०३ प्रथमचितौ अपानभृदिष्टकोपधानम्

अग्निर्ऋषिः
चतुर्थकाण्डे तृतीयप्रपाठके तृतीयोऽनुवाकः

मूलम् (संयुक्तम्)

प्राची॑ दि॒शाव्ँव॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑णन्त्रि॒वृत्स्तोम॒स्स उ॑ पञ्चद॒शव॑र्तनि॒स्त्र्यवि॒र्वय॑ᳵ कृ॒तमया॑नाम्पुरोवा॒तो वात॒स्सान॑ग॒ ऋषि॑र्दक्षि॒णा दि॒शाङ्ग्री॒ष्म ऋ॑तू॒नामिन्द्रो॑ दे॒वता॑ क्ष॒त्रन्द्रवि॑णम्पञ्चद॒शस्स्तोम॒स्स उ॑ सप्तद॒शव॑र्तनिर्दित्य॒वाड्वय॒स्त्रेताया॑नान्दक्षिणाद्वा॒तो वात॑स्सना॒तन॒ ऋषिᳶ॑ प्र॒तीची॑ दि॒शाव्ँव॒र्षा ऋ॑तू॒नाव्ँविश्वे॑ दे॒वा दे॒वता॒ विट् [5]
द्रवि॑णँ सप्तद॒शस्स्तोम॒स्स उ॑वेकविँ॒शव॑र्तनिस्त्रिव॒त्सो वयो॑ द्वाप॒रोऽया॑नाम्पश्चाद्वा॒तो वातो॑ऽह॒भून॒ ऋषि॒रुदी॑ची दि॒शाँ श॒रदृ॑तू॒नाम्मि॒त्रावरु॑णौ दे॒वता॑ पु॒ष्टन्द्रवि॑णमेकविँ॒शस्स्तोम॒स्स उ॑ त्रिण॒वव॑र्तनिस्तुर्य॒वाड्वय॑ आस्क॒न्दोऽया॑नामुत्तराद्वा॒तो वातᳶ॑ प्र॒त्न ऋषि॑रू॒र्ध्वा दि॒शाँ हे॑मन्तशिशि॒रावृ॑तू॒नाम्बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णन्त्रिण॒वस्स्तोम॒स्स उ॑ त्रयस्त्रिँ॒शव॑र्तनिᳶ पष्ठ॒वाद्वयो॑ऽभि॒भूरया॑नाव्ँविष्वग्वा॒तो वात॑स्सुप॒र्ण ऋषिᳶ॑ पि॒तरᳶ॑ पिताम॒हाᳶ परेऽव॑रे॒ ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्त्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे॑ऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यान्दे॒वहू॑त्याम् ॥ [6]

विश्वास-प्रस्तुतिः

प्राची॑ दि॒शाम् +++( असि)+++ ।

मूलम्

प्राची॑ दि॒शाम् +++( असि)+++ ।

सायण-टीका

(चतुर्थकाण्डे तृतीयप्रपाठके तृतीयोऽनुवाकः) द्वितीयोऽनुवाके प्राणभृत इदृका उक्ताः।
अथ तृतीयेऽपानभृत उच्यन्ते। कल्पः “बाह्यां बाह्यां प्राची दिशमिति पञ्चाशतमपानभूतो यथा प्राणभृतः ” इति।
तत्र प्राच्यां दिश्युपधेयानामिष्टकानां मन्त्रमाह— प्राची दिशामिति।
हे इष्टके दिशां मध्ये या प्राची सा त्वमसि।

विश्वास-प्रस्तुतिः

व॒स॒न्त ऋ॑तू॒नाम् +++( असि)+++ ।

मूलम्

व॒स॒न्त ऋ॑तू॒नाम् +++( असि)+++ ।

सायण-टीका

ऋतूनां मध्ये यो वसन्तस्तद्रूपाऽसि।

विश्वास-प्रस्तुतिः

अ॒ग्निर्दे॒वता॑ +++( असि)+++ ।

मूलम्

अ॒ग्निर्दे॒वता॑ +++( असि)+++ ।

सायण-टीका

देवतानां मध्ये योऽग्निस्तद्रूपाऽसि।

विश्वास-प्रस्तुतिः

ब्रह्म॒ द्रवि॑णम् +++( असि)+++ ।

मूलम्

ब्रह्म॒ द्रवि॑णम् +++( असि)+++ ।

सायण-टीका

स्वकीयत्वने संपादनीयानां द्रविणानां मध्ये विशिष्टब्राह्मण्यरूपं यद्धनं तद्रूपा त्वमसि।

