अग्निर्ऋषिः
चतुर्थकाण्डे तृतीयप्रपाठके द्वितीयोऽनुवाकः
मूलम् (संयुक्तम्)
अ॒यम्पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तᳶ प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑यत्रि॒यै गा॑य॒त्रङ्गा॑य॒त्रादु॑पाँ॒शुरु॑पाँ॒शोस्त्रि॒वृत्त्रि॒वृतो॑ रथन्त॒रँ र॑थन्त॒राद्वसि॑ष्ठ॒ ऋषिᳶ॑ प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णङ्गृ॑ह्णामि प्र॒जाभ्यो॒ऽयन्द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णङ्ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒ष्टुभ॑ ऐ॒डमै॒डाद॑न्तर्या॒मो॑ऽन्तर्या॒मात्प॑ञ्चद॒शᳶ प॑ञ्चद॒शाद्बृ॒हद्बृ॑ह॒तो भ॒रद्वा॑ज॒ ऋषिᳶ॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनः॑ [2] गृ॒ह्णा॒मि॒ प्र॒जाभ्यो॒ऽयम्प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सव्ँव॒र्षाणि॑ चाक्षु॒षाणि॒ जग॑ती वा॒र्षी जग॑त्या॒ ऋक्ष॑म॒मृक्ष॑माच्छु॒क्रश्शु॒क्रात्स॑प्तद॒शस्स॑प्तद॒शाद्वै॑रू॒पव्ँ वै॑रू॒पाद्वि॒श्वामि॑त्र॒ ऋषिᳶ॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑ इ॒दमु॑त्त॒रात्सुव॒स्तस्य॒ श्रोत्रँ॑ सौ॒वँ श॒रच्छ्रौ॒त्र्य॑नु॒ष्टुप्छा॑र॒द्य॑नु॒ष्टुभ॑स्स्वा॒रँ स्वा॒रान्म॒न्थी म॒न्थिन॑ एकविँ॒श ए॑कविँ॒शाद्वै॑रा॒जव्ँ वै॑रा॒जाज्ज॒मद॑ग्नि॒र्ऋषिᳶ॑ प्र॒जाप॑तिगृहीतया [3] त्वया॒ श्रोत्र॑ङ्गृह्णामि प्र॒जाभ्य॑ इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒ती हे॑म॒न्तो वा॑च्याय॒नᳶ प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ॑ग्रय॒णात्त्रि॑णवत्रयस्त्रिँ॒शौ त्रि॑णवत्रयस्त्रिँ॒शाभ्याँ॑ शाक्वररैव॒ते शा॑क्वररैव॒ताभ्याव्ँ॑वि॒श्वक॒र्मर्षिᳶ॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाच॑ङ्गृह्णामि प्रजाभ्यः ॥ [4]
सायण-टीका
(चतुर्थकाण्डे द्वितीयप्रपाठके द्वितीयोऽनुवाकः)
प्रथमेऽनुवाकेऽपस्या उक्ताः।
अथ द्वितीये प्राणभृत उच्यन्ते।
कल्पः—“अयं पुरो भुव इति पञ्चाशतं प्राणभृतो दशदश प्रतिदिशमक्ष्णया दश मध्येऽन्तरा मन्तरा मुपधाय ” इति।
विश्वास-प्रस्तुतिः
अ॒यम्पु॒रो भुवः॑ +++( असि)+++ ।
मूलम्
अ॒यम्पु॒रो भुवः॑ +++( असि)+++ ।
सायण-टीका
तत्र पूर्वस्यां दिश्युपथेयानां दशेष्टकानां मन्त्रमाह— अयं पुरो भुव इति।
भवत्यस्माज्जगदिति भुवः।
