अशअवाकर्षणपुषअकरपर्णोपधानरुक्मोपधानादि?? १-६ त्रिष्टुप्, ७-८ अनुष्टुप् । अग्निर्ऋषिः
चतुर्थाष्टके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः
विश्वास-प्रस्तुतिः
अ॒भ्य॑स्था॒द्विश्वा॒ᳶ पृत॑ना॒ अरा॑ती॒स्तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह ।
बृह॒स्पति॑स्सवि॒ता तन्म॑ आह पु॒षा मा॑धात्सुकृ॒तस्य॑ लो॒के ।
मूलम्
अ॒भ्य॑स्था॒द्विश्वा॒ᳶ पृत॑ना॒ अरा॑ती॒स्तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह ।
बृह॒स्पति॑स्सवि॒ता तन्म॑ आह पु॒षा मा॑धात्सुकृ॒तस्य॑ लो॒के ।
सायण-टीका
(अथ चतुर्थाष्टके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः)।
सप्तमे लोष्टसमसनादिकमुक्तम् ।
अथाष्टमे रुक्माद्युपधानं वक्तव्यम् ।
तत्राऽऽदौ तावदश्वाक्रमणमुच्यते ।
कल्पः—“प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदा दर्भस्तम्बमाक्रमय्य” इति।
पाठस्तु— अभ्यस्थाद्विश्वा इति ।
अयमश्वो विश्वाः सर्वाः पृतना: प्रतिपक्षसेना अरा-तीर्दातव्यस्यादातृरूपा । अभ्यस्थात्पादेनाभिऋम्य तिष्ठतु । तदभिऋमणमग्निराहा नुमो-दताम् । सोमोऽपि तदाह तदनुमोदताम् । बृहस्पतिर्मे मदर्थे तदाह तदनुमन्यताम् । तथा सविताऽपि तदनुमन्यताम् । पूषा सुकृतस्य लोके फलभूते स्वर्गे माऽधान्मां स्थापयतु ।
विश्वास-प्रस्तुतिः
यदक्र॑न्दᳶ प्रथ॒मञ्जाय॑मान उ॒द्यन्त्स॑मु॒द्रादुत वा॒ पुरी॑षात् ।
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उप॑स्तुत॒ञ्जनि॑म॒ तत्ते॑ अर्वन् ।
मूलम्
यदक्र॑न्दᳶ प्रथ॒मञ्जाय॑मान उ॒द्यन्त्स॑मु॒द्रादुत वा॒ पुरी॑षात् ।
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उप॑स्तुत॒ञ्जनि॑म॒ तत्ते॑ अर्वन् ।
सायण-टीका
कल्पः—“प्रदक्षिणमावर्तयित्वा(र्त्य) यदक्रन्द इति पुनरेवाऽऽक्रमयति” इति। पाठस्तु— १९३१ यदक्रन्दः प्रथममिति । हेऽर्वन्यद्यस्मात्कारणाज्जायमान उत्पद्यमान एव प्रथममादावक्रन्दः क्रन्दितवानसि अहो अग्न्यादीनामहं साधनमिति महान्तं शब्दम-करोस्तत्तस्मात्कारणाज्जनिमोपस्तुतं ते तव जन्म समीचनिमिति सर्वैरपि स्तुतमासीत्। जायमानत्वमेव विशदी क्रियते । समुद्रादुद्यन्समुद्रोपलक्षितादुदकात्त्वमुत्पद्यमानः, “अप्सु योनिर्वा अश्वः” इति श्रुतेः । उत वा पुरीषात्पुरुषात्पुंस्त्वशक्तिसंपन्नान्महतोऽ-श्वादुत्पाद्यमानः । जन्मन उपस्तुतत्वे दृष्टान्तोऽयमुच्यते श्येनस्य पक्षा हरिणस्य बाहू । उपस्तुतशब्दोऽत्राध्याहर्तव्यः । यथा श्येनाख्यस्य पक्षिणः पक्षौ शीघ्रोत्पतनहेतुत्वात्स-र्वैरुपस्तुतौ, यथा वा हरिणस्य मृगस्य बाहू पादौ शीघ्रगमनहेतुत्वादुपस्तुतौ तद्वदि-त्यर्थः।