विश्वास-प्रस्तुतिः

त्रि॒वृत्स्तोमः +++( असि)+++ ।

मूलम्

त्रि॒वृत्स्तोमः +++( असि)+++ ।

सायण-टीका

स्तोमानां मध्ये त्रिवृन्नामको यः स्तोमस्तद्रूपा त्वमसि।

विश्वास-प्रस्तुतिः

स उ॑ पञ्चद॒शव॑र्तनिः +++( असि)+++ ।

मूलम्

स उ॑ पञ्चद॒शव॑र्तनिः +++( असि)+++ ।

सायण-टीका

स उ सोऽपि त्रिवृत्स्तोमः पञ्चदशवर्तनिः पञ्चदशस्तोमस्य प्रवर्तकः।
बहिष्पवमानस्तोत्रे त्रिवृत्स्तोमप्रवृत्तौ सत्यां तत ऊर्ध्वभाविष्वाज्यस्तोत्रेषु पञ्चदश स्तोमाः प्रवर्तन्ते, तत्प्रवर्तकश क्तिरूषा त्वमसि।

विश्वास-प्रस्तुतिः

त्र्यवि॒र्वय॑ः +++( असि)+++ ।

मूलम्

त्र्यवि॒र्वय॑ः +++( असि)+++ ।

सायण-टीका

वयसां मध्ये सार्धसंवत्सररूपं यद्वयस्तद्रूपा त्वमसि। त्र्यविशब्दः सार्धसंवत्सरमुपलक्षयति।
तथा हिअविजातै, प्रायेण गर्भधारणमारभ्यषष्टे मास्येव शिशुर्जायते।
त्रिसँख्वाका अविजन्मकाला यस्य वयसस्तद्वयरूपविशब्देनोच्यते।

विश्वास-प्रस्तुतिः

कृ॒तमया॑नाम् +++( असि)+++ ।

मूलम्

कृ॒तमया॑नाम् +++( असि)+++ ।

सायण-टीका

अयानां युगानां मध्ये यत्कृतयुगं तद्रूपा त्वमसि।

विश्वास-प्रस्तुतिः

पु॒रो॒वा॒तो वातः॑ +++( असि)+++ ।

मूलम्

पु॒रो॒वा॒तो वातः॑ +++( असि)+++ ।

सायण-टीका

वायूनां मध्ये पुरोवाताख्यो यो वायुस्तद्रूपा त्वमसि।

विश्वास-प्रस्तुतिः

सान॑ग॒ ऋषि॑ः +++( असि)+++ ।

मूलम्

सान॑ग॒ ऋषि॑ः +++( असि)+++ ।

सायण-टीका

ऋषीणां मध्ये यः सानगाख्य ऋषिस्तद्रूपा त्वमसि।

विश्वास-प्रस्तुतिः

दक्षि॒णा दि॒शाम् +++( असि)+++ ।

ग्री॒ष्म ऋ॑तू॒नाम् +++( असि)+++ ।

इन्द्रो॑ दे॒वता॑ +++( असि)+++ ।

क्ष॒त्रन्द्रवि॑णम् +++( असि)+++ ।

प॒ञ्च॒द॒शस्स्तोमः॑ +++( असि)+++ ।

मूलम्

दक्षि॒णा दि॒शाम् +++( असि)+++ ।

ग्री॒ष्म ऋ॑तू॒नाम् +++( असि)+++ ।

इन्द्रो॑ दे॒वता॑ +++( असि)+++ ।

क्ष॒त्रन्द्रवि॑णम् +++( असि)+++ ।

प॒ञ्च॒द॒शस्स्तोमः॑ +++( असि)+++ ।

सायण-टीका

अथ दक्षिणस्यां दिश्युपधेयानां मन्त्रमाह— दक्षिणा दिशामिति।

विश्वास-प्रस्तुतिः

स उ॑ सप्तद॒शव॑र्तनिः +++( असि)+++ ।

मूलम्

स उ॑ सप्तद॒शव॑र्तनिः +++( असि)+++ ।

सायण-टीका

माध्यंदिनसवने पञ्चदशस्तोममनूष्ठाय तत ऊर्ध्वभाविषु पृष्ठस्तोत्रेषु सप्तदशः स्तोमोऽनुष्ठातव्यः।तथा च स एव पञ्चदशः स्तोमसप्तदशस्तोमं प्रवर्तयति, तत्र या प्रवर्तनशक्तिः सा त्वमसि।