भुवःशब्दः प्रजापतिमाचष्टे।
पुरः पूर्वस्यां दिशि अयं भुवो वर्तत इति शेषः।
हे इष्टके तद्रूपाऽसीत्यभिप्रायः।
एवमुत्तरेष्वपि वाक्येषु योज्यम्।
विश्वास-प्रस्तुतिः
तस्य॑ प्रा॒णो भौ॑वाय॒नः +++( असि)+++ ।
मूलम्
तस्य॑ प्रा॒णो भौ॑वाय॒नः +++( असि)+++ ।
सायण-टीका
तस्य भुवः शब्दाभिधेयस्य प्रजापतेः संबन्धी प्राणः ।
अत एवापत्मत्वमुपचर्य भौवायनू इत्युच्यते।
विश्वास-प्रस्तुतिः
व॒स॒न्तᳶ प्रा॑णाय॒नः +++( असि)+++ ।
मूलम्
व॒स॒न्तᳶ प्रा॑णाय॒नः +++( असि)+++ ।
सायण-टीका
तस्य च प्राणस्य श्वासवृत्तिरूपस्यापत्यत्वेनोपचस्तिः प्राणायनो वसन्त ऋतुः।
विश्वास-प्रस्तुतिः
गा॒य॒त्री वा॑स॒न्ती +++( असि)+++ ।
मूलम्
गा॒य॒त्री वा॑स॒न्ती +++( असि)+++ ।
सायण-टीका
तस्य च वसन्तस्य संबीन्धनी वासन्ती गायत्री।
विश्वास-प्रस्तुतिः
गा॒य॒त्रि॒यै गा॑य॒त्रम् +++( असि)+++ ।
मूलम्
गा॒य॒त्रि॒यै गा॑य॒त्रम् +++( असि)+++ ।
सायण-टीका
तस्याश्छन्दोरूपाया गायत्र्याः संबन्धि गायत्रं साम।
विश्वास-प्रस्तुतिः
गा॒य॒त्रादु॑पाँ॒शुः +++( असि)+++ ।
मूलम्
गा॒य॒त्रादु॑पाँ॒शुः +++( असि)+++ ।
सायण-टीका
तस्माञ्च गायत्रसाम्न उत्पन्न इवोपांशुग्रहः।
विश्वास-प्रस्तुतिः
उ॒पाँ॒शोस् त्रि॒वृत् +++( असि)+++ ।
मूलम्
उ॒पाँ॒शोस् त्रि॒वृत् +++( असि)+++ ।
सायण-टीका
तस्माच्चोपांशुग्रहादुत्पन्न इव त्रिवृत्स्तोमः।
विश्वास-प्रस्तुतिः
त्रि॒वृतो॑ रथन्त॒रम् +++( असि)+++ ।
मूलम्
त्रि॒वृतो॑ रथन्त॒रम् +++( असि)+++ ।
सायण-टीका
तस्माञ्च त्रिवृत्स्तोमादुत्पन्नमिव रथंतरं साम।
विश्वास-प्रस्तुतिः
र॒थ॒न्त॒राद्वसि॑ष्ठ ऋषि॑ः +++( असि)+++ ।
मूलम्
र॒थ॒न्त॒राद्वसि॑ष्ठ ऋषि॑ः +++( असि)+++ ।
सायण-टीका
तस्माद्रर्थतरसाम्न उत्पन्न इव वसिष्टाख्य ऋषिः ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णङ्गृ॑ह्णामि प्रजाभ्यः ।
मूलम्
प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णङ्गृ॑ह्णामि प्रजाभ्यः ।
सायण-टीका
हे इष्टके यथोक्तप्रकारेण प्रजापतिप्रणवसन्तादी रूपोपचारेण प्रजापतिगृहीतया त्वया प्रजाभ्यः सर्वासां प्रजानां प्राणं गृह्णामि
१९७५ प्रजानां प्राणसिद्धये त्वामुपदधामीत्यर्थः।
यद्यप्ययमेकवाक्यत्वादेक एव मन्त्रस्त थाऽपि प्रतीष्टकमावृत्त्या दश मन्त्राः संपद्यन्त।
विश्वास-प्रस्तुतिः