उक्तमन्त्रसाध्यमश्वाकमणं विधत्ते— “शंयुं बार्हस्पत्यं मेधो नोपानमत्सोऽग्निं प्राविशत्सोऽग्नेः कृष्णो रूपं कृत्वोदायत सोऽश्वं प्राविशत्सोऽश्वस्यावान्तरशफोऽभवद्यदश्वमाक्रमयति य एव मेधोऽश्वं प्राविशत्तमेवाव रुन्धे” (सं. का. ५ प्र. २ अ. ६) इति।
पुरा कदाचिच्छंयुनामानं बृहस्पतिपुत्रं केनापि निमित्तेन मेधो यज्ञपुरुषो न प्राप्तवान् । स पुनः शंयुनाऽन्विष्यमाणोऽन्तर्धानादग्निं प्राविशत् । तत्राप्यन्वेषणाय शंयावागते सति स यज्ञः कृष्णमृगो भूत्वा तदीयं रूपं साकल्येन कृत्वाऽग्नेः सकाशा-दुदायतोदगच्छत् । उद्गत्य च सोऽश्वं प्राविशत् । प्रविश्य चाश्वसंबन्धिनः प्रौढशफस्य मध्ये योऽयमवान्तरशफस्तद्रूपोऽभवत् । अतोऽश्वमाक्रमयेत् । तथा सति यो यज्ञोऽश्वं प्राविशत्तमेव प्राप्नोति ।
प्रकारान्तरेणाऽऽक्रमणं प्रशंसति— “प्रजापतिनाऽग्निश्चेतव्य इत्याहुः प्राजापत्योऽश्वो यदश्वमाक्रमयति प्रजाप-तिनैवाग्निं चिनुते” [सं. का. ५ प्र. २ अ. ६] इति।
अयमग्निः प्रजापतिना चेतुं योग्य इत्यभिज्ञा आहुः । अश्वस्य प्राजापत्यत्वा-त्तदाक्रमणे सति प्रजापतिनैव चितो भवति ।
विश्वास-प्रस्तुतिः
अ॒पाम्पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेस्स॑मु॒द्रम॒भित॒ᳶ पिन्व॑मानम् ।
वर्ध॑मानम्म॒हः [33] आ च॒ पुष्क॑रन्दि॒वो मात्र॑या व॒रिणा प्र॑थस्व ।
मूलम्
अ॒पाम्पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेस्स॑मु॒द्रम॒भित॒ᳶ पिन्व॑मानम् ।
वर्ध॑मानम्म॒हः [33] आ च॒ पुष्क॑रन्दि॒वो मात्र॑या व॒रिणा प्र॑थस्व ।
सायण-टीका
कल्पः—“अपां पृष्ठमसीत्यश्वस्य पदे पुष्करपर्णमुत्तानमुपधाय” इति।
१९३२ पाठस्तु— अपां पृष्ठमसीति । हे पुष्करपर्ण त्वमपां पृष्ठमसि पृष्ठवदुपरिभागवर्त्यसि । तथाऽग्नेर्योनिरसि । “त्वामग्ने पुष्करादध्यथर्वा निरमन्थत” इति मन्त्रवर्णात्। तथा समुद्रमभितः पिन्वमानं समुद्रसमानस्य तटाकजलस्य प्रीतिकरं, वर्धमानमप्सूत्पद्य दिने दिने वृद्धियुक्तं, महो निर्लेपत्वाद्युक्त्या पूजनीयं, पुष्करमग्निनिष्पाद नद्वारा पुष्टिकरम्। तादृशं त्वं मात्रया परिमाणेन दिवो वरिणाऽऽकाशादप्याधिक्योनाऽऽसमन्तात्प्रथस्व विस्तृतं भव ।
अनेन मन्त्रेण साध्यं पद्मपत्रोपधानं विधत्ते— “पुष्करपर्णमुप दधाति योनिर्वा अग्नेः पुष्करपर्णँ सयोनिमेवाग्निं चिनुते” [सं. का. ५ प्र. २ अ. ६] इति। तत्र मन्त्रं विनियुङ्क्ते— “अपां पृष्ठमसीत्युप दधात्यपां वा एतत्पृष्ठं यत्पुष्करपर्णँ रूपेणैबैनदुप-दधाति” [सं. का. ५ प्र. २ अ. ६] इति।
रूपेणैव विद्यमानार्थवाचित्वादनुरूपेणैव मन्त्रेणैतत्पुष्करपर्णमुपहितवान्भ-वति ।