विश्वास-प्रस्तुतिः

दि॒त्य॒वाड्वयः॑+++( असि)+++ ।

मूलम्

दि॒त्य॒वाड्वयः॑+++( असि)+++ ।

सायण-टीका

वयसां मध्ये द्विसंवत्सरवयोरूपाऽसि। दित्यवाट्शब्देन संवत्सरद्वयमुपलक्ष्यते।
तथा हि दित्यं पुरुषं बालं वहतीति दित्यवाडजादिभेदपु यः कश्र्विदवान्तरजातिरेडकः।
स च संवत्सरद्वयेन पुंबालं वहतीति दित्यवाट्शब्दः संवत्सरद्वयोपलक्षकः।
दितिः स्वण्डनं भाण्डभङ्गादिचापलं तदर्हतीति दित्यः पुंबाल इत्यर्थः।

विश्वास-प्रस्तुतिः

त्रेताऽया॑नाम् +++( असि)+++ ।

द॒क्षि॒णा॒द्वा॒तो वातः॑ +++( असि)+++ ।

स॒ना॒तन॒ ऋषिः॑ +++( असि)+++ ।

मूलम्

त्रेताऽया॑नाम् +++( असि)+++ ।

द॒क्षि॒णा॒द्वा॒तो वातः॑ +++( असि)+++ ।

स॒ना॒तन॒ ऋषिः॑ +++( असि)+++ ।

सायण-टीका

दक्षिणादित्यव्ययं तु दक्षिणस्यां दिशीत्यमुमर्थं ब्रूते।
यो वायुर्दक्षिणस्यां वाति स दक्षिणा *** *** १९८० र्बातः। तेन वातविशेषणेन विशेष्यो यो वायुस्तद्रूपा त्वमसि ।
शेषं पूर्ववत् ।

विश्वास-प्रस्तुतिः

प्र॒तीची॑ दि॒शाम् +++( असि)+++ ।

व॒र्षा ऋ॑तू॒नाम् +++( असि)+++ ।
विश्वे॑ दे॒वा दे॒वता॑ +++( असि)+++ ।
विड्द्रवि॑णम् +++( असि)+++ ।

स॒प्त॒द॒शस्स्तोमः॑ +++( असि)+++ ।
स उ॑वेकविँ॒शव॑र्तनिः +++( असि)+++ ।

मूलम्

प्र॒तीची॑ दि॒शाम् +++( असि)+++ ।

व॒र्षा ऋ॑तू॒नाम् +++( असि)+++ ।
विश्वे॑ दे॒वा दे॒वता॑ +++( असि)+++ ।
विड्द्रवि॑णम् +++( असि)+++ ।

स॒प्त॒द॒शस्स्तोमः॑ +++( असि)+++ ।
स उ॑वेकविँ॒शव॑र्तनिः +++( असि)+++ ।

सायण-टीका

प्रतीच्यां दिश्युपधेयानामिष्टकानां मन्त्रमाह— प्रतीची दिशामिति ।

विश्वास-प्रस्तुतिः

त्रि॒व॒त्सो वयः॑ +++( असि)+++ ।

मूलम्

त्रि॒व॒त्सो वयः॑ +++( असि)+++ ।

सायण-टीका

त्रयोवत्सा वत्सरा यस्यासौ त्रिवत्सो वर्षत्रयं तत्परिमितं यद्वयस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

द्वा॒प॒रोऽया॑नाम् +++( असि)+++ ।

मूलम्

द्वा॒प॒रोऽया॑नाम् +++( असि)+++ ।

सायण-टीका

अयसि गच्छति तत्तत्कालानुसारेण वर्तन्ते प्राणिनोऽत्रेत्यया युगरूपाः कालविशेषाः तेषां मध्ये यो द्वापरस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