अ॒यन्द॑क्षि॒णा वि॒श्वक॑र्मा +++(असि)+++ ।
तस्य॒ मनो॑ वैश्वकर्म॒णम् +++( असि)+++ ।
ग्री॒ष्मो मा॑न॒सः +++( असि)+++ ।
त्रि॒ष्टुग्ग्रै॒ष्मी +++( असि)+++ ।
मूलम्
अ॒यन्द॑क्षि॒णा वि॒श्वक॑र्मा +++(असि)+++ ।
तस्य॒ मनो॑ वैश्वकर्म॒णम् +++( असि)+++ ।
ग्री॒ष्मो मा॑न॒सः +++( असि)+++ ।
त्रि॒ष्टुग्ग्रै॒ष्मी +++( असि)+++ ।
सायण-टीका
अथ दक्षिणस्यां दिश्युपधेयानामिष्टकानां मन्त्रमाह— अयं दक्षिणेति।
विश्वानि कर्माणि जगद्व्यापाररूपाणि यस्यासौ विश्वकर्मा प्रजापतिः।
दक्षिणा दक्षिणस्यां दिशि योऽयं विश्वकर्मा हे इष्टके तद्रूपात्वमसि।
प्राणवसन्तादिपरम्परेव मनोग्निष्मादिपरम्परा व्याख्येया।
विश्वास-प्रस्तुतिः
त्रि॒ष्टुभ॑ ऐ॒डम् +++( असि)+++ ।
ऐ॒डाद॑न्तर्या॒मः +++( असि)+++ ।
अन्तर्या॒मात्प॑ञ्चद॒शः +++( असि)+++ ।
प॑ञ्चद॒शाद्बृ॒हत् +++( असि)+++ ।
बृ॑ह॒तो भ॒रद्वा॑ज॒ ऋषि॑ः +++( असि)+++ ।
प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनः॑ [2] गृ॒ह्णा॒मि प्रजाभ्यः ॥
मूलम्
त्रि॒ष्टुभ॑ ऐ॒डम् +++( असि)+++ ।
ऐ॒डाद॑न्तर्या॒मः +++( असि)+++ ।
अन्तर्या॒मात्प॑ञ्चद॒शः +++( असि)+++ ।
प॑ञ्चद॒शाद्बृ॒हत् +++( असि)+++ ।
बृ॑ह॒तो भ॒रद्वा॑ज॒ ऋषि॑ः +++( असि)+++ ।
प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनः॑ [2] गृ॒ह्णा॒मि प्रजाभ्यः ॥
सायण-टीका
ऐडमिति साम विशेषः।
विश्वास-प्रस्तुतिः
अ॒यम्प॒श्चाद्वि॒श्वव्य॑चाः +++( असि)+++ ।
तस्य॒ चक्षु॑र्वैश्वव्यच॒सम् +++( असि)+++ ।
व्व॒र्षाणि॑ चाक्षु॒षाणि +++( असि)+++ ।
मूलम्
अ॒यम्प॒श्चाद्वि॒श्वव्य॑चाः +++( असि)+++ ।
तस्य॒ चक्षु॑र्वैश्वव्यच॒सम् +++( असि)+++ ।
व्व॒र्षाणि॑ चाक्षु॒षाणि +++( असि)+++ ।
सायण-टीका
अथ पश्र्विमायां दिश्मुपधेयानामिष्टकानां मन्त्रमाह— अयं पश्चाद्विश्वेति विश्वं सर्वं जगद्व्यचति व्याप्नोतीति विश्वव्यचाः प्रजापतिः।
शेषं पूर्ववद्योजनीयम्।
विश्वास-प्रस्तुतिः
जग॑ती वा॒र्षी +++( असि)+++ ।
मूलम्
जग॑ती वा॒र्षी +++( असि)+++ ।
सायण-टीका
वर्षाणि वर्षर्तुः।
विश्वास-प्रस्तुतिः
जग॑त्या॒ ऋक्ष॑म् +++( असि)+++ ।
अ॒मृक्ष॑माच्छु॒क्रः +++( असि)+++ ।
शु॒क्रात्स॑प्तद॒शः +++( असि)+++ ।
स॒प्त॒द॒शाद्वै॑रू॒पम् +++( असि)+++ ।
वै॒रू॒पाद्वि॒श्वामि॑त्र॒ ऋषि॑ः +++( असि)+++ ।