विश्वास-प्रस्तुतिः
ब्रह्म॑ जज्ञा॒नम्प्र॑थ॒मम्पु॒रस्ता॒द्वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ।
मूलम्
ब्रह्म॑ जज्ञा॒नम्प्र॑थ॒मम्पु॒रस्ता॒द्वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ।
सायण-टीका
कल्पः—ब्रह्म जज्ञानमिति पुष्करपर्ण उपरिष्टान्निर्बाधं रुक्ममुपधाय” इति।
पाठस्तु— ब्रह्म जज्ञानमिति । प्रथमं जज्ञानमादावुत्पन्नमिदं रुक्मस्वरूपं ब्रह्म परिवृढ-मत्यन्तं महदित्यर्थः । तस्य रुक्मस्य दृष्टान्तत्वेन सूर्यः प्रपञ्च्यते—पुरस्तात्पूर्वस्यां दिश्यवस्थितो वेनः कमनीयः सूर्यः सीमतः सर्वस्यां सीम्नि सुरुचः शोभरश्मीन्विशेषे-णाऽऽवरावृणोत् । अस्य रुक्मस्योपमानभूता विष्ठा विशेषेणावस्थिता वुध्निया बुघ्ने मूले पृथिवीरूपे भवाः पदार्थाः । तानपि स वेनो विवर्विवृतवान्प्रकाशितवानित्यर्थः । सतश्च विद्यमानस्य घटपटादेर्योनिं कारणं मृदादिरूपम सतश्चाविद्यमानस्य नरविषाण-देः कारणं मनुष्यमूर्धादिकमपि विवृतवान् तथावि धेन सूर्येण सदृशोऽयं रुक्मः प्रकाशत इति तात्पर्यार्थः । तमिमं मन्त्रं विनियुङ्क्ते— १९३३ “ब्रह्म जज्ञानमिति रुक्ममुप दधाति ब्रह्ममुखा वै प्रजापतिः प्रजा असृजत ब्रह्ममुखा एव तत्प्रजा यजमानः सृजते” (सं. का. ५ प्र. २ अ. ७) इति।
ब्रह्म ब्राह्मणजातिर्मुखमुपक्रमो यासां प्रजानां ता ब्रह्ममुखाः। अस्मिमन्त्रे ब्रह्मपदाभिधेयस्य प्रथमोत्पत्तिवर्णने तात्पर्यं दर्शयति— “ब्रह्म जज्ञानमित्याह तस्माद्ब्राह्मणो मुख्यः” (सं. का. ५ प्र. २ अ. ७) इति।
यस्मात्क्षत्त्रियादेर्जन्मप्राथम्यमनुपन्यस्य ब्रह्मशब्दार्थस्यैव प्रथमजन्मोपन्यस्यते तस्माल्लोकेऽपि ब्रह्मशब्दार्थो ब्राह्मण एव मुख्यः । एतद्वेदनं प्रशंसति— मुख्यो भवति य एवं वेद” (सं. का. ५ प्र. २ अ. ७) इति।
रुक्मोपधानं प्रशसति— “ब्रह्मवादिनो वदन्ति न पृथिव्यां नान्तरिक्षे न दिव्यग्निश्चेतव्य इति यत्पृ-थिव्यां चिन्वीत पृथिवीँ शुचाऽर्पयेद्धौषधयो न वनस्पतयः प्र जायेरन्यदन्तरिक्षे चिन्वीतान्तरिक्षँ शुचाऽर्पयेन्न वयाँसि प्र जायेरन्यद्दिवि चिन्वीत दिवँ शुचाऽर्पयेन्न पर्जन्यो वर्षेद्रुक्ममुप दधात्यमृतं वै हिरण्यममृत एवाग्निं चिनुते प्रजात्यै” [सं. का. ५ प्र. २ अ. ७] इति।
शुचाऽर्पयेत्संतापेन योजयेत् । तस्मिन्संतापे सति लोकत्रये दोषास्तद्व्या-वृत्तये वह्नेराधारत्वेन रुक्ममुपदध्यात् । हिरण्यस्याग्निसंपर्केऽपि विनाशाभावात्तस्मि-न्नमृते हिरण्येऽग्निं चितवान्भवति । अयमेव रुक्मोपधानविधिरिति यदि स्वीक्रियेत तदानीमेतदनुवादेन पूर्वो मन्त्रमात्रविधिः । यदि तु स एव विशिष्टविधिस्तदानीमर्थवाद-संबन्धाय स एवानूद्यात इति द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