प॒श्चा॒द्वा॒तो वातः॑ +++( असि)+++ ।

मूलम्

प॒श्चा॒द्वा॒तो वातः॑ +++( असि)+++ ।

सायण-टीका

पश्चिमायां दिशि यो वायुर्वाति तस्य पश्चाद्वात् इति संज्ञा ।
पतत्संज्ञको यो वातविशेषस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

अ॒ह॒भून॒ ऋषिः॑ +++( असि)+++ ।

मूलम्

अ॒ह॒भून॒ ऋषिः॑ +++( असि)+++ ।

सायण-टीका

अहभून इति कस्यचिदृषेर्नामधेयम् ।

विश्वास-प्रस्तुतिः

उदी॑ची दि॒शम् +++( असि)+++ ।
श॒रदृ॑तू॒नाम् +++( असि)+++ ।

मि॒त्रावरु॑णौ दे॒वता॑ +++( असि)+++ ।

मूलम्

उदी॑ची दि॒शम् +++( असि)+++ ।
श॒रदृ॑तू॒नाम् +++( असि)+++ ।

मि॒त्रावरु॑णौ दे॒वता॑ +++( असि)+++ ।

सायण-टीका

उदीच्यां दिश्युपधेयानामिष्टकानां मन्त्रमाह— उदीची दिशामिति ।

विश्वास-प्रस्तुतिः

पु॒ष्टन्द्रवि॑णम् +++( असि)+++ ।
ए॒क॒विँ॒शस्स्तोमः॑ +++( असि)+++ ।
स उ॑ त्रिण॒वव॑र्तनिः +++( असि)+++ ।

मूलम्

पु॒ष्टन्द्रवि॑णम् +++( असि)+++ ।
ए॒क॒विँ॒शस्स्तोमः॑ +++( असि)+++ ।
स उ॑ त्रिण॒वव॑र्तनिः +++( असि)+++ ।

सायण-टीका

पुष्टशब्दः परिचर्यया वर्णत्रयपोषकत्वाच्छूद्रजातिमाचष्टे ।
अत एव वाजसनेयिनः समामनन्ति “स शौद्रं वर्णमसृजत्पूषणम्” इति ।

विश्वास-प्रस्तुतिः

तुर्य॒वाड्वय॑ः +++( असि)+++ ।

मूलम्

तुर्य॒वाड्वय॑ः +++( असि)+++ ।

सायण-टीका

तुर्यं चतुर्थ चतुर्थसंवत्सरोपक्रमं वहतीति तुर्यवाट्, सार्धत्रिसंवत्सररूपं यद्वयस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