प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्रजाभ्यः ।
मूलम्
जग॑त्या॒ ऋक्ष॑म् +++( असि)+++ ।
अ॒मृक्ष॑माच्छु॒क्रः +++( असि)+++ ।
शु॒क्रात्स॑प्तद॒शः +++( असि)+++ ।
स॒प्त॒द॒शाद्वै॑रू॒पम् +++( असि)+++ ।
वै॒रू॒पाद्वि॒श्वामि॑त्र॒ ऋषि॑ः +++( असि)+++ ।
प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्रजाभ्यः ।
सायण-टीका
ऋक्षममिति सामविशेष:।
विश्वास-प्रस्तुतिः
इ॒दमु॑त्त॒रात्सुवः॑ +++( असि)+++ ।
तस्य॒ श्रोत्र॑म् +++( असि)+++ ।
सौ॒वँ श॒रत् +++( असि)+++ ।
श्रौ॒त्र्य॑नु॒ष्टुप् +++( असि)+++ ।
मूलम्
इ॒दमु॑त्त॒रात्सुवः॑ +++( असि)+++ ।
तस्य॒ श्रोत्र॑म् +++( असि)+++ ।
सौ॒वँ श॒रत् +++( असि)+++ ।
श्रौ॒त्र्य॑नु॒ष्टुप् +++( असि)+++ ।
सायण-टीका
अथोत्तरस्यां दिश्युपधेयानां मम्त्रमाह— इदमृत्तरादिशि।
सौति सर्वं जगत्प्रेरयतीति सुवःशब्दः प्रजापतिवाची।
उत्तरस्यां दिशि यदिदं सुवः प्रजापतिशरीरं हे इष्टके त्वं तद्रूपाऽसीति योज्यम्।
विश्वास-प्रस्तुतिः
शा॒र॒द्य॑नु॒ष्टुभ॑स्स्वा॒रम् +++( असि)+++ ।
स्वा॒रान्म॒न्थी +++( असि)+++ ।
म॒न्थिन॑ एकविँ॒शः +++( असि)+++ ।
ए॒क॒विँ॒शाद्वै॑रा॒जम् +++( असि)+++ ।
वै॒रा॒जाज्ज॒मद॑ग्निर्ऋषि॑ः +++( असि)+++ ।
प्र॒जाप॑तिगृहीतया [3] त्वया॒ श्रोत्र॑ङ्गृह्णामि प्रजाभ्यः ।
मूलम्
शा॒र॒द्य॑नु॒ष्टुभ॑स्स्वा॒रम् +++( असि)+++ ।
स्वा॒रान्म॒न्थी +++( असि)+++ ।
म॒न्थिन॑ एकविँ॒शः +++( असि)+++ ।
ए॒क॒विँ॒शाद्वै॑रा॒जम् +++( असि)+++ ।
वै॒रा॒जाज्ज॒मद॑ग्निर्ऋषि॑ः +++( असि)+++ ।
प्र॒जाप॑तिगृहीतया [3] त्वया॒ श्रोत्र॑ङ्गृह्णामि प्रजाभ्यः ।
सायण-टीका
स्वारमिति सामविशेषः।
शेषं पूर्ववद्योज्यम्।
विश्वास-प्रस्तुतिः
इ॒यमु॒परि॑ म॒तिः +++( असि)+++ ।
तस्यै॒ वाङ् मा॒ती +++( असि)+++ ।
हे॒म॒न्तो वा॑च्याय॒नः +++( असि)+++ ।
प॒ङ्क्तिर् है॑म॒न्ती +++( असि)+++ ।
मूलम्
इ॒यमु॒परि॑ म॒तिः +++( असि)+++ ।
तस्यै॒ वाङ् मा॒ती +++( असि)+++ ।
हे॒म॒न्तो वा॑च्याय॒नः +++( असि)+++ ।
प॒ङ्क्तिर् है॑म॒न्ती +++( असि)+++ ।
सायण-टीका
अथ मध्यदेश उपधेबानामिष्टकानां मन्त्रमाह— इयमुपरि मतिरिति।
मन्यते कृत्स्रं जगज्जानातीति मतिः प्रजापतिः।
ऊर्ध्वायां दिशि येयं मतिः प्रजापतितनुर्हे इष्टके तद्रूपा त्वमसि।
मतिनाम्नः प्रजापतेरपत्यरूपा येयं वाक्सा माती।