हि॒र॒ण्य॒ग॒र्भस्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तᳶ पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीन्द्यामु॒तेमाङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
मूलम्
हि॒र॒ण्य॒ग॒र्भस्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तᳶ पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीन्द्यामु॒तेमाङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
सायण-टीका
कल्पः—“हिरण्यगर्भः समवर्तताग्र इति तस्मिन्हिरण्मयं पुरुषं प्राचीनमुत्तानं दक्षिणेनाऽऽतृण्णं प्राङ्मुखे उपधाय” इति। पाठस्तु— हिरण्यगर्भ इति । हिरण्ये ब्रह्माण्डरुपे गर्भरूपेणावस्थितः प्रजापतिर्हिरण्य-गर्भः । स च भूतस्य प्राणिजातस्याग्रे समवर्तत प्राणिजातेत्पत्तेः पूर्वं स्वयं १९३४ शरीरधारी बभूव । स च जात उत्पन्नमात्र एक एवोत्पत्स्यमानस्य सर्वस्य जगतः पतिरासीत् । अत एव पृथिवीं द्यां विस्तीर्णां दिवं दाधार धृतवान् । उतापि चेमां भूमिं दाधार। तादृशाय कस्मै प्रजापतिदेवाय हविषा विधेय परिचरेम ।
एतन्मन्त्रसाध्यं हिरण्यपुरुषोपधानं विधत्ते— “हिरण्मयं पुरुषमुप दधाति यजमानलोकस्य विधृत्यै” (सं. का. ५ प्र. २ अ. ७) इति।
यजमानलोकस्य, लोकः स्थानं तस्य धारणमनेनोपधानेन भवति । देशवि-शेषं विधत्ते— “यदिष्टकाया आतृण्णमनुपध्यात्पशूनां च यजमानस्य च प्राणमपि दध्याद्द-क्षिणतः प्राञ्चमुप दधाति दाधार यजमानलोकं न पशूनां च यजमानस्य च प्राणमपि दधात्यथो खल्विष्टकाया आतृण्णमनूप दधाति प्राणानामुत्सृष्ट्यै” (सं. का. ५ प्र. २ अ. ७) इति।
इष्टका रुक्मरूपा तस्या आतृण्णं गलबन्धनसूत्रार्थ छिद्रं, यदि तच्छिद्रमनु-पदध्यात, अस्य च्छिद्रस्य पिधानेन पशूनां यजमानस्य च प्राणः पिहितो भवेत्, प्राणसं-चारीच्छद्रस्य पिहितत्वेन श्वासो न निर्गच्छेदित्यर्थः। तस्मात्तद्दोषपरिहाराय पश्चिमदि-ग्भागे तच्छिद्रमुपेक्ष्य रुक्मरूपाया इष्टकाया दक्षिणस्यां दिशि प्राक्शिरसं पुरुषमवस्था-पयेत्। एवं च सत्याहवनीयस्य दक्षिणदेशरूपो यो यजमानस्य लोकः स विधृतो भवति। तच्छिद्रस्यानावृतत्वाद्यजमानस्य पशूनां च प्राणोऽप्यनावृत्तो भवति। अथो खल्विति पक्षान्तरोपन्यासः। रुक्मरूपाया इष्टकायाश्छिद्रमनूपलक्ष्यैव पुरुषमुदपध्यात्। सति हि च्छिद्रे प्राणानामुत्सर्गः संचारो भवति ।
विश्वास-प्रस्तुतिः
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॑ [34] द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