आ॒स्क॒न्दोऽया॑नाम् +++( असि)+++ ।

मूलम्

आ॒स्क॒न्दोऽया॑नाम् +++( असि)+++ ।

सायण-टीका

आ समन्तात्स्कन्दनं धर्मस्य शोषणं यस्मिन्कलौ सोऽयमास्कन्दः ।

विश्वास-प्रस्तुतिः

उ॒त्त॒रा॒द्वा॒तो वातः॑ +++( असि)+++ ।

प्र॒त्न ऋषि॑ः +++( असि)+++ ।

मूलम्

उ॒त्त॒रा॒द्वा॒तो वातः॑ +++( असि)+++ ।

प्र॒त्न ऋषि॑ः +++( असि)+++ ।

सायण-टीका

प्रत्न इति कस्यचिदृषेर्नाम् ।

विश्वास-प्रस्तुतिः

ऊ॒र्ध्वा दि॒शाम् +++( असि)+++ ।

हे॑मन्तशिशि॒रावृ॑तू॒नाम् +++( असि)+++ ।

बृह॒स्पति॑र्दे॒वता+++( असि)+++ ।

मूलम्

ऊ॒र्ध्वा दि॒शाम् +++( असि)+++ ।

हे॑मन्तशिशि॒रावृ॑तू॒नाम् +++( असि)+++ ।

बृह॒स्पति॑र्दे॒वता+++( असि)+++ ।

सायण-टीका

मध्यदेश उपधेयानामिष्टकानां मन्त्रमाह— ऊर्ध्वा दिशामिति ।

विश्वास-प्रस्तुतिः

वर्चो॒ द्रवि॑णम् +++( असि)+++ ।

मूलम्

वर्चो॒ द्रवि॑णम् +++( असि)+++ ।

सायण-टीका

वर्चो वर्चस्वान्, चतुर्ष्वपि वर्णेषु यो बलवांस्तद्रूपं धनं त्वमसि ।

विश्वास-प्रस्तुतिः

त्रि॒ण॒वस्स्तोमः॑ +++( असि)+++ ।

स उ॑ त्रयस्त्रिँ॒शव॑र्तनिः +++( असि)+++ ।

प॒ष्ठ॒वाद्वयः॑ +++( असि)+++ ।

मूलम्

त्रि॒ण॒वस्स्तोमः॑ +++( असि)+++ ।

स उ॑ त्रयस्त्रिँ॒शव॑र्तनिः +++( असि)+++ ।

प॒ष्ठ॒वाद्वयः॑ +++( असि)+++ ।

सायण-टीका

षष्ठे पृष्ठे भारं वहतीति पष्ठवाट्, स एव दकारान्तशब्देनोच्यते । चतुर्थे वर्षे संपुर्णे सति प्रायेण बलीवर्दो भारं वहति ।
अतो वर्षचतुदृयरूपं याद्वयस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

अ॒भि॒भूः +++( असि)+++ ।

मूलम्

अ॒भि॒भूः +++( असि)+++ ।

सायण-टीका

कृत्स्रं धर्ममभिभवतित्यमिभूः कलियुगावसानकालस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

अया॑नाव्ँविष्वग्वा॒तो वातः॑ +++( असि)+++ ।

मूलम्

अया॑नाव्ँविष्वग्वा॒तो वातः॑ +++( असि)+++ ।

सायण-टीका

नानादिक्षु सौकर्येण संचरन्वायुर्विष्षग्वातसंज्ञकः, तथाविधो यो वायुस्तद्रूपा त्वमसि ।

विश्वास-प्रस्तुतिः

सु॒प॒र्ण ऋषिः॑ +++( असि)+++ ।

मूलम्

सु॒प॒र्ण ऋषिः॑ +++( असि)+++ ।

सायण-टीका

सुपर्ण इति कस्यचिट्टषेर्नामधेयम् ।

विश्वास-प्रस्तुतिः

पि॒तरᳶ॑ पिताम॒हाᳶ परेऽव॑रे॒ ते नᳶ॑ पान्तु ।

मूलम्

पि॒तरᳶ॑ पिताम॒हाᳶ परेऽव॑रे॒ ते नᳶ॑ पान्तु ।

सायण-टीका

सर्वेष्वेतेषु पञ्चसु मन्त्रेष्वनुषञ्जनीयं शेषमाह— पितर पितामहा इति ।
हे पितरो हे पितामहा हे परे प्रपितामहादयो हऽवरे भ्रातृपुत्रादय ईदृशा ये भवन्तः सन्ति ते भवन्तो नोऽस्मान्कर्मानुष्ठानाय पान्तु पालयन्तु ।

विश्वास-प्रस्तुतिः

ते नो॑ऽवन्तु ।

मूलम्

ते नो॑ऽवन्तु ।

सायण-टीका

किंच ते भवन्तो नोऽस्मान्पालनसिद्ध्यर्थमवन्तु ।

विश्वास-प्रस्तुतिः

अ॒स्मिन्ब्रह्म॑न्, अ॒स्मिन्क्ष॒त्रे॑ऽस्याम आ॒शिष्य॒स्याम् पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यान्दे॒वहू॑त्याम् ॥ [6]

मूलम्

अ॒स्मिन्ब्रह्म॑न्, अ॒स्मिन्क्ष॒त्रे॑ऽस्याम आ॒शिष्य॒स्याम् पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यान्दे॒वहू॑त्याम् ॥ [6]

