वासि॒ धर॑णी ध॒र्त्र्य॑सि॒ धरि॒त्र्यायु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से त्वा॒ बला॑य त्वा ॥ [14]
विश्वास-प्रस्तुतिः
मू॒र्धासि॑ राड् ।
मूलम्
मू॒र्धासि॑ राड् ।
सायण-टीका
कल्पः—“मूर्धाऽसि राडिति सप्त वालखिल्याः पुरस्तात्प्रतीचीर्यन्त्री राडितिसप्त पश्चात्प्राचीः” इति ।
पाठस्तु मूर्धासीति ।
हे इष्टके त्वं मूर्धा मूर्धवदुत्तमा राड्राजमाना चासि
विश्वास-प्रस्तुतिः
ध्रु॒वासि॑ ध॒रुणा॑ ।
मूलम्
ध्रु॒वासि॑ ध॒रुणा॑ ।
सायण-टीका
हे इष्टके त्वं घ्रुवा स्थिरा धरुणा धारणहेतुश्चासि ।
विश्वास-प्रस्तुतिः
य॒न्त्र्य॑सि॑ यमि॑त्री ।
मूलम्
य॒न्त्र्य॑सि॑ यमि॑त्री ।
सायण-टीका
हे इष्टके त्वं यन्त्रो स्वयमपि नियता यमित्री सर्वेषां नियमनकारिणी चासि ।
विश्वास-प्रस्तुतिः
इ॒षे त्वा॑ +++(उपदधामि)+++ ।
मूलम्
इ॒षे त्वा॑ +++(उपदधामि)+++ ।
सायण-टीका
हे इष्टके इषेष्न्नाय त्वा त्वाम्, उपदधामीति शेषः ।
विश्वास-प्रस्तुतिः
ऊ॒र्जे त्वा॑ +++(उपदधामि)+++ ।
मूलम्
ऊ॒र्जे त्वा॑ +++(उपदधामि)+++ ।
सायण-टीका
ऊर्जे वलाय त्वामुपदधामि ।
विश्वास-प्रस्तुतिः
कृ॒ष्यै त्वा॑ +++(उपदधामि)+++ ।
मूलम्
कृ॒ष्यै त्वा॑ +++(उपदधामि)+++ ।
सायण-टीका
कृष्यै सस्यनिष्पश्चये त्वामुपदधामि ।
विश्वास-प्रस्तुतिः
क्षेमा॑य त्वा॑ +++(उपदधामि)+++ ।
मूलम्
क्षेमा॑य त्वा॑ +++(उपदधामि)+++ ।
सायण-टीका
क्षेमाय संपादितस्य धनस्य रक्षणाय त्वामुपदधामि ।
एतैः सप्तभिर्मन्त्रेः पुरस्तादुपधेयाः ।
विश्वास-प्रस्तुतिः
यन्त्री॒ राट् +++(असि)+++ ।
मूलम्
यन्त्री॒ राट् +++(असि)+++ ।
सायण-टीका
हे इष्टके त्वं यन्त्री नियमोपेता राड्रजमाना चासि ।
विश्वास-प्रस्तुतिः
ध्रु॒वासि धर॑णी ।
मूलम्
ध्रु॒वासि धर॑णी ।
सायण-टीका
तथा ध्रुवा स्थिरा धरणी धारणहेतुश्चाति ।
विश्वास-प्रस्तुतिः
ध॒र्त्र्य॑सि धरि॒त्री ।
मूलम्
ध॒र्त्र्य॑सि धरि॒त्री ।
सायण-टीका
धर्त्री धारणं कुर्वती धरित्री भूमिरूपा चासि ।
विश्वास-प्रस्तुतिः
आयु॑षे त्वा +++(उपदधामि)+++ ।
मूलम्
आयु॑षे त्वा +++(उपदधामि)+++ ।
सायण-टीका
आयुष आयुवृद्धयर्थं त्वामुपदधामि ।
विश्वास-प्रस्तुतिः
वर्च॑से॒ त्वा +++(उपदधामि)+++ ।
मूलम्
वर्च॑से॒ त्वा +++(उपदधामि)+++ ।
सायण-टीका
वर्चसे कान्त्यर्थं त्वामुपदधामि ।
विश्वास-प्रस्तुतिः
ओज॑से त्वा +++(उपदधामि)+++ ।
मूलम्
ओज॑से त्वा +++(उपदधामि)+++ ।
सायण-टीका
ओजसेऽष्टमधातुवृद्ध्यर्थं त्वामुपैदधामि ।
विश्वास-प्रस्तुतिः
बला॑य त्वा +++(उपदधामि)+++ । ॥
मूलम्
बला॑य त्वा +++(उपदधामि)+++ । ॥
सायण-टीका
बलाय तेजःकार्यार्थं त्वामुपदधामि ।
एतैः सष्तभिर्मन्त्रेः पश्चिमायां दिश्युपधाप्रम् ।
२००० तैरेतैरुभयविधमन्त्रैः साध्यमुपधानं विधत्ते— “सप्त बालखिल्याः पुरस्तादुप दधाति सप्न पश्चात्सप्त वै शीर्षण्याः प्राणा द्वावावाञ्चौ प्राणानाँ सवीर्यत्वाय” (सं. का. ५ प्र. ३ अ. २) इति।
बालखिल्यनामकैर्मुनिभिरादौ दृष्टत्वादिष्टका अपि बालखिल्याख्याः ।
इष्टकागतया सप्तसंख्याया शीर्षण्यच्छिद्रसाम्यं, पुरस्तादेकं सप्तकं पश्चादेकं सप्तकमिति सप्तकयोर्द्वित्वादधोदेशवर्तिच्छिद्रद्वयसाम्यम् ।
अतः सर्वेषां प्राणानां सवी र्यत्वायेदमुपधानम् ।
सप्तकद्वये मन्त्रविभागं विधत्ते— “मूर्धा सि राडिति पुरस्तादुप दधाति यन्त्री राडिति पश्चात्प्राणानेवास्मै समीचो दधाति” [सं. का. ५ प्र. ३ अ. २] इति।
सप्तकद्वयस्य परास्पराभिमुख्येन प्राणानां सम्यक्त्वं संपद्यते ।
सम्यक्त्वं नाम स्वस्वव्यापारक्षमत्वम् ।
अत्र विनियोगसंग्रहः— मा दक्षिणस्यां यृहतीः पृथि पञ्चादथोत्तरे ।
अग्निरित्यादिकाः सर्वा द्वादश द्वादशोदिताः ॥
मूर्धा यन्त्री ब्रालखिल्याः पुरः पश्चाच्च सप्तभिः ।
सप्तमे त्वनुवाकेऽस्मिन्मन्त्रः पञ्चाशदीरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके सप्तमोऽनुवाकः ॥
७ ॥
चतुर्थाष्टके तृतीयप्रपाठकेऽष्टमोऽनुवाकः