अग्निर्ऋषिः
चतुर्थकाण्डे तृतीयप्रपाठके पञ्चमोऽनुवाकः
मूलम् (संयुक्तम्)
त्र्यवि॒र्वय॑स्त्रि॒ष्टुप्छन्दो॑ दित्य॒वाड्वयो॑ वि॒राट्छन्द॒ᳶ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ उ॒ष्णिहा॒ छन्द॑स्तुर्य॒वाड्वयो॑ऽनु॒ष्टुप्छन्दᳶ॑ पष्ठ॒वाद्वयो॑ बृह॒ती छन्द॑ उ॒क्षा वय॑स्स॒तोबृ॑हती॒ छन्द॑ ऋष॒भो वय॑ᳵ क॒कुच्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्दो॑ऽन॒ड्वान्वयᳶ॑ प॒ङ्क्तिश्छन्दो॑ ब॒स्तो वयो॑ विव॒लञ्छन्दो॑ वृ॒ष्णिर्वयो॑ विशा॒लञ्छन्द॒ᳶ पुरु॑षो॒ वय॑स्त॒न्द्रञ्छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्ट॒ञ्छन्द॑स्सिँ॒हो वय॑श्छ॒दिश्छन्दो॑ विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दः॑ क्ष॒त्रव्ँवयो॒ मय॑न्द॒ञ्छन्दो॑ वि॒श्वक॑र्मा॒ वयᳶ॑ परमे॒ष्ठी छन्दो मू॒र्धा वयᳶ॑ प्र॒जाप॑ति॒श्छन्दः॑ ॥ [10]
विश्वास-प्रस्तुतिः
त्र्यवि॒र्वय॑स्त्रि॒ष्टुप्छन्दः॑ +++(त्वमसि)+++।
मूलम्
त्र्यवि॒र्वय॑स्त्रि॒ष्टुप्छन्दः॑ +++(त्वमसि)+++।
सायण-टीका
चतुर्थानुवाक आश्विन्यादीष्टका उक्ताः ।
अथ पञ्चमे बयस्याख्या इष्टका उच्यन्ते ।
कल्पः—“त्र्यविर्वय इति पञ्च दक्षिणस्यां श्रोण्यां षष्ठवाद्वय इति पञ्चो त्तरस्यां बस्तो वय इति दक्षिर्णेऽसे वृष्णिर्वय इत्युत्तरे व्याघ्नो वय इति दक्षिणे पक्षे सिँ हो वय इत्युत्तर एतद्वा विपरीतं पुरुषो वय इति मध्ये विष्यम्भ्यो वय इति चतस्त्रो वयस्याः पुरस्तात्प्रतीचीः” इति ।
पाठस्तु— त्र्यविर्वय इति ।
अविशब्दः पूर्वोक्तरीत्या मासषट्कगुपलक्षयति ।
ततः सार्धसंवत्सरपरिगितः कालस्त्रूयविरित्युच्यते ।
हे इष्टके तथाविधं यद्वयस्तद्रू– १९९० पाऽसि ।
त्रिष्टुपूचतुश्चत्वारिंशदक्षरा, तादृशं छन्दस्त्वमसि ।
एवं सर्वत्र योज्यम् ।
विश्वास-प्रस्तुतिः
दि॒त्य॒वाड्वयो वि॒राट्छन्दः॑ +++(त्वमसि)+++।
मूलम्
दि॒त्य॒वाड्वयो वि॒राट्छन्दः॑ +++(त्वमसि)+++।
सायण-टीका
दित्यवाड्द्विवत्सरपरिमितम् ।
विश्वास-प्रस्तुतिः
पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्दः॑ +++(त्वमसि)+++ ।
मूलम्
पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्दः॑ +++(त्वमसि)+++ ।
सायण-टीका
पञ्चाविः सार्धद्विवत्सरपरिमितम् ।
विश्वास-प्रस्तुतिः
त्रि॒व॒त्सो वय॑ उ॒ष्णिहा॒ छन्दः॑ +++(त्वमसि)+++ ।
मूलम्
त्रि॒व॒त्सो वय॑ उ॒ष्णिहा॒ छन्दः॑ +++(त्वमसि)+++ ।
सायण-टीका