तृ॒तीयय्ँ॒योनि॒मनु॑ स॒ञ्चर॑न्तन्द्र॒प्सञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ।
मूलम्
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॑ [34] द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
तृ॒तीयय्ँ॒योनि॒मनु॑ स॒ञ्चर॑न्तन्द्र॒प्सञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ।
सायण-टीका
कल्पः—“द्रप्सश्चस्कन्दोति पुरुषपभिमृश्य” इति। पाठस्तु— द्रप्सश्चस्कन्देति । द्रव्यान्तरसंघट्टनेन स्फुटितो हिरण्मयपुरुषस्यावयवलेशो द्रप्सः। स च पृथिवीमनु चस्कन्द पृथिव्यां पतित इत्यर्थः । स च द्रप्सो १९३५ हुतः सन्स्थानत्रयेऽनुसंचरति द्युलोकेऽन्तरिक्षलोके भूलोके च । तदेतदभिप्रेत्य स्मर्यते—
अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठति (ते)।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥ इति।
सोऽयमर्थो द्यामित्यादिनाऽभिधीयते । द्यामिमं च योनिमनु अन्तरिक्षरूपा-मिमं स्थानमनुसंचरति । यश्च पूर्वो यो हि पृथिवीमनु चस्कन्देति पूर्वोक्तः स्थानविशेष-स्तमप्यनुसंचरति । तृतीयं योनिं द्यलोकरूपमादित्यस्थानमनुसंचरति, तमिमं त्रिषु स्थानेष्वनुसंचरन्तं द्रप्सं जुहोमि मनसा हुतमिव भावयामि। कुत्र होमइति तदुच्यते-सम होत्रा इति । यस्यां दिशि द्रप्सः पतितस्तद्व्यातिरिक्ता होम योग्यां याः स दिशः सन्ति तासामनुक्रमेण जुहोमि । यथाऽयं द्रप्सो हुत आदित्यादिस्थानत्रयेषु संचरन्नुपकरोति तथा भावयामित्यर्थः ।
तमिमं मन्त्रं विनियुङ्क्ते— “द्रप्सश्चस्कन्देत्यभि मृशति होत्रास्यैवैनं प्रति ष्ठापयति” (सं. का. ५ प्र. २ अ. ७) इति।
होत्रासु होतृमैत्रावरुणादिषु सप्तसु, अथवा द्रप्सस्कन्दनदिग्व्यतिरिक्तासु होमयोग्यासु सप्तसु दिक्षु ।
विश्वास-प्रस्तुतिः
नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ ।
मूलम्
नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ ।
सायण-टीका
कल्पः—“नमो अस्तु सर्पेभ्य इति तिसृभिरभिमन्त्र्य” इति । तत्र प्रथमा-माह— नमो अस्तु सर्पेभ्य इति । ये केचित्सर्पाः पृथिवीमनुगतास्तेभ्यः सर्पेभ्यो नमोऽस्तु । अन्तरिक्षे यक्षगन्धर्वादिलोके वर्तमाना ये सर्पा ये च दिवि द्युलोके वर्त-माना राहुप्रभृतयस्तभ्येः सर्पेभ्यो नमोऽस्तु ।
विश्वास-प्रस्तुतिः
ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सद॑ᳵ कृ॒तन्तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ ।
मूलम्
ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सद॑ᳵ कृ॒तन्तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ ।