वाचोऽपत्यं वाच्यायनः।
विश्वास-प्रस्तुतिः
प॒ङ्क्त्यै नि॒धन॑वत् +++( असि)+++ ।
नि॒धन॑वत आग्रय॒णः +++( असि)+++ ।
आ॑ग्रय॒णात्त्रि॑णवत्रयस्त्रिँ॒शौ +++( असि)+++ ।
त्रि॒ण॒व॒त्रिँ॒शाभ्याँ॑शाक्वररैव॒ते +++( असि)+++ ।
शा॒क्व॒र॒ रै॒व॒ताभ्याव्ँ॑वि॒श्वक॒र्मर्षि॑ः +++( असि)+++ ।
प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाच॑ङ्गृह्णामि प्रजाभ्यः ॥ [4]
मूलम्
प॒ङ्क्त्यै नि॒धन॑वत् +++( असि)+++ ।
नि॒धन॑वत आग्रय॒णः +++( असि)+++ ।
आ॑ग्रय॒णात्त्रि॑णवत्रयस्त्रिँ॒शौ +++( असि)+++ ।
त्रि॒ण॒व॒त्रिँ॒शाभ्याँ॑शाक्वररैव॒ते +++( असि)+++ ।
शा॒क्व॒र॒ रै॒व॒ताभ्याव्ँ॑वि॒श्वक॒र्मर्षि॑ः +++( असि)+++ ।
प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाच॑ङ्गृह्णामि प्रजाभ्यः ॥ [4]
सायण-टीका
निधनवदिति सामविशेषः।
तत्रैकैकस्मिन्यन्त्रे प्रजापतिरिन्द्रियमृतुश्छन्दः सामविशेषो ग्रहः स्तोमः पृष्ठस्तोत्रं सामर्षिरिति नवानामेतेषां पदार्थानां यद्यपि लोकप्रसिद्धो जन्यजनकभावो नास्ति, तथाऽपि मन्त्रर्थत्वेन मनसा भावयितुमिदमुक्तमित्यविरोधः।
एतैर्मन्त्रैः साध्यमुपधानं विधत्ते— “प्राणभृत उप दधाति रेतस्येव प्राणान्दधाति तस्माद्वदन्प्राणन्पश्मञ्शृण्वन्पशुर्जायते ” (सं॰ का॰ ५ प्र॰ २ अ॰ १०) इति।
पूर्वं रेतोरूपा अपस्या उपहिताः ।
तत ऊर्ध्मं प्राणभृतामुपधानेन रेतसि प्राणान्स्थाषयति।
यस्मादेवं गर्भाशये सिक्ते रेतसि प्राणः स्थाप्यन्ते तस्माद्रेतः कार्य पशुर्वदनादिभिर्वागादिव्यापारैर्युक्तो जायते।
१९७६ सामान्येन विहितं पुनर्विशेषाकारेण विधत्ते— “अयं पुरो भुव इति पुरस्तादुप दधाति प्राणमेवैताभिर्दाधारायं दक्षिणा विश्वकर्मेति दक्षिणतो मन एवैताभिर्दाधारायं पश्र्वद्विश्वव्यचा इति पश्र्वच्चक्षुरेवैताभिर्दाधारेदमुत्तरात्सुवरित्युत्तरतः श्रोत्रमेवैताभिर्दाधारेयमुपरि मतिरित्युपरिष्टाद्वाच मेवैताभिर्दाधार ” (सं॰ का॰ ५ प्र॰ २ अ॰ १०) इति।
तत्तदिष्टकोपधानेन चित्त्यस्याग्नेर्यजमानस्य वा प्राणादयो धृता भवन्ति।
एकैकस्यां दिश्युपधेयानामिष्टकानां संख्यां विधत्ते—
“दशदशोप दधाति सवीर्यत्वाय ” (सं॰ का॰ ५ प्र॰ २ अ॰ १०) इति।
एकैकं मन्त्रं दशकृत्व आवर्त्य दशेष्टका उपदध्यात्।
तथा सति चितेः सवीर्यत्वदार्ढ्यं भवति।