त्रिवत्सो वत्सरत्रयपरिमितम्
विश्वास-प्रस्तुतिः
तु॒र्य॒वाड्वयो॑ऽनु॒ष्टुप्छन्द॑ः +++(त्वमसि)+++ ।
मूलम्
तु॒र्य॒वाड्वयो॑ऽनु॒ष्टुप्छन्द॑ः +++(त्वमसि)+++ ।
सायण-टीका
तुर्यवाट्सार्धसंवत्सरत्रयपरिगितम् ।
विश्वास-प्रस्तुतिः
प॒ष्ठ॒वाद्वयो॑ बृह॒ती छन्द॑ः +++(त्वमसि)+++ ।
मूलम्
प॒ष्ठ॒वाद्वयो॑ बृह॒ती छन्द॑ः +++(त्वमसि)+++ ।
सायण-टीका
षष्ठवात्संवत्सरचतुष्टयपरिमितम् ।
विश्वास-प्रस्तुतिः
उ॒क्षा वय॑स्स॒तोबृ॑हती॒ छन्द॑ः +++(त्वमसि)+++ ।
मूलम्
उ॒क्षा वय॑स्स॒तोबृ॑हती॒ छन्द॑ः +++(त्वमसि)+++ ।
सायण-टीका
उक्षा सार्धसंवत्सरचतुष्टयपरिमितम् ।
तावति हि काले गौः सेक्ता भवति ।
एव मृषभादिशब्दास्तत्तत्प्रसिद्धार्थद्वारेण तत्तदर्थसंबन्धिवयोविशेषार्थत्वेनोन्नेयाः । विवलविशालादिशब्दा लोकप्रसिद्धच्छन्दांस्यनभिदघाना अपि शतपथब्राह्मणादिप्रसिद्धच्छन्दोविशेषवाचिन इति द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
ऋ॒ष॒भो वय॑ᳵ क॒कुच्छन्दः॑ +++(त्वमसि)+++ ।
धे॒नुर्वयो॒ जग॑ती॒ छन्दः॑ +++(त्वमसि)+++ ।
अ॒न॒ड्वान्वयᳶ॑ प॒ङ्क्तिश्छन्दः॑ +++(त्वमसि)+++ ।
ब॒स्तो वयो॑ वि॒व॒लञ्छन्दः॑ +++(त्वमसि)+++ ।
वृ॒ष्णिर्वयो॑ विशा॒लञ्छन्दः॑ +++(त्वमसि)+++ ।
पुरु॑षो॒ वय॑स्त॒न्द्रञ्छन्दः॑ +++(त्वमसि)+++ ।
व्या॒घ्रो वयोऽना॑धृष्ट॒ञ्छन्द॑ः +++(त्वमसि)+++।
सिँ॒हो वय॑श्छ॒दिश्छन्दः॑ +++(त्वमसि)+++ ।
मूलम्
ऋ॒ष॒भो वय॑ᳵ क॒कुच्छन्दः॑ +++(त्वमसि)+++ ।
धे॒नुर्वयो॒ जग॑ती॒ छन्दः॑ +++(त्वमसि)+++ ।
अ॒न॒ड्वान्वयᳶ॑ प॒ङ्क्तिश्छन्दः॑ +++(त्वमसि)+++ ।
ब॒स्तो वयो॑ वि॒व॒लञ्छन्दः॑ +++(त्वमसि)+++ ।
वृ॒ष्णिर्वयो॑ विशा॒लञ्छन्दः॑ +++(त्वमसि)+++ ।
पुरु॑षो॒ वय॑स्त॒न्द्रञ्छन्दः॑ +++(त्वमसि)+++ ।
व्या॒घ्रो वयोऽना॑धृष्ट॒ञ्छन्द॑ः +++(त्वमसि)+++।
सिँ॒हो वय॑श्छ॒दिश्छन्दः॑ +++(त्वमसि)+++ ।
सायण-टीका
विश्वकर्मशब्दः प्रजापतिवाची ।
तत्सांनिघ्याद्विष्टम्भक्षत्त्रमूर्धशब्दाश्च तदीयमेकदेशविशेषमाचक्षते ।
तत्र विश्वकर्मशब्देन प्रजापत्यायुःपरिमितः काल उपलक्ष्यते ।
विश्वास-प्रस्तुतिः
विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दः॑ +++(त्वमसि)+++ ।
मूलम्
विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दः॑ +++(त्वमसि)+++ ।
सायण-टीका
विष्टभ्भशब्देण जगद्धारणवाचिनैकस्याः सृष्टेः स्थितिकाल उपलक्ष्यते ।
विश्वास-प्रस्तुतिः