सायण-टीका

अस्मिन्ब्रह्मन्नस्यां ब्राह्मणजातौ, अस्मिन्क्षत्त्रेऽस्यां क्षत्त्रियजातौ, अस्यामाशिष्येतस्यां कामनायाम अस्यां देवहूत्यामेतस्यां देवताह्वानरूपायां क्रियायां च निमिभूतायां सत्यां हे इष्टके त्वामुपदधामीति शेषः।
एतैर्मन्त्रैः साध्यमुपधानं विधत्ते— १९८१ “प्राणभृत उपधाय संयत उप दधाति प्राणनेवास्मिन्धित्वा संयद्भिः संयच्छति तत्संयताँ संयत्त्वमथो प्राण एवापानं दधाति तस्मात्प्राणापानौ संचरतः” (सं. का. ५ प्र. २ अ. १०) इति।
अन्तर्देशे प्राणमृदाख्याः पूर्वोक्ता इष्टका उपधाय बहिर्देशे संयदाख्या इमा अपानभृता इष्टका उपदध्यात् ।
तथा सत्यग्नौ प्राणान्स्थापयित्वा संयदाख्याभिरिष्टकामभिः संयच्छति दृढी करोति ।
अतः संयच्छत्येताभिरिति व्युत्पत्त्या संयन्नामसंपन्नम्।
अपि च बहिःसंचाररूपे प्राणे पुनरन्तःसंचाररूपमपानं स्थापयति ।
तस्माल्लोकेऽपि प्राणापानौ संभूय संचरतः ।
प्राणभृद्भ्यो विपरीतप्रकारं विधत्ते— “विषूचीरुप दधाति तस्माद्विष्वञ्चौ प्राणापनौ” [सं. का. ५ प्र. २ अ. १०] इति।
यस्मात्प्राणभृतामपानभृतां चान्योन्यविपर्ययक्रमस्तस्माल्लोकेऽपि प्राणपानावन्योन्यविपरीतस्वरूपौ ।
बहिर्गतिः प्राणोऽन्तर्गतिरपानः । संयतामासामुपधानं प्रशंसति— “यद्वा अग्नेरसंयतमसुवर्ग्यमस्य तत्सुवर्ग्योऽग्निर्यत्संयत उपदधाति समेवैनं यच्छति सुवर्ग्येमेवकः” (सं. का. ५ प्र. २ अ. १०) इति।
अग्नेः संबन्धि यदङ्गं सम्यङ्न नयमितं तदङ्गं स्वर्गहितं न भवति, अग्निस्तु स्वर्गहितोऽस्माकमपेक्षितः, तस्मादाग्निं स्वर्ग्यं कर्तुं संयत उपदध्यात् ।
प्रथममन्त्रे कस्यचिदंशस्य तात्पर्यमाह— “त्र्यविर्वयः कृतमयानामित्याह वयोभिरेवायानव रुन्धेऽयैर्वयाँसि” [सं. का. ५ प्र. २ अ. १०] इति।
सार्धसंवत्सरादिरूपैर्वयोविशेषैस्याभिधेयानि कृतादियुगानि प्राप्नोति।
तैश्च युगैस्तान्वयोविशेषान्प्राप्नोति। नहि वयोविशेषमन्तरेण जन्महीनस्य कृतादियुगैः संबन्धोऽस्ति नापि कृतादियुगरूपस्य कालस्याभावे कश्चिद्वयोविशेषः संभवति । महाप्रलेय युगराहित्येन जन्मरहितानी वयोविशेषाद्यदर्शनात् । तस्मादन्योन्यसापेक्षयोर्वयोयुगयोरुभयोरप्यत्रोपादानम् ।
१९८२ पञ्चस्वपि मन्त्रेषु पुरोवातो दक्षिणाद्वात इत्यदिन्वायुविशेषान्प्रशंसति “सर्वतो वायुमतीर्भवन्ति तस्मादयँ सर्वतः पवते” (सं. का. ५ प्र. २ अ. १०) इति।
यस्मादेता इष्टकाः सर्वा अपि वायुशब्दोपेतैर्मन्त्रैरुपधेयास्तस्मादयं लोकेऽपि वायु सर्वासु दिक्षु संचरति ।

अत्र विनियोगसंग्रहः—
प्राचीत्यपानभृत्संयदितिनामद्वयान्विताः ।
पञ्चाशत्पूर्ववद्दिक्षु मध्ये चोदपदधाति ताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके तृतायोऽनुवाकः ॥ ३ ॥