अत्रोपधाने वक्रत्वं विधत्ते “अक्ष्णयोप दधाति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै ” (सं॰ का॰ ५ प्र॰ २ अ॰ १०) इति।
प्रतीच्यामुपक्रम्य प्राच्यामवसाने सत्यार्जवं भवति।
नैर्ऋत्यामुपक्रम्यैशान्यां समापनं वक्रत्वम।
एवमितरत्रापि।
तदिदमक्ष्णयेत्यनेनोच्यते।
पशवोऽपि दक्षिणं पुरोवर्तिनं पादं प्रचाल्य प्राश्वात्त्यं वामाङ्गवर्तिपादं प्रचालयन्ति।
एवं पशूनां पादचालनेन वक्रत्वम।
तत्तद्दिग्विशिष्टा इष्टकास्तत्तन्मन्त्रगतान्वसिष्ठादीनृषींश्व प्रशंसति— “याः प्राजीस्ताभिर्वसिष्ठ आर्ध्नोद्या दक्षिणास्ताभिर्भरद्वाजो याः प्रतीची स्ताभिर्विश्वामित्रो या उदीचीस्ताभिर्जमदग्निर्या ऊर्ध्वास्तामिर्विश्वकर्मा ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति।
स्पष्टम्। एतद्वेदनं प्रशंसति— “य एवमेतासामृद्धिं वेदर्ध्नोत्येव य आसामेवं बन्धुतां वेद वन्धुमान्भवति य आसामेवं क्लृतिं वेद कल्पतेऽस्मै य आसामेवमायतनं वेद्राऽऽयतनवान्भवति आसामेवं प्रतिष्ठां वेद प्रत्येव तिष्ठति ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति।
१९७७ ऋद्धिः समृद्धिहेतुत्वं, वन्धूनां समूहो बन्धुता। देशानां समूहाकार इत्यर्थः। क्लृर्प्ति क्र (त्व) कल्पना। आयतनं प्रागादिदेशविशेषः। प्रतिष्ठा तत्र स्थापनम्। अत्र विनियोगसंग्रहः—
अयं प्राणभृतो दध्यात्पञ्चाशत्पञ्चमन्त्रकैः [ तं तु पञ्चभिः] ।
अत्र मीमांसा प्रथमाध्यायस्य चतुर्थपादेऽष्टादशाधिकरणे चिन्तितमसृष्टिवत्प्राणभृत्तत्र सादृश्यं लिङ्गभूमतः।
अत्रैकमन्त्रगो लिङ्गसमवायो विशिष्यते॥
“प्राणभृत उपधाति ” इत्यत्रापि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वः पक्षः। लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधाने विधिः “रेतस्येव प्राणान्दधाति ” इत्यस्य वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानुवादः। पूर्वत्र द्वितीयादिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम। इह तु प्रथममन्त्र एव प्राणभृल्लिङ्गमाम्नायते – “अयं पुरो भुवस्तस्य प्राणो भौवायनः ” इति। एकस्यैव मन्त्रस्य प्राणभृत्तेऽपि च्छत्रिणो गच्छन्तीतिवत्तत्सहचरिताः सर्वे मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके द्वितीयोऽनुवाकः ॥१ ॥ ( अथ चतुर्थकाण्डे तृतीयप्रपाठके तृतीयोऽनुवाकः )।