सायण-टीका
अथ द्वितीयामाह— येऽदो रोचन इति । दिविऽन्तरिक्षस्य रोचने भासकेऽदोऽमुष्मिन्सूर्यस्य मण्डले मे सर्पा वसन्ति, ये चान्ये सूर्यस्य रश्मिष्वस्माभिरद्दश्यमाना वर्तन्ते, येषामन्ये-षां सर्पाणामप्स जलमध्ये सदः स्थानं कृतं, तेभ्यः सर्पेभ्यः कृत्स्नेभ्यो न मोऽस्तु ।
विश्वास-प्रस्तुतिः
या इष॑वो यातु॒धाना॑नाय्ँ॒ये वा॒ वन॒स्पतीँ॒ रनु॑ ।
ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ ॥ [35]
मूलम्
या इष॑वो यातु॒धाना॑नाय्ँ॒ये वा॒ वन॒स्पतीँ॒ रनु॑ ।
ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ ॥ [35]
सायण-टीका
अथ तृतीयामाह— या इषव इति । याः सर्पजातयो यातुधानानां रक्षसामिषवो बाणरूपा १९३६ वर्तन्ते, ये चान्ये वनस्पतींश्चन्दनादिवृक्षाननुवेष्ट्यावस्थिताः, ये चान्येऽवटेषु बिलेषु शेरते, तेभ्यः सर्पेभ्यो नमोऽस्तु । एते मन्त्राः स्पष्टार्थत्वेन ब्राह्मण उपेक्षिताः । यथा पुष्करपर्णरुक्महिरण्मयपुरुषोखाना(णा) ममृन्मयेष्टकानामुपधानं विहितं तथैव सुचोर-मृन्मयेष्टकयोरुपधानं विधत्ते— “स्रुचावुप दधाति” (सं. का. ५ प्र. २ अ. ७) इति।
तयोः स्रुचोर्विशेषणं दर्शयति— “आज्यस्य पूर्णं कार्ष्मर्यमनीं दघ्नः पूर्णामौदुम्बरीम्” (सं. का. ५ प्र. २ अ. ७) इति।
श्रीपर्णाख्यो वृक्षविशेषः कार्ष्मर्यस्तेन निर्मिता काचित्स्रुक्कार्ष्मर्यंमयी, साचाऽऽज्येन पूर्णा। उदुम्बरेण निर्मिता काचित्, सा च दध्ना पूर्णा । एतद्गुणविशि-ष्टयोः स्रुचोरुपधानस्य विधानान्न वाक्यभेदः शङ्कनीयः ।
ते च विशिष्टे स्रुचौ लोकद्वयरूपेण प्रशंसति— “इयं वै कार्ष्मर्यमय्यसावौदुम्बरीमे एवोप धत्ते” (सं. का. ५ प्र. २ अ. ७) इति।
इष्टकान्तरोपधानवत्सपन्त्रत्वस्य शङ्का लौकिकवाक्यं वा निवारयितुं विधत्ते— तूष्णीमुप दधाति न हीमे यजुषाऽऽप्तुमर्हति” [सं. का. ५ प्र. २ अ. ७] इति।
यस्मादाम्नातो मन्त्रो नास्ति तस्माद्यजुषा मन्त्रेणैते उपधातुं नार्हति । तयोर्दिग्विशेषं विधत्ते— “दक्षिणां कार्ष्मर्यमयमित्तरामौदुम्बरीं तस्मादस्या असावुत्तरा” (सं. का. ५ प्र. २ अ. ७) इति।
यस्माद्द्युलोकरूपौदुम्बरी स्रगुत्तरस्यां दिश्युपहिता तस्माल्लोकेऽप्यसौ द्यौर स्याः पृथिव्या उत्तरोर्ध्वभाविनी । स च दिग्विशेषः सूत्रकारण स्पष्टमभिहितः— “आज्यस्य पूर्णा कार्ष्यर्यमयीं दक्षिणेन पुरुषम्” इति, “दध्नः पूर्णामौदुम्बरी मुत्तरेण पुरुषम्” इति च।
१९३७ प्राकारान्तरेण स्रुग्विशेषं प्रशंसति— “आज्यस्य पूर्णं कार्ष्मर्यमयीं वज्रो वा आज्यं वज्रः कार्ष्मर्यो वज्रेणैव यज्ञष्य दक्षिणतो रक्षाँस्यप हन्ति दघ्नः पूर्णामौदुम्बरीं पशवो वै दध्यूर्गुदम्बरः पशुष्वेवोर्जं दधाति” (सं. का. ५ प्र. २ अ. ७) इति।
