गायत्री, २,६, १० त्रिष्टुप् । विश्वेदावा ऋषयः
चतुर्थकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः
विश्वास-प्रस्तुतिः
इन्द्रा॑ग्नी रोच॒ना दि॒वᳶ परि॒ वाजे॑षु भूषथः ।
तद्वा॑ञ्चेति॒ प्र वी॒र्य॑म् ।
मूलम्
इन्द्रा॑ग्नी रोच॒ना दि॒वᳶ परि॒ वाजे॑षु भूषथः ।
तद्वा॑ञ्चेति॒ प्र वी॒र्य॑म् ।
सायण-टीका
दशमेऽनुवाके पशुशिरसामुपधानमुक्तम्।
अथैकाशे याज्यानुवाक्या उच्यन्ते।
चातुर्मास्येषु वरुणप्रघासाख्यं यद्द्वितीयं पर्व तस्मिन्हवींषि चत्वार्या-म्नातानि— “ऐन्द्राग्नमेकादशकपालं मारुतीमामिक्षां वारुणीमामिक्षां कायमेकक-पालम् ” इति।
तत्रैन्द्रग्नस्य पुरोनुवाक्यामाह— इन्द्राग्नी रोचनेति।
दिवो द्युलोकस्य रोचना भासकौ हे इन्द्राग्नी वाजेषु हविर्लक्षणेष्वन्नेषु परिभूषथः परितः प्राप्नुतो भागमिति शेषः।
तत्तस्मात्कारणद्वां युव-योर्वीर्यं सामर्थ्यं प्रचेति प्रकर्षेणाज्ञायि लोके सर्वैर्ज्ञातमित्यर्थः।
विश्वास-प्रस्तुतिः
श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒स्सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ।
मूलम्
श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒स्सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ।
सायण-टीका
तत्रैव याज्यामाह— श्नथदूवृत्रमुतेति।
यो यजमान इन्द्राग्नी सपर्यात्परिचरति।
कीदृशा-विन्द्राग्नि, सहुरी समानाह्वानौ।
स यजमानो वृत्रं वरिणं श्नथद्विनाशयति।
उ- १९६६ तापि च वाजमन्नं सनोति सर्वेभ्यः प्रयच्छति।
पुनरपि भूरेर्बहुलस्य वसव्यस्येरज्यन्ता, ईश्वरत्वं प्राप्तवन्तौ, सहसा स्वकीयेन बलेन सहस्तमाऽदिशयेन सोढारौ परबलस्या-भिभवितारावित्यर्थः।
वाजयन्ता वाजमन्मात्मन इच्छन्तौ।
विश्वास-प्रस्तुतिः
प्र च॑र्ष॒णिभ्यᳶ॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ ।
प्र सिन्धु॑भ्य॒ᳶ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ।
मूलम्
प्र च॑र्ष॒णिभ्यᳶ॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ ।
प्र सिन्धु॑भ्य॒ᳶ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ।
सायण-टीका
तत्रैव विकल्पितां याज्यामाह— प्र चर्षणिभ्य इति।
हे इन्द्राग्नी पृतना संग्रामेषु हवेषु हविः स्वीकारार्थे-ष्वाहवानेषु च चर्षणिभ्यो मनुष्येभ्यः प्रिरिचाथे परिरिचाथे प्ररिक्तावतिरिक्तौ भवथ:।
सर्वानपि मनुष्यानतिरिच्य वर्तेथे इत्यर्थः।
तथा पृथिव्या दिवश्व प्ररिरिचाथे तदुभयमतिरिच्य वर्तेथे। तथा सिन्धुभ्यः प्ररिरिचाथे। तथा गिरिभ्यः पर्वतेभ्यः प्ररिरिचाथे। किं बहुना, अत्यन्याऽत्यन्तमितराणि विश्वा भुवना सर्वाणि भुवनानि महित्वा स्वकीयेन महिम्ना युवां प्ररिरिचाथे अतिरिच्य वर्तेथे।
विश्वास-प्रस्तुतिः
मरु॑तो॒ यस्य॒ हि [46] क्षये॑ पा॒था दि॒वो वि॑महसः ।
स सु॑गो॒पात॑मो॒ जनः॑ ।
मूलम्
मरु॑तो॒ यस्य॒ हि [46] क्षये॑ पा॒था दि॒वो वि॑महसः ।
स सु॑गो॒पात॑मो॒ जनः॑ ।
सायण-टीका
अथ मारुत्या आमिक्षायाः पुरोनुवाक्यामाह— मरुतो यस्य हीति। हे मरुतो दिवो द्युलोकादागता यूयं यस्य यजमानस्य क्षये गृहे पाथ रक्षां कुरुथ। कीदृशा मरुतः, विमहसो विशिष्टं महस्तेजो येषान्ते विमहसः। स जनस्तादृशो यजमानः सुगोपातमोऽतिशयेन रक्षको भवतु।
विश्वास-प्रस्तुतिः
य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् ।
मरु॑तश्शृणु॒ता हव॑म् ।
मूलम्
य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् ।
मरु॑तश्शृणु॒ता हव॑म् ।
सायण-टीका
तत्रैव विकल्पितामन्यां पुरोनुवाक्यामाह— यज्ञैर्वा यज्ञेति। यज्ञवाहसो यज्ञस्य वोढारो हे मरुतो यज्ञैर्वा निमित्तभूतै-र्हवं मदीयमाह्वानं शृणुत।
विश्वास-प्रस्तुतिः
श्रि॒यसे॒ कम्भा॒नुभि॒स्सम्मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिस्सुखा॒दयः॑ ।
ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ।
मूलम्
श्रि॒यसे॒ कम्भा॒नुभि॒स्सम्मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिस्सुखा॒दयः॑ ।
ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ।
सायण-टीका
तत्रैव याज्यामाह— श्रियसे कं भानुभिरिति। हे [ते] मरुतः पुरोवातरूपाः सन्तः कं श्रियसे प्राणिभिराश्रयितुं भानुमिर्भासकै रश्मिभिः सूर्यरश्मिभिः सहिताः सँमिमिक्षरे मेघ-वृष्टया भूमिं सम्यक्सेक्तुमिच्छन्ति। ते मरुत ऋव्कभिर्याज्यापुरोनुवाक्यारूपाभि-ऋर्ग्भिः स्तुताः सन्तः सुखादयः शोभनं हविः खादितवन्तः। ततस्ते मरुतो वाशीमन्त उत्साहजनितवोषरूपबहुविधशब्दवन्तः, इष्मिणः स्वगृहान्प्रति गतवन्तः अभिरवः स्वकार्यस्य निष्पन्नत्वेन विघ्नकारिभ्योऽसुरेभ्यो भयरहिताः, प्रियस्य मारुतस्य धाम्नो मरुतां संबन्धि यत्प्रियं स्थानं तद्विद्रे लब्धवन्तः। १९६७
विश्वास-प्रस्तुतिः
अव॑ ते॒ हेड॒ ..
मूलम्
अव॑ ते॒ हेड॒ ..
सायण-टीका
अथ वारुणीमामिक्षामित्येतस्य याज्यानुवाक्ययोः प्रतीके दर्शयति— अव ते हेड इति। अव ते हेड इति पुरोनुवाक्या।
-
पूर्णमन्त्रपाठः
-
[ अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ ।
क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाँ॑सि शिश्रथᳵ कृ॒तानि॑ ॥ -
अथ त्रिहविषि मध्यमस्य वारुणस्य पुरोनुवाक्या - अवते हेड इति त्रिष्टुप् ॥ हे वरुण ते तव हेडः क्रोधमभिशस्त्यादिहेतुं नमोभिर्नमस्कारैरवेमहे अपनयामः । ई गतौ, शपो लुक् । यज्ञैश्च पूजामन्त्रैश्च हविर्भिः पुरोडाशादिभिश्चावेमहे अपनयामः । ततस्त्वमस्मभ्यमस्मदर्थमेव हे क्षयन्निवसन् अस्मदुपकारायैव यतमान । क्षियतेर्व्यत्ययेन शप्, क्षयतिरेव वा निवासकर्मा, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अस्मदीयानि कृतान्येनांसि पापानि शिश्रथः श्रथय हे असुर रक्षसां निरसितः प्रचेतः प्रकृष्टमते राजन् सदा दीप्यमान ॥
-
अथ वारुणस्य पुरोनुवाक्या - अव ते हेड इति त्रिष्टुप् ॥ इयं ‘वैश्वानरो नः’ इत्यत्र व्याख्याता । हे वरुण नमोभिः नमस्कारैरन्नैर्वा यज्ञैश्च हविर्भिश्च हविष्मद्भिर्वा यज्ञैः तव हेडः क्रोधं अवेमहे अवनयामः । हे असुर प्राणप्रद प्रकृष्टचेतस्क राजन् अस्मभ्यमस्मदर्थं क्षयन्निवसन् अस्माकं कृतानि पापानि शिश्रथः श्लथयेति ॥]
सायणोक्त-विनियोगः
उदुत्तममिति याज्या। एतच्चोभयं वैश्वानरो न उत्येत्यस्मिन्ननुवाके व्याख्यातम्।
विश्वास-प्रस्तुतिः
उदु॑त्त॒मम् .. ।
मूलम्
उदु॑त्त॒मम् .. ।
सायण-टीका
-
पूर्णमन्त्रपाठः
-
उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मव्ँवि म॑ध्य॒मँ श्र॑थाय ।
अथा॑ व॒यमा॑दित्य [49] व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥- तत्रैव याज्या - उदुत्तममिति त्रिष्टुप् ॥ हे वरुण उत्तमं पाशमस्मत्सकाशादुच्छ्रथाय ऊर्ध्वमुच्छ्रथय । अधममवश्रथय अधस्तादवकृष्य नाशय । मध्यमं विश्रथय विष्वक्कृत्य नाशय । श्रथ दौर्बल्ये चुरादिरदन्तः, वर्णव्यत्ययेनोपान्त्यस्य दीर्घत्वम् ।
अत्र केचित् - उद्भूतादिभूतमध्यस्थशक्तितया धर्मपाशानां त्रैविध्यमाहुः । उत्तमाधममध्यमदेहप्रभवतया त्वन्ये । +++(केचित्, अन्ये इति पक्षद्वयम् उल्लिखितम् । अस्य विवरणं न लब्धम्)+++ ऊर्ध्वाधोमध्यमगतिहेतुत्वेनापरे ।
- अथानन्तरं वयमनागसः विमुक्तसर्वपापाः तव व्रते कर्मणि स्याम योग्या भवेम । अदितये अखण्डितत्वाय अदीनत्वाय वा स्यामेति । हे आदित्य अदितेः पुत्र । यद्वा - इत्थमनागसस्सन्तो वयमदितये अनभिशस्तये स्याम । किमर्थं? तव व्रते कर्मणि कर्मार्थं योग्यतार्थमिति । अनागस इति बहुव्रीहौ व्यत्ययेन ‘नञ्सुभ्याम्’ इति न प्रवर्तते, लुप्तमत्वर्थीयो वा अनागस्विन इति ॥
- तत्रैव याज्या - उदुत्तममिति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण उत्तमं उत्तमफलप्राप्तिहेतुं ऊर्ध्वकर्षणं वा पाशं कर्मपाशं अस्मत्त उच्छ्रथाय ऊर्ध्वमुत्क्षिप्य उत्कृष्य नाशय । अधमं निकृष्टफलप्राप्तिहेतुं अधःपतनहेतुं वा कर्मपाशमवश्रथय अधस्तादपकृष्य नाशय । मध्यमं पाशं विश्रथय विष्वङ्नाना विकृष्य नाशय । अथैवं त्वया कृते वयमनागसः क्षालितसर्वकर्माणः तव व्रते कर्मणि उपासनात्मनि स्याम अदितये अखण्डितैश्वर्याय हे आदित्य देवानामादिभूत अदितेर्वा अपत्येति ॥]
सायणोक्त-विनियोगः
अथ कायमेककपालमित्यस्य पुरोनुवाक्यामाह— कया नश्र्वित्र इति।
०१ कया नश्चित्र ...{Loading}...
क᳓या नश् चित्र᳓ +++(→इन्द्रः)+++ आ᳓ भुवद्
ऊती᳓ +++(=रक्षणम्/ तर्पणम् [तेन])+++, सदा᳓-वृधः +++(=वर्धमानः)+++ स᳓खा ।
क᳓या श᳓चिष्ठया +++(=प्रज्ञावता)+++ वृता᳓ +++(=वर्तनेन)+++ १
001 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - वामदेवो गौतमः
- छन्दः - गायत्री
Thomson & Solcum
क᳓या नश् चित्र᳓ आ᳓ भुवद्
ऊती᳓ सदा᳓वृधः स᳓खा
क᳓या श᳓चिष्ठया वृता᳓
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
bhuvat ← √bhū- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
citráḥ ← citrá- (nominal stem)
{case:NOM, gender:M, number:SG}
káyā ← ká- (pronoun)
{case:INS, gender:F, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sadā́vr̥dhaḥ ← sadā́vr̥dha- (nominal stem)
{case:NOM, gender:M, number:SG}
sákhā ← sákhi- (nominal stem)
{case:NOM, gender:M, number:SG}
ūtī́ ← ūtí- (nominal stem)
{case:INS, gender:F, number:SG}
káyā ← ká- (pronoun)
{case:INS, gender:F, number:SG}
śáciṣṭhayā ← śáciṣṭha- (nominal stem)
{case:INS, gender:F, number:SG}
vr̥tā́ ← vŕ̥t- (nominal stem)
{case:INS, gender:F, number:SG}
पद-पाठः
कया॑ । नः॒ । चि॒त्रः । आ । भु॒व॒त् । ऊ॒ती । स॒दाऽवृ॑धः । सखा॑ ।
कया॑ । शचि॑ष्ठया । वृ॒ता ॥
Hellwig Grammar
- kayā ← ka
- [noun], instrumental, singular, feminine
- “what; who; ka [pronoun].”
- naś ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- citra ← citraḥ ← citra
- [noun], nominative, singular, masculine
- “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- bhuvad ← bhuvat ← bhū
- [verb], singular, Aorist conj./subj.
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- ūtī ← ūti
- [noun], instrumental, singular, feminine
- “aid; favor; ūti [word].”
- sadāvṛdhaḥ ← sadāvṛdha
- [noun], nominative, singular, masculine
- sakhā ← sakhi
- [noun], nominative, singular, masculine
- “friend; companion; sakhi [word].”
- kayā ← ka
- [noun], instrumental, singular, feminine
- “what; who; ka [pronoun].”
- śaciṣṭhayā ← śaciṣṭha
- [noun], instrumental, singular, feminine
- vṛtā ← vṛt
- [noun], instrumental, singular, feminine
सायण-भाष्यम्
सदावृधः सदा वर्धमानः चित्रः चायनीयः पूजनीयः सखा मित्रभूत इन्द्रः कया उती ऊत्या तर्पणेन नः अस्मान् आ भुवत् आभिमुख्येन भवेत् । शचिष्ठया प्रज्ञावत्तमया प्रज्ञासहितमनुष्ठीयमानेन कया वृता केन वर्तनेन कर्मणा चाभिमुखो भवेत् ॥
कस्य प्रजापतेः संबन्धिनीत्यस्मिन्नर्थे स्रीलिङ्गः केतिशब्दो वर्तते। ऊतिशब्दो रक्षणवाची। कयोत्या प्रजापतिसंबन्धिना रक्षणेन चित्र आभुवद्विचित्रोऽयं यज्ञो नोऽस्मान्प्रत्यागतः। कीदृशो यज्ञः, सदावृधः सर्वदा वर्धमानः, सखा सखिवत्प्रियतमः। स च यज्ञः कया प्रजापतिसंबन्धिन्या शचि ष्टयाऽतिशयितया शक्त्या वृता युक्त इत्यर्थः।
Wilson
English translation:
“By what means may he who is ever augmenting, who is wonderful, who is our friend, be present with us, by what most effective rite?”
Jamison Brereton
With what help will our brilliant, ever-strengthening comrade be there for us—
with what most powerful troop?
Griffith
WITH what help will he come to us, wonderful, ever-waxing Friend;
With what most mighty company?
Geldner
Mit welcher Hilfe wird uns der wunderbare, immer fördernde Freund beistehen, mit welchem mächtigsten Gefolge?
Grassmann
Mit welcher Hülfe steht uns bei der lichte Freund, der stets erquickt? Mit welcher stärksten Heeresschar?
Elizarenkova
С какой поддержкой появится
Наш яркий, всегда помогающий друг?
С какою самою сильною свитою?
अधिमन्त्रम् (VC)
- इन्द्र:
- वामदेवो गौतमः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब पन्द्रह ऋचावाले इकतीसवें सूक्त का प्रारम्भ है, उसके प्रथम मन्त्र में राजप्रजाधर्मविषय को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! (सदावृधः) सर्वदा वृद्धि को प्राप्त होते हुए आप (नः) हम लोगों की (कया) किस (ऊती) रक्षण आदि क्रिया के साथ और (कया) किस (शचिष्ठया) अत्यन्त श्रेष्ठ वाणी बुद्धि वा कर्म्म जो (वृता) संयुक्त उससे (चित्रः) अद्भुत गुण, कर्म्म और स्वभाववाले (सखा) मित्र (आ, भुवत्) हूजिये ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजन् ! आपको चाहिये कि हम लोगों के साथ, वैसे कर्म्म करें कि जिनसे हम लोगों की प्रीति बढ़े ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे राजन् ! सदावृधस्त्वं नः कयोती, कया शचिष्ठया वृता चित्रः सखा आ भुवत् ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथ राजप्रजाधर्ममाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कया) (नः) अस्माकम् (चित्रः) अद्भुतगुणकर्मस्वभावः (आ) (भुवत्) भवेः (ऊती) ऊत्या रक्षणादिक्रियया सह (सदावृधः) सर्वदा वर्धमानः (सखा) (कया) (शचिष्ठया) अतिशयेन श्रेष्ठया वाचा प्रज्ञया कर्मणा वा (वृता) संयुक्तया ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजन् ! भवतास्माभिस्सह तादृशानि कर्माणि कर्त्तव्यानि यैरस्माकं प्रीतिर्वर्द्धेत ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात राजा व प्रजेच्या धर्माचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणली पाहिजे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे राजा! आमच्याबरोबर असे वाग की ज्यामुळे आमचे प्रेम वाढावे. ॥ १ ॥ ००
सायणोक्त-विनियोगः
तत्रैव याज्यामाह- को अद्य युङ्क्त इति।
विश्वास-प्रस्तुतिः
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षाम्भृ॒त्यामृ॒णध॒त्स जी॑वात् ।
मूलम्
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षाम्भृ॒त्यामृ॒णध॒त्स जी॑वात् ।
सायण-टीका
कः प्रजापतिरद्यास्मिन्दिन ऋतस्य धुरि यज्ञस्या-ग्रभागे यज्ञप्रवृत्तिवेलायामित्यर्थः। गा वाग्विशेषानस्मदीयस्तुतिरूपान्युङ्क्ते स्वचित्ते योजयति। कीदृशान्वाग्विशेषान्, शिमीवतः कर्मयुक्तानेतत्कर्मयोग्यानित्यर्थः। भामिनः स्वार्थावभासकान। दुर्हृणायून्दुःखहरणशीलान्। आसन्निषूनस्मदीययास्यं मुखमिष्यन्ति गच्छन्तीत्यासन्निषवस्तान। हृत्स्वसो हृत्सु स्तुत्यानां हृदयेषु सन्ति तिष्ठन्तीति हृत्स्वसस्तान्हृदयंगमानतिप्रियानित्यर्थः। मयोभून्सुखस्य भावयितृन। यो यजमान एषां वाग्विशेषाणां सृत्या भरणक्रियामृणधद्वर्थयति पुनः पुनः स्तौतीत्यर्थः । स यजमानो चीवाच्चिरं जीवति।
विश्वास-प्रस्तुतिः
अग्ने॒ नय॑
मूलम्
अग्ने॒ नय॑
सायण-टीका
अथ स्विष्टकृतो याज्यानुवाक्ययोः प्रतीके दर्शयति— अग्ने नयेति। अग्ने नय सुपथेति पुरोनुवाक्या।
-
पूर्णमन्त्रपाठः
-
[अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जुहुरा॒णमेनो॒ भूयि॑ष्ठान्ते॒ नम॑उक्तिव्ँविधेम ॥-
आग्नीध्रीये जुहोति - अग्ने नयेति त्रिष्टुभा ॥ व्याख्याता चेयं ‘उभावाम्’ इत्यत्र । हे अग्ने शोभनेन मार्गेण अस्मान्नय धनार्थम् । हे देव विश्वानि वयुनानि ज्ञानोपायभूतानि विद्वान् ।
किञ्च - जुहुराणं कुटिलस्वभावं चैनः पापमस्मत्तो युयोधि पृथक्कुरु । वयं च ते भूयिष्ठां नमउक्तिं विधेमेति ॥] -
[अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वातिपादयेत्’ (तै.सं. 2.2.2) इत्यस्य पुरोनुवाक्या - अग्ने नयेति त्रिष्टुप्चतुष्पदा ॥
हे अग्ने देव सुपथा शोभनेन मार्गेण शास्त्राविरुद्धेन । ‘परादिश्छन्दसि’ (पा.सू. 6.2.199) इत्युत्तरपदाद्युदात्तत्वं, ‘आद्युदात्तं द्व्यच्छन्दसि’ (पा.सू. 6.2.119) इति तु न भवति अन्तोदात्तत्वात्पथिन्शब्दस्य, क्रत्वादिर्वा द्रष्टव्यः (पा.सू. 6.2.198) । ‘न पूजनात्’ (पा.सू. 5.4.69) इति समासान्तप्रतिषेधः । इर्दृशेन मार्गेणास्मान्नय । किमर्थं ? - राये धनाय हविर्लक्षणाय ; त्वदीयहविस्सम्पादनयोग्या वयं यथा भवामस्तथा कुर्वित्यर्थः । त्वं हि विश्वानि वयुनानि ज्ञानान्यभिप्रायान्विद्वान् । ‘अजियमिशीङ्भ्यश्च’ (उ.सू. 348) इत्यजेरुनन्प्रत्ययः, ‘अजेर्व्यघञपोः’ (पा.सू. 2.4.56) इति वीभावश्च ।
किञ्च - एनः पापं दर्शपूर्णमासातिपत्तिलक्षणम् अस्मत् अस्मत्तः युयोधि अपनय । यौतिः पृथग्भावे लोटि ‘बहुळं छन्दसि’ (पा.सू. 2.4.76) इति शपः श्लुः, ‘वा छन्दसि’ (पा.सू. 3.4.88) इत्यपित्त्वाभावेन अङित्त्वात् ‘अङितश्च’ (पा.सू. 6.4.103) इति धिभावः । कीदृशमेनः ? - जुहुराणं कुटिलस्वभावम् । हुर्च्छा कौटिल्ये इत्यस्मात् ‘हुर्च्छेस्सनो लुक् छलोपश्च’ (उ.सू. 257) इत्यानच्प्रत्ययः । हुर्छितुमिच्छति जुहुराणम् । यद्वा - हृ प्रसह्यकरणे, जुहोत्यादिकः, तस्मात्ताच्छीलिके (पा.सू. 3.2.129) चानशि शपः श्लुः (पा.सू. 2.4.75), ‘बहुळं छन्दसि’ (पा.सू. 7.1.103) इत्युत्वम् । तदर्थं वयं ते तुभ्यं भूयिष्ठां बहुतमां नमउक्तिं नमस्कारोक्तिं विधेम क्रियास्म । विध विधाने, आशिषि लिङ्, ‘लिङ्याशिषि’ (पा.सू. 3.1.86) इत्यङ्, यासुडादिः (पा.सू. 3.4.103)।, ‘छन्दस्युभयथा’ (पा.सू. 3.4.117) इति सार्वधातुकत्वात्सलोपः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । नमस आद्युदात्तत्वम् । ‘पथो वा एषः’ (तै.सं. 2.2.2) इत्यादि ब्राह्मणम् ॥]
-
विश्वास-प्रस्तुतिः
आ दे॒वानाम्
मूलम्
आ दे॒वानाम्
सायण-टीका
आ देवानामपि पन्था-मिति याज्या। तच्चोभयमुभा वामिन्द्राग्नी इत्यनुवाके व्याख्यातम्।
-
पूर्णमन्त्रपाठः
-
[ आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम् ।
अ॒ग्निर्वि॒द्वान्त्स य॑जात् [27] सेदु॒ होता॒ सो अ॑ध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति ॥- तत्रैव याज्या - आ देवानामिति चतुष्पदा त्रिष्टुप् ॥
देवानां पन्थां पन्थानं (वयं) कर्ममार्गं आगन्म आगता भूयास्म । ‘मन्त्रे घसह्वर’ (पा.सू. 2.4.80) इत्यादिना च्लेर्लुक् । यद्वा - ‘बहुळं छन्दसि’ (पा.सू. 2.4.73) इति शपो लुक् । ‘पथिमथोस्सर्वनामस्थाने’ (पा.सू. 6.1.199) इति पथिन्शब्दस्याद्युदात्तत्वम्, द्वितीयैकवचनेपि व्यत्ययेन (पा.सू. 3.1.85) ‘पथिमथ्यृभुक्षामात्’ (पा.सू. 7.1.85) इत्यात्वम् । ये वयं कालातिपत्त्या कर्ममार्गात्प्रच्युतास्तेऽपि वयम् ।
यद्वा - यतः कर्ममार्गात्प्रच्युताः, तमपि पन्थानमागन्म । किं कार्त्स्न्येन सर्वं र्वोढुं शक्यत इत्यत आह - यच्छक्नवाम यावत्किञ्चिदेव विषये अनुष्ठातुं शक्नुयाम । लोट्याडागमः (पा.सू. 3.4.92), सतिशिष्टो विकरणस्वरः (पा.सू. 6.1.158 वा 9) । तदनु प्रवोढुं तच्छक्यं कर्मजातं अनुक्रमेणाविच्छेदेन निर्वोढुं पन्थानमगन्म । अविच्छेदेनानुष्ठानं प्रवाहः । प्रवोढुमित्यत्र ‘तादौ च निति कृत्यतौ’ (पा.सू. 6.2.50) इति गतेः प्रकृतिस्वरत्वम् । शक्त्या कर्मप्रवाहो लक्ष्यत इति लक्षणे अनोः कर्मप्रवचनीयत्वम् (पा.सू. 1.4.84) । यद्वा - तदिति लिङ्गव्यत्ययेन (पा.सू. 3.1.85) नपुंसकत्वम्, तं पन्थानमनु प्रवोढुं यस्माद्वयं शक्नवाम । सम्भावने लोट् । तस्मात्तमागता वयमिति ।
ननु तदवस्थमेव कर्मणो वैकल्यं, कथं वा निर्वोढुं शक्यत इत्यत आह - स एव खल्वग्निः पथिकृन्नामा यजात् यजेत् अविगुणं यागं निर्वर्तयिष्यति अनतिपन्नतां कर्मणस्सम्पादयिष्यति । लेट आडागमः (पा.सू. 3.4.94) ।
कोऽस्य विशेष इत्यत आह - विद्वान् सम्यग्यागसम्पादनोपायज्ञः । ननु देवानां यागेऽतिपन्ने किमग्निना शक्यमित्यत आह - स एव खल्वग्निः होता देवानां साधु आह्वाता । ह्वयतेस्तृनि ‘बहुळं छन्दसि’ (पा.सू. 6.1.34) इति सम्प्रसारणम् । देवाः खल्वग्निना हूयमानाः कर्मणो वैगुण्यमनादृत्य आगमिष्यन्तीति । अधुना किमग्निना अशक्यं कर्तुमिति प्रतिपाद्यते - स खल्वग्निः अध्वरान् यागान् कल्पयाति कल्पयति अकालकृतानपि फलप्रदानसमर्थान् करोति ।
यद्वा - अध्वरान् ध्वरैः कर्मणो वारकैः कालातिपत्त्यादिदोषैः रहितानस्मान् अस्मद्यागान्वा करोतु । एवं हि ‘नञ् सुभ्याम्’ (पा.सू. 6.2.172) इत्युत्तरपदान्तोदात्तत्वं लभ्यते । ननु कालो बलवान्, तत्कथं तदतिपत्तिः अग्निना परिहर्तुं शक्यत इत्यत आह - स एव खल्वग्निः ऋतून् कालावयवान् कल्पयाति, आदित्यात्मनाप्यग्नेरेवावस्थितत्वात् । यः कालस्यैव स्रष्टा स कथं विपन्नकालं अविपन्नं कर्तुं न शक्नुयादिति भावः ।
- तत्रैव याज्या - आ देवानामिति चतुष्पदा त्रिष्टुप् ॥
अत्र स इति पदं चतुः प्रयुज्यते । तत्र संहितायां प्रथमस्य ‘एतत्तदोः’ (पा.सू. 6.1.132) इति प्रथमा लुप्यते । द्वितीयस्य तु ‘सोऽचि लोपे चेत्’ (पा.सू. 6.1.134) इति लुप्यते । तृतीयस्य तु ‘अतो रोः’ (पा.सू. 6.1.113) इति रोरुत्वे, गुणे च कृते, ‘अनुदात्ते च कुधपरे’ (पा.सू. 6.1.120) इति रोः प्रकृतिभावः । चतुर्थस्य तु ‘भोभगोअघोअपूर्वस्य योऽशि’ (पा.सू. 8.3.17) इति यत्वे कृते, ‘लोपश्शाकल्यस्य’ (पा.सू. 8.3.19) इति लुप्यते, लोपस्यासिद्धत्वात् (पा.सू. 8.2.1) गुणो न क्रियते ॥़]
विश्वास-प्रस्तुतिः
शन्नो॑ भवन्तु॒ .. वाजे॑वाजे ।
मूलम्
शन्नो॑ भवन्तु॒ .. वाजे॑वाजे ।
सायण-टीका
अथाऽऽमिक्षानिष्पादिनो वाजिनहविषो याज्यानुवाक्ययोः प्रतीके दर्शयति— शं नो भवन्त्विति। शं नो भवन्तु वाजिनो हवेष्विति पुरोनुवाक्या।
-
[ शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु
दे॒वता॑ता मि॒तद्र॑वस्स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिव्ँ॒वृकँ॒ ..
रक्षाँ॑सि॒ सने॑म्य॒स्मद्यु॑यवन्न् [35] अमी॑वाः ॥ -
शं नो भवन्त्विति त्रिष्टुप् । अस्तारपङ्क्तिपक्षे देवतातेत्यादिः त्रिपदा त्रिष्टुप् ॥ नोस्माकं शं भवन्तु सुखहेतवो भवन्तु हवेषु आह्वानेषु । पूर्ववदप् । वाजिनोश्वाः देवताता देवास्तायन्ते विस्तार्यन्ते पृथक्पृथगाराध्यन्तेस्मिन्निति देवतातिर्यज्ञः । परमप्यनुनासिकलोपं बाधित्वा व्यत्ययेन ‘अनुनासिकस्य क्विझलोः’ इति पूर्वपदस्य दीर्घत्वम्, तत्रानुनासिकलोपः, पूर्ववत्सप्तम्या डादेशः । दासीभारादिः । मितद्रवः व्याख्यातम् । स्वर्काः शोभनगमनाः शोभनस्तुतयो वा । ‘नञ्सूभ्याम्’ इति स्वरः । जम्भयन्तः भञ्जयन्तः अहिमागत्य हन्तारं वृकं हिंसकं चोरादिकं रक्षांसि च । यद्वा - अहिमागत्य हन्तारं वृकमपहर्तारम् । कुक वृक आदाने, इगुपधात्कः । रक्षांसि धर्मविघ्नकारीणि । सनेमि क्षिप्रमित्येके, पुराणमित्यन्ये । अस्मदस्मत्तः युयवन् यावयन्तु पृथक्कुर्वन्तु ।
किञ्च - अमीवाः रोगांश्च युयवन्नित्येव । आगत्य हिंसन्तीत्यमीवाः । मीयतेराङ्पूर्वाद्वप्रत्ययः, उपसर्गस्य च ह्रस्वत्वं निपात्यते । यौतेर्लेटि शपश्लुः, ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वात् ङित्त्वाभावे गुणः ॥]
विश्वास-प्रस्तुतिः
वाजे॑वाजे ..
मूलम्
वाजे॑वाजे ..
सायण-टीका
वाजेवाजेऽवत वाजिन इति याज्या। एचच्चोभयं देवस्याहंँ सवितुरित्यनुवाके व्याख्यातम्।
-
पूर्णमन्त्रपाठः
-
[ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ॥
अ॒स्य मध्वᳶ॑ पिबत मा॒दय॑ध्वन्तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥- 10अश्वान् धावतोनुमन्त्रयते - वाजेवाज इत्यादिभिश्चतसृभिः । आद्या त्रिष्टुप् । ‘वाजिनो नः’ इति प्रथमपादान्तः ॥ वाजेवाजे अन्नेऽन्ने साध्ये वाजिनः अश्वाः अस्मानवत रक्षत तल्लम्भयित्वा । किञ्च - धनेषु अवतेति वनानि चास्मान् लम्भयत । हे विप्रा मेधाविनः यथा तद्रागिणः अमृताः अमरणाः ऋतज्ञाः सत्यज्ञास्सत्यवन्तः अस्य मध्वः मधुसदृशस्य घृतस्य पिबत । पूर्ववत्कर्मणि षष्ठी । नुमभावश्छान्दसः । पीत्वा च मादयध्वं तृप्यत । मद तृप्तियोगे, चुरादिरनुदात्तेत् । तृप्ताश्च यात गच्छत । पथिभिर्मार्गैर्देवयानैः देवा यैर्गच्छन्ति, तैर्मनोहरैः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘लिति’ इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥]
विश्वास-प्रस्तुतिः
अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।
गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ।
मूलम्
अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।
गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ।
सायण-टीका
अथावभृते प्रथमाज्यभागस्य पुरोनुवाक्यामाह— १९६८ अप्स्वग्ने सधिष्टवेति। हेऽग्ने ते तव साधिः सहो बलमप्सु वर्तते। स त्वमोषधीरनुरुध्यसे व्रीहियवाद्योषधीरनुसरीस। जाठराग्निरूपेण तत्स्वीकारात्। अरण्योर्गर्भे स्थितः सन्पुनः पुनर्जायसे।
विश्वास-प्रस्तुतिः
वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।
वृषा॒ धर्मा॑णि दधिषे ।
मूलम्
वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।
वृषा॒ धर्मा॑णि दधिषे ।
सायण-टीका
अथ द्वितीयाज्यभागस्य पुरोनुवाक्यामाह- वृपा सोम द्युमामिति। हे सोम त्वं वृषा कामानां वर्षयिताऽसि। द्युमान्दीप्तिमांश्चासि। हे देव यस्मात्त्वं वृषा वर्षयिता तस्मात्वं वृषव्रतो वर्षणनिमित्तं व्रतं कर्म यस्य स वृषव्रतः। किंच यस्मात्त्वं वृषा वर्षयिता तस्माद्धर्माणि पुण्यानि दधिषे। हे सोम त्वं वृषा धारयिताऽसि।
विश्वास-प्रस्तुतिः
इ॒मम्मे॑ वरुण ..
मूलम्
इ॒मम्मे॑ वरुण ..
सायण-टीका
अथ वारुणस्य याज्यानुवाक्ययोः प्रतीके दर्शयति— इमं मे वरुणेति। इमं मे वरुण श्रुधीति पुरोनुवाक्या।
- पूर्णमन्त्रपाठः
[ - इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय ।
त्वाम॑व॒स्युराच॑के । - अथ ‘ये कृष्णास्स्युस्तं वारुणं चरुं निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - इमं म इति गायत्री । श्रुधीति प्रथमपादान्तः ॥ हे वरुण इममस्मदीयं हवमाह्वानं श्रुधि शृणु । ‘बहुलं छन्दसि’ इति शपो लुक् । ‘श्रुशृणुपृकृवृभ्यः’ इति धिभावः । श्रुत्वा चाद्यैव मां मृडय सुखय । यस्मादहं त्वामवस्युः रक्षणमात्मन इच्छन् । ‘क्याच्छन्दसि’ इत्युप्रत्ययः । आचके आभिमुख्येन शब्दयामि प्रार्थये । कै गै शब्दे ॥
- ‘यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान्निर्वपेत्’ इत्यस्याः पुरोऽनुवाक्या - इमं मे वरुण श्रुधी हवम् इति गायत्री ॥ ‘इन्द्रं वो विश्वतस्परीन्द्रं नरः’ इत्यत्र व्याख्याता । हे वरुण इमं मे हवं आह्वानं श्रुधि शृणु । अद्यास्मिम् कर्मणि मां मृडय त्वामहं अवस्युः -रक्षणाय आचके आभिमुख्येन भजे ॥
विश्वास-प्रस्तुतिः
तत्त्वा॑ यामि ..
मूलम्
तत्त्वा॑ यामि ..
सायण-टीका
तत्त्वा यापि ब्रह्मणा वन्दमान इति याज्या। एतच्चोभयमिन्द्रं वो विश्वतस्परीन्द्रं नर इत्यनुवाके व्याख्यातम्।
-
पूर्णमन्त्रपाठः
-
[ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयु॒ᳶ प्रमो॑षीः ॥ -
तत्रैव याज्या - तत्त्वेति त्रिष्टुप् ॥ हे वरुण ब्रह्मणा मन्त्रेण त्वामेव वन्दमानः स्तुवन्नहं तत्तदर्थम् । चतुर्थ्या लुक् । तदर्थमेव त्वां यामि भजे । यद्वा - तदेव त्वां यामि याचे । छान्दसोन्त्यलोपः, परस्मैपदं च । यजमानोपि सर्वस्तदेवाशास्ते हविर्भिश्चरुपुरोडाशादिभिः हे उरुशंस महास्तुतिक त्वमपि तामस्मदीयां विज्ञापनां इह कर्माणि अहेडमानः अक्रुद्ध्यन् बोधि बुध्यस्व । पूर्ववद्विकरणस्य लुक्, ‘हुझल्भ्यो हेर्धिः’, ‘वा छन्दसि’ इत्यपित्त्वादेव ङित्त्वाभावाद्गुणः, अन्त्यलोपश्छान्दसः । किम्पुनस्तत्प्रार्थनीयमित्याह - नः अस्माकं आयुर्दीप्तिमन्नं वा मा प्रमोषीः मा छेत्सीः तदर्थं विशं च रा[राष्ट्रं चा]वगमयेति भावः ॥
- तत्रैव याज्या - तत्त्वा यामि ब्रह्मणा वन्दमान इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण अहं ब्रह्मणा मन्त्रेण हविषा त्वां वन्दमानः स्तुवन् अहं त्वामभियाचे यजमानोऽपि तदेव हविर्भिराशास्ते त्वमपि तत्? अहेडमानः अक्रुध्यन् इह कर्मणि बुद्ध्यस्व । किंपुनः तत्? हे वरुण उरु शंसमानः अस्माकमायुर्मा प्रमोषीरिति ॥ ]
विश्वास-प्रस्तुतिः
त्वन्नो॑ अग्ने॒ …
मूलम्
त्वन्नो॑ अग्ने॒ …
सायण-टीका
अथाग्निवारुणास्विष्टकृतः संयाज्ययोः प्रतीके दर्शयति— त्वं नो अग्न इति। त्वं नो अग्ने वरुणस्येति पुरोनुवाक्या ।
- पूर्णमन्त्रपाठः
- [ त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् । - अथ त्वं नो अग्ने स त्वं नो अग्ने इति गायत्रीत्रिष्टुभौ ॥ क्वचिदाग्निवारुणे विनियोगो द्रष्टव्यः । प्रायश्चित्ते वा । तत्र प्रथमा - हे अग्ने विद्वान् सर्वार्थसाधनो वा यज्ञे स त्वं देवस्य वरुणस्य हेडः क्रोधः अनादरो वा पाशग्रहणादिकः नः अस्माकं अस्मत्संबन्धि अवयासिसीष्ठाः अपनय । अवपूर्वात् यासेर्ण्यन्तादाशीर्लिङि इडादावपि णिलोपश्छान्दसः । ‘छन्दस्युभयथा’ इति लिङ्वा सार्वधातुकत्वादिडभावो ङित्त्वं च । किं च – यजिष्ठः यष्टृतमः । यष्टृशब्दात् ‘तुश्छन्दसि’ इतीष्ठन् प्रत्ययः । ‘तुरिष्ठमेयस्सु’ इति तृशब्दस्य लोपः । वह्नितमः हविषां वोढृतमः शोशुचानः अतिशयेन दीप्यमानः । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । ईदृशः त्वं विश्वानि वरुणव्यतिरिक्तान्यपि द्वेष्टॄणि वा रक्षःप्रभृतीनि अस्मत् अस्मत्तः प्रमुमुग्धि प्रकर्षेण मोचय । ‘बहुर्लं छन्दसि’ इति शपश्लुः ॥
विश्वास-प्रस्तुतिः
स त्वन्नो॑ अग्ने ॥ [48]
मूलम्
स त्वन्नो॑ अग्ने ॥ [48]
सायण-टीका
स त्वं नो अग्नेऽवमो भवोतीति याज्या। एतच्योभयमायुष्ट आयुर्दा अग्न इत्यस्मिन्ननुवाके व्याख्यातम्।
-
पूर्णमन्त्रपाठः
-
स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यक्ष्व नो॒ वरु॑णम् [72] ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि । -
अथ द्वितीया - हे अग्ने स त्वं नः अस्माकं अवमः अविता भव ऊत्या गमनेन । यद्वा - ऊत्या रक्षणेन अवमः अर्वाचीनः प्रत्यासन्नो भव । अस्या उषसो रात्रेरवसाने प्रातरेव अस्माकं नेदिष्ठः अन्तिकतमः अस्मिन् दिवसे प्रातरेव अस्मत्पार्श्वमागतस्त्वमिदानीं तत्क्षणेनापि प्रत्यासन्नतरो भवेति । ‘अन्तिकबाढ योर्नेदसाधौ’ । किञ्च - रराणः अस्मदीये परिचरणे रममाण अस्माकं वरुणं वारकं वरुणप्रवर्तितं वा पापरोगादिकमवयक्ष्व नाशय । ‘बहुलं छन्दसि’ इति शपो लुक् । रातेः शानचि अन्त्यलोपश्छान्दसः, पूर्वपदाद्युदात्तत्वम् । तदर्थं वीहि भुङ्क्ष्व मृडीकं सुखहेतुमिदं हविः । किञ्च - नः अस्माकं सुहवः शोभनाह्वानश्च एधि भव । आह्वानप्रयोजनस्य सद्यस्सम्पत्तिः शोभनत्वम् । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥]
अत्र विनियोगसंग्रहः—
वारुणाख्यप्रघासेषु याज्या अन्त्यानुवाकगाः।
इद्राग्नी तिस्र ऐन्द्राग्ने मारुते तु मरुत्रयम्॥
अवोदु वाक्णे यागे कया के काययागके।
अग्न आ देवा [ वा] संयाज्ये शं नो वाजे तु वाजिने॥
अप्सुद्वयं चावभृथेऽनुवाक्ये आज्यभागयोः।
इमं तत्त्वा प्रधानस्य प्रोक्ते त्वं स त्वमित्यम्॥
संयाज्ये इति मन्त्रास्तु वि॑शतिः समुदीरिताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः ॥ ११॥ १९६९
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्र्वतुरो देयाद्विद्यातीर्थमहेश्वरः॥ इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयः प्रपाठकः ॥