क्ष॒त्रव्ँवयो॒ मय॑न्द॒ञ्छन्दः॑ +++(त्वमसि)+++ ।
वि॒श्वक॑र्मा॒ वयᳶ॑ परमे॒ष्ठीछन्दः॑ +++(त्वमसि)+++ ।
मूलम्
क्ष॒त्रव्ँवयो॒ मय॑न्द॒ञ्छन्दः॑ +++(त्वमसि)+++ ।
वि॒श्वक॑र्मा॒ वयᳶ॑ परमे॒ष्ठीछन्दः॑ +++(त्वमसि)+++ ।
सायण-टीका
क्षत्त्रशब्दो बलवाची ।
ततो यावता कालेनो त्पन्नं ब्राह्मण्यं प्रबलं भवति तावान्कालः क्षत्त्रशब्दोनोपलक्ष्यते ।
विश्वास-प्रस्तुतिः
मू॒र्धा वयᳶ॑ प्र॒जाप॑ति॒श्छन्दः॑ +++(त्वमसि)+++ ।
मूलम्
मू॒र्धा वयᳶ॑ प्र॒जाप॑ति॒श्छन्दः॑ +++(त्वमसि)+++ ।
सायण-टीका
मूर्धंशब्दो द्युलोकरूपं विराजो मूर्धानमाचष्टे ।
तेन द्युलोकस्य यावान्कालस्तावान्कालो लक्ष्यते ।
नानाविधवयोरूपा नानाविधच्छन्दोरूपा च त्वमप्तीति तात्पर्यार्थः ।
एतैर्मन्त्रैरुपधेप्रा वयस्याख्या इष्टकास्तासां पूर्वानुवाकावसाने पठिताभिरपश्याभिः सह पौर्वापर्यं निश्चेतुं प्रस्तौति— “पशवो वै वयस्या नानामनसः खलु वै पशवो नानाव्रतास्तेऽप एवाभि समनसः” (सं. का. ५ प्र. ३ अ. १) इति।
वयस्यानां पशुप्रातिहेतत्वात्तद्रूपत्वम् ।
पशवश्च नानाविधरुचियुक्ताः । य [ एक]स्मै पशवे यादृशं तृणादिकं रोचते तादृशमेवान्यस्मा अपि रोचत इति नास्ति नियमः ।
एकेनाऽऽप्राय परित्यक्तस्यापि तृणस्यान्येन भक्षणदर्शनात् ।
अतो नानामनस्कत्वम् ।
ततो नानाव्रता भिन्नकर्माणः।
एकः पशूर्लाङ्गलं वहतेऽपरः शकटमन्यतु पृष्टभारम् ।
एवं विविधरुचयो विविधव्यापारा अपि पशवोऽपोऽभिलक्ष्य सर्वेऽपि समानमनस्का एव ।
मध्यान्हकाले युगपदुदकपानदर्शनात ।
तत्रान्वयव्यतिरेकाभ्यां वयस्यानामुत्तरभावित्वं विधत्ते— “यं कामयेतापशुः स्यादिति वयस्यास्तस्योपधायापस्या उप दध्यादसंज्ञान १९९१ मेवास्मै पशुभिः करोत्यपशुरेव भवति यं कामयेत पशुमान्त्स्यादित्यपस्यास्तस्योपघाय वयस्या उप दध्यात्संज्ञानमेवास्मै पशुभिः करोति पशुमानेव भवति” (सं. का. ५ प्र. ३ अ. १) इति।
वयःशब्दोपेतैस्त्रूयविर्ययस्त्रिर्ष्टुप्छन्द इत्यादिभिर्मन्त्रैरुपधेया इष्टका वयस्याः।
अप्शब्दोपेतैरपस्पिन्वेत्यादिभिर्मन्त्रैरुपधेया इष्टका अपस्याः ।
तत्रापस्यानामुत्तर भवित्वे ताभिरितरासां पशुरूपाणामभिभूतत्वादस्य यजमानस्य पशुभिरसंज्ञानं करोति, पशुनिमित्तकं संज्ञानमकृतं भवति ।
अतः पशूनामयज्ञातत्वात्पशुरईतो भवति ।
पशुरूपाणां वयस्यानामुत्तरभावित्वे पुनरनभिभूतत्वादस्य यजमानस्य पशुभिः संज्ञानं करोति, पशुनिमित्तकं संज्ञानं कृतं भवति ।
अवज्ञाविपरीत आदरः संज्ञानम् ।
तेनायं पशुमान्भवत्येव ।
तस्मादपस्याः पूर्वभाविन्यो वयस्या उत्तरभाविन्य इत्यर्थः । विष्टन्भो वय इत्यादिभिर्मन्त्रैरुपधेयानां प्राग्देशं विधत्ते—
“चतस्त्रः पुरस्तादुप दधाति तस्माच्चत्वारि चक्षुषो रूपाणि द्वे शुक्ले द्वे कृष्णे” (सं. का. ५ प्र. ३ अ. १) इति।
चक्षुरिन्द्रियसंबन्धिनोर्द्वयोर्गोलकयोर्मध्ये प्राढे द्वे शुक्लमण्डले, तयोर्मध्ये द्वे कृष्णमण्डले इत्येवं रूपचतुष्टयम् ।
तेषु चतुर्षु मन्त्रेष्वन्तिममन्त्रे यो मूर्धशब्दस्तं प्रशंसति— “मूर्धन्वतीर्भवन्ति तस्मात्पुरस्तान्मूर्धा” (सं. का. ५ प्र. ३ अ. १) इति।
मूर्धञ्शब्दोपेतैर्मन्त्रैरुपधेया इष्टका मूर्धन्वत्यः ।
यस्मात्पूर्वस्यां दिश्युपधेया मूर्धञ्शब्दोपेतमन्त्रसाध्मास्तस्मात्पक्ष्याकारेण चीयमानस्याग्नेरपि मूर्धा पूर्वस्यां दिशि भवति ।
त्र्यविर्वय इत्यादिमन्त्रपञ्चकेन पष्ठवाद्वय इत्यादिमन्त्रपञ्चकेन चोप्रधेयानामिष्टकानां देशविशेषं विबत्ते— “पञ्च दक्षिणायाँ श्रोण्यामुपदघाति पञ्चोत्तरस्यां तस्मात्पश्चाद्वर्षीयान्पुरस्तात्प्रवणः पशुः” (सं. का. ५ प्र. ३ अ. १) इति।
१९९२ यस्मादत्र श्रोण्योर्बहव इष्टकारतस्मात्पशोरपि श्रोणितः पूर्वभागो निम्नः। श्नथ मन्त्रद्वयेनोपधेययोर्विशेषो विधत्ते “यस्तो वय इति दक्षिणेऽँ स उप दधाति वृष्णिर्वय इत्युत्तरेऽँसविव प्रति दधाति” (सं. का. ५ प्र. ३ अ. १) इति।
उत्तरे, अंस उपदधातीत्यनुवर्तते ।
तेनोपधानद्वयेनाग्नेरंसावेव संपादयति।
अन्येन मन्त्रद्वयेनोपधेययोर्देशविशेषौ विधत्ते— “व्याघ्रो वय इति दक्षिणे पक्ष उप दधाति सिँहो वय इत्युत्तरे पक्षयोरेव वीर्यं दथाति” [सं. का. ५ प्र. ३ अ. १] इति।
उत्तरे, पक्ष उपदधातीत्यनुवर्तते ।
व्याघ्रसिंहयोरधिकवीर्योपतेत्वादनेनोपधानद्वयेन षक्षयोर्वीर्यं स्थापयत्येव ।
अन्येन मन्त्रोणोपधेयाया इष्टकायाः स्थानं विधत्ते— “पुरुषो वय इति मध्ये तस्मात्पुरुषः पशूनामधिपतिः” [सं. का. ५ प्र. ३ अ. १] इति।
यस्मान्मध्यदेश उपधानमन्त्रे पुरुषशब्दोऽस्ति तस्माल्लोके परुषः पशूनां स्वामी भवति ।
इतरास्तु वयस्याः पशव इत्युक्तम् ।
अव विनियोगसंग्रहः—
त्रियविस्तु ( त्र्यविर्वयो ) वयस्याख्या दध्यादिकोनविंशतिः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
[अथ चतुर्थकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः]।