आज्यस्य वज्रत्वं तानूनप्त्रब्राह्मणे समाम्नातं – “घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्” इति । कार्ष्मर्यस्य रक्षोपघातहेतुत्वाद्वज्रत्वम् । तदप्यातिथ्याब्राह्मणे समाम्नातं– “ते कार्ष्मर्यमयान्परिधनिकुर्वत तैर्वै ते रक्षाँस्यपावत” इति। स्रुचोर्दध्याज्यपूर्णत्वं प्रशंसति— “पूर्णे उप दधाति पूर्णे एवैनममुष्मिँलोक उप तिष्ठेते” [सं. का. ५ प्र. २ अ. ७] इति । स्त्रगुपधानं प्रशंसति— “विराज्यग्निश्चेतव्य इत्याहुः स्रग्वै विराड्यत्स्रचावुप दधाति विराज्येवाग्निं चिनुते” (सं. का. ५ प्र. २ अ. ७) इति।
विविधे राजमाने प्रदेशे चेतव्योऽग्निरित्यभिज्ञा आहुः । स्रुक्चाऽऽज्यादि-पूर्णत्वाद्विशेषेण राजते, तस्मात्तत्र चयनाय स्त्रचावुपदध्यात् ।
पाशुकोत्तरवेदिवद्रुक्मस्योपरि व्याघारणं विधत्ते— “यज्ञमुखेयज्ञमुखे वै क्रियमाणे यज्ञँ रक्षाँ सि जिधाँसन्ति यज्ञ-मुखँ । रुक्मो यद्रुक्मं व्याघारयति यज्ञमुखादेव रक्षाँस्यप हन्ति” (सं. का. ५ प्र. २ अ. ७) इति।
यज्ञसंबन्धिन एकैकस्याङ्गस्यानुष्ठानं यज्ञमुखम् । अतो रुक्मोपधानस्यापि यज्ञमुखत्वात्तत्र प्राप्तानां रक्षसामुपघाताय व्याघारयेत् ।
कृणुष्व पाज इति पञ्तभिरिति ये मन्त्राः सूत्रकारेणोदाहृतांस्तानत्र विनियुङ्क्ते— “पञ्चभिर्व्याघारयति पाङ्क्तो यज्ञो यावानेन यज्ञस्तस्माद्रक्षाँस्यप हन्ति” [सं. का. ५ प्र. २ अ. ७] इति।
१९३८ धानादिहविर्भिः पञ्चभिर्यज्ञस्य पाङ्क्तत्वम् ।
सूत्रकारेण ‘दक्षिणम्ँ समुत्तराँ श्रोणिं दक्षिणाँ श्रोणिमुत्तरमँर्स मध्यमिति’ इति पाशुकोत्तरवेदिव्याघारणे येयं वक्ररीतिरुक्ता तामत्र विधत्ते— “अक्ष्णया व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै” [सं. का. ५ प्र. २ अ. ७] इति।
अक्ष्णया वक्ररीत्या । अत एवाऽऽधारस्य विविधत्वाद्व्याधारणमित्युच्यते। यस्मादाघारणे वक्रक्रमस्तस्मात्पशवो गमनकाले स्वकीयाङ्गानि वक्ररीत्या प्रहरन्ति प्रवर्तयन्ति, पुरोवर्तिनं दक्षिणं पाद पुरतः प्रक्षिप्य पाश्चात्यं वामपादं पुरतः प्रवर्तयन्ति । तस्मात्प्रतिष्ठायै तदिदं व क्रत्वं तपंद्यते ।
अत्र विनियोगसंग्रहः —
अभ्यश्वं क्रमयेद्दर्भं यदावृत्तिः प्रदक्षिणम् ।
अपां दध्यात्पद्मपत्रं ब्रह्म रुक्मोपधानकम् ॥
हिर स्वर्णमयं दध्याद्द्रप्सस्तस्याभिमर्शनम् ।
नयस्त्रिभिर्मन्त्रयेव मन्त्रा अत्र नवेरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके ष्टमोऽनुवाकः ॥ ८